सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
१९२ सौन्दरनन्दं महाकाव्यम्
वाले भ्रष्ट बुद्धि उस नन्द से पूछा—लज्जा से झुके नन्द ने उसके मन की बात जानने
वाले उस संकोची मुनि से अपना निर्णय बतलाया ॥ २ ॥
नन्दं विदित्वा सुगतस्ततस्तं भार्याभिधाने तमसि भ्रमन्तम् ।
पाणौ गृहीत्वा वियदुत्पपात मलं जले साधुरिवोज्जिहीर्षुः ॥ ३ ॥
अन्वयः—ततः नन्दं भार्याभिधाने तमसि भ्रमन्तं विदित्वा सुगतः तं पाणौ
गृहीत्वा जले साधुः इव मलम् उज्जिहीर्षुः वियद् उत्पपात ॥ ३ ॥
व्याख्या—ततः = तत्पश्चात्, नन्दम् = स्वानुजम्, भार्याभिधाने—भार्यायाः =
सहधर्मिण्याः, विधाने = स्वरूपे, तमसि = अन्धकारे, भ्रमन्तम् = विचरन्तम्, विदित्वा
= ज्ञात्वा, सुगतः = बुद्धः, तम् = नन्दम्, पाणौ = करे, गृहीत्वा = नीत्वा, जले =
सलिले, साधु इव = परिव्राजक इव, मलम् = अयस्करः, उज्जिहीर्षुः = प्रक्षालनमिच्छुः,
वियत् = आकाशम्, उत्पपात = तिरोऽभवत् ॥ ३ ॥
हिन्दी—तब नन्द को पत्नी रूपी अन्धकार में भटकते जानकर बुद्ध ने उसका
हाथ पकड़ लिया, फिर उसके मन के मैल को धोने के लिए उसे लेकर उसी तरह
आकाश में उड़ गये, जैसे कोई परिव्राजक अपनी गन्दगी साफ करने के लिए जलाशय
गया हो ॥ ३ ॥
काषायवस्त्रौ कनकावदातौ विरेजतुस्तौ नभसि प्रसन्ने ।
अन्योन्यसंश्लिष्टविकीर्णपक्षौ सरःप्रकीर्णाविव चक्रवाकौ ॥ ४ ॥
अन्वयः—तौ काषायवस्त्रौ कनकावदातौ प्रसन्ने नभसि अन्योन्यसंश्लिष्टविकीर्ण-
पक्षौ सरःप्रकीर्णौ चक्रवाकौ इव विरेजतुः ॥ ४ ॥
व्याख्या—तौ = सुगतनन्दौ, काषायवस्त्रौ—काषायम् = गैरिकम्, वस्त्रम् = वस-
नम्, ययोः तौ, कनकावदातौ—कनकमिव = स्वर्णमिव, अवदातौ = पीताभौ, प्रसन्ने =
निर्मले, नभसि = आकाशे, अन्योन्यसंश्लिष्टविकीर्णपक्षौ—अन्योन्यम् = परस्परम्,
संश्लिष्टौ = सन्निहितौ, विकीर्णौ = प्रसृतौ, च = पुनः, पक्षौ = पवित्रे, ययोः तौ, सरः =
सरोवरः, प्रकीर्णौ = विश्लिष्टौ, चक्रवाकौ = कोकौ, इव = यथा, विरेजतुः = शुशुभिरे ।
उपमाऽलङ्कारोऽत्र ॥ ४ ॥
हिन्दी—सुनहले रंग वाले गेरुआ वस्त्र पहने निर्मल आकाश में वे दोनों वैसे ही
लगते थे, जैसे स्वच्छ सरोवर में एक-दूसरे से सटे, पांख फैलाये चकवे शोभते हैं ॥४॥
तौ देवदारूत्तमगन्धवन्तं नदीसरःप्रस्रवणौघवन्तम् ।
आजग्मतुः काञ्चनधातुमन्तं देवर्षिमन्तं हिमवन्तमाशु ॥ ५ ॥
अन्वयः—तौ देवदारूत्तमगन्धवन्तं नदीसरःप्रस्रवणौघवन्तं काञ्चनधातुमन्तं
देवर्षिमन्तं हिमवन्तम् आशु आजग्मतुः ॥ ५ ॥
व्याख्या—तौ = तथागतनन्दौ, देवदारूत्तमगन्धवन्तम्—देवदार्वोः = एतदाख्य-
वृक्षस्य, उत्तमम् = उत्कृष्टम्, गन्धम् = सौरभम्, अस्ति अस्य, नदीसरःप्रस्रवणौघवन्तम्
स्वर्गापवादः ] दशमः सर्गः १९३
—नद्यः = शैवलिन्यः, सरांसि = तडागानि, प्रस्त्रवणानि = निर्झराणि, च तेषाम्,
ओघः = समूहः, अस्ति अस्येति, काञ्चनधातुमन्तम् = कनकधातुसमन्वितम्, देवर्षिमन्तम्
—देवर्षयः = सुरमुनयः, सन्ति अस्येति, हिमवन्तम् = नगाधिराजम्, आशु = त्वरितम्,
आजग्मतुः = आगतवन्ताविति ॥ ५ ॥
हिन्दी—वे दोनों देवदारु की उत्तम सुगन्ध से महकते, नदी, तालाब और झरनों
से सुशोभित, सोने-चांदी जैसे खनिजों से भरपूर देवर्षियों से अधिष्ठित हिमालय पर
शीघ्र ही पहुँच गये ॥ ५ ॥
तस्मिन् गिरौ चारणसिद्धजुष्टे शिवे हविर्धूमकृतोत्तरीये ।
अगम्यपारस्य निराश्रयस्य तौ तस्थतुर्द्वीप इवाम्बरस्य ॥ ६ ॥
अन्वयः—अगम्यपारस्य निराश्रयस्य अम्बरस्य द्वीपे इव चारणसिद्धजुष्टे हविर्धूम-
कृतोत्तरीये तस्मिन् शिवे गिरौ तौ तस्थतुः ॥ ६ ॥
व्याख्या—अगम्यपारस्य—अगम्यः = दुर्गम्यः, पारः = अन्यतरस्तटः, यस्य तस्य,
निराश्रयस्य—निर्गतः = निष्क्रान्तः, आश्रयः = आधारः, यस्य तस्य, अम्बरस्य = गगनस्य,
द्वीपे = भागे, इव = यथा, चारणसिद्धजुष्टे—चारणैः = गन्धर्वैः, सिद्धैश्च = किन्नरैश्च,
जुष्टम् = सेवितम्, तस्मिन्, हविर्धूमकृतोत्तरीये—हविषः = होमकुण्डस्य, धूमः =
शिखिध्वजः, तस्य कृतम् = धृतम्, उत्तरीयम् = संव्यानम्, येन सः तस्मिन्, तस्मिन्
=पूर्वोक्ते, शिवे = कल्याणप्रदे, गिरौ = हिमालये, तौ = तथागतनन्दौ, तस्थतुः =
विरेजतुः । श्लोकस्यास्य उत्तरार्द्धे इवेन सह समासत्वादुपमाऽलङ्कारस्तथा 'हविर्धूम-
कृतोत्तरीयेऽत्रोत्प्रेक्षालङ्कारश्चेति ॥ ६ ॥
हिन्दी—चारण और सिद्धों से सेवित उस मंगलमय हिमालय पर्वत पर जिसकी
चादर होम के धुएँ थी—वे दोनों उस दुर्गम अपार और आधारहीन आकाशद्वीप में
स्थित हुए ॥ ६ ॥
शान्तेन्द्रिये तत्र मुनौ स्थिते तु सविस्मयं दिक्षु ददर्श नन्दः ।
दरीश्च कुञ्जांश्च वनौकसश्च विभूषणं रक्षणमेव चाद्रेः ॥ ७ ॥
अन्वयः—शान्तेन्द्रिये मुनौ तत्र स्थिते तु नन्दः दिक्षु अद्रेः विभूषणं रक्षणम् एव
च दरीश्च कुञ्जांश्च वनौकसश्च ददर्श ॥ ७ ॥
व्याख्या—शान्तेन्द्रिये = शमान्विते करणे, मुनौ = गौतमबुद्धे, तत्र = तस्मिन् गिरौ,
स्थिते = विराजमाने सति, तु नन्दः = बुद्धानुजः, दिक्षु = अभितः, अद्रेः = भूधरस्य,
विभूषणम् = अलङ्करणम्, रक्षणम् = शरणम्, एव च = केवलमेव, दरीश्च = गह्वरञ्च,
कुञ्जांश्च = लतासमूहांश्च, वनौकसश्च—वनम् = अरण्यम्, ओकः = निवासम्, येषां ते
तान्, ददर्श = दर्शयामास ॥ ७ ॥
हिन्दी—प्रशान्त इन्द्रियवाले भगवान् बुद्ध के वहाँ विराजमान हो जाने के बाद
नन्दं ने चारों ओर उस पहाड़ के आभूषण एवं रक्षक के रूप में गुफाओं, कुञ्जों और
वनवासियों को देखा ॥ ७ ॥
१९४ सौन्दरनन्दं महाकाव्यम्
बह्वायतं तत्र सिते हि शृङ्गे सङ्क्षिप्तबर्हः शयितो मयूरः ।
भुजे बलस्यायत पीनबाहोर्वैदूर्यकेयूर इवाबभासे ॥ ८ ॥
अन्वयः—तत्र बह्वायते सिते हि शृङ्गे सङ्क्षिप्तबर्हः शयितः मयूरः आयतपीन
बाहोः बलस्य भुजे वैदूर्यकेयूरः इव आवभासे ॥ ८ ॥
व्याख्या—तत्र = तस्मिन् पर्वते, बह्वायते = बहुविशाले, सिते = शुभ्रे, हि = यतः,
शृङ्गे = सानौ, सङ्क्षिप्तबर्हः—सम्यक् = सुष्ठुतया, क्षिप्तः = प्रसारितः, बर्हः = पिच्छः,
येन सः, शयितः = प्रसुप्तः, मयूरः = बर्हिणः, आयतपीनबाहोः—आयते = विस्तृते,
पीने = स्थूले, च बाहू = भुजे, यस्य तस्य, बलस्य = बलरामस्य, भुजे = बाहौ, वैदूर्य-
केयूरः = वैदूर्यमणिनिर्मितवलयम्, इव=यथा, आबभासे = शोभयामास । सम्भावनाया-
मुत्प्रेक्षाऽलङ्कारोऽत्र ॥ ८ ॥
हिन्दी—उस पहाड़ के श्वेत शिखर पर अपने पंख समेटकर मयूर सोया था।
इससे प्रतीत होता था जैसे अपनी लम्बी विशाल बाँहों में वैदूर्यमणि का बाजूबन्द पहने
बलराम जी शोभित हो रहे हैं ॥ ८ ॥
मनःशिलाधातुशिलाश्रयेण पीतीकृतांसो विरराज सिंहः ।
सन्तप्तचामीकरभक्तिचित्रं रूप्याङ्गदं शीर्णमिवाम्बिकस्य ॥ ९ ॥
अन्वयः—मनःशिलाधातुशिलाश्रयेण पीतीकृतांसः सिंहः सन्तप्तचामीकरभक्ति-
चित्रम् आम्बिकस्य शीर्णं रूप्याङ्गदम् इव विरराज ॥ ९ ॥
