सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

योनौ प्रवृत्ताऽनुवर्तते तावत् क्षीरमपेयम् । तथा यद्दधि गुड-
मरिचमिश्रं यत्पर्युषितं तदप्यपेयम् । तथा यत्तक्रं दीर्णं
दर्वीघट्टनशून्यं अग्नितापादिना स्वतो वा स्फुटितं बहुदिनस्थि-
त्या संजातेन फेनेन युक्तं, अत्यर्थं शुक्ततया नष्टस्वादुक-
मपेयमिति । याज्ञवल्क्योपि वर्ज्यक्षीरमाह—
संधिन्यानिर्दशावत्सगोपयः परिवर्जयेत् ।
इति । तत्रसन्धिन्‍याः गोः पयः परिवर्जयेदित्येतत्स्फुटमुक्तं हारी-
तेन—‘सन्धिनी वृष्यन्ती तस्याः पयो न पिबेत् तदृतुम-
द्भवति’ इति । वृष्यन्ती कामुकी मैथुनेच्छावतीति यावत् ।
तदीयं पयः ऋतुद्भवति । ऋतुमत्याः सम्बन्धि भवतीत्य-
र्थः । अनेन एतदुक्तं भवति—यावति काले मैथुनेच्छाऽ-
नुवृत्तिस्तावति काले तस्याः पयो न पिबेदिति । तेन मैथु-
नेच्छानिवृत्तौ तस्याः पयो न निषिद्धमिति मन्तव्यम् । ‘अनि-
र्दशायाः पयः परिवर्जयेत् ’ इत्यस्यायमर्थः—प्रसवप्रभृत्यनि-
र्गतदशरात्रायाः पयः वर्जयेदिति । एतच्च रजोनिवृत्तिका-
लोपलक्षणार्थम् । तेन दशरात्रादर्वाग्रजोनिवृत्तौ नास्ति तत्र
प्रतिषेधः । दशरात्रादुपर्यपि रजोऽनुवृत्तावस्ति प्रतिषेध इति
बोद्धव्यम् । अतएव ‘नवसूतायाः पयः न पिबेत् सरजस्त्वात्’
इत्युक्त्वा हारीतेनोक्तं—‘सप्तरात्रादित्येके दशरात्रादित्यपरे मा-
सेनापीयूषं भवतीति धर्मविदः’ इति । नवसूतायाः पयः
सप्तरात्रादुपर्यपि पीयूषं भवतीत्येके । दशरात्रादुपर्यपि पीयू-
Smriti Cha.—Vol. V 30

षं भवतीत्यन्ये मन्यन्त इत्यर्थः । एतेषु सप्तरात्रादिपक्षेषु यथा
रजोनिवृत्ति व्यवस्था द्रष्टव्या । 'अवत्सायाः पयः परिव-
र्जयेत्' इत्यस्यायमर्थः — अवत्सा वत्सशून्या मृतवत्सेति या-
वत् । तस्याः पयः यावद्वत्सवियोगशोकनिवृत्तिः तावत् विव-
र्जयेदिति । अतएव 'पयो न पिबेत्' इत्यनुवृत्तौ हारीतेनोक्तं—
'हतवत्सायाः शोकाविष्टत्वात् नवसूतायास्सरजस्त्वात्' इति ।
न च वाच्यं शोकाविष्टत्वादित्यस्य हेतुवन्निगदरूपार्थवादत्वा-
च्छोकनिवृत्तावपि मृतवत्सायाः पयो न पिबेदिति । सरज-
स्त्वादिति हेतुसमभिव्याहारात् । अतो हेतुरेवायं शोकावि-
ष्टत्वादिति, न हेतुवन्निगदार्थवादः । न च वाच्यं सरजस्त्वादि-
त्यपि हेतुवन्निगदार्थवाद एव न तु हेतुरिति कथं तत्साहच-
र्यादस्य हेतुत्वं निश्चीयत इति । हेतुविवक्षयैव सरजस्त्वा-
दित्यस्य प्रयुक्तत्वात् । यदि हेतुविवक्षया सरजस्त्वादिति
न प्रयुक्तं स्यात् तदा दशरात्रात्प्रागूर्ध्वं यदा रजोनि-
वृत्तिः तदा नवमसूतायाः पयः पेयमित्ययमर्थो यः प्रति-
'पादयितुमिष्टः सोप्रतिपादितो भवेत् । ततश्च 'सप्तरात्रादि-
त्येके दशरात्रादित्यपरे मासेनापीयूषं भवतीति धर्मविदः'
इत्यनन्तरोक्तस्य तदीयग्रन्थस्य अनिर्वाहस्स्यात् । तस्माद्धेतुत्वे-
नैव सरजस्त्वादित्यस्यान्ययो नार्थवादत्वेन । तत्समभिव्या-
हाराच्छोकाविष्टत्वादित्यपि हेतुत्वेनैवान्वयो नार्थवादत्वेनेत्यलं
बहुनाऽतिप्रसङ्गेन । धर्मविद्ग्रहणं रजोनिवृत्तिसंदेहस्याप्यभा-

