स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 263, कुल 474 में से
संदर्भ में पढ़ेंअङ्गिरा अपि—
षण्मासं यो द्विजो भुङ्क्ते शूद्रस्यान्नं विगर्हितम् ।
स च जीवन् भवेच्छूद्रो मृतश्च श्वाऽभिजायते ॥
अन्नं पक्वमामं च । यत्तु सुमन्तुनोक्तम्—
गोरसं चैव सक्तूंश्च तैलं पिण्याकमेव च ।
अपूपान् भक्षयेच्छूद्रात् यच्चान्यत्पयसा कृतम् ॥
यदपि हारीतेन—
कन्दुपक्वं स्नेहपक्वं पायसं दधि सक्तवः ।
एतान्यशूद्रान्नभुजो भोज्यानि मनुरब्रवीत् ॥
अपूपादिपचनार्थं परिमण्डलतया कृतमयोमयं पात्रं कन्दुः,
तत्र पक्वं कन्दुपक्वम् । स्नेहेन तैलादिद्रव्येण पक्वं स्नेहपक्वम् ।
अशूद्रान्नभुजो द्विजस्य । यदप्यङ्गिरसा—
पात्रान्तरगतं ग्राह्यं शूद्रात्स्वगृहमागतम् ॥
इति । अन्नमिति शेषः । यदपि विष्णुपुराणे—
सम्प्रोक्ष्य विद्वान् गृह्णीयाच्छूद्रान्नं गृहमागतम् ।
इति । यत्तु शङ्खेन—
गृहात्परार्थे भूम्यर्थे गवार्थेषु विशेषतः ।
‘श्रोत्रियेण तु भोक्तव्यं शूद्राणां तु यमोऽब्रवीत् ॥
तदेतत्सर्वमापद्विषयम् । एवमग्निविहीनस्यान्नमप्यापद्विषय एव
भोज्यं, ‘अग्निहीनस्य नान्नमद्यादनत्पदि’ इति याज्ञवल्क्यस्म-
रणात् । सत्यप्यधिकारे श्रौतस्मार्तादिपरिग्रहमकुर्वतो विधाने-