सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 253, कुल 496 में से
संदर्भ में पढ़ेंस्वर्गपवादः ] दशमः सर्गः १९९
व्याख्या—यत्र = यस्मिन् वने, रक्तानि = लोहितानि, कमलानि = पद्मानि, फुल्लाः =
विकसिताः, वृक्षाः = द्रुमानि, प्रदीपवृक्षाः = दीपद्रुमानि, इव = यथा, भान्ति = राजन्ते,
अन्ये = अपरे, प्रफुल्लनीलोत्पलरोहिणः—प्रफुल्लानि = विकसितानि, यानि
नीलोत्पलानि = कुवलयानि, तानि रोहन्ति = शोभन्ति येषु ते, वृक्षाः = तरवः,
सोन्मीलिताक्षाः—उन्मीलितानि = विस्फारितानि, अक्षीणि = नेत्राणि, तैः, सहिताः =
संयुक्ताः, इव = यथा, भान्ति = राजन्ते । सम्भावनायामुत्प्रेक्षाऽलङ्कारः ॥ २१ ॥
हिन्दी—जहाँ लाल-लाल विकसित कमलों के पौधे, प्रज्वलित दीप के पौधे की
तरह शोभित हो रहे हैं तथा विकसित नीलकमलों से युक्त पेड़ ऐसे शोभ रहे हैं,
मानो उनकी आँखें विस्फारित हुई है ॥ २१ ॥
नानाविरागाण्यथ पाण्डराणि सुवर्णभक्तिव्यवभासितानि ।
अतान्तवान्येकघनानि यत्र सूक्ष्माणि वासांसि फलन्ति वृक्षाः ॥ २२ ॥
अन्वयः—अथ यत्र वृक्षाः नानाविरागाणि पाण्डराणि सुवर्णभक्तिव्यवभासितानि
अतान्तवानि एकनानि सूक्ष्माणि वासांसि फलन्ति ॥ २२ ॥
व्याख्या—अथ = अन्यच्च, यत्र = यस्मिन् स्थाने, वृक्षाः = पादपाः, नानाविरा-
गाणि = अनेकवर्णानि, पाण्डराणि = सितपीतवर्णानि, सुवर्णभक्तिव्यवभासितानि—
सुवर्णानाम् = कनकानाम्, भक्तिभिः = रेखाभिः, व्यवभासितानि = भास्वराणि, अतन्त-
वानि = तन्तुशून्यानि, एकघनानि = अविरलानि, सूक्ष्माणि = तनूनि, वासांसि = वस्त्राणि,
फलन्ति = जायन्ते ॥ २२ ॥
हिन्दी—जहाँ के पेड़ अनेक रंगों वाले, श्वेतपीत वर्णवाले, सुनहली रेखाओं से
भास्वर, तन्तरहित, सघन एवं पतले वस्त्रों को उत्पन्न करते हैं ॥ २२ ॥
हारान् मणीनुत्तमकुण्डलानि केयूरवर्याण्यथ नूपुराणि ।
एवंविधान्याभरणानि यत्र स्वर्गानुरूपाणि फलन्ति वृक्षाः ॥ २३ ॥
अन्वयः—अथ यत्र वृक्षाः हारान् मणीन् उत्तमकुण्डलानि केयूरवर्याणि नूपुराणि
एवंविधानि स्वर्गानुरूपाणि अन्याभरणानि फलन्ति ॥ २३ ॥
व्याख्या—अथ = अपि च, यत्र = वने, वृक्षाः = पादपाः, हारान् = मालान्,
मणीन् = रत्नानि, उत्तमकुण्डलानि = उत्कृष्टश्रवणाभरणानि, केयूरवर्याणि = उत्तम-
वलयानि, नूपुराणि = चरणभूषणानि, एवंविधानि = एतादृग्रूपाणि, स्वर्गानुरूपाणि =
नाकोपयुक्तानि, अन्याभरणानि = अपरभूषणानि, फलन्ति = जायन्ते ॥ २३ ॥
हिन्दी—कितने ही वृक्ष हारों, मणियों, उत्तम कुण्डलों, उत्तम केयूरों, नूपुरों
और स्वर्ग के अनुरूप ऐसे ही आभूषणों के फल देते हैं ॥ २३ ॥
वैडूर्यनालानि च काञ्चनानि पद्मानि वज्राङ्कुरकेसराणि ।
स्पर्शक्षमाण्युत्तमगन्धवन्ति रोहन्ति निष्कम्पतला नलिन्यः ॥ २४ ॥
अन्वयः—च निष्कम्पतला नलिन्यः वैडूर्यनालानि वज्राङ्कुरकेसराणि स्पर्शक्षमाणि
[