स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 261, कुल 474 में से
संदर्भ में पढ़ें[Page Header] श्राद्धकाण्डे नित्यभोजने वर्जनीयद्रव्याणि. 241
कुलालश्चित्रकर्मा च वार्धुषिश्चर्मविक्रयी ।
इति । अभोज्यान्न इति शेषः । चक्रोपजीवी शाकटिकः ।
ध्वजी मद्यविक्रयी । कुलालः कुम्भकारवृत्त्युपजीवी । शेषाणि
प्रसिद्धानि । स्मृत्यन्तरेऽपि—
तथा राजभृतस्यान्नं चोरस्यान्नं तथैव च ।
सूतके मृतके चान्नं स्वर्गस्थमपि पातयेत् ॥
अवलिप्तस्य मूर्खस्य दुष्टवृत्तस्य दुर्मतेः ।
अन्नमश्रद्दधानस्य यो भुङ्क्ते भ्रूणहा स वै ॥
इति । राजभृत्यादीनामन्नमत्यन्तगर्हितं, तेन यत्नाद्वर्ज्यमित्यभि-
प्रायः । अवलिप्तो गर्वितः । सांवत्सरिकघाण्टिकादीनामपि
त्रैवर्णिकान्तर्गतानामेवान्नं प्रतिषिध्यते । न तु शूद्रादिजात्यन्तर्ग-
तानां, तेषां स्वरूपेण प्रतिषेधात् । तथाच स्मृत्यन्तरे—
ब्राह्मणस्य सदाऽश्नीयात् क्षत्रियस्य तु पर्वसु ।
प्रकृतेष्वथ वैश्यस्य शूद्रस्य न कदाचन ॥
प्रकृतेषु प्रस्तुतेषु विवाहादिषु महोत्सवेष्वित्यर्थः । ब्राह्मण-
स्येत्यादिषु अन्नमिति शेषो द्रष्टव्यः । एवंच क्षत्रियाणामन्नं
पर्वसु भोक्तव्यम् । कदर्यादिक्षत्रियाणामन्नं पर्वस्वपि न भो-
क्तव्यम् । वैश्यानामन्नं विवाहादिमहोत्सवादन्यत्र न भोक्तव्य-
म् । कदर्यादिवैश्यानामन्नं विवाहाद्युत्सवेष्वपि न भोक्तव्य-
मित्यनुसन्धेयम् । शूद्रस्य न कदाचनेत्यनेनैव शूद्राज्जघन्यस्य
प्रतिलोमस्यान्नं सुतरां नाश्नीयादिति गम्यते । याज्ञवल्क्यः
[Page Footer] SMRITI CHA.—Vol. V. 31