व्याख्या—मनःशिलाधातुशिलांश्रयेण—मनःशिला=नागजिह्विका, तस्याः शिलायाः
= गण्डशैलस्य, आश्रयेण=सम्पर्केण, पीतीकृतांसः—न पीतः पीतः कृतः इति पीतीकृतः,
पीतीकृतः अंसः यस्य सः=पीताभस्कन्धः, सिंहः = वनराजः, सन्तप्तचामीकरभक्ति-
चित्रम्—सन्तप्तम् = ज्वलितम्, चामीकरम् = कनकम्, तस्य, भक्तिः = अनुरक्तिस्तया
चित्रम् = चित्रितम्,. आम्बिकस्य = अम्बासुतस्य, कार्त्तिकेयस्य, शीर्णम् = च्युतम्,
रूप्याङ्गदम् = रजतकेयूरम्, इव = यथा, विरराज = शोभयामास । कल्पितोपगान-
त्वादत्राप्युपमालङ्कारः ॥ ९ ॥
हिन्दी—मैनसिल धातु की शिला के संपर्क से पीले कंधे वाला सिंह ऐसा शोभ
रहा था मानो तपाये हुए सोने के तारों से मढ़ा हुआ कार्त्तिकेय का टूटा हुआ चांदी
का बाजूबन्द हो ॥ ९ ॥
व्याघ्रः क्लमव्यायतखेलगामी लाङ्गूलचक्रेण कृतापसव्यः ।
बभौ गिरेः प्रस्रवणं पिपासुर्दित्सन् पितृभ्योऽम्भ इवावतीर्णः ॥ १० ॥
अन्वयः—क्लमव्यायतखेलगामी लाङ्गूलचक्रेण कृतापसव्यः गिरेः प्रस्रवणम्
अवतीर्णः पिपासुः व्याघ्रः पितृभ्यः अम्भः दित्सन् इव बभौ ॥ १० ॥
व्याख्या—क्लमेन = आयासेन, व्यायत्तः = कृतव्यायाम, तस्मात्, खेलेन =
लीलया, गन्तुम् = चलितुम्, शीलमस्येति, लाङ्गूलचक्रेण—लाङ्गूलस्य = पुच्छस्य,
चक्रेण = गोलाकारेण, कृतापसव्यः—कृतः = सम्पादितः, अपसव्यः = सव्येतरः, इति
Here is the exact line-by-line transcription of the text from the image into Devanagari script:
स्वर्गापवादः ] दशमः सर्गः १९५
दक्षिणस्कन्धोपरि स्थापयित्वा, गिरेः = भूधरस्य, प्रस्रवणम् = प्रपातः, अवतीर्णः =
प्रविष्टः, पिपासुः = पातुमिच्छुः, व्याघ्रः = चुलुकः, पितृभ्यः = पितृदेवेभ्यः, अम्भः =
जलम्, दित्सन् = दातुमिच्छन्, बभौ = शुशुभे ॥ १० ॥
हिन्दी-थकान के कारण लीलापूर्वक चलता हुआ, पूँछ को दाहिने कन्धे पर रखे
हुए, पहाड़ी झरने पर उतरा हुआ बाघ ऐसा लगता था, जैसे मानो पितरों को पानी
देने की इच्छा कर रहा है ॥ १० ॥
चलत्कदम्बे हिमवन्नितम्बे तरौ प्रलम्बे चमरो ललम्बे ।
छेतुं विलग्नं न शशाक बालं कुलोद्गतां प्रीतिमिवार्यवृत्तः ॥ ११ ॥
अन्वयः-चलत्कदम्बे हिमवन्नितम्बे प्रलम्बे तरौ चमरः ललम्बे, विलग्नं बालम्
आर्यवृत्तः कुलोद्गतां प्रीतिम् इव छेत्तुं न शशाक ॥ ११ ॥
व्याख्या-चलत्कदम्बे = चलन्तः = कम्पयन्तः, कदम्बाः = नीपाः, यस्मिन् तस्मिन्,
हिमवंन्नितम्बे = हिमालयस्य शिखरे, प्रलम्बे = विशाले, तरौ = वृक्षे, चमरः = धेनुगः,
ललम्बे = अलम्बत, सः, विलग्नम् = संसक्तम्, बालम् = पुच्छम्, आर्यवृत्तः-आर्यम् =
शालीनम्, वृत्तम् = आचरणम्, यस्य सः, कुलोद्गताम्-कुलात् = वंशात्, उद्गता
समुत्पन्ना, ताम्, प्रीतिम् = मैत्रीम्, इव = सदृशः, छेत्तुम् = कर्त्तयितुम्, न = नहि,
शशाक = अशक्नोत् । अत्रोपमाऽलङ्कारः । अनुप्रासालङ्कारस्य छटाऽपि विलक्षणात्र ॥
हिन्दी-हिमालय के नितम्बभाग पर एक लम्बे हिलते कदम्ब की डाल में एक
चमर की पूँछ फँसी थी । एक शालीन व्यक्ति जैसे परम्परागत मित्रता को नहीं तोड़
पाता, उसी तरह वह चमर भी उसे नहीं तोड़ सका ॥ ११ ॥
सुवर्णगौराश्च किरातसङ्घा मयूरपिच्छोज्ज्वलगात्रलेखाः ।
शार्दूलपातप्रतिमा गुहाभ्यो निष्पेतुरुद्गार इवाचलस्य ॥ १२ ॥
अन्वयः-सुवर्णगौराः मयूरपिच्छोज्ज्वलगात्रलेखाः च शार्दूलपातप्रतिमा किरात-
सङ्घाः अचलस्य गुहाभ्यः उद्गार इव निष्पेतुः ॥ १२ ॥
व्याख्या-सुवर्णगौराः = कनकाभाः, मयूरपिच्छोज्ज्वलगात्रलेखाः-मयूरस्य =
कलापिनः, पिच्छैः = बर्हिणैः, उज्ज्वलाः = देदीप्यमानाः, गात्रस्य = देहस्य, लेखाः =
सङ्गणनाः, येषां ते, च = पुनः, शार्दूलपातप्रतिमा = व्याघ्रपातसदृशाः, किरातसङ्घाः =
वनेचरसमूहाः, अचलस्य = भूधरस्य, गुहाभ्यः = कन्दराभ्यः, उद्गारः = वान्तः, इव =
यथा, निष्पेतुः = निर्जग्मुः, शार्दूलप्रतिमेत्यत्रोपमाऽलङ्कारस्तथा उद्गार इवेत्यत्र
उत्प्रेक्षाऽलङ्कारः ॥ १२ ॥
हिन्दी-सुनहले रंग के झुण्ड के झुण्ड किरात, जिनके शरीर मयूर की पूँछों से
उज्ज्वल थे, शेरों की तरह गुफाओं से निकल आये; जैसे पर्वत ने उन्हें वमन
किया हो ॥ १२ ॥
दरीचराणामतिसुन्दरीणां मनोहरश्रोणिकुचोदरीणाम् ।
वृन्दानि रेजुर्गदिशि किन्नरीणां पुष्पोत्कचानामिव वल्लरीणाम् ॥ १३ ॥
१९६ सौन्दरनन्दं महाकाव्यम्
अन्वयः - दरीचराणां मनोहरः श्रोणिकुचोदरीणां अतिसुन्दरीणां किन्नरीणां
वृन्दानि पुष्पोत्कचानां बल्लरीणाम् इव दिशि रेजुः ॥ १३ ॥
व्याख्या - दरीचराणाम् = दरीषु = कन्दरासु, चरन्तीति = विचरन्तीति, तासाम्,
मनोहरः = रुचिकरः, श्रोणिकुचोदरीणाम् - श्रोणयः = नितम्बाः, कुचाः = स्तनाः,
उदराः = कुक्षाश्चेति श्रोणिकुचोदराः, मनोहराश्च ते यासाम् तासाम्, अतिसुन्दरीणाम् =
अत्यन्तरूपवतीनाम्, किन्नरीणां वृन्दानि = एतदाख्यदेवयोनिस्त्रीणां समूहाः, पुष्पोत्क-
चानाम् = कुसुमयुक्तानाम्, वल्लरीणाम् = लतानाम्, इव = यथा, दिशि = परितः,
रेजुः = शुशुभिरे ॥ १३ ॥
हिन्दी - कन्दराओं में घूमने वाली अत्यन्त सुन्दर किन्नरियां, जिनके स्तन और
पेट मनोहर थे, वे झुंड के झुंड चारों ओर ऐसी शोभती थीं, मानो लताएँ फूलों से
भरी हों ॥ १३ ॥
नगान्नगस्योपरि देवदारूनायासयन्तः कपयो विचेरुः ।
तेभ्यः फलं नापुरतोऽपजग्मुर्मोघप्रसादेभ्य इवेश्वरेभ्यः ॥ १४ ॥
अन्वयः - नगात् नगस्योपरि देवदारून् आयासयन्तः कपयः विचेरुः फलं न आपुः,
अतः तेभ्यः मोघप्रसादेभ्यः ईश्वरेभ्यः इव अपजग्मुः ॥ १४ ॥
व्याख्या - नगात् = भूधरात्, नगस्योपरि = पर्वतस्योपरि, देवदारून् = देवदारु-
वृक्षान्, आयासयन्तः = पीडयन्तः, कपयः = वानराः, विचेरुः = बभ्रमुः, फलम्, न =
नहि, आपुः = प्राप्तवन्तः, अतः = अस्मात् कारणात्, तेभ्यः = द्रुमेभ्यः, मोघप्रसादेभ्यः
- मोघम् = व्यर्थम्, प्रसादः = प्रसन्नता, येषां तेभ्यः, ईश्वरेभ्यः = धनिकेभ्यः,
अपजग्मुः = अपसस्रुः । अत्राप्युपमालङ्कारोऽस्ति ॥ १४ ॥
हिन्दी - एक पहाड़ से दूसरे पहाड़ पर चढ़कर वानरों के समूह देवदारु के वृक्षों
को हिलाते थे, किन्तु फल न मिलने पर वे उसे उसी तरह छोड़ देते थे जैसे, उन
धनिकों को जिनकी खुशी का कोई महत्त्व नहीं होता, उन्हें छोड़कर याचक दूर हट
जाते हैं ॥ १४ ॥
तस्मात्तु यूथादपसार्यमाणां निष्पीडितालक्तकरक्तवक्त्राम् ।
शाखामृगीमेकविपन्नदृष्टिं दृष्ट्वा मुनिर्नन्दमिदं बभाषे ॥ १५ ॥
अन्वयः- तस्मात् तु यूथात् अपसार्यमाणां निष्पीडितालक्तकरक्तवक्त्राम् एकविपन्न-
दृष्टिं शाखामृगीं दृष्ट्वा मुनिः नन्दम् इदं बभाषे ॥ १५ ॥
व्याख्या - तस्मात् = तेन हेतुना, तु = किन्तु, यूथात् = समूहात्, अपसार्यमाणाम् =
असंलग्नाम्, निष्पीडितालक्तकरक्तवक्त्राम् - निष्पीडितेन = निश्च्योतितेन, आलक्त-
केन = द्रुमामयेन, रक्तम् = रक्तवर्णम्, वक्त्रम् = मुखम्, यस्याः सा ताम्, एकविपन्न-
