स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 42, कुल 474 में से
संदर्भ में पढ़ें22 स्मृतिचन्द्रिकायां
श्राद्धं कुर्वन्नमावास्यां यत्नेन पुरुषश्शुचिः ।
सर्वान्कामानवाप्नोति स्वर्गं चानन्तमश्नुते ॥
इति, तत् नित्यत्वनिराकरणार्थं न, किंतु कालविशेषात्फल-
विशेषो भवतीत्येवंपरम्, अत एवापस्तम्बः - 'सर्वेष्वेवा-
परपक्षस्याहस्सु क्रियमाणे पितॄन् प्रीणाति कर्तुस्तु कालनि-
यमात्फलविशेषः' इति । प्रकृतमुच्यते - अयनद्वयं मकरक-
र्कटकसंक्रान्ती । अत्रापि श्राद्धं नित्यम् । अत एव विष्णु-
पुराणे पराशरः -
उपप्लवे चन्द्रमसो रवेश्च त्रिष्वष्टकास्वप्ययनद्वये च ।
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः ॥
श्राद्धं कृतं तेन समास्सहस्रं रहस्यमेतत्पितरो वदन्ति ॥
अत्र पानीयमप्यत्रेति वचनादयनश्राद्धं नित्यमिति गम्यते ।
जातूकर्ण्योपि -
ग्रहोपरागे विषुवे च जाते पित्र्ये मघायामयनद्वये च ।
नित्यं च शङ्खे च तथैव पर्वे दत्तं भवेन्निष्कसहस्रतुल्यम् ॥
इति । अत्र नित्यं दत्तं निष्कसहस्रतुल्यमित्यन्वयः । पित्र्ये
नभस्यापरपक्षे या मघा तस्यामित्यर्थः । शङ्खादिस्वरूपमपि तेनै-
वोक्तं -
शङ्खं प्राहुरमावास्यां क्षीणसोमां द्विजोत्तमाः ।
अष्टकासु भवेत्पर्वं तत्र दत्तं यथाऽक्षयम् ॥