सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 248, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 248

१९४ सौन्दरनन्दं महाकाव्यम्
बह्वायतं तत्र सिते हि शृङ्गे सङ्क्षिप्तबर्हः शयितो मयूरः ।
भुजे बलस्यायत पीनबाहोर्वैदूर्यकेयूर इवाबभासे ॥ ८ ॥
अन्वयः—तत्र बह्वायते सिते हि शृङ्गे सङ्क्षिप्तबर्हः शयितः मयूरः आयतपीन
बाहोः बलस्य भुजे वैदूर्यकेयूरः इव आवभासे ॥ ८ ॥
व्याख्या—तत्र = तस्मिन् पर्वते, बह्वायते = बहुविशाले, सिते = शुभ्रे, हि = यतः,
शृङ्गे = सानौ, सङ्क्षिप्तबर्हः—सम्यक् = सुष्ठुतया, क्षिप्तः = प्रसारितः, बर्हः = पिच्छः,
येन सः, शयितः = प्रसुप्तः, मयूरः = बर्हिणः, आयतपीनबाहोः—आयते = विस्तृते,
पीने = स्थूले, च बाहू = भुजे, यस्य तस्य, बलस्य = बलरामस्य, भुजे = बाहौ, वैदूर्य-
केयूरः = वैदूर्यमणिनिर्मितवलयम्, इव=यथा, आबभासे = शोभयामास । सम्भावनाया-
मुत्प्रेक्षाऽलङ्कारोऽत्र ॥ ८ ॥
हिन्दी—उस पहाड़ के श्वेत शिखर पर अपने पंख समेटकर मयूर सोया था।
इससे प्रतीत होता था जैसे अपनी लम्बी विशाल बाँहों में वैदूर्यमणि का बाजूबन्द पहने
बलराम जी शोभित हो रहे हैं ॥ ८ ॥
मनःशिलाधातुशिलाश्रयेण पीतीकृतांसो विरराज सिंहः ।
सन्तप्तचामीकरभक्तिचित्रं रूप्याङ्गदं शीर्णमिवाम्बिकस्य ॥ ९ ॥
अन्वयः—मनःशिलाधातुशिलाश्रयेण पीतीकृतांसः सिंहः सन्तप्तचामीकरभक्ति-
चित्रम् आम्बिकस्य शीर्णं रूप्याङ्गदम् इव विरराज ॥ ९ ॥
व्याख्या—मनःशिलाधातुशिलांश्रयेण—मनःशिला=नागजिह्विका, तस्याः शिलायाः
= गण्डशैलस्य, आश्रयेण=सम्पर्केण, पीतीकृतांसः—न पीतः पीतः कृतः इति पीतीकृतः,
पीतीकृतः अंसः यस्य सः=पीताभस्कन्धः, सिंहः = वनराजः, सन्तप्तचामीकरभक्ति-
चित्रम्—सन्तप्तम् = ज्वलितम्, चामीकरम् = कनकम्, तस्य, भक्तिः = अनुरक्तिस्तया
चित्रम् = चित्रितम्,. आम्बिकस्य = अम्बासुतस्य, कार्त्तिकेयस्य, शीर्णम् = च्युतम्,
रूप्याङ्गदम् = रजतकेयूरम्, इव = यथा, विरराज = शोभयामास । कल्पितोपगान-
त्वादत्राप्युपमालङ्कारः ॥ ९ ॥
हिन्दी—मैनसिल धातु की शिला के संपर्क से पीले कंधे वाला सिंह ऐसा शोभ
रहा था मानो तपाये हुए सोने के तारों से मढ़ा हुआ कार्त्तिकेय का टूटा हुआ चांदी
का बाजूबन्द हो ॥ ९ ॥
व्याघ्रः क्लमव्यायतखेलगामी लाङ्गूलचक्रेण कृतापसव्यः ।
बभौ गिरेः प्रस्रवणं पिपासुर्दित्सन् पितृभ्योऽम्भ इवावतीर्णः ॥ १० ॥
अन्वयः—क्लमव्यायतखेलगामी लाङ्गूलचक्रेण कृतापसव्यः गिरेः प्रस्रवणम्
अवतीर्णः पिपासुः व्याघ्रः पितृभ्यः अम्भः दित्सन् इव बभौ ॥ १० ॥
व्याख्या—क्लमेन = आयासेन, व्यायत्तः = कृतव्यायाम, तस्मात्, खेलेन =
लीलया, गन्तुम् = चलितुम्, शीलमस्येति, लाङ्गूलचक्रेण—लाङ्गूलस्य = पुच्छस्य,
चक्रेण = गोलाकारेण, कृतापसव्यः—कृतः = सम्पादितः, अपसव्यः = सव्येतरः, इति