दृष्टिम् - एका = एकमात्र, विपन्ना = विनष्टा, दृष्टिः = नेत्रम्, यस्याः सा ताम्,
शाखामृगीम् = वानरीम्, दृष्ट्वा = अवलोक्य, मुनिः = बुद्धः, नन्दम् = स्वानुजम्,
इदम् = एतत्, बभाषे = उवाच ॥ १५ ॥
सर्ग ११ से १५: काम-दोष दर्शन, इन्द्रिय-संयम, आहार-शुद्धि एवं ध्यान-साधना
स्वर्गपवादः ] दशमः सर्गः ५९७
हिन्दी-समूह से भटकी एक कानी वानरी जिसका मुँह लाल था, जैसे कि उस
पर महावर निचोड़ा गया हो, उसे देखकर भगवान् बुद्ध ने नन्द से कहा ॥ १५ ॥
का नन्द रूपेण च चेष्टया च सम्पश्यतश्चारुतरा मता ते ।
एषा मृगी वैकविपन्नदृष्टिः स वा जनो यत्र गता तवेष्टिः ॥ १६ ॥
अन्वयः-नन्द ! रूपेण चेष्टया च सम्पश्यतः ते का चारुतरा मता, एकविपन्न-
दृष्टिः एषा मृगी वा सः जनः वा यत्र तव दृष्टिः गता ? ॥ १६ ॥
व्याख्या-नन्द = हे भ्रातः ! रूपेण = सुष्ठु आकृत्या, च=पुनः, चेष्टया =
विलासेन, च सम्पश्यतः = अवलोकयतः, ते=तव, का चारुतरा मता=शोभनतरा विहिता,
एकविपन्नदृष्टिः = नष्टैकचक्षुः, एषा = इयम्, मृगी = वानरी, वा = अथवा, सः =
असौ, जनः = लोकः, वा = अथवा, यत्र = यस्मिन् स्थाने, तव = भवतः, दृष्टिः =
आसक्तिः, गता=याता ॥ १६ ॥
हिन्दी-ओ नन्द ! तुम्हारे विचार से रूप और विलास में कौन अधिक सुन्दर
दिखलायी पड़ रहा है, यह कानी वानरी या जिसमें तुम्हारी आसक्ति है वह ? ॥१६॥
इत्येवमुक्तः सुगतेन नन्दः कृत्वा स्मितं किञ्चिदिदं जगाद ।
क्व चोत्तमस्त्री भगवन् वधूस्ते मृगी नगक्लेशकरी क्व चैषा ॥ १७ ॥
अन्वयः-सुगतेन इत्येवम् उक्तः नन्दः किञ्चित् स्मितं कृत्वा इदं जगाद-
भगवन् ! क्व च उत्तमस्त्री ते वधूः क्व च नगक्लेशकरी एषा मृगी ॥ १७ ॥
व्याख्या-सुगतेन = तथागतेन, इत्येवम् = अनेन रूपेण, उक्तः = पृष्टः, नन्दः =
बुद्धानुजः, किञ्चित् = ईषद्, स्मितम् = मन्दहास्यम्, कृत्वा = निष्पाद्य, इदम् = एतत्,
जगाद = उवाच, भगवन् = श्रीमन् ! क्व च = कुत्र च, उत्तमस्त्री = श्रेष्ठतमवामा, ते =
तव, वधूः = अनुजवधूः, क्व च = कुत्र च, नगक्लेशकरी-करोतीति स्त्रियां करी,
क्लेशस्य करी क्लेशकरी, न गच्छतीति नगस्तेषां नगानां क्लेशकरी नगक्लेशकरी =
पादपपीडा दायिनी, एषा = पुरोवर्त्तमाना, मृगी = वानरी ॥ १७ ॥
हिन्दी-इस प्रकार जब बुद्ध ने पूछा, तब मन्द-मन्द मुस्कुराते हुए नन्द ने उत्तर
दिया-भगवन् ! कहां तो दिव्य सुन्दरी आपकी अनुजवधू और कहाँ यह पेड़ों को
पीड़ा देने वाली बन्दरी ? ॥ १७ ॥
'ततो मुनिस्तस्य निशम्य वाक्यं हेत्वन्तरं किञ्चिदवेक्षमाणः ।
आलम्ब्य नन्दं प्रययौ तथैव क्रीडावनं वज्रधरस्य राज्ञः ॥ १८ ॥
अन्वयः-ततः मुनिः तस्य वाक्यं निशम्य किञ्चित् हेत्वन्तरम् अवेक्ष्यमाणः नन्दम्
आलम्ब्य तथैव राज्ञः वज्रधरस्य क्रीडावनं प्रययौ ॥ १८ ॥
व्याख्या-ततः = तत्पश्चात्, मुनिः = गौतमः, तस्य = नन्दस्य, वाक्यम् = वचनम्,
निशम्य = श्रुत्वा, किञ्चित् = ईषत्, हेत्वन्तरम्-अन्यम् = अपरम्, हेतुम् = कारणम्,
हेत्वन्तरम् = कारणान्तरम्, अवेक्ष्यमाणः = अवलोकयन्, नन्दम्=स्वानुजम्, आलम्ब्य=
१९८ सौन्दरनन्दं महाकाव्यम्
नीत्वा, तथैव = तेनैव प्रकारेण, राज्ञः = नृपस्य, वज्रधरस्य - धरतीति धरः, वज्रस्य
धरः वज्रधरः, तस्य = देवराजस्य, क्रीडावनम् = केलिवनम्, प्रययौ = गतवान् ॥१८॥
हिन्दी-इसके बाद भगवान् बुद्ध ने नन्द की बात सुनकर किसी अन्य कारण को
देखते हुए नन्द को साथ लेकर देवराज इन्द्र के केलिवन में प्रवेश किया ॥ १८ ॥
ऋतावृतावाकृतिमेक एके क्षणे क्षणे बिभ्रति यत्र वृक्षाः ।
चित्रां समस्तामपि केचिदन्ये षण्णामृतूनां श्रियमुद्वहन्ति ॥ १९ ॥
अन्वयः-यत्र एके-एके वृक्षाः क्षणे-क्षणे ऋतावृत्तौ आकृतिं बिभ्रति, अन्ये केचित्
षण्णाम् ऋतूनां समस्ताम् अपि चित्रां श्रियम् उद्वहन्ति ॥ १९ ॥
व्याख्या-यत्र = यस्मिन् लीलाकानने, एके-एके = प्रत्येकम्, वृक्षाः = तरवः, क्षणे-
क्षणे = प्रतिक्षणम्, ऋतावृत्तौ = वसन्तादिप्रतिऋतौ, आकृतिम् = स्वरूपसौन्दर्यम्,
बिभ्रति = धारयन्ति, अन्ये = अपरे, केचित् = कश्चित्, षण्णाम् = उक्तासङ्ख्यानाम्,
ऋतूनाम् = वसन्तादिपरिवर्त्तितकालानामू, समस्तामपि = सकलामपि, चित्राम् =
विचित्राम्, श्रियम् = कान्तिम्, उद्वहन्ति = धारयन्ति, तरुभिः ऋतूनां शोभाधारणे-
नातिशयोक्तिरलङ्कारोऽत्र ॥ १९ ॥
हिन्दी-इस केलिवन के प्रतिवृक्ष प्रतिक्षण प्रतिऋतु की बदलती रूपशोभा को
धारण करते हैं और अन्य पेड़ षड्ऋतुओं की सारी की सारी चित्र-विचित्र शोभा धारण
करते हैं ॥ १९ ॥
पुष्यन्ति केचित् सुरभीरुदारा मालाः स्रजश्च ग्रथिता विचित्राः ।
कर्णानुकूलानवतंसकांश्च प्रत्यर्थिभूतानिव कुण्डलानाम् ॥२०॥
अन्वयः-केचित् सुरभीः उदाराः मालाः विचित्राः ग्रथिताः स्रजश्च कुण्डलानां
प्रत्यर्थिभूतान् इव कर्णानुकूलान् अवतंसकांश्च पुष्यन्ति ॥ २० ॥
व्याख्या-केचित् = कियन्तस्तरवः, सुरभीः = सुगन्धिताः, उदाराः = बहुप्रदाः,
मालाः = हाराः, विचित्राः = विस्मापकाः, ग्रथिताः = गुम्फिताः, स्रजश्च = मालाश्च,
कुण्डलानाम् = वलयानाम्, प्रत्यर्थिभूतान् = प्रतिरूपजान्, इव = यथा, कर्णानुकूलान्-
कर्णयोः = श्रोत्रयोः, अनुकूलान् = उपकारकान्, अवतंसकांश्च = कर्णभूषणांश्च, पुष्यन्ति=
धारयन्ति । अत्रोत्प्रेक्षाऽलङ्कार इति ॥ २० ॥
हिन्दी-कितने ही वृक्ष सुगन्धित हैं, सुन्दर मालाएँ, रंग-बिरंगे गूँथे हार तथा
कुण्डलों की बराबरी करने वाले कानों के अनुकूल आभूषण धारण करते हैं ॥ २० ॥
रक्तानि फुल्लाः कमलानि यत्र
प्रदीपवृक्षा इव भान्ति वृक्षाः ।
प्रफुल्लनीलोत्पलरौहिणोऽन्ये
सोन्मीलिताक्षा इव भान्ति वृक्षाः ॥ २१ ॥
अन्वयः-यत्र रक्तानि कमलानि फुल्लाः वृक्षाः प्रदीपवृक्षाः इव भान्ति, अन्ये
प्रफुल्लनीलोत्पलरौहिणः वृक्षाः सोन्मीलिताक्षाः इव भान्ति ॥ २१ ॥
स्वर्गपवादः ] दशमः सर्गः १९९
व्याख्या—यत्र = यस्मिन् वने, रक्तानि = लोहितानि, कमलानि = पद्मानि, फुल्लाः =
विकसिताः, वृक्षाः = द्रुमानि, प्रदीपवृक्षाः = दीपद्रुमानि, इव = यथा, भान्ति = राजन्ते,
अन्ये = अपरे, प्रफुल्लनीलोत्पलरोहिणः—प्रफुल्लानि = विकसितानि, यानि
नीलोत्पलानि = कुवलयानि, तानि रोहन्ति = शोभन्ति येषु ते, वृक्षाः = तरवः,
सोन्मीलिताक्षाः—उन्मीलितानि = विस्फारितानि, अक्षीणि = नेत्राणि, तैः, सहिताः =
संयुक्ताः, इव = यथा, भान्ति = राजन्ते । सम्भावनायामुत्प्रेक्षाऽलङ्कारः ॥ २१ ॥
हिन्दी—जहाँ लाल-लाल विकसित कमलों के पौधे, प्रज्वलित दीप के पौधे की
तरह शोभित हो रहे हैं तथा विकसित नीलकमलों से युक्त पेड़ ऐसे शोभ रहे हैं,
मानो उनकी आँखें विस्फारित हुई है ॥ २१ ॥
नानाविरागाण्यथ पाण्डराणि सुवर्णभक्तिव्यवभासितानि ।
अतान्तवान्येकघनानि यत्र सूक्ष्माणि वासांसि फलन्ति वृक्षाः ॥ २२ ॥
