सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 48, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 48

28 स्मृतिचन्द्रिकायां

इति । युगादयस्तु मत्स्यपुराणे दर्शिताः—
वैशाखस्य तृतीया तु नवमी कार्तिकस्य तु ।
माघे पञ्चदशी चैव नभस्ये च त्रयोदशी ॥
युगादयस्स्मृता ह्येता दत्तस्याक्षयकारकाः ॥
इति । विष्णुपुराणेऽपि—
वैशाखमासस्य सिता तृतीया नवम्यसौ कार्तिकशुक्लपक्षे ।
नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे ॥
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः ।
श्राद्धं कृतं तेन समाससहस्रं रहस्यमेतत्पितरो वदन्ति ॥
अत्र शुक्लपक्षे तृतीया, पञ्चदशी कृष्णपक्षे इत्यन्वयः । अत
एव नारदीयपुराणम्—
द्वे शुक्ले द्वे च कृष्णे तु युगाद्याः कवयो विदुः ।
इति । ब्रह्मपुराणे तु माघस्य पौर्णमासी युगादिरित्युक्तं—
वैशाखशुक्लपक्षस्य तृतीयायां कृतं युगम् ।
कार्तिके शुक्लपक्षे च त्रेता च नवमेऽहनि ॥
अथ भाद्रपदे कृष्णे त्रयोदश्यां तु द्वापरम् ।
माघे च पौर्णमास्यां तु घोरं कलियुगं तथा ॥
युगारम्भास्तु तिथयो युगाद्यास्तेन विश्रुताः ।
सूर्यस्य सिंहसंक्रान्त्यामन्तं कृतयुगस्य तु ॥
अथ वृश्चिकसंक्रान्त्यामन्तं त्रेतायुगस्य तु ।
ज्ञेयो वृषभसंक्रान्त्यां द्वापरान्तश्च संख्यया ॥