स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 260, कुल 474 में से
संदर्भ में पढ़ें240 स्मृतिचन्द्रिकायां
क्रयी खड्गादिविक्रयजीवी । श्ववृत्तिः श्ववृत्तवान् सेवक इति
यावत् । नृशंसो धातुकः । राजा जनपदपुरपालकः रजको
वस्त्रादिरागकर्ता । यः प्राणिवधेन जीवति स वधजीवी । चेलधावः
वस्त्रप्रक्षालकः । सुराजीवः सुराविक्रयी । सहोपपतिवेश्मा भार्या-
जारसहितगृहः । एषां कदर्यत्वादिदोषदुष्टानां त्रैवर्णिकानामन्नं
सोमलताविक्रयादिदोषदुष्टस्य त्रैवर्णिकस्यान्नं कदर्यत्वादिदोषदु-
ष्टस्वामिसम्बन्धात् परम्परया दुष्टमन्नं न भोक्तव्यमित्यर्थः ।
यद्यपि दीक्षितान्नस्याश्रयकृतदुष्टत्वाभावः, तथाऽपि वचनबलादे-
वाभोज्यत्वम् । अन्यदपि त्रैवर्णिकान्नं स्वाश्रयगर्हितमभोज्यं वचो-
भङ्ग्या पैठीनसिराह—'सांवत्सरिकघण्टिकग्रामकूटान्नं विषं
परिवित्तिपरिविविदानविद्धप्रजननवृषलीपतिदिधिषूपतिपुनर्भू पु-
त्राणां रुधिरम्' इति । सांवत्सरिको ज्योतिषिकः । घाण्टि-
को निघण्टुकारेण निरूपितः—'राज्ञां प्रबोधसमये घण्टाशि-
ल्पस्तु घाण्टिकः' इति । ग्रामकूटो ग्रामेऽनन्याधीनतक्षकः
'कूटतक्षोऽनधीनकः' इत्यमरः । विषं विषवदभक्ष्यम् । य-
स्मिन् अकृतदारे ज्येष्ठे कनिष्ठेन दारपरिग्रहः क्रियते स
ज्येष्ठः परिवित्तिः । य आधानानि ज्येष्ठेनाकृतानि करोत्य-
सौ कनिष्ठः परिविविदानः । विद्धप्रजननो विद्धशिश्नः ।
दिधिषूपतिः पुनर्भू पतिः । रुधिरं रुधिरवदभक्ष्यम् । यमोऽपि—
चक्रोपजीवी गान्धर्वः कितवस्तस्करस्तथा ।
ध्वजी दारोपजीवी च शूद्राध्यापकयाजकौ ॥