अन्वयः—अथ यत्र वृक्षाः नानाविरागाणि पाण्डराणि सुवर्णभक्तिव्यवभासितानि
अतान्तवानि एकनानि सूक्ष्माणि वासांसि फलन्ति ॥ २२ ॥
व्याख्या—अथ = अन्यच्च, यत्र = यस्मिन् स्थाने, वृक्षाः = पादपाः, नानाविरा-
गाणि = अनेकवर्णानि, पाण्डराणि = सितपीतवर्णानि, सुवर्णभक्तिव्यवभासितानि—
सुवर्णानाम् = कनकानाम्, भक्तिभिः = रेखाभिः, व्यवभासितानि = भास्वराणि, अतन्त-
वानि = तन्तुशून्यानि, एकघनानि = अविरलानि, सूक्ष्माणि = तनूनि, वासांसि = वस्त्राणि,
फलन्ति = जायन्ते ॥ २२ ॥
हिन्दी—जहाँ के पेड़ अनेक रंगों वाले, श्वेतपीत वर्णवाले, सुनहली रेखाओं से
भास्वर, तन्तरहित, सघन एवं पतले वस्त्रों को उत्पन्न करते हैं ॥ २२ ॥
हारान् मणीनुत्तमकुण्डलानि केयूरवर्याण्यथ नूपुराणि ।
एवंविधान्याभरणानि यत्र स्वर्गानुरूपाणि फलन्ति वृक्षाः ॥ २३ ॥
अन्वयः—अथ यत्र वृक्षाः हारान् मणीन् उत्तमकुण्डलानि केयूरवर्याणि नूपुराणि
एवंविधानि स्वर्गानुरूपाणि अन्याभरणानि फलन्ति ॥ २३ ॥
व्याख्या—अथ = अपि च, यत्र = वने, वृक्षाः = पादपाः, हारान् = मालान्,
मणीन् = रत्नानि, उत्तमकुण्डलानि = उत्कृष्टश्रवणाभरणानि, केयूरवर्याणि = उत्तम-
वलयानि, नूपुराणि = चरणभूषणानि, एवंविधानि = एतादृग्रूपाणि, स्वर्गानुरूपाणि =
नाकोपयुक्तानि, अन्याभरणानि = अपरभूषणानि, फलन्ति = जायन्ते ॥ २३ ॥
हिन्दी—कितने ही वृक्ष हारों, मणियों, उत्तम कुण्डलों, उत्तम केयूरों, नूपुरों
और स्वर्ग के अनुरूप ऐसे ही आभूषणों के फल देते हैं ॥ २३ ॥
वैडूर्यनालानि च काञ्चनानि पद्मानि वज्राङ्कुरकेसराणि ।
स्पर्शक्षमाण्युत्तमगन्धवन्ति रोहन्ति निष्कम्पतला नलिन्यः ॥ २४ ॥
अन्वयः—च निष्कम्पतला नलिन्यः वैडूर्यनालानि वज्राङ्कुरकेसराणि स्पर्शक्षमाणि
[
२०० सौन्दरनन्दं महाकाव्यम्
व्याख्या—च = अपि च, निष्कम्पतलाः—निर्गतः = निष्क्रान्तः, कम्पः = वेपनम्,
यस्य सः निष्कम्पः, निष्कम्पानि = स्थिराणि, तलानि = मूलानि, यासां ताः, नलिन्यः =
पद्मिन्यः, वैदूर्यनालाानि = वैदूर्यमणिस्तम्भानि, वज्राङ्कुरकेसराणि—वज्रस्य = हीरकस्य,
अङ्कुराः = प्ररोहाः, केसराश्च = कुङ्कुमानिव, येषां तानि, स्पर्शक्षमाणि = स्पृश्यानि,
उत्तमगन्धवन्ति—उत्तमाः = श्रेष्ठाः, गन्धाः = सौरभाणि, सन्ति येषु तानि, काञ्चनानि
= कनकानि, पद्मानि = कमलानि, रोहन्ति = प्रादुर्भवन्ति ॥ २४ ॥
हिन्दी—और जहाँ शान्त सरोवर, वैदूर्यनालवाले, हीरे के अंकुर और केसर वाले
तथा स्पर्श करने योग्य उत्कृष्ट सुगन्धवाले, सोने के कमल उत्पन्न करते हैं ॥ २४ ॥
यत्रायतंाश्चैव ततांश्च तांस्तान् वाद्यस्य हेतून् सुषिरान् घनांश्च ।
फलन्ति वृक्षा मणिहेमचित्रा क्रीडासहायास्त्रिदशालयानाम् ॥२५॥
अन्वयः—यत्र त्रिदशालयानाम् क्रीडासहायाः मणिहेमचित्राः वृक्षाः वाद्यस्य तान्
तान् हेतून् आयतान् ततान् चैव सुषिरान् च घनान् च फलन्ति ॥ २५ ॥
व्याख्या—यत्र = वने, त्रिदशालयानाम्—तिसृणां दशानाम् आलयाः त्रिदशालया-
नाम् = सुराणाम्, क्रीडासहायाः = लीलासहयोगिनः, मणिहेमचित्राः—मणिभिः = रत्नैः,
हेमैः = कनकैश्च, चित्राः = विचित्राः, मणिहेमचित्राः = कनकमणिखचिताः, वृक्षाः =
पादपाः, वाद्यस्य = वीणादियन्त्रस्य, तान्-तान् = अनेकान्, हेतून् = उपकरणान्, आय-
तान् = विस्तृतान्, ततान् = तन्त्रीयुक्तान् वीणादीन्, च = पुनः, एव, सुषिरान् = वंशी-
प्रभृतितूर्यदीन्, च = पुनः, घनान् च = कांस्यनिर्मितवाद्यविशेषांश्च, फलन्ति =
उत्पादयन्ति ॥ २५ ॥
हिन्दी—जहाँ देवताओं की लीला में सहायक मणिकांचन रेखाङ्कित पेड़ वाद्य
उपकरणादि, वीणा, बांसुरी, झांझ, मंजीरे आदि फल के रूप में देते हैं ॥ २५ ॥
मन्दारवृक्षांश्च कुशेशयांश्च पुष्पानतान् कोकनदांश्च वृक्षान् ।
आक्रम्य माहात्म्यगुणैर्विराजन् राजायते यत्र स पारिजातः ॥ २६ ॥
अन्वयः—यत्र मन्दारवृक्षान् च कुशेशयान् च पुष्पानतान् च कोकनदान् वृक्षान् च
माहात्म्यगुणैः आक्रम्य विराजन् सः पारिजातः राजायते ॥ २६ ॥
व्याख्या—यत्र = वने, मन्दारवृक्षान् = स्वर्गवृक्षविशेषान्, च = पुनः, कुशेशयान् =
सरसिजानि, च = पुनः, पुष्पानतान् = कुसुमावनतान्, कोकनदान् = नीलकमलानि,
वृक्षान् = पुमान्, माहात्म्यगुणैः = उत्तमगुणयुक्तैः, आक्रम्य = विजित्य, विराजन् =
शोभमानः, सः = तत्र स्थितः, पारिजातः = कल्पतरुः, राजायते—राजानमिवाचरति
राजायते = नृपवत् शोभते । अस्मिन् श्लोके लुप्तोपमाऽलङ्कारः ॥ २६ ॥
हिन्दी—और जहाँ मन्दार के पेड़ और कमल के फूलों से लदे नीलकमल के पेड़ों
को अपने माहात्म्य और गुणों से जीत कर वह पारिजात राजा की तरह विराजित है।
कृष्टे तपःशीलहलैरुस्रैस्त्रिविष्टपक्षेत्रतले प्रसूताः ।
एवंविधा यत्र सदानुवृत्ता दिवौकसां भोगविधानवृक्षाः ॥ २७ ॥
स्वर्गापवादः ] दशमः सर्गः २०१
अन्वयः—यत्र अखिन्नैः तपःशीलहलैः कृष्टे त्रिविष्टपक्षेत्रतले एवंविधाः प्रसूताः
दिवौकसां भोगविधानवृक्षाः सदानुवृत्ताः ॥ २७ ॥
व्याख्या -- यत्र = लीलावने, अखिन्नैः = अश्रान्तैः, तपःशीलहलैः = तपःशीलरूप-
हलैः, कृष्टे = कर्षिते, त्रिविष्टपक्षेत्रतले — त्रिविष्टपक्षेत्रस्य = स्वर्गीयक्षेत्रस्य, तले =
मूले, एवंविधाः = एतादृशाः, प्रसूताः = समुत्पन्नाः, दिवौकसाम् = सुराणाम्, भोग-
विधानवृक्षाः—भोगस्य = उपभोगस्य, विधानम् = सम्पादनम्, तस्य वृक्षाः = द्रुमाः,
सदानुवृत्ताः = सदानुकूलाः सन्ति । 'तपःशीलहलै'रित्यत्र रूपकालङ्कारः ॥ २७ ॥
हिन्दी-जहाँ कभी न थकने वाले तप और शील के हलों से जोती हुई देवताओं
की धरती पर ऐसे पेड़ पैदा होते हैं, जो देवताओं के भोग का विधान करते हैं और
सदैव उनके अनुकूल बने रहते हैं ॥ २७ ॥
मनःशिलाभैर्वदनैर्विहङ्गा यत्राक्षिभिः स्फाटिकसन्निभैश्च ।
शावैश्च पक्षैरभिलोहितान्तैर्माञ्जिष्ठकैरर्धसितैश्च पादैः ॥ २८ ॥
अन्वयः—यत्र विहङ्गाः मनःशिलाभैः वदनैः स्फाटिकसन्निभैश्च अक्षिभिः अभि-
लोहितान्तैः शावैश्च पक्षैः माञ्जिष्ठकैः अर्धसितैश्च पादैः ॥ २८ ॥
व्याख्या-यत्र = वने, विहङ्गाः = खगाः, मनःशिलाभैः = कल्याणिकातुल्यैः,
वदनैः = आननैः, स्फाटिकसन्निभैश्च = स्फटिकमणितुल्यैः, अक्षिभिः = चक्षुभिः, अभि-
लोहितान्तैः = आरक्तान्तैः, शावैश्च = पीताभैश्च, पक्षैः = पतत्रैः, माञ्जिष्ठकैः =
माञ्जिष्ठवर्णैः, अर्धसितैश्च = अर्धश्वेतैः, पादैः = चरणैः, भ्रमन्ति ॥ २८ ॥
हिन्दी-जहाँ मैनसिल की तरह लाल मुखवाले, स्फटिकमणि की तरह चमकीली
आँखों वाले, लाल एवं पीले पंखोंवाले, मजीठ के रंगवाले आधे सफेद पाँव वाले पक्षी
घूमते रहते हैं ॥ २८ ॥
चित्रैः सुवर्णच्छदनैस्तथान्ये वैडूर्यनीलैर्नयनैः प्रसन्नैः ।
विहङ्गमाः शिञ्जरिकाभिधाना रुतैर्मनःश्रोत्रहरैर्भ्रमन्ति ॥ २९ ॥
