सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 36, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 36

16 स्मृतिचन्द्रिकायां
पितामहोऽप्येवमेव कुर्याज्जीवति साग्निकः ।
साग्निकोऽपि न कुर्वीत जीवति प्रपितामहे ॥ इति ॥
प्रपितामहग्रहणं पितृपितामहोपेतप्रपितामहप्रदर्शनार्थम् । अत एव
विष्णुः—'पितरि पितामहे प्रपितामहेच च जीवति नैव दद्यात्'
इति । पितरि पितामहे च जीवति कथं कार्यमित्यपेक्षिते स
एवाह—'पितरि जीवति यः श्राद्धं कुर्यात्स येषां पिता कुर्यात्तेषां
कुर्यात् पितरि पितामहे च येषां पितामहः' इति । तथा
पि त्रादिषु त्रिषु द्वयोरेकस्य वा मरणेऽपि तेनैवोक्तं—'यस्य
पिता प्रेतस्स्यात्स पित्रे पिण्डं विधाय पितामहात्परं द्वाभ्यां
दद्यात् । यस्य पितामहः प्रेतस्स्यात्तस्मै पिण्डं विधाय प्र-
पितामहात्परं द्वाभ्यां दद्यात् । यस्य पितामहप्रपितामहौ च
प्रेतौ स्यातां यस्य पितां प्रपितामहश्च प्रेतौ स्यातां स
पित्रे पिण्डं विधाय पितामहात्परं द्वाभ्यां दद्यात्' इति ।
भविष्यत्पुराणे पितरि जीवति द्वयोरेव श्राद्धमुक्तं—
जीवमाने न देयं स्याद्यस्माद्भरतसत्तम ।
तस्माज्जीवपिता कुर्याद्द्वाभ्यामेव न संशयः ॥
इति । मनुस्तु त्रिषु यो जीवति तमेव श्राद्धे भोजयेदित्याह—
ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् ।
विप्रवद्भावितं श्राद्धे स्वकं पितरमाशयेत् ॥
पिता यस्य तु वृत्तस्स्याज्जीवेद्वाऽपि पितामहः ।
पितुस्तु नाम संकीर्त्य कीर्तयेत्प्रपितामहम् ॥