सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 256, कुल 496 में से
संदर्भ में पढ़ें२०२ सौन्दरनन्दं महाकाव्यम्
रक्ताभिरग्रेषु च वल्लरीभिर्मध्येषु चामीकरपिञ्जराभिः ।
वैडूर्यवर्णाभिरुपान्तमध्येष्वलङ्कृता यत्र खगाश्चरन्ति ॥ ३० ॥
अन्वयः-यत्र च अग्रेषु रक्ताभिः वल्लरीभिः मध्येषु चामीकरपिञ्जराभिः उपान्त-
मध्येषु च वैडूर्यवर्णाभिः अलङ्कृताः खगाः चरन्ति ॥ ३० ॥
व्याख्या-यत्र = यस्मिन् स्थाने, च = पुनः, अग्रेषु = समीपेषु, रक्ताभिः = लोहि-
ताभिः, वल्लरीभिः = लताभिः, मध्येषु = मध्यभागेषु, चामीकरपिञ्जराभिः = कनक-
पीताभैः, उपान्तमध्येषु = प्रान्तमध्येषु, च, वैडूर्यवर्णाभिः = वैडूर्योपलैः, अलङ्कृताः =
सुशोभिताः, खगाः = पक्षिणः, चरन्ति = भ्रमन्ति ॥ ३० ॥
हिन्दी-यहाँ पक्षियों के पंखों का अगला हिस्सा लाल, बीचवाला भाग सुनहला
तथा अन्तिम भाग लहसुनियाँ रंग के होते हैं। ऐसे सुन्दर पखेरू वहाँ घूमते
रहते हैं ॥ ३० ॥
रोचिष्णवो नाम पतत्रिणोऽन्ये दीप्ताग्निवर्णा ज्वलितैरिवास्यैः ।
भ्रमन्ति दृष्टीर्वपुषाक्षिपन्तः स्वनैः शुभैरप्सरसो हरन्तः ॥ ३१ ॥
अन्वयः-ज्वलितैः इव आस्यैः दीप्ताग्निवर्णाः रोचिष्णवः नाम अन्ये पतत्रिणः
वपुषा दृष्टीः आक्षिपन्तः शुभैः स्वनैः अप्सरसः हरन्तः भ्रमन्ति ॥ ३१ ॥
व्याख्या-ज्वलितैः = प्रदीप्तैः, इव = यथा, आस्यैः = मुखैः, दीप्ताग्निवर्णाः-
दीप्तस्य = प्रज्वलितस्य, अग्नेः = वह्नेः, इव = यथा, वर्णः = स्वरूपम्, येषां ते, रोचिष्णवः =
रोचिष्णुनामकपक्षिणः, अन्ये = अपरे, पतत्रिणः-पतनात् त्रायते इति पतत्रम्, तदस्ति
अस्येति पतत्रिणः = पक्षिणः, वपुषा = शरीरेण, दृष्टीः = दृक्शक्तयः, आक्षिपन्तः =
आकर्षणं कुर्वन्तः, शुभैः = कल्याणकरैः, स्वनैः = रवैः, अप्सरसः = स्वरवेश्यायाः,
हरन्तः = अपहरन्तः, भ्रमन्ति = चरन्ति ॥ ३१ ॥
हिन्दी-जलती हुई आग की तरह रोचिष्णु नामक दूसरे पक्षी, जिनके मुँह मानो
जल रहा हो, ऐसे लाल-लाल अपनी देव-दृष्टि को आकर्षित करते हुए शुभ वचनों से
अप्सराओं के मन को अपनी ओर आकृष्ट करते हुए घूम रहे हैं ॥ ३१ ॥
यत्रेष्टचेष्टाः सततप्रहृष्टा निरर्तयो निर्जरसो विशोकाः ।
स्वैः कर्मभिर्हीनविशिष्टमध्याः स्वयम्प्रभाः पुण्यकृतो रमन्ते ॥ ३२ ॥
अन्वयः-यत्र इष्टचेष्टाः सततप्रहृष्टाः निरर्तयः निर्जरसः विशोकाः स्वैः कर्मभिः
हीनविशिष्टमध्याः स्वयम्प्रभाः पुण्यकृतः रमन्ते ॥ ३२ ॥
व्याख्या-यत्र = यस्मि न्स्थाने, इष्टचेष्टाः = अभीप्सितप्रयत्नः, सततप्रहृष्टाः-
सततम् = अनवरतम्, प्रहृष्टाः = प्रसन्नाः, निरर्तयः-निर्गताः = निर्याताः, अर्तयः =
रोगाः, येषां ते, निर्जरसः = जराहीनाः, विशोकाः-विगतः = निर्गतः शोकः = सन्तापः,
येषां ते, स्वयम्प्रभाः = स्वकीयप्रभाभासिताः, पुण्यकृतः = पुण्यवन्तः, रमन्ते = रमणं
कुर्वन्ति ॥ ३२ ॥