अन्वयः—तथा शिञ्जरिकाभिधानाः अन्ये विहङ्गमाः चित्रैः सुवर्णच्छदनैः प्रसन्नैः
वैडूर्यनीलैः नयनैः मनःश्रोत्रहरैः रुतैः भ्रमन्ति ॥ २९ ॥
व्याख्या-तथा = तेन प्रकारेण, शिञ्जरिकाभिधानाः = शिञ्जरिकानामधेयाः,
अन्ये = अपरे, विहङ्गमाः = खगाः, चित्रैः = विचित्रैः, सुवर्णच्छदनैः-सुवर्णस्य =
काञ्चनस्य, छदनानि = पतत्राणि, येषां तैः, प्रसन्नैः = स्वच्छैः, वैडूर्यनीलैः-वैडूर्यमणि
इव नीलैः = नीलवर्णैः, नयनैः = नेत्रैः, मनःश्रोत्रहरैः-मनः = चित्तम्, श्रोत्रञ्च =
कर्णञ्च, हरन्तीति तैः, भ्रमन्ति = विचरन्ति । लुप्तोपमालङ्कारः ॥ २९ ॥
हिन्दी-उसी तरह रंग-बिरंगे सुनहले पंखवाले, लहसुनियां की तरह नीली एवं
स्वच्छ आँखों वाले, मन तथा कानों को आकृष्ट करने वाले शब्दों से युक्त अन्य
शिञ्जरिका नाम पक्षी विचरण कर रहे हैं ॥ २९ ॥
२०२ सौन्दरनन्दं महाकाव्यम्
रक्ताभिरग्रेषु च वल्लरीभिर्मध्येषु चामीकरपिञ्जराभिः ।
वैडूर्यवर्णाभिरुपान्तमध्येष्वलङ्कृता यत्र खगाश्चरन्ति ॥ ३० ॥
अन्वयः-यत्र च अग्रेषु रक्ताभिः वल्लरीभिः मध्येषु चामीकरपिञ्जराभिः उपान्त-
मध्येषु च वैडूर्यवर्णाभिः अलङ्कृताः खगाः चरन्ति ॥ ३० ॥
व्याख्या-यत्र = यस्मिन् स्थाने, च = पुनः, अग्रेषु = समीपेषु, रक्ताभिः = लोहि-
ताभिः, वल्लरीभिः = लताभिः, मध्येषु = मध्यभागेषु, चामीकरपिञ्जराभिः = कनक-
पीताभैः, उपान्तमध्येषु = प्रान्तमध्येषु, च, वैडूर्यवर्णाभिः = वैडूर्योपलैः, अलङ्कृताः =
सुशोभिताः, खगाः = पक्षिणः, चरन्ति = भ्रमन्ति ॥ ३० ॥
हिन्दी-यहाँ पक्षियों के पंखों का अगला हिस्सा लाल, बीचवाला भाग सुनहला
तथा अन्तिम भाग लहसुनियाँ रंग के होते हैं। ऐसे सुन्दर पखेरू वहाँ घूमते
रहते हैं ॥ ३० ॥
रोचिष्णवो नाम पतत्रिणोऽन्ये दीप्ताग्निवर्णा ज्वलितैरिवास्यैः ।
भ्रमन्ति दृष्टीर्वपुषाक्षिपन्तः स्वनैः शुभैरप्सरसो हरन्तः ॥ ३१ ॥
अन्वयः-ज्वलितैः इव आस्यैः दीप्ताग्निवर्णाः रोचिष्णवः नाम अन्ये पतत्रिणः
वपुषा दृष्टीः आक्षिपन्तः शुभैः स्वनैः अप्सरसः हरन्तः भ्रमन्ति ॥ ३१ ॥
व्याख्या-ज्वलितैः = प्रदीप्तैः, इव = यथा, आस्यैः = मुखैः, दीप्ताग्निवर्णाः-
दीप्तस्य = प्रज्वलितस्य, अग्नेः = वह्नेः, इव = यथा, वर्णः = स्वरूपम्, येषां ते, रोचिष्णवः =
रोचिष्णुनामकपक्षिणः, अन्ये = अपरे, पतत्रिणः-पतनात् त्रायते इति पतत्रम्, तदस्ति
अस्येति पतत्रिणः = पक्षिणः, वपुषा = शरीरेण, दृष्टीः = दृक्शक्तयः, आक्षिपन्तः =
आकर्षणं कुर्वन्तः, शुभैः = कल्याणकरैः, स्वनैः = रवैः, अप्सरसः = स्वरवेश्यायाः,
हरन्तः = अपहरन्तः, भ्रमन्ति = चरन्ति ॥ ३१ ॥
हिन्दी-जलती हुई आग की तरह रोचिष्णु नामक दूसरे पक्षी, जिनके मुँह मानो
जल रहा हो, ऐसे लाल-लाल अपनी देव-दृष्टि को आकर्षित करते हुए शुभ वचनों से
अप्सराओं के मन को अपनी ओर आकृष्ट करते हुए घूम रहे हैं ॥ ३१ ॥
यत्रेष्टचेष्टाः सततप्रहृष्टा निरर्तयो निर्जरसो विशोकाः ।
स्वैः कर्मभिर्हीनविशिष्टमध्याः स्वयम्प्रभाः पुण्यकृतो रमन्ते ॥ ३२ ॥
अन्वयः-यत्र इष्टचेष्टाः सततप्रहृष्टाः निरर्तयः निर्जरसः विशोकाः स्वैः कर्मभिः
हीनविशिष्टमध्याः स्वयम्प्रभाः पुण्यकृतः रमन्ते ॥ ३२ ॥
व्याख्या-यत्र = यस्मि न्स्थाने, इष्टचेष्टाः = अभीप्सितप्रयत्नः, सततप्रहृष्टाः-
सततम् = अनवरतम्, प्रहृष्टाः = प्रसन्नाः, निरर्तयः-निर्गताः = निर्याताः, अर्तयः =
रोगाः, येषां ते, निर्जरसः = जराहीनाः, विशोकाः-विगतः = निर्गतः शोकः = सन्तापः,
येषां ते, स्वयम्प्रभाः = स्वकीयप्रभाभासिताः, पुण्यकृतः = पुण्यवन्तः, रमन्ते = रमणं
कुर्वन्ति ॥ ३२ ॥
स्वर्गापवादः ] दशमः सर्गः २०३
हिन्दी—यहाँ इच्छानुसार काम करने वाले, सदा खुश रहने वाले, रोग, शोक
और बुढ़ौती से रहित, अपने ही कर्मों से उत्तम, मध्यम और हीन होने वाले तथा
अपनी ही प्रभा से प्रोद्भासित होनेवाले पुण्यवान् व्यक्ति रमण करते हैं ॥ ३२ ॥
पूर्वं तपोमूल्यपरिग्रहेण स्वर्गक्रयार्थं कृतनिश्चयानाम् ।
मनांसि खिन्नानि तपोधनानां हरन्ति यत्राप्सरसो लडन्त्यः ॥ ३३ ॥
अन्वयः—यत्र पूर्वं तपोमूल्यपरिग्रहेण स्वर्गक्रयार्थं कृतनिश्चयानां तपोधनानां
खिन्नानि मनांसि लडन्त्यः अप्सरसः हरन्ति ॥ ३३ ॥
व्याख्या—यत्र = केलिकानने, पूर्वम् = प्रथमम्, तपोमूल्यपरिग्रहेण—तपः = परि-
व्रज्या, एव मूल्यम् = पण्यः, तस्य परिग्रहः = आदानस्तेन, स्वर्गक्रयार्थम् = देवलोकग्रह-
णार्थम्, कृतनिश्चयानाम् = कृतः = विहितः, निश्चयः = निर्णयः, येन सः तेषाम्, तपो-
धनानाम् = तपोनिधीनाम्, खिन्नानि = क्लेशितानि, मनांसि = चेतांसि, लडन्त्यः =
विलांसवत्यः, अप्सरसः = देवाङ्गनाः, हरन्ति = रमयन्ति ॥ ३३ ॥
हिन्दी—जिन्होंने तपरूपी कीमत चुकाकर स्वर्ग खरीदने का निश्चय किया था,
उन तपस्वियों के दुःखी मन को ये अप्सराएँ अपनी क्रीड़ा द्वारा प्रसन्न करती हैं ॥३३॥
नित्योत्सवं तं च निशाम्य लोकं निस्तन्द्रिनिद्रारतिशोकरोगम् ।
नन्दो जरामृत्युवशं सदार्तं मेने श्मशानप्रतिमं नृलोकम् ॥ ३४ ॥
अन्वयः—नन्दः नित्योत्सवं निस्तन्द्रिनिद्रारतिशोकरोगं च तं लोकं निशाम्य
जरामृत्युवशं सदार्तं नृलोकं श्मशानप्रतिमं मेने ॥ ३४ ॥
व्याख्या—नन्दः = गौतमानुजः, नित्योत्सवम् = सततं पर्व, निस्तन्द्रिनिद्रारति-
शोकरोगम्—निर्गता = निःसृता, तन्द्रा = श्यालुता, निद्रा = सुप्तिः, अरतिः = अप्रीतिः,
शोकः = आर्त्तिः, रोगः = व्याधिश्च, यस्मात् सः तम्, च = पुनः, तम् = देवलोकम्,
लोकम् = भुवनम्, निशाम्य = अवलोक्य, जरामृत्युवशम् = वार्द्धक्य-मरणाधीनम्, सदा-
र्तम् = सर्वदा पीडितम्, नृलोकम् = नृणाम् = नराणाम्, लोकः = प्रदेशः, तम्, श्मशान-
प्रतिमम् = श्मशानस्थ = पितृवनस्य, प्रतिमम् = सदृशम्, मेने = अमन्यतेति । अत्र
श्लोकेऽपि उपमालङ्कारः ॥ ३४ ॥
हिन्दी—उस शान्त लोक को, नित्य महोत्सवयुक्त, थकान, निद्रा, अप्रीति, रोग
और शोक रहित जानकर राजानन्द ने बुढ़ौती और मौत के अधीन सदा दुःखी
मनुष्यलोक को श्मशान की तरह माना ॥ ३४ ॥
ऐन्द्रं वनं तच्च ददर्श नन्दः समन्ततो विस्मयफुल्लदृष्टिः ।
हर्षान्विताश्चाप्सरसः परीयुः सगर्वमन्योन्यमवेक्षमाणाः ॥ ३५ ॥
अन्वयः—विस्मयफुल्लदृष्टिः नन्दः तत् च ऐन्द्रं वनं समन्ततः ददर्श हर्षान्विताश्च
अप्सरसः सगर्वम् अन्योन्यम् अवेक्षमाणाः परीयुः ॥ ३५ ॥
२०४ सौन्दरनन्दं महाकाव्यम्
व्याख्या—विस्मयफुल्लदृष्टिः—विस्मयेन = आश्चर्येण, फुल्लाः = विकसिताः,
दृष्टिः = लोचनम्, यस्य सः, नन्दः = गौतमानुजः, तत = पूर्वोक्तम्, च = पुनः, ऐन्द्रम्—
इन्द्रस्य इदम् ऐन्द्रम् = शचीपतिसम्बन्धि, वनम् = अरण्यम् समन्ततः = परितः,
ददर्श = अपश्यत्, हर्षान्विताश्च = आनन्दिताश्च, अप्सरसः = देवाङ्गनाश्च, सगर्वम्—
गर्वेण = दर्पेण, सह = युक्तः, अन्योन्यम् = परस्परम्, अवेक्षमाणा = अवलोकयन्तः,