वस्तत्रेति ज्ञापनार्थं कृतम् । तेन यदा सप्तरात्रादपि रजोनि-
वृत्तिनिश्चयः तदा तत्पयःपानेऽपि न धर्महानिः । गव्यपी-
यूषवदजामहिष्योरपि पीयूषमपेयम् । तथाच वासिष्ठः—'गो-
महिष्यजानामनिर्दशम्' इति । पयो न पेयमिति शेषः ।
गौतमोपि वर्ज्यं क्षीरमाह—'संधिनीयमसूस्यन्दिनीनां च'
इति । क्षीरं वर्ज्यमिति शेषः । स्यन्दिनी स्वतःप्रस्रवत्क्षीर-
स्तनी । यमसूः यमळप्रसविनी । बोधायनोपि—'क्षीरमपेयं
विवत्साया अन्यवत्सायाश्च' इति । शङ्खोपि 'सर्वासां द्विस्त-
नीनां क्षीरमभोज्यतया वर्ज्यम्' इति । मनुरपि --
आरण्यानां च सर्वेषां मृगाणां महिषीं विना ।
इति । महिषीं विना आरण्यमहिषीव्यतिरिक्तानामित्यर्थः ।
मृगाणामित्यत्र पूर्वत्र श्रुतेन पय इति पदेन सम्बन्धः । वर्ज्या-
नीति अनेकावान्तरवाक्यशेषतया उत्तरत्र तिष्ठति । तेनास्यापि
वर्ज्यत्वमभिधीयते । यद्यपि मृगाणामिति पुल्लिङ्गनिर्देशात्पुं-
व्यक्तयः प्रतीयन्ते, तथाऽपि पयःपदसम्बन्धायोग्यत्वपरिहा-
राय पुंलिङ्गेन व्यक्तिमात्रेव विवक्षितमिति प्रत्येतव्यम् ।
ततश्चायोग्यत्वानवगतेः पयःपदेन सम्बन्धो युज्यत एव ।
गौतमोपि—'नित्यमाविकमपेयमौष्ट्रमैकशफं च' इति नित्य-
मभिनवदशायामनभिनवदशायां चेत्यर्थः । औष्ट्रं उष्ट्र्याः पयः ।
ऐकशफमेकशफाया वडवादेः पयः । एवञ्च गोमहिष्यजानामेव
पयः पेयं नान्यस्या इत्यनुसन्धेयम् । अत एव शङ्खः—

236 स्मृतिचन्द्रिकायां
माहिषं गव्यमाजं च भोज्यं क्षीरेषु निर्दिशेत् ।
आपस्तम्बस्तु ब्राह्मणव्यतिरिक्तस्य कपिलापयो वर्ज्यमित्याह—
क्षत्रियश्चैव वृत्तस्थो वैश्यश्शूद्रोऽथवा पुनः ।
यः पिबेत्कपिलाक्षीरं नरकानेत्यपुण्यकृत् ॥
तेन ब्राह्मणव्यतिरिक्तः कपिलागोक्षीरं प्रयत्नेन विवर्जयेदि-
त्यभिप्रायः । ब्राह्मणस्यापि हुतशेषव्यतिरिक्तकपिलाक्षीरपाने
दोषो भविष्यपुराणे दर्शितः—
कापिलं यः पिबेच्छूद्रो नरकेन विपच्यते ।
हुतशेषं पिबेद्विप्रो विप्रस्स्यादन्यथा पशुः ॥
इति । हुतशेषे पीते विप्रस्य जन्मान्तरेऽपि विप्रत्वं भवति ।
अन्यथा हुतशेषव्यतिरिक्तकपिलाक्षीरे पीते विप्रस्य जन्मा-
न्तरे पशुत्वं भवतीत्यर्थः । क्षीरवर्जनविधानादेव तत्स्पृष्टस्यापि
वर्जनं पीयूषस्पृष्टवर्जनवद्दुन्नेयम् । क्षीरवर्जनविधानादेव तद्वि-
कारस्यापि कूर्चादेर्वर्ज्यत्वं सिद्धं, कूर्चादिविकारे क्षीरस्य
सद्भावात् । अतएव क्षीरे वर्जयितव्ये तद्रसवतोपि पायसादे-
र्वर्जनं कार्यमिति मीमांसायां प्रतिपादितम् । अतएव नि-
षिद्धक्षीरविकाराणां भक्षणे निषिद्धातिक्रमस्य कृतत्वात्प्राय-
श्चित्तमाह शङ्खः—
क्षीराणि यान्यभक्ष्याणि तद्विकाराशने बुधः ।
सप्तरात्रव्रतं कुर्यात्प्रयत्नेन समाहितः ॥
इति । भक्ष्यव्रीह्यादिविकारस्यापि देवताभ्यो निवेदनार्थं वैदि-

कमार्गेण लौकिकमार्गेण वोपकल्पितस्य निवेदनात्प्रागप्राश्यत्व-
मुक्तं याज्ञवल्क्येन—
देवतार्थं हविश्शिग्रुलोहितव्रश्चनांस्तथा ।
इति । यथा संधिन्यादिपयः परिवर्जयेत् तथा देवतार्थं देव-
ताभ्यो निवेदनार्थं लौकिकमार्गेण परिकल्पितमन्नं हविः
वैदिकमार्गेण परिकल्पितं पुरोडाशादिकं शिग्र्वादिकं च परि-
वर्जयेदित्यर्थः । एवञ्च सन्धिन्यादिपयोवद्यद्यपि देवतार्थान्नस्य
पुरोडाशादिहविषश्च सदा परिवर्जनं प्रतिभाति । तथाऽपि
देवतानिवेदनात्प्रागेव प्रतिषेधो वेदितव्यः । अतएव पित्रा-
दिदेवतार्थमुदाहृत्योक्तं यमेन—
भक्ष्यं भोज्यं तथा पेयं यत्किञ्चित्पच्यते गृहे ।
न भोक्तव्यं पितॄणां तदनिवेद्य कथञ्चन ॥
इति । शिग्रुः शोभाञ्जनः । स च रक्तकुसुमः परिवर्जनीयो-
न श्वेतकुसुमः । स्मृत्यन्तरेऽपि 'रक्तशिग्रुं वर्जयेत्' इति वि-
शिष्टस्यैव निषेधो विद्यत इति देवस्वामिनाऽभिधानात् । शि-
ग्र्वादिकजातिगर्हितवदाश्रयगर्हितमपि वर्जनीयं, तथाचाङ्गिराः —
द्विविधं गर्हितं प्रोक्तं निसमन्नं मनीषिभिः ।
जातितो गर्हितं चैव तथैवाश्रयगर्हितम् ॥
अभोज्यानां विजानीयादन्नमाश्रयगर्हितम् ।
लशुनादिकमन्नं यत्तज्ज्ञेयं जातिगर्हितम् ॥
इति । अभोज्यानामन्नं यत्तदाश्रयगर्हितं विजानीयात् । य

