स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 265, कुल 474 में से
संदर्भ में पढ़ेंसमुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् ।
प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥
इति । प्राणहिंसा मा भूदिति सर्वस्माद्रागप्राप्तमांसभक्षणान्नि-
वर्तेत, न तु प्रत्यवायभयादित्यर्थः । अत्रोक्तं तेनैव—
न मांसभक्षणे दोषो न मद्ये न च मैथुने ।
प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥
इति । अनेन मांसभक्षणे प्रत्यवायाभावाल्लोकविद्वेषाभावाच्च
फलार्थित्वाभावे मांसं भक्षयेदिति विधिरर्थादुक्त इति मन्त-
व्यम् । निवृत्तेस्तु महाफलसाधनत्वं च तेनैवोक्तम्—
फलमूलाशनैर्मेध्यैर्मुन्यन्नानां च भोजनैः ।
न तत्फलमवाप्नोति यन्मांसपरिवर्जनात् ॥
इति । एवमुक्तफलार्थिनामपि केषु चिद्विषयेषु मांसं भक्षितव्य-
मित्याह स एव—
प्रोक्षितं भक्षयेन्मांसं ब्राह्मणस्य च काम्यया ।
यथाविधि नियुक्तश्च प्राणानामेव चात्यये ॥
प्रोक्षितं भक्षयेन्मांसं क्रतौ पश्ववयवभूतं हृदयादिमांसं इष्टि-
शिष्टं भक्षयेत् । ब्राह्मणस्य च काम्यया निमन्त्रितब्राह्मण-
स्येच्छया मांसं भक्षयेत् । इष्टैस्सहोषभुज्यतामिति स्वेच्छा-
पूर्वकोक्त्यनुज्ञातं श्राद्धशिष्टं मांसं श्राद्धकर्ता भक्षयेदिति
यावत् । यथाविधि नियुक्तश्च विधिवच्छ्राद्धे निमन्त्रितो ब्राह्मणः
पित्राद्युद्देशेन त्यक्तं मांसं भक्षयेत् । प्राणानामेव चात्यये