परीयुः = सर्वतः आययुः ॥ ३५ ॥
हिन्दी—विस्मय-विस्फारित आँखों से नन्द ने इन्द्रवन को हर ओर से देखा
और देवाङ्गनाएँ खुश होकर गर्व युक्त होकर एक-दूसरे को देखते हुए उसके चारो ओर
आ गयीं ॥ ३५ ॥
सदा युवतयो मदनैककार्याः साधारणाः पुण्यकृतां विहाराः ।
दिव्याश्च निर्दोषपरिग्रहाश्च तपःफलस्याश्रयणं सुराणाम् ॥ ३६ ॥
अन्वयः—सदा युवतयः मदनैककार्याः साधारणाः पुण्यकृतां विहाराः दिव्याः
निर्दोषपरिग्रहाश्च सुराणां तपःफलस्य आश्रयणं चेति ॥ ३६ ॥
व्याख्या—सदा = अनवरतम्, युवतयः = तरुण्यः, मदनैककार्याः—मदन एव =
कामक्रीडा एव, यस्याः एकमात्रम् = केवलम्, कार्यम् = कृत्यम्, अस्ति ताः, साधारणाः =
सामान्याः, पुण्यकृताम् = सुकृतभाजाम्, विहाराः = उपभोग्याः, दिव्याः = स्वर्गीयाः,
निर्दोषपरिग्रहाश्च—निर्दोषः = दोषरहितः, परिग्रहः = अङ्गीकारः, यासां ताः, सुराणाम्
= अमराणाम्, तपःफलस्य—तपसः = वैराग्यस्य, फलस्य = परिणामस्य, आश्रयणम्
= निधानञ्च सन्तीति भावः ॥ ३६ ॥
हिन्दी—वे सदा तरुणी ही रहती हैं, काम-क्रीड़ा ही उनका एक मात्र काम है,
सामान्यतः वे पुण्यकर्मियों के लिए उपभोग्य हैं, वे अलौकिक हैं, उन्हें स्वीकार करने
में कोई दोष नहीं है, तपस्या के फलस्वरूप देवता उन्हें प्राप्त करते हैं ॥ ३६ ॥
तासां जगुर्धीरमुदात्तमन्याः पद्मानि काश्चिल्ललितं बभञ्जुः ।
अन्योन्यहर्षान्निनृतुस्तथान्याश्चित्राङ्गहाराः स्तनभिन्नहाराः ॥ ३७ ॥
अन्वयः—तासां काश्चित् ललितं पद्मानि बभञ्जुः, अन्याः धीरम् उदात्तं जगुः,
तथा अन्याः चित्राङ्गहाराः स्तनभिन्नहाराः अन्योन्यहर्षात् ननृतुः ॥ ३७ ॥
व्याख्या—तासाम् = पूर्वोक्तानां देवाङ्गनानाम्, काश्चित् = काऽप्यप्सरसः, ललितम्
= मनोहरम्, पद्मानि = सरसिजानि, बभञ्जुः = अचिन्नवन्, अन्याः = अपराः, धीरम् =
गभीरम्, उदात्तम् = उदात्तस्वरयुक्तम्, जगुः = गीतमगायन्, तथा = तेनैव प्रकारेण,
अन्याः = काश्चिदप्सरसः, चित्राङ्गहाराः = चित्रविचित्रहावभावयुक्ताः, स्तनभिन्नहाराः—
स्तनाभ्याम् = कठोरकुचाभ्यां, घर्षणेन भिन्नाः = भग्नाः, हाराः = मालाः, यासां
ताः, अन्योन्यहर्षात् = पारस्परिकप्रमोदात्, ननृतुः = अनृत्यन् । अत्र स्तनकाठिन्यध्व-
नेनालङ्कारः ध्वनिरस्ति ॥ ३७ ॥
स्वर्गपवादः ] दशमः सर्गः २०५
हिन्दी-उन अप्सराओं में किसी ने सुन्दर कमल के फूलों को तोड़ा, कुछ ने
धीरज के साथ उदात्तस्वरों में गीत गाया, कुछ ने प्रसन्न होकर मिल-जुलकर नृत्य
किया, नाचने में कुछ के हार उनके कठोर स्तन के संघर्ष से टूटकर बिखर गये ॥३७॥
कासाञ्चिदासां वदनानि रेजुर्वनान्तरेभ्यश्चलकुण्डलानि ।
व्याविद्धपर्णेभ्य इवाकरेभ्यः पद्मानि कारण्डवघट्टितानि ॥ ३८ ॥
अन्वयः—आसां कासाञ्चित् चलकुण्डलानि वदनानि वनान्तरेभ्यः व्याविद्धपर्णेभ्यः
आकरेभ्यः कारण्डवघट्टितानि पद्मानि इव रेजुः ॥ ३८ ॥
व्याख्या-आसाम् = एतासाम्, कासाञ्चित् = अप्सरसाम्, चलकुण्डलानि =
प्रकम्पच्छ्रवणाभरणानि, वदनानि = मुखानि, वनान्तरेभ्यः - वनस्य = काननस्य, अन्त-
रेभ्यः = मध्येभ्यः, व्याविद्धपर्णेभ्यः - व्याविद्धानि = विकीर्णानि, पर्णानि = पत्राणि,
येषां तेभ्यः, आकरेभ्यः = तडागेभ्यः, कारण्डवघट्टितानि - कारण्डवैः - ईषत् रण्डः
कारण्डः, तं वातीति कारण्डवः = हंसजातीयपक्षिविशेषः वरटस्तैः, घट्टितानि = प्रकम्पि-
तानि, पद्मानि = कमलानि, इव = यथा, रेजुः = शुशुभिरे । अत्रोत्प्रेक्षाऽलङ्कारः ॥३८॥
हिन्दी-उनमें से कई अप्सराओं के कुण्डलवाले मुँह वन के बीच ऐसे झांक
रहे थे, जैसे बिखरे पत्तों वाले सरोवर में कलहंसों द्वारा हिलाये गये कमल शोभित हो
रहे हों ॥ ३८ ॥
ताः निःसृताः प्रेक्ष्य वनान्तरेभ्यस्तडित्पताका इव तोयदेभ्यः ।
नन्दस्य रागेण तनुर्विवेपे जले चले चन्द्रमसः प्रभेव ॥ ३९ ॥
अन्वयः—तोयदेभ्यः तडित्पताका इव वनान्तरेभ्यः ताः निःसृताः प्रेक्ष्य रागेण
नन्दस्य तनुः चले जले चन्द्रमसः प्रभा इव विवेपे ॥ ३९ ॥
व्याख्या - तोयदेभ्यः = नीरदेभ्यः, तडित्पताकाः = विद्युद्वैजयन्ती, इव = यथा,
वनान्तरेभ्यः = काननान्तरेभ्यः, ताः = देवाङ्गनाः, निःसृताः = निर्गताः, प्रेक्ष्य = दृष्ट्वा,
रागेण = अनुरागेण, नन्दस्य = नृपस्य, तनुः = देहम्, चले = आन्दोलिते, जले = सलिले,
चन्द्रमसः = निशाकरस्य, प्रभा = विभा, इव = यथा, विवेपे = चकम्पे । अत्रोपमा-
लङ्कारः ॥ ३९ ॥
हिन्दी-बादलों से निकलनेवाली विद्युत्पताका की तरह वनों के भीतर से निक-
लती हुई उन अप्सराओं को देखकर आसक्तिवश नन्द की देह उसी तरह कांपने लगी,
जैसे चंचल पानी में चाँद की परछाई कांपती है ॥ ३९ ॥
वपुश्च दिव्यं ललिताश्च चेष्टास्ततः स तासां मनसा जहार ।
कौतूहलावजितया च दृष्ट्या संश्लेषतर्ष्यादिव जातरागः ॥ ४० ॥
अन्वयः-ततः सः तासां दिव्यं वपुः ललिताः चेष्टाः च कौतूहलावजितया
दृष्ट्या मनसा च संश्लेषतर्ष्याद् इव जातरागः जहार ॥ ४० ॥
सौ०-17
२०६ सौन्दरनन्दं महाकाव्यम्
व्याख्या—ततः = तत्पश्चात्, सः = असौ, तासाम् = दिव्याङ्गनाम्, दिव्यम् =
अपार्थिवम्, वपुः = स्वरूपम्, ललिताः = मनोहारिणीः, चेष्टाश्च = कायिकव्यापाराश्च,
कौतूहलावजितया = आश्चर्यपूर्णया, दृष्ट्या = चक्षुषा, मनसा = चेतसा, च = पुनः,
संश्लेषतर्षात् = संश्लेषस्य = आलिङ्गनस्य, तर्षः = अभिलाषः, तस्मात्, इव = यथा,
जातरागः = समुत्पन्नासक्तिः, जहार = अपहृतः ॥ ४० ॥
हिन्दी—इसके बाद वह अपने मन और आश्चर्यचकित दृष्टि से उन अप्सराओं
के अलौकिक रूप और आकर्षक चेष्टाओं का अनुसरण करने लगा, मानो उनके
आलिङ्गन की इच्छा से प्रीतियुक्त हो गया हो ॥ ४० ॥
स जाततर्षोऽप्सरसः पिपासुस्तत्प्राप्तयेऽधिष्ठितविकलवार्तः।
लोलेन्द्रियाश्वेन मनोरथेन जेह्रीयमाणो न धृतिं चकार ॥ ४१ ॥
अन्वयः—जाततर्षः अप्सरसः पिपासुः तत्प्राप्तये अधिष्ठितविकलवार्तः सः लोलेन्द्रि-
याश्वेन मनोरथेन जेह्रीयमाणः धृतिं न चकार ॥ ४१ ॥
व्याख्या—जाततर्षः—जातः = समुत्पन्नः, तर्षः = तृष्णा, यस्य सः, अप्सरसः =
स्वर्गवेश्याः, तत्प्राप्तये = तदुपलब्धये, अधिष्ठितविकलवार्तः—अधिष्ठितः = अवेक्षितः,
विक्लवः = त्रस्तः, तेन आर्त्तः = पीडितः, सः = नन्दः, लोलेन्द्रियाश्वेन—लोलाः =
चपलाः, इन्द्रियाः = करणानि, त एव अश्वाः = घोटकाः, यस्य तेन, मनोरथेन =
अभिलषितेन, जेह्रीयमाणः = अपहृतः सन्, धृतिम् = धैर्यम्, न = नहि, चकार =
कृतवान् । अस्मिन् श्लोके 'लोलिन्द्रियाश्वेन' इत्यत्र रूपकालङ्कारः ॥ ४१ ॥
हिन्दी—चाह उत्पन्न हो जाने पर अप्सराओं को भोगने की इच्छावाला वह नन्द
उन्हें पाने के लिए व्याकुल होकर अतिपीड़ित हुआ। चंचल इन्द्रियरूपी घोड़ेवाले
मनोरथ से अपहृत होकर उसने धीरज खो दिया ॥ ४१ ॥
यथा मनुष्यो मलिनं हि वासः क्षारेण भूयो मलिनीकरोति ।