238 स्मृतिचन्द्रिकायां
लशुनगृञ्जनच्छत्राकादिकमन्नमदनीयं दुष्टद्रव्यसंसर्गेण विनाऽपि
लशुनत्वादिजातितयैव मन्वादिभिर्निषिद्धं तज्जातिगर्हितं ज्ञेय-
मित्यर्थः । याज्ञवल्क्यस्तु प्रातिपद्येनाश्रयगर्हितमाह—
कदर्यबद्धचोराणां क्लीबरङ्गावतारीणाम् ।
वैणाभिशस्तवार्धुष्यगणिकागणदीक्षिणाम् ॥
चिकित्सकातुरक्रुद्धपुंश्चलीमत्तविद्विषाम् ।
क्रूरोग्रपतितत्रासदाम्भिकोच्छिष्टभोजिनाम् ॥
अवीरस्त्रीस्वर्णकारस्त्रीजितग्रामयाजिनाम् ।
शस्त्रविक्रयिकर्मारतन्तुवायश्ववृत्तिनाम् ।
नृशंसराजरजककृतघ्नवधजीविनाम् ॥
चेलधावसुराजीवसहोपपतिवेश्मनाम् ॥
पिशुनानृतिनोश्चैव तथा चाक्रिकवन्दिनाम् ।
एषामन्नं न भोक्तव्यं सोमविक्रयिणस्तथा ॥
इति । यो लोभाद्विद्यमानमपि धनं न भुङ्क्ते न ददाति स कद-
र्यः । तथाच स्मृतिः—
आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत् ।
लोभाद्यः पितरौ भृत्यान् स कदर्य इति स्मृतः ॥
बद्धो निगलितः, असिद्धो वा । चोरक्लीबौ प्रसिद्धौ । रङ्गा-
वतारी मल्लादिः । वैणो वीणावादी । अभिशस्तः पतनीय-
कर्मकरत्वेनाभियुक्तः । वार्धुष्यं निषिद्धवृद्ध्युपजीवनं तेन
तद्वान् लक्ष्यते । गणिका वेश्या । गणः सङ्घः । दीक्षी दी-

श्राद्धकाण्ड निलयभाजन वर्ज्यद्रव्याण. 239

क्षणीयेष्ट्यादिजनितदीक्षाख्यसंस्कारवान् । दीक्षाख्यसंस्कारवत्त्वं
चावभृथेष्टेः प्रागेव अवभृथेष्ट्या तत्संस्कारापगमात् एवञ्च दीक्षणी-
येष्ट्यनुष्ठानप्रभृति अवभृथेष्ट्यनुष्ठानपर्यन्तं दीक्षितस्याभोज्या-
न्नत्वमनया स्मृत्या प्रतिपादितमिति यद्यपि प्रतिभाति ।
तथाऽपि—'संस्थितेऽग्नीषोमीये यजमानस्य गृहेऽशितव्यम्'
इत्यादिश्रुत्या सत्यपि दीक्षाख्यसंस्कारे अग्नीषोमीयपशुयाग-
समाप्तेः प्रागेव अभोज्यान्नत्वमनया स्मृत्याऽप्युक्तमिति मन्तव्यम् ।
चिकित्सको भिषक् । आतुरः पापरोगग्रस्तः । पापरोगाश्च
देवलेन दर्शिताः—
वातव्याध्यश्मरीकुष्ठमेहोदरभगंदराः ।
अर्शस्संग्रहणीत्यष्टौ पापरोगाः प्रकीर्तिताः ॥
वातव्याधिः पक्षमारकादिः । अश्मरी मूत्रकृच्छ्रम् । मेहो
मधुमेहादिः । उदरं जलोदरादिः । इतरे प्रसिद्धाः । क्रुद्धो
धृताभ्यन्तरकोपः । पुंश्चली असती । मत्तो धनादिगर्वितः ।
परधिक्कारशीलः । विद्विट् शत्रुः । क्रूरो निर्दयः । उग्रः परदुः-
खोत्पादनपरः । पतितो महापातकी । व्रात्यः पतितसावित्री-
कः । दाम्भिकः ख्यातिलाभादिप्रयोजनानुसन्धानेनैव धर्मानु-
ष्ठाता । उच्छिष्टभोजी परभुक्तोज्झितान्नभोजनशीलः । अवीर-
स्त्री निष्पतिसुता । 'अवीरा निष्पतिसुता' इत्यमरसिंहेनाभि-
धानात् । स्वर्णकारः कटकमुकुटादिस्वर्णविकारकारी । स्त्रीजितः
सर्वकार्येषु स्त्रीवशवर्ती । ग्रामयाजी अनेकग्रामयाजकः शस्त्रवि-

