सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 255, कुल 496 में से
संदर्भ में पढ़ेंस्वर्गापवादः ] दशमः सर्गः २०१
अन्वयः—यत्र अखिन्नैः तपःशीलहलैः कृष्टे त्रिविष्टपक्षेत्रतले एवंविधाः प्रसूताः
दिवौकसां भोगविधानवृक्षाः सदानुवृत्ताः ॥ २७ ॥
व्याख्या -- यत्र = लीलावने, अखिन्नैः = अश्रान्तैः, तपःशीलहलैः = तपःशीलरूप-
हलैः, कृष्टे = कर्षिते, त्रिविष्टपक्षेत्रतले — त्रिविष्टपक्षेत्रस्य = स्वर्गीयक्षेत्रस्य, तले =
मूले, एवंविधाः = एतादृशाः, प्रसूताः = समुत्पन्नाः, दिवौकसाम् = सुराणाम्, भोग-
विधानवृक्षाः—भोगस्य = उपभोगस्य, विधानम् = सम्पादनम्, तस्य वृक्षाः = द्रुमाः,
सदानुवृत्ताः = सदानुकूलाः सन्ति । 'तपःशीलहलै'रित्यत्र रूपकालङ्कारः ॥ २७ ॥
हिन्दी-जहाँ कभी न थकने वाले तप और शील के हलों से जोती हुई देवताओं
की धरती पर ऐसे पेड़ पैदा होते हैं, जो देवताओं के भोग का विधान करते हैं और
सदैव उनके अनुकूल बने रहते हैं ॥ २७ ॥
मनःशिलाभैर्वदनैर्विहङ्गा यत्राक्षिभिः स्फाटिकसन्निभैश्च ।
शावैश्च पक्षैरभिलोहितान्तैर्माञ्जिष्ठकैरर्धसितैश्च पादैः ॥ २८ ॥
अन्वयः—यत्र विहङ्गाः मनःशिलाभैः वदनैः स्फाटिकसन्निभैश्च अक्षिभिः अभि-
लोहितान्तैः शावैश्च पक्षैः माञ्जिष्ठकैः अर्धसितैश्च पादैः ॥ २८ ॥
व्याख्या-यत्र = वने, विहङ्गाः = खगाः, मनःशिलाभैः = कल्याणिकातुल्यैः,
वदनैः = आननैः, स्फाटिकसन्निभैश्च = स्फटिकमणितुल्यैः, अक्षिभिः = चक्षुभिः, अभि-
लोहितान्तैः = आरक्तान्तैः, शावैश्च = पीताभैश्च, पक्षैः = पतत्रैः, माञ्जिष्ठकैः =
माञ्जिष्ठवर्णैः, अर्धसितैश्च = अर्धश्वेतैः, पादैः = चरणैः, भ्रमन्ति ॥ २८ ॥
हिन्दी-जहाँ मैनसिल की तरह लाल मुखवाले, स्फटिकमणि की तरह चमकीली
आँखों वाले, लाल एवं पीले पंखोंवाले, मजीठ के रंगवाले आधे सफेद पाँव वाले पक्षी
घूमते रहते हैं ॥ २८ ॥
चित्रैः सुवर्णच्छदनैस्तथान्ये वैडूर्यनीलैर्नयनैः प्रसन्नैः ।
विहङ्गमाः शिञ्जरिकाभिधाना रुतैर्मनःश्रोत्रहरैर्भ्रमन्ति ॥ २९ ॥
अन्वयः—तथा शिञ्जरिकाभिधानाः अन्ये विहङ्गमाः चित्रैः सुवर्णच्छदनैः प्रसन्नैः
वैडूर्यनीलैः नयनैः मनःश्रोत्रहरैः रुतैः भ्रमन्ति ॥ २९ ॥
व्याख्या-तथा = तेन प्रकारेण, शिञ्जरिकाभिधानाः = शिञ्जरिकानामधेयाः,
अन्ये = अपरे, विहङ्गमाः = खगाः, चित्रैः = विचित्रैः, सुवर्णच्छदनैः-सुवर्णस्य =
काञ्चनस्य, छदनानि = पतत्राणि, येषां तैः, प्रसन्नैः = स्वच्छैः, वैडूर्यनीलैः-वैडूर्यमणि
इव नीलैः = नीलवर्णैः, नयनैः = नेत्रैः, मनःश्रोत्रहरैः-मनः = चित्तम्, श्रोत्रञ्च =
कर्णञ्च, हरन्तीति तैः, भ्रमन्ति = विचरन्ति । लुप्तोपमालङ्कारः ॥ २९ ॥
हिन्दी-उसी तरह रंग-बिरंगे सुनहले पंखवाले, लहसुनियां की तरह नीली एवं
स्वच्छ आँखों वाले, मन तथा कानों को आकृष्ट करने वाले शब्दों से युक्त अन्य
शिञ्जरिका नाम पक्षी विचरण कर रहे हैं ॥ २९ ॥