मलक्षयार्थं न मलोद्भवार्थं रजस्तथास्मै मुनिराचकर्ष ॥ ४२ ॥
अन्वयः—यथा मनुष्यः मलिनं हि वासः मलक्षयार्थं न मलोद्भवार्थं क्षारेण भूयः
मलिनीकरोति तथा मुनिः अस्मै रजः आचकर्ष ॥ ४२ ॥
व्याख्या—यथा = येन प्रकारेण, मनुष्यः = मानवः, मलिनम् = आविलम्, हि =
इति निश्चयेन, वासः = वस्त्रम्, मलक्षयार्थम् = निर्मलार्थम्, न = नहि, मलोद्भवार्थम् =
मलोत्पादनार्थम्, क्षारेण = भस्मादिना, भूयः = पुनः, मलिनीकरोति = आविलं
करोतीति, तथा = तेनैव प्रकारेण, मुनिः = बुद्धः, अस्मै = नृपाय, रजः = धूलिम्,
आचकर्ष आकृष्टवान् । अस्मिन् श्लोके दृष्टान्तालङ्कारोऽस्ति ॥ ४२ ॥
हिन्दी—जैसे मनुष्य मैल धोने के लिए; न कि मैला करने के लिए, मैले कपड़े
को राख में लपेटकर और मैला कर देता है, उसी तरह भगवान् बुद्ध ने नन्द का
अनुराग नष्ट करने के लिए उसमें और अनुराग उत्पन्न कर दिया ॥ ४२ ॥
स्वर्गापवादः ] दशमः सर्गः २०७
दोषांश्च कायाद्भिषगुज्जिहीर्षुर्भूयो यथा क्लेशयितुं यतेत ।
रागं तथा तस्य मुनिर्जिघांसुर्भूयस्तरं रागमुपानिनाय ॥ ४३ ॥
अन्वयः—यथा च कायाद् दोषान् उज्जिहीर्षुः भिषग् भूयः क्लेशयितुं यतेत, तथा
रागं जिघांसुः मुनिः भूयस्तरं रागम् उपानिनाय ॥ ४३ ॥
व्याख्या—यथा=येन प्रकारेण, च=पुनः, कायात्=देहात्, दोषान्=दुर्गुणान्,
उज्जिहीर्षुः=अपहर्तुमिच्छुः, भिषग्=चिकित्सकः, भूयः=अत्यधिकम्, क्लेशयितुम्
=पीडयितुम्, यतेत=प्रयत्नं करोति, तथा=तेनैव रूपेण, तस्य=बुद्धानुजस्य, रागम्
आसक्तिम्, जिघांसुः=हन्तुमिच्छुः, मुनिः=गौतमबुद्धः, भूयस्तरम्=अधिकतरम्,
रागम्=आसक्तिम्, उपानिनाय=उपानयत् । अत्रापि दृष्टान्तालङ्कारः ॥ ४३ ॥
हिन्दी—जैसे देह से रोग को दूर करने के लिए चिकित्सक पहले रोग को और
बढा देता है, उसी तरह नन्द के रोग को नष्ट करने की इच्छा से मुनि ने उसके राग
को बढ़ा दिया ॥ ४३ ॥
दीपप्रभां हन्ति यथान्धकारे सहस्ररश्मेरुदितस्य दीप्तिः ।
मनुष्यलोके द्युतिमङ्गनानामन्तर्दधात्यप्सरसां तथा श्रीः ॥ ४४ ॥
अन्वयः—यथा अन्धकारे दीपप्रभाम् उदितस्य सहस्ररश्मेः दीप्तिः हन्ति, तथा
मनुष्यलोके अङ्गनानां द्युतिम् अप्सरसां श्रीः अन्तर्दधाति ॥ ४४ ॥
व्याख्या—यथा=येन प्रकारेण, अन्धकारे=तमसि, दीपप्रभाम्=दीपकज्योतिः,
उदितस्य=उद्गतस्य, सहस्ररश्मेः=दिवाकरस्य, दीप्तिः=कान्तिः, हन्ति=विनश्यति,
तथा=तेनैव रूपेण, मनुष्यलोके=नरलोके, अङ्गनानाम्=नारीणाम्, द्युतिम्=प्रभाम्,
अन्तर्दधाति=तिरोभवति । अत्रापि दृष्टान्ताऽलङ्कारः ॥ ४४ ॥
हिन्दी—जैसे अन्धेरे में दीपक का प्रकाश सूर्य के प्रकाश में छिप जाता है, उसी
तरह नरलोक में स्त्रियों की कान्ति इन अप्सराओं की कान्ति में छिप जाती है ॥४४॥
महच्च रूपं स्वणु हन्ति रूपं शब्दो महान् हन्ति च शब्दमल्पम् ।
गुर्वीरूजा हन्ति रुजां च मृद्धीं सर्वो महान् हेतुरणोर्वधाय ॥४५॥
अन्वयः—महत् च रूपं स्वणु रूपं हन्ति, महान् शब्दः अल्पं शब्दं च हन्ति, गुर्वी
रुजा मृद्धीं रुजां च हन्ति, सर्वः महान् अणोः वधाय हेतुः भवति ॥ ४५ ॥
व्याख्या—महत्=सुष्ठु, च=पुनः, रूपम्=स्वरूपम्, स्वणु=अल्पम्, रूपम्
=सौन्दर्यम्, हन्ति=विनश्यति, महान्=विस्तीर्णः, शब्दः=स्वनः, अल्पम्=अति-
तुच्छम्, शब्दम्=स्वनम्, हन्ति=नश्यति, गुर्वी रुजा=गम्भीररोगः, मृद्धीं रुजाम्=
अल्पं रोगम्, च हन्ति=नाशयति, सर्वः=सम्पूर्णः, महान्=दीर्घः, अणोः=लघोः,
वधाय=हननाय, हेतुः=कारणं भवत्येव ॥ ४५ ॥
हिन्दी—जैसे बड़ा रूप छोटे रूप को छिपा देता है, बड़ा शब्द छोटी आवाज को
दबा देता है, बड़ा रोग छोटे रोग को छिपा देता है और बड़ी वस्तुएं सभी छोटी
वस्तुओं के विनाश का कारण है ॥ ४५ ॥
२०८ सौन्दरनन्दं महाकाव्यम्
मुनेः प्रभावाच्च शशाक नन्दस्तद्दर्शनं सोढुमसह्यमन्यैः ।
अवीतरागस्य हि दुर्बलस्य मनो दहेदप्सरसां वपुःश्रीः ॥ ४६ ॥
अन्वयः—मुनेः प्रभावात् च नन्दः अन्यैः सोढुम् असह्यं तद्दर्शनं शशाक, हि अवीत-
रागस्य दुर्बलस्य मनः अप्सरसां वपुःश्रीः दहेत् ॥ ४६ ॥
व्याख्या—मुनेः = तथागतस्य, प्रभावात् = माहात्म्यात्, च = पुनः, नन्दः = नृपः,
अन्यैः = अपरैः, सोढुम् = सहनं कर्तुम्, असह्यम् = असहनीयम्, तद्दर्शनम् = देवाङ्गना-
नामवलोकनम्, शशाक = समर्थोऽभवत्, हि = यतः, अवीतरागस्य — न वीतः = व्यतीतः,
रागः = आसक्तिर्यस्य सः, दुर्बलस्य = निर्बलस्य, मनः = चेतः, अप्सरसाम् = देवाङ्गना-
नाम्, वपुःश्रीः — वपुषः = शरीरस्य, श्रीः = कान्तिः, दहेत् = प्रज्वालयेत् ॥ ४६ ॥
हिन्दी—मुनि के प्रभाव से नन्द ने उनके दर्शन किए, जिनके दर्शन दूसरे नहीं
कर सकते, क्योंकि जिनके राग नष्ट नहीं हुए हैं उन दुर्बलों का मन उन अप्सराओं के
देह सौन्दर्य से जल जाते हैं ॥ ४६ ॥
मत्वा ततो नन्दमुदीर्णरागं भार्यानुरोधादपवृत्तरागम् ।
रागेण रागं प्रतिहन्तुकामो मुनिर्विरागो गिरमित्युवाच ॥ ४७ ॥
अन्वयः—ततः नन्दम् उदीर्णरागं भार्यानुरोधात् अपवृत्तरागं मत्वा रागेण रागं
प्रतिहन्तुकामः विरागः मुनिः इति गिरम् उवाच ॥ ४७ ॥
व्याख्या—ततः = तदनन्तरम्, नन्दम् = बुद्धानुजम्, उदीर्णरागम् — उदीर्णः = प्रवृद्धः,
रागः = आसक्तिः, यस्य सः तम्, भार्यानुरोधात् = स्त्रीनिर्बन्धात्, अपवृत्तरागम् —
अपवृत्तः = निवृत्तः, रागः = आसक्तिः, यस्य सः तम्, मत्वा = ज्ञात्वा, रागेण = आसक्त्या,
रागम् = आसक्तिम्, प्रतिहन्तुकामः — प्रतिहन्तुम् = विनष्टं कर्तुम्, कामयते = अभिलषते,
विरागः — विगतः = विनष्टः, रागः = आसक्तिर्यस्य सः, मुनिः = बुद्धः, इति = इत्थम्,
गिरः = वाचम्, उवाच = अवोचत् ॥ ४७ ॥
हिन्दी—तब नन्द को बढे हुए राग वाला तथा पत्नी के प्रति अनुराग हीन
समझकर, राग से ही राग को नष्ट करने की इच्छा से विरागी मुनि ने ऐसी बातें
कही ॥ ४७ ॥
एताः स्त्रियः पश्य दिवौकसस्त्वं निरीक्ष्य च ब्रूहि यथार्थतत्त्वम् ।
एताः कथं रूपगुणैर्मतास्ते स वा जनो यत्र गतं मनस्ते ॥ ४८ ॥
अन्वयः—त्वम् एताः दिवौकसः स्त्रियः पश्य निरीक्ष्य च यथार्थतत्त्वं ब्रूहि, रूप-
गुणैः एताः स वा जनः यत्र ते मनः गतं ते कथं मताः ? ॥ ४८ ॥
व्याख्या—त्वम् = भवान्, एताः = इमाः, दिवौकसः = स्वर्गीयाः, स्त्रियः = अङ्गनाः,
पश्य = अवलोकय, निरीक्ष्य च = दृष्ट्वा च, यथार्थतत्त्वम् = निर्भ्रान्तितथ्यम्, ब्रूहि =
वद, रूपगुणैः = स्वरूपोत्कर्षैः, एताः = देवाङ्गनाः, स वा जनः = तव भार्यालोकः, यत्र =
यस्मिन्, ते = तव, मनः = चित्तम्, गतम् = यातम्, ते = तव, कथम् = केन प्रकारेण,
मताः = सम्मताः ? ॥ ४८ ॥
स्वर्ग-दर्शनः ] दशमः सर्गः २०९
हिन्दी—तुम इन देवाङ्गनाओं को देखों और देखकर ठीक-ठीक बतलाओ कि
रूप और गुण में इन अप्सराओं के विषय में तथा उस व्यक्ति, जिसमें तुम्हारा मन
रमा हुआ है, के विषय में तुम्हारी क्या राय है ?