240 स्मृतिचन्द्रिकायां

क्रयी खड्गादिविक्रयजीवी । श्ववृत्तिः श्ववृत्तवान् सेवक इति
यावत् । नृशंसो धातुकः । राजा जनपदपुरपालकः रजको
वस्त्रादिरागकर्ता । यः प्राणिवधेन जीवति स वधजीवी । चेलधावः
वस्त्रप्रक्षालकः । सुराजीवः सुराविक्रयी । सहोपपतिवेश्मा भार्या-
जारसहितगृहः । एषां कदर्यत्वादिदोषदुष्टानां त्रैवर्णिकानामन्नं
सोमलताविक्रयादिदोषदुष्टस्य त्रैवर्णिकस्यान्नं कदर्यत्वादिदोषदु-
ष्टस्वामिसम्बन्धात् परम्परया दुष्टमन्नं न भोक्तव्यमित्यर्थः ।
यद्यपि दीक्षितान्नस्याश्रयकृतदुष्टत्वाभावः, तथाऽपि वचनबलादे-
वाभोज्यत्वम् । अन्यदपि त्रैवर्णिकान्नं स्वाश्रयगर्हितमभोज्यं वचो-
भङ्ग्या पैठीनसिराह—'सांवत्सरिकघण्टिकग्रामकूटान्नं विषं
परिवित्तिपरिविविदानविद्धप्रजननवृषलीपतिदिधिषूपतिपुनर्भू पु-
त्राणां रुधिरम्' इति । सांवत्सरिको ज्योतिषिकः । घाण्टि-
को निघण्टुकारेण निरूपितः—'राज्ञां प्रबोधसमये घण्टाशि-
ल्पस्तु घाण्टिकः' इति । ग्रामकूटो ग्रामेऽनन्याधीनतक्षकः
'कूटतक्षोऽनधीनकः' इत्यमरः । विषं विषवदभक्ष्यम् । य-
स्मिन् अकृतदारे ज्येष्ठे कनिष्ठेन दारपरिग्रहः क्रियते स
ज्येष्ठः परिवित्तिः । य आधानानि ज्येष्ठेनाकृतानि करोत्य-
सौ कनिष्ठः परिविविदानः । विद्धप्रजननो विद्धशिश्नः ।
दिधिषूपतिः पुनर्भू पतिः । रुधिरं रुधिरवदभक्ष्यम् । यमोऽपि—
चक्रोपजीवी गान्धर्वः कितवस्तस्करस्तथा ।
ध्वजी दारोपजीवी च शूद्राध्यापकयाजकौ ॥

[Page Header] श्राद्धकाण्डे नित्यभोजने वर्जनीयद्रव्याणि. 241

कुलालश्चित्रकर्मा च वार्धुषिश्चर्मविक्रयी ।
इति । अभोज्यान्न इति शेषः । चक्रोपजीवी शाकटिकः ।
ध्वजी मद्यविक्रयी । कुलालः कुम्भकारवृत्त्युपजीवी । शेषाणि
प्रसिद्धानि । स्मृत्यन्तरेऽपि—
तथा राजभृतस्यान्नं चोरस्यान्नं तथैव च ।
सूतके मृतके चान्नं स्वर्गस्थमपि पातयेत् ॥
अवलिप्तस्य मूर्खस्य दुष्टवृत्तस्य दुर्मतेः ।
अन्नमश्रद्दधानस्य यो भुङ्क्ते भ्रूणहा स वै ॥
इति । राजभृत्यादीनामन्नमत्यन्तगर्हितं, तेन यत्नाद्वर्ज्यमित्यभि-
प्रायः । अवलिप्तो गर्वितः । सांवत्सरिकघाण्टिकादीनामपि
त्रैवर्णिकान्तर्गतानामेवान्नं प्रतिषिध्यते । न तु शूद्रादिजात्यन्तर्ग-
तानां, तेषां स्वरूपेण प्रतिषेधात् । तथाच स्मृत्यन्तरे—
ब्राह्मणस्य सदाऽश्नीयात् क्षत्रियस्य तु पर्वसु ।
प्रकृतेष्वथ वैश्यस्य शूद्रस्य न कदाचन ॥
प्रकृतेषु प्रस्तुतेषु विवाहादिषु महोत्सवेष्वित्यर्थः । ब्राह्मण-
स्येत्यादिषु अन्नमिति शेषो द्रष्टव्यः । एवंच क्षत्रियाणामन्नं
पर्वसु भोक्तव्यम् । कदर्यादिक्षत्रियाणामन्नं पर्वस्वपि न भो-
क्तव्यम् । वैश्यानामन्नं विवाहादिमहोत्सवादन्यत्र न भोक्तव्य-
म् । कदर्यादिवैश्यानामन्नं विवाहाद्युत्सवेष्वपि न भोक्तव्य-
मित्यनुसन्धेयम् । शूद्रस्य न कदाचनेत्यनेनैव शूद्राज्जघन्यस्य
प्रतिलोमस्यान्नं सुतरां नाश्नीयादिति गम्यते । याज्ञवल्क्यः

