स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 259, कुल 474 में से
संदर्भ में पढ़ेंश्राद्धकाण्ड निलयभाजन वर्ज्यद्रव्याण. 239
क्षणीयेष्ट्यादिजनितदीक्षाख्यसंस्कारवान् । दीक्षाख्यसंस्कारवत्त्वं
चावभृथेष्टेः प्रागेव अवभृथेष्ट्या तत्संस्कारापगमात् एवञ्च दीक्षणी-
येष्ट्यनुष्ठानप्रभृति अवभृथेष्ट्यनुष्ठानपर्यन्तं दीक्षितस्याभोज्या-
न्नत्वमनया स्मृत्या प्रतिपादितमिति यद्यपि प्रतिभाति ।
तथाऽपि—'संस्थितेऽग्नीषोमीये यजमानस्य गृहेऽशितव्यम्'
इत्यादिश्रुत्या सत्यपि दीक्षाख्यसंस्कारे अग्नीषोमीयपशुयाग-
समाप्तेः प्रागेव अभोज्यान्नत्वमनया स्मृत्याऽप्युक्तमिति मन्तव्यम् ।
चिकित्सको भिषक् । आतुरः पापरोगग्रस्तः । पापरोगाश्च
देवलेन दर्शिताः—
वातव्याध्यश्मरीकुष्ठमेहोदरभगंदराः ।
अर्शस्संग्रहणीत्यष्टौ पापरोगाः प्रकीर्तिताः ॥
वातव्याधिः पक्षमारकादिः । अश्मरी मूत्रकृच्छ्रम् । मेहो
मधुमेहादिः । उदरं जलोदरादिः । इतरे प्रसिद्धाः । क्रुद्धो
धृताभ्यन्तरकोपः । पुंश्चली असती । मत्तो धनादिगर्वितः ।
परधिक्कारशीलः । विद्विट् शत्रुः । क्रूरो निर्दयः । उग्रः परदुः-
खोत्पादनपरः । पतितो महापातकी । व्रात्यः पतितसावित्री-
कः । दाम्भिकः ख्यातिलाभादिप्रयोजनानुसन्धानेनैव धर्मानु-
ष्ठाता । उच्छिष्टभोजी परभुक्तोज्झितान्नभोजनशीलः । अवीर-
स्त्री निष्पतिसुता । 'अवीरा निष्पतिसुता' इत्यमरसिंहेनाभि-
धानात् । स्वर्णकारः कटकमुकुटादिस्वर्णविकारकारी । स्त्रीजितः
सर्वकार्येषु स्त्रीवशवर्ती । ग्रामयाजी अनेकग्रामयाजकः शस्त्रवि-