अथाप्सरःस्वेव निविष्टदृष्टी रागाग्निनान्तर्हृदये प्रदीप्तः ।
सगद्गदं कामविषक्तचेताः कृताञ्जलिर्वाक्यमुवाच नन्दः ॥ ४९ ॥
अन्वयः—अथ अप्सरःसु एव निविष्टदृष्टीः रागाग्निना अन्तर्हृदये प्रदीप्तः काम-
विषक्तचेताः कृताञ्जलिः नन्दः सगद्गदं वाक्यम् उवाच ॥ ४९ ॥
व्याख्या—अथ=अनन्तरम्, अप्सरःसु=देवाङ्गनासु, एव=केवलम्, निविष्ट-
दृष्टेः—निविष्टा=निक्षिप्ता, दृष्टिः=नेत्रम्, येन सः, रागाग्निना—रागः=अनुरागः,
एव=केवलम्, अग्निः=वह्निस्तेन, अन्तर्हृदये=अन्तर्मनसि, प्रदीप्तः=प्रज्वलितः,
कामविषक्तचेताः—कामेन=विषयोपभोगेच्छया, विषक्तम्=बद्धमूलम्, चेतः=मनः,
यस्य, कृताञ्जलिः—कृता=बद्धाः, अञ्जलिः=करसंयोगः, येन सः=करबद्धः,
नन्दः=बुद्धानुजः, सगद्गदम्=सानन्दपुलकितो भूत्वा, वाक्यम्=वाणीम्, उवाच=
अवोचत् ॥ ४९ ॥
हिन्दी—इसके बाद ध्यानपूर्वक देवाङ्गनाओं को देखते हुए, भीतर ही भीतर
आसक्ति से जलते हुए कामातुर नन्द ने हाथ जोड़कर गद्गद होते हुए यह कहा ॥४९॥
हर्यङ्गनासौ मुषितैकदृष्टिर्यदन्तरे स्यात्तव नाथ वध्वाः ।
तदन्तरेऽसौ कृपणा वधूस्ते वपुष्मतीरप्सरसः प्रतीत्य ॥ ५० ॥
अन्वयः—नाथ ! मुषितैकदृष्टिः असौ हर्यङ्गना तव वध्वा यदन्तरे स्यात् कृपणा
असौ ते वधूः वपुष्मतीः अप्सरसः प्रतीत्य तदन्तरे ( स्यात् ) ॥ ५० ॥
व्याख्या—नाथ !=हे स्वामिन् ! मुषितैकदृष्टिः—मुषिता=विनष्टा, एका=एक-
मात्रा, दृष्टिः=चक्षुः, यस्याः सा, असौ=पुरोवर्त्तमाना, हर्यङ्गना=वानरी, तव=
भवतः, वध्वा=अनुजपत्न्या, यदन्तरे=यत्पार्थक्यम्, स्यात्=भवेत्, कृपणा=
दयनीया, असौ=एषा, ते=तव, वधूः=अनुजपत्नी, वपुष्मतीः=शरीरसौन्दर्यवतीः,
अप्सरसः=देवाङ्गनायाः, प्रतीत्य=अनुभूय, तदन्तरे=तद्भिेदो भवेत् । विषमा-
लङ्कारोऽत्र ॥ ५० ॥
हिन्दी—हे स्वामी ! कानी बानरी आप की वधू से जिस अन्तर पर है, उसी
अन्तर पर आपकी यह बेचारी बहू भी रूपवती इन अप्सराओं से है ॥ ५० ॥
आस्था यथा पूर्वमभून्न काचिदन्यासु मे स्त्रीषु निशाम्य भार्याम् ।
तस्यां ततः सम्प्रति काचिदास्था न मे निशाम्यैव हि रूपमासाम् ॥५१॥
अन्वयः—यथा पूर्वं भार्यां निशाम्य अन्यासु स्त्रीषु मे आस्था न अभूत्, ततः
सम्प्रति हि आसां रूपं निशाम्य एव तस्यां मे काचित् आस्था न अस्ति ॥ ५१ ॥
व्याख्या—यथा=येन प्रकारेण, पूर्वम्=प्रथमम्, भार्याम्=दाराम्, निशाम्य=
अवलोक्य, अन्यासु=अपरासु, स्त्रीषु=नारीषु, मे=मम नन्दस्य, आस्था=श्रद्धा,
२१० सौन्दरनन्द महाकाव्यम्
न=नहि, अभूत्=आसीत्, ततः=तत्पश्चात्, सम्प्रति=अधुना, हि=यतः, आसाम्=
देवाङ्गनानाम्, रूपम्=सौन्दर्यम्, निशाम्य=दृष्ट्वा, एव=केवलम्, तस्याम्=
स्वकीयपत्न्याम्, मे=मम, काचित्=काचन, आस्था=आसक्तिः, न=नहि, अस्ति=
विद्यते ॥ ५१ ॥
हिन्दी—जैसे पहले अपनी पत्नी को देखकर किसी और स्त्री में मेरी रुचि नहीं
थी, वैसे ही इन अप्सराओं को देखकर अब अपनी पत्नी के प्रति भी मेरी कोई आस्था
नहीं है ॥ ५१ ॥
यथा प्रतप्तो मृदुनातपेन दह्येत कश्चिन्महतानलेन ।
रागेण पूर्वं मृदुनाभितप्तो रागाग्निनानेन तथाभिदह्ये ॥ ५२ ॥
अन्वयः—यथा मृदुना आतपेन ततः कश्चित् महता अनलेन दह्यते, तथा पूर्वं
मृदुना रागेण अभितप्तः अनेन रागाग्निना अभिदह्ये ॥ ५२ ॥
व्याख्या--यथा=येन रूपेण, मृदुना=मन्देन, आतपेन=सूर्यालोकेन, तप्तः=
उष्णः, कश्चित्=कोऽपि जनः, महता=तीव्रेण, अनलेन=अग्निना, दह्यते=भस्मसाद्
भवति, तथा=तेनैव प्रकारेण, पूर्वम्=प्रथमम्, मृदुना=कोमलेन, रागेण=आसक्त्या,
अभितप्तः=सन्तप्तः, अनेन=एतेन, रागाग्निना=आसक्त्यानलेन, अभिदह्ये=
ज्वलामि ॥ ५२ ॥
हिन्दी—जैसे हल्की गर्मी से जला हुआ कोई व्यक्ति विशिष्ट आग में जले, उसी
प्रकार पहले सामान्य आसक्ति से सन्तप्त मैं अब इस महान् आसक्ति की आग में झुलस
रहा हूँ ॥ ५२ ॥
वाग्वारिणा मां परिषिञ्च तस्माद्यावन्न दह्ये स इवाब्जशत्रुः ।
रागाग्निरद्यैव हि मां दिधक्षुः कक्षं सवृक्षाग्रमिवोत्थितोऽग्निः ॥ ५३ ॥
अन्वयः—तस्मात् वाग्वारिणा मां परिषिञ्च यावत् सः अब्जशत्रुः न दह्ये, हि
रागाग्निः माम् उत्थितः अग्निः सवृक्षाग्रं कक्षम् इव अद्यैव दिधक्षुः ॥ ५३ ॥
व्याख्या—तस्मात्=तेन हेतुना, वाग्वारिणा=वाक्सलिलेन, माम्=स्वानुजम्,
परिषिञ्च=सिञ्चनं कुरु, यावत्=अस्माद्धेतोः, अहम् सः=भूतपूर्वः, अब्जशत्रुः=
कोऽपि पुरुषः, इव=यथा, न दह्ये=न प्रज्वलामि, हि=यतः, रागाग्निः=अनुराग-
वह्निः, माम्=नन्दम्, उत्थितः=प्रादुर्भूतः, अग्निः=वह्निः, सवृक्षाग्रम्=वृक्षाणाम्=
तरूणाम्, अग्रैः=शिखरैः, सहितम्, इव=यथा, अद्यैव=अस्मिन्नेव दिने, दिधक्षुः=
प्रज्वालयितुमिच्छुः, अस्ति। अस्मिन् श्लोके उपमाऽलङ्कारः ॥ ५३ ॥
हिन्दी—वाणी रूपी पानी से मुझे सींचिए, ताकि अब्जशत्रु की तरह न जलूं,
आसक्ति की आग आज ही मुझे जला डालना चाहती है, जैसे उठी हुई दावाग्नि वृक्षाग्र
सहित सूखे जंगल को जला देती है ॥ ५३ ॥
प्रसीद सीदामि विमुञ्च मां मुने वसुन्धराधेर्यं न धैर्यमस्ति मे ।
असून् विमोक्ष्यामि विमुक्तमानस प्रयच्छ वा वागमृतं मुमूर्षवे ॥ ५४ ॥
स्वर्ग-दर्शनः ] दशमः सर्गः २११
अन्वयः—मुने ! प्रसीद, सीदामि मां विमुञ्चः, वसुन्धराधेयं ! मे धैर्यं नास्ति,
विमुक्तमानस ! मुमूर्षवे वागमृतं प्रयच्छ असून् वा विमोक्ष्यामि ॥ ५४ ॥
व्याख्या—मुने !=हे ऋषे ! प्रसीद=प्रसन्नो भव, सीदामि=निमज्जामि, माम् =
नन्दम्, विमुञ्च = रक्ष, वसुन्धराधेयं ! = पृथ्वोव धैर्यशालि ! मे = मम, धैर्यम् = धृतिः,
नास्ति = न विद्यते, विमुक्तमानस ! - विमुक्तम्-अनासक्तम्, मनः = चितम्, यस्य सः
तत्सम्बुद्धौ, मुमूर्षवे = मर्तुमिच्छवे मह्यम्, वागमृतम् = वाचामृतम्, प्रयच्छ = देहि,
असून् = प्राणान्, वा = अथवा, विमोक्ष्यामि = त्यक्षामि ॥ ५४ ॥
हिन्दी—हे मुनि ! प्रसन्न होइये, मैं डूब रहा हूँ। हे वसुन्धरा-धैर्य ! मुझ अधीर को
अपनी वाणी रूपी अमृत से जिलाइये, अन्यथा हे विमुक्तमानस ! मैं प्राण छोड़
दूँगा ॥ ५४ ॥
अनर्थभोगेन विघातदृष्टिना
प्रमाददंष्ट्रेण तमोविषाग्निना ।
अहं हि दष्टो हृदि मन्मथाहिना
विधत्स्व तस्मादगदं महाभिषक् ॥ ५५ ॥
अन्वयः—अनर्थभोगेन विघातदृष्टिना प्रमाददंष्ट्रेण तमोविषाग्निना मन्मथाहिना
हि अहं दष्टः, तस्मात् महाभिषक् ! अगदं विधत्स्व ॥ ५५ ॥
व्याख्या—अनर्थभोगेन—अनर्थः=अयुक्तार्थः, भोगः=आसक्तिः, यस्य सः तेन,
विघातदृष्टिना—विघातः = विनाशः, दृष्टिः = चक्षुः, यस्य सः तेन, प्रमाददंष्ट्रेण--
प्रमादः=अनवधानता, दंष्ट्राः = दन्ताः, यस्य सः तेन, तमोविषाग्निना—तमः = अन्ध-
कारः, एव विषाग्निः=गरलानलः, यस्य तेन, मन्मथाहिना—मन्मथः=मदनः, एव अहिः
=सर्पस्तेन, हीति निश्चयेन, अहम्=नन्दः, हृदि=चेतसि, दष्टः=दंशितः, महाभिषक्=
महाचिकित्सक ! अगदम्=निर्विषम्, विधत्स्व =कुरु । रूपकालङ्कारोऽत्र ॥ ५५ ॥
हिन्दी—अनर्थरूपी फणवाले, कामरूपी सर्प से विनाश ही जिनकी आंखें हैं, प्रमाद
जिनका दंश है, अन्धकार ही विषरूपी अग्नि है, ऐसा मैं हृदय में दंशित हुआ हूँ । अतः
हे महाचिकित्सक ! मेरे लिए उस विषनाशक औषधि का प्रयोग करें । ५५ ॥
अनेन दष्टो मदनाहिनाऽहिना
न कश्चिदात्मन्यनवस्थितः स्थितः ।
मुमोह बोध्योऽर्हंचलात्मनो मनो
बभूव धीमांश्च स शान्तनुस्तनुः ॥ ५६ ॥
अन्वयः—अनेन अहिना मदनाहिना दष्टः अनवस्थितः कश्चित् आत्मनि न स्थितः,
हि अचलात्मनः बोध्योः मनः मुमोह सः श्रीमान् शन्तनुः च तनुः बभूव ॥ ५६ ॥
व्याख्या—अनेन =एतेन, अहिना =खलेन, मदनाहिना = मन्मथोरगेण, दष्टः=
दंशितः, अनवस्थितः=अव्यवस्थितः, कश्चित् = कोऽपि, आत्मनि = स्वस्मिन्, न=
नहि, स्थितः=विद्यमानो भवति, हीति निश्चयेन, अचलात्मनः=स्थिरचेतसः, बोध्योः=