[Page Footer] SMRITI CHA.—Vol. V. 31

242 स्मृतिचन्द्रिकायां
शूद्रेष्वपि केषाञ्चिदन्नं भोज्यमित्याह—
शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः ।
भोज्यान्ना नापितश्चैव यश्चात्मानं निवेदयेत् ॥
दासः क्रीतकादिः । गोपालो गवां पालयिता । कुलमित्रं
पितृपितामहादिक्रमागतः सखा । सीरो लाङ्गलं, तेन कृषिफलं
लक्ष्यते, ततश्च कृषिफलं अर्धसीरपदेनोक्तम् । नापितो वप-
नादिकर्मकर्ता शूद्रः । एते दासादयः शूद्रेषु शूद्राणां मध्ये
भोज्यान्नाः । यश्च शूद्रः क्रीतवद्विजायात्मानं निवेदयति तवा-
हमिति समर्पयति सोपि भोज्यान्न इत्यर्थः । दासादयश्चात्र
स्वकीया एव विवक्षिताः । अतएव देवलः—
स्वदासो नापितो गोपः कुम्भकारः कृषीवलः ।
ब्राह्मणैरपि भोज्यान्नाः पञ्चैते शूद्रयोनयः ॥
एवञ्च यदीया दासादयस्तस्यैव तेषामन्नं भोज्यं नान्यस्येति
मन्तव्यम् । दासादिव्यतिरिक्तशूद्रान्नभोजने दोषमाह दक्षः—
शूद्रान्नरसपुष्टाङ्गस्त्वधीयानोपि नित्यशः ।
जुह्वन्वाऽपि जपन्वाऽपि गतिमूर्ध्वां न विन्दति ॥
वसिष्ठोपि—
शूद्रान्नेनोदरस्थेन योपि गच्छति मैथुनम् ।
यस्यान्नं तस्य तत्पुत्रः अन्नाच्छुक्रं प्रवर्तते ॥
हारीतोपि—
शूद्रान्नेन तु भुक्तेन जठरस्थेन यो मृतः ।
स वेसरत्वमुष्ट्रत्वं शूद्रत्वं चोपगच्छति ॥

अङ्गिरा अपि—
षण्मासं यो द्विजो भुङ्क्ते शूद्रस्यान्नं विगर्हितम् ।
स च जीवन् भवेच्छूद्रो मृतश्च श्वाऽभिजायते ॥
अन्नं पक्वमामं च । यत्तु सुमन्तुनोक्तम्—
गोरसं चैव सक्तूंश्च तैलं पिण्याकमेव च ।
अपूपान् भक्षयेच्छूद्रात् यच्चान्यत्पयसा कृतम् ॥
यदपि हारीतेन—
कन्दुपक्वं स्नेहपक्वं पायसं दधि सक्तवः ।
एतान्यशूद्रान्नभुजो भोज्यानि मनुरब्रवीत् ॥
अपूपादिपचनार्थं परिमण्डलतया कृतमयोमयं पात्रं कन्दुः,
तत्र पक्वं कन्दुपक्वम् । स्नेहेन तैलादिद्रव्येण पक्वं स्नेहपक्वम् ।
अशूद्रान्नभुजो द्विजस्य । यदप्यङ्गिरसा—
पात्रान्तरगतं ग्राह्यं शूद्रात्स्वगृहमागतम् ॥
इति । अन्नमिति शेषः । यदपि विष्णुपुराणे—
सम्प्रोक्ष्य विद्वान् गृह्णीयाच्छूद्रान्नं गृहमागतम् ।
इति । यत्तु शङ्खेन—
गृहात्परार्थे भूम्यर्थे गवार्थेषु विशेषतः ।
‘श्रोत्रियेण तु भोक्तव्यं शूद्राणां तु यमोऽब्रवीत् ॥
तदेतत्सर्वमापद्विषयम् । एवमग्निविहीनस्यान्नमप्यापद्विषय एव
भोज्यं, ‘अग्निहीनस्य नान्नमद्यादनत्पदि’ इति याज्ञवल्क्यस्म-
रणात् । सत्यप्यधिकारे श्रौतस्मार्तादिपरिग्रहमकुर्वतो विधाने-

244 स्मृतिचन्द्रिकायां
नोत्सृष्टाग्रेश्वान्नमनापदि न भुञ्जीतेत्यर्थः । अनेनार्थादग्निहीनस्या-
न्नमापद्यद्यादित्युक्तं भवति । आपद्यपि यतिवानप्रस्थयोरन्नं
नाद्यात् । तथाच श्लोकापस्तम्बः—
द्वावेवाश्रमिणौ भोज्यो ब्रह्मचारी तथा गृही ।
मुनेरन्नमभोज्यं स्यात्सर्वेषां लिङ्गिनां तथा ॥
इति । भोज्यौ भोज्यान्नौ । मुनिः वानप्रस्थो यतिश्च । लिङ्गि-
नां अवेदोक्तलिङ्गिनाम् ।
इति स्मृतिचन्द्रिकायां नित्यभोजने मांसव्यतिरिक्त-
वर्ज्यद्रव्यविषयाणि.
अथ नित्यभोजने वर्जनीयमांसद्रव्यविषयाणि
कानिचिद्वचनानि लिख्यन्ते.
तत्र मनुः—
एतदुक्तं द्विजातीनां भक्ष्याभक्ष्यमशेषतः ।
मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने ॥
मांसस्य भक्षणे वर्जने च विधिं प्रवक्ष्यामीत्यर्थः । तत्र मांस-
भक्षणे प्राप्ते विधिकथनं निषेधकथनेन विना न सम्भवतीति
प्रथमं मनूक्तमेव निषेधवचनं प्रदर्श्यते—
नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् ।
न च प्राणिवधस्स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ॥

समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् ।
प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥
इति । प्राणहिंसा मा भूदिति सर्वस्माद्रागप्राप्तमांसभक्षणान्नि-
वर्तेत, न तु प्रत्यवायभयादित्यर्थः । अत्रोक्तं तेनैव—
न मांसभक्षणे दोषो न मद्ये न च मैथुने ।
प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥
इति । अनेन मांसभक्षणे प्रत्यवायाभावाल्लोकविद्वेषाभावाच्च
फलार्थित्वाभावे मांसं भक्षयेदिति विधिरर्थादुक्त इति मन्त-
व्यम् । निवृत्तेस्तु महाफलसाधनत्वं च तेनैवोक्तम्—
फलमूलाशनैर्मेध्यैर्मुन्यन्नानां च भोजनैः ।
न तत्फलमवाप्नोति यन्मांसपरिवर्जनात् ॥
इति । एवमुक्तफलार्थिनामपि केषु चिद्विषयेषु मांसं भक्षितव्य-
मित्याह स एव—
प्रोक्षितं भक्षयेन्मांसं ब्राह्मणस्य च काम्यया ।
यथाविधि नियुक्तश्च प्राणानामेव चात्यये ॥
प्रोक्षितं भक्षयेन्मांसं क्रतौ पश्ववयवभूतं हृदयादिमांसं इष्टि-
शिष्टं भक्षयेत् । ब्राह्मणस्य च काम्यया निमन्त्रितब्राह्मण-
स्येच्छया मांसं भक्षयेत् । इष्टैस्सहोषभुज्यतामिति स्वेच्छा-
पूर्वकोक्त्यनुज्ञातं श्राद्धशिष्टं मांसं श्राद्धकर्ता भक्षयेदिति
यावत् । यथाविधि नियुक्तश्च विधिवच्छ्राद्धे निमन्त्रितो ब्राह्मणः
पित्राद्युद्देशेन त्यक्तं मांसं भक्षयेत् । प्राणानामेव चात्यये

246 स्मृतिचन्द्रिकायां

मांसं भक्षयेत् । भेषजत्वेन दुर्भिक्षादावन्नालाभेन वा यत्र मां-
सभक्षणमन्तरेण प्राणधारणमशक्यं तथाविधविषयेऽपि मांसं
भक्षयेत् । एवं च प्रोक्षितादिविषयचतुष्टयादन्यत्र फलार्थिनां
मांसभक्षणं वर्जनीयम् । फलार्थित्वाभावे तु नावश्यं वर्जनीय-
मिति सिद्धम् । यत्पुनस्तेनोक्तम्—
असंस्कृतान् पशून् मन्त्रैर्नाद्याद्विप्रः कदाचन ।
इति तदपि फलार्थिविषयम् ।
न मांसभक्षणे दोषो न मद्ये न च मैथुने ।
इति वाक्यत्रयं यत्र प्रातिपद्येन निषेधो न विद्यते तद्विषयम् ।
प्रातिपद्येन निषेधविधिषु सत्सु पुरुषस्य निवृत्तिसिद्ध्यर्थं
निषिद्धकरणे दोषकल्पनस्यावश्यकत्वात् । तेन परस्त्रीगमने
वेश्यागमने वा नानाविधशेषसद्भावात् प्रातिपद्येन निषिद्धमां-
सभक्षणेऽपि नानाविधदोषाः सन्त्येव । अतएव शङ्खेन प्राति-
पद्येन निषिद्धमांसभक्षणे प्रायश्चित्तमुक्तम्—'विड्वराहग्रामकुक्कुट-
कुम्भीकभक्षणे द्वादशरात्रं पयः पिबेत्' इति । विड्वराहादि-
मांसभक्षणे निषेधो मनुना प्रातिपद्येन दर्शितः—
क्रव्यादान् शकुनीन् सर्वान् तथा ग्रामनिवासिनः ।
अनिर्दिष्टांश्चैकशफान् टिट्टिभं चैव वर्जयेत् ॥
कलविङ्कं प्लवं हंसं चक्राङ्गं ग्रामकुक्कुटम् ।
सारसं रज्जुदालं च दात्यूहं शुकशारिके ॥
प्रतूदान् जालपादांश्च कोयष्टिनखविष्किरान् ।

निमज्जतश्च मत्स्यादान् सौनं वल्लूरमेव च ॥
बकं चैव बलाकां च काकोलं खञ्जरीटकम् ।
मत्स्यादान् विड्वराहांश्च मत्स्यानेव च सर्वशः ॥
इति । क्रव्यं मांसं, तदत्तीति क्रव्यादः । ये क्रव्यादाः श-
कुनयस्तान् गृध्रादीन् वर्जयेत् । ग्रामवासिनः शकुनयः ।
पारावतप्रभृतयः, तानपि वर्जयेत् । अनिर्दिष्टान् अज्ञातान्
अज्ञातावान्तरजातिविशेषान्, मृगपक्षिण इति शेषः । 'अज्ञा-
तांश्च मृगद्विजान्' इति याज्ञवल्क्यस्मरणात् । एकशफान-
श्वादीन् वर्जयेत् । निष्ठुरशब्दभाषी पक्षिविशेषः टिट्टिभः ।
तथाच वैजयन्त्यामुक्तम्—'टिट्टिभस्तु-कटुक्वाणः' इति । कल-
विङ्कश्चटकः । प्लवो जलकुक्कुटः । हंसः प्रसिद्धः । चक्राङ्गश्च-
क्रवाकः । कुक्कुटः प्रसिद्धः । सारसः पुष्कराह्वयः । स च
दीर्घगलजङ्घो नीलाङ्गः पक्षिविशेषः । रज्जुदालो वृक्षकुक्कुटः ।
दात्यूहः कालकण्टकः स च जलसमीपचरः । शुकः प्रसिद्धः ।
तस्य स्त्री शारिका । चञ्च्वा प्रत्युद्य भक्षयन्तीति प्रत्युदाः
श्येनादयः । जालपादा जालाकारपादाः । कोयष्टिः कीदृश-
इति चिन्त्यः । नखैर्विकीर्य भक्षयन्तीति नखविष्किराः
चकोरादयः । निमज्जतश्च मत्स्यादाः निमज्ज्यनिमज्ज्य म-
त्स्यान् भक्षयन्तीति तान् । सूना हिंसास्थानं, तत्र हतस्य
मांसं सौनम् । वल्लूरं शुष्कमांसम् 'उत्तंसं शुष्कमांसं स्या-
त्तद्वल्लूरं त्रिलिङ्गकम्' इत्यमरः । बकबलाके प्रसिद्धे । का-

