सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 261, कुल 496 में से
संदर्भ में पढ़ेंस्वर्गापवादः ] दशमः सर्गः २०७
दोषांश्च कायाद्भिषगुज्जिहीर्षुर्भूयो यथा क्लेशयितुं यतेत ।
रागं तथा तस्य मुनिर्जिघांसुर्भूयस्तरं रागमुपानिनाय ॥ ४३ ॥
अन्वयः—यथा च कायाद् दोषान् उज्जिहीर्षुः भिषग् भूयः क्लेशयितुं यतेत, तथा
रागं जिघांसुः मुनिः भूयस्तरं रागम् उपानिनाय ॥ ४३ ॥
व्याख्या—यथा=येन प्रकारेण, च=पुनः, कायात्=देहात्, दोषान्=दुर्गुणान्,
उज्जिहीर्षुः=अपहर्तुमिच्छुः, भिषग्=चिकित्सकः, भूयः=अत्यधिकम्, क्लेशयितुम्
=पीडयितुम्, यतेत=प्रयत्नं करोति, तथा=तेनैव रूपेण, तस्य=बुद्धानुजस्य, रागम्
आसक्तिम्, जिघांसुः=हन्तुमिच्छुः, मुनिः=गौतमबुद्धः, भूयस्तरम्=अधिकतरम्,
रागम्=आसक्तिम्, उपानिनाय=उपानयत् । अत्रापि दृष्टान्तालङ्कारः ॥ ४३ ॥
हिन्दी—जैसे देह से रोग को दूर करने के लिए चिकित्सक पहले रोग को और
बढा देता है, उसी तरह नन्द के रोग को नष्ट करने की इच्छा से मुनि ने उसके राग
को बढ़ा दिया ॥ ४३ ॥
दीपप्रभां हन्ति यथान्धकारे सहस्ररश्मेरुदितस्य दीप्तिः ।
मनुष्यलोके द्युतिमङ्गनानामन्तर्दधात्यप्सरसां तथा श्रीः ॥ ४४ ॥
अन्वयः—यथा अन्धकारे दीपप्रभाम् उदितस्य सहस्ररश्मेः दीप्तिः हन्ति, तथा
मनुष्यलोके अङ्गनानां द्युतिम् अप्सरसां श्रीः अन्तर्दधाति ॥ ४४ ॥
व्याख्या—यथा=येन प्रकारेण, अन्धकारे=तमसि, दीपप्रभाम्=दीपकज्योतिः,
उदितस्य=उद्गतस्य, सहस्ररश्मेः=दिवाकरस्य, दीप्तिः=कान्तिः, हन्ति=विनश्यति,
तथा=तेनैव रूपेण, मनुष्यलोके=नरलोके, अङ्गनानाम्=नारीणाम्, द्युतिम्=प्रभाम्,
अन्तर्दधाति=तिरोभवति । अत्रापि दृष्टान्ताऽलङ्कारः ॥ ४४ ॥
हिन्दी—जैसे अन्धेरे में दीपक का प्रकाश सूर्य के प्रकाश में छिप जाता है, उसी
तरह नरलोक में स्त्रियों की कान्ति इन अप्सराओं की कान्ति में छिप जाती है ॥४४॥
महच्च रूपं स्वणु हन्ति रूपं शब्दो महान् हन्ति च शब्दमल्पम् ।
गुर्वीरूजा हन्ति रुजां च मृद्धीं सर्वो महान् हेतुरणोर्वधाय ॥४५॥
अन्वयः—महत् च रूपं स्वणु रूपं हन्ति, महान् शब्दः अल्पं शब्दं च हन्ति, गुर्वी
रुजा मृद्धीं रुजां च हन्ति, सर्वः महान् अणोः वधाय हेतुः भवति ॥ ४५ ॥
व्याख्या—महत्=सुष्ठु, च=पुनः, रूपम्=स्वरूपम्, स्वणु=अल्पम्, रूपम्
=सौन्दर्यम्, हन्ति=विनश्यति, महान्=विस्तीर्णः, शब्दः=स्वनः, अल्पम्=अति-
तुच्छम्, शब्दम्=स्वनम्, हन्ति=नश्यति, गुर्वी रुजा=गम्भीररोगः, मृद्धीं रुजाम्=
अल्पं रोगम्, च हन्ति=नाशयति, सर्वः=सम्पूर्णः, महान्=दीर्घः, अणोः=लघोः,
वधाय=हननाय, हेतुः=कारणं भवत्येव ॥ ४५ ॥
हिन्दी—जैसे बड़ा रूप छोटे रूप को छिपा देता है, बड़ा शब्द छोटी आवाज को
दबा देता है, बड़ा रोग छोटे रोग को छिपा देता है और बड़ी वस्तुएं सभी छोटी
वस्तुओं के विनाश का कारण है ॥ ४५ ॥