कोलः गिरिकाकः । वृद्धकाको वा । यो मेघपर्यन्तमाकाशारो-
हणं लीलया करोति स च खञ्जरीटः । मत्स्यादान्, अनि-
मज्जतोपि । विड्वराहाः ग्रामसूकराः । मत्स्यानेव च सर्वशः
सर्वप्रकारान् मत्स्यान् वर्जयेत् । अनन्तरोक्तस्यापवादमाह
स एव—
पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः ।
राजीवांस्सिंहतुण्डांश्च सशल्कांश्चैव सर्वशः ॥
पाठीनो बहुदंष्ट्रो मत्स्यः, 'सहस्रदंष्ट्रः पाठीनः' इत्यमरः ।
रोहितो रक्तवर्णः । एतौ पाठीनरोहितौ हव्यकव्ययोर्नियु-
क्तौ निवेदितौ दत्तौ निमन्त्रितेनाद्यौ भक्ष्यावित्यर्थः । राजी-
वाः पञ्चवर्णाः, राजिमन्तो वा । सिंहतुण्डाः सिंहमुखाः ।
सह शल्कैश्शुक्त्याकारैः पृष्ठभागतो वर्तन्ते इति सशल्काः ।
एतेषु सिंहतुण्डादयः सर्वशः निमन्त्रितैरनिमन्त्रितैश्च भक्ष्याः ।
सशल्कानां भक्ष्यत्वं वेदाध्ययनहीनपुरुषाभिप्रायेणोक्तं—
मत्स्यान् सशल्कान् सर्वान् वै वेदाध्यायी विवर्जयेत् ।
इति यमस्मरणात् । देवलोपि प्रतिपदेन निषेधमाह—
उलूककुररश्येनगृध्रकुक्कुटवायसाः ।
चकोरकोकिलौ रज्जुदालकश्वाषमद्गुकौ ॥
पारावतकपोतौ च न भक्ष्याः पक्षिणः स्मृताः ।
उलूको घूकः । योन्तरिक्षे चरन् जलान्तर्वर्तिनं मत्स्यादिकं
श्येन इव निपत्यादत्ते स कुररः । चकोरः चन्द्रिकास्वादकः ।

यः शकुनसूचकत्वेन प्रसिद्धो हरितपीतवर्णः खर्वकायः पक्षि-
विशेषः स चाषः । मद्गुः जलकाकः 'मद्गुस्तु जलवायसः'
इति वैजयन्त्याम् । शेषाः प्रसिद्धाः । एवं यत्र यत्र प्रतिप-
द्येन प्रतिषेधस्स्मर्यते तत्र निषेधविधिमतिक्रम्य भक्षणे कृते
प्रत्यवायो न मांसमात्रभक्षण इत्यनुसन्धेयम् । अत एव शङ्खे-
नाप्रतिषिद्धानां मांसं भक्ष्यमिति दर्शयितुं केचन पक्षिमृगाणा-
मप्रतिषिद्धानामुपलक्षणतयोक्ताः ।
तित्तिरिं च मयूरं च लावकं च कपिञ्जलम्।
वार्ध्रीणसं वर्तिकं च भक्ष्यमाह यमस्सदा ॥
लावकः स्वजातीयैस्सह कलहकारी पक्षिविशेषः । कपिञ्जलः
शरुः । स च चित्रवर्णपक्षः । 'चित्रपक्षे शरुकपिञ्जलौ' इति
वैजयन्त्यामभिधानात् । वार्ध्रीणसः खड्गाख्यो मृगः 'गण्डके

२५० स्मृतिचन्द्रिकायां
न्निभतनूरुहशाली मृगविशेषः । गोधा बिलेशया ईषन्नकुलसदृशी ।
इतरे प्रसिद्धाः । अनुष्ट्रांश्चैकतोदतः पशूनां मध्ये उष्ट्रव्यति-
रिक्तान् । एकतोदतः महिषमेषप्रभृतीन् भक्ष्यानाहुरिति स-
म्बन्धः । उष्ट्रग्रहणं गवादीनामपि प्रदर्शनार्थम् । अतएव
देवलः—
अभक्ष्याः पशुजातीनां गोखरोष्ट्राश्वकुञ्जराः ।
सिंहो व्याघ्रश्च शरभसर्पाजगरकास्तथा ॥
आखुमूषकमार्जारनकुलग्राम्यसूकराः ।
श्वसृगालवृकद्वीपिगोलाङ्गूलमर्कटाः ॥
इति । व्याघ्र इति पूर्वमुक्तत्वात् द्वीपिशब्दो व्याघ्रविशेषपरः ।
गोलाङ्गूलो वानरविशेषः । मर्कटग्रहणं पञ्चनखानामुपलक्षणम् ।
अतएव न भक्षयेदित्यनुवृत्तौ मनुनोक्तं 'सर्वान् पञ्चनखांस्त-
था' इति । सर्वान् भक्ष्यत्वेन पूर्वोक्तश्वाविच्छल्यकगोधाख-
ङ्गकूर्मशशव्यतिरिक्तानित्यनुसन्धेयम् । शङ्खोपि भक्ष्यमांसमाह—
माहिषं त्वाजमौरभ्रं मार्गं रौरवमेव च ।
भक्ष्यमांसं समुद्दिष्टं यच्च वै पार्षतं भवेत् ॥
वराहांश्च तथा भक्ष्यानाहारण्यनिवासिनः ॥
उरभ्रो मेषः, तस्य मांसमौरभ्रं, मृगो हरिणः तस्य मांसं
मार्गं, रुरुः कृष्णसारविशेषः 'रुरुर्महान् कृष्णसारः' इति
वैजयन्त्यां, तस्य मांसं रौरवं, पृषतः अतिस्थूलबिन्दुप्रमाणक-
शुक्लवर्णतनूरुहकृतमण्डलशतैश्चित्रितो हरिणविशेषः, तस्य मांसं

251

पार्षतं, तथाऽरण्यनिवासिनो वराहान् भक्ष्यानाहेत्यन्वयः ।
एवमुक्तभक्ष्यमांसप्रतिपादकवचनैर्भक्षणीयेषु भक्षणमात्रेण प्रत्य-
वायो नास्तीति गम्यते, न तु भक्षणाय प्राणिवधे कृतेऽपीति ।
प्राणिवधमकृत्वा मांसार्जनसम्भवात्, ‘न हिंस्यात्सर्वा भूता-
नि’ इति हिंसाप्रतिषेधाच्च ।
योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया ।
स जीवंश्च मृतश्चैव न क्वचित्सुखमेधते ॥
स वसेन्नरके घोरे दिनानि पशुरोमभिः ।
सम्मितानि दुराचारो यो हन्त्यविधिना पशून् ॥
इति मनुयाज्ञवल्क्यस्मरणाच्च । यत्तु मनुनोक्तम्—
अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ।
संस्कर्ता चोपहर्ता च खादकश्चैव घातकाः ॥
इति, तत्र क्रयविक्रयिखादकादेर्घातकत्वाभिधानं हन्तॄणां क-
थञ्चित्प्रेरकभूतस्य न तूदासीनस्येति मन्तव्यम्, उदासीनस्य
कथञ्चिदपि हननकर्तृत्वाभावात् । अतएव देवलः—
पञ्च पञ्चनखा भक्ष्याः धर्मतः परिकीर्तिताः ।
गोधा कूर्मश्शशश्वाविच्छल्यकश्चेति ते स्मृताः ॥
हिंसामन्तरेण विक्रयाद्यैरूपादाय पञ्चनखाः भक्ष्याः परिकी-
र्तिता इत्यर्थः । यद्यप्यत्र पञ्चग्रहणमवधारणार्थं, तथाऽपि
‘श्वाविधं शल्यकं गोधां खड्गकूर्मशशांस्तथा’ इति मानवे खड्ग-
मांसस्य भक्ष्यत्वाभिधानमविरुद्धं, भिन्नविषयत्वात् । नित्य-

252 स्मृतिचन्द्रिकायां
भोजनविषयं देवलवचनम् । मानवं तु श्राद्धविषयम् ,
खड्गमांसैर्भवेदन्नमक्षयं पितृकर्मणि ।
इति खड्गमांसस्य श्राद्धे फलश्रुतिदर्शनात् ॥
इति स्मृतिचन्द्रिकायां नित्यभोजने
वर्जनीयमांसविषयाणि.
अथ श्राद्धे तृप्त्यतिशयहेतुभूतद्रव्यविषयाणि
कानिचिद्वचनानि लिख्यन्ते.
तत्र मनुः—
हविर्यच्चिररात्राय यच्चानन्त्याय कल्पते ।
पितृभ्यो विधिवद्दत्तं तत्प्रवक्ष्याम्यशेषतः ॥
यद्धविः पितृभ्यो विधिवद्दत्तं चिररात्राय कल्पते चिर-
कालानुस्यूतपितृतृप्तये, यच्चानन्त्याय अत्यन्तचिरकालानुस्यूत-
पितृतृप्तये कल्पते, तथाभूतहविरिदानीं प्रवक्ष्यामीत्यर्थः, तत्र
तावत्प्रतिज्ञातं क्रमेण यच्चिररात्राय कल्पते तदाह स एव—
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलेन वा ।
दत्तेन मासं प्रीयन्ते विधिवत्पितरो नृणाम् ॥
तिलादिचतुष्टयग्रहणं ग्राम्यौषधीनां सप्तानामुपलक्षणार्थम् ।
तत्र ग्राम्याभिरोषधीभिः मासं प्रीयन्ते । तासां पुष्कला-
नामभावे किञ्चिदन्नसहितैरब्वादिभिर्मासं प्रीयन्त इत्यर्थः ।
तथाच कात्यायनः— 'ग्राम्याभिरोषधीभिर्मासं तृप्तिः, तद-