सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 262, कुल 496 में से
संदर्भ में पढ़ें२०८ सौन्दरनन्दं महाकाव्यम्
मुनेः प्रभावाच्च शशाक नन्दस्तद्दर्शनं सोढुमसह्यमन्यैः ।
अवीतरागस्य हि दुर्बलस्य मनो दहेदप्सरसां वपुःश्रीः ॥ ४६ ॥
अन्वयः—मुनेः प्रभावात् च नन्दः अन्यैः सोढुम् असह्यं तद्दर्शनं शशाक, हि अवीत-
रागस्य दुर्बलस्य मनः अप्सरसां वपुःश्रीः दहेत् ॥ ४६ ॥
व्याख्या—मुनेः = तथागतस्य, प्रभावात् = माहात्म्यात्, च = पुनः, नन्दः = नृपः,
अन्यैः = अपरैः, सोढुम् = सहनं कर्तुम्, असह्यम् = असहनीयम्, तद्दर्शनम् = देवाङ्गना-
नामवलोकनम्, शशाक = समर्थोऽभवत्, हि = यतः, अवीतरागस्य — न वीतः = व्यतीतः,
रागः = आसक्तिर्यस्य सः, दुर्बलस्य = निर्बलस्य, मनः = चेतः, अप्सरसाम् = देवाङ्गना-
नाम्, वपुःश्रीः — वपुषः = शरीरस्य, श्रीः = कान्तिः, दहेत् = प्रज्वालयेत् ॥ ४६ ॥
हिन्दी—मुनि के प्रभाव से नन्द ने उनके दर्शन किए, जिनके दर्शन दूसरे नहीं
कर सकते, क्योंकि जिनके राग नष्ट नहीं हुए हैं उन दुर्बलों का मन उन अप्सराओं के
देह सौन्दर्य से जल जाते हैं ॥ ४६ ॥
मत्वा ततो नन्दमुदीर्णरागं भार्यानुरोधादपवृत्तरागम् ।
रागेण रागं प्रतिहन्तुकामो मुनिर्विरागो गिरमित्युवाच ॥ ४७ ॥
अन्वयः—ततः नन्दम् उदीर्णरागं भार्यानुरोधात् अपवृत्तरागं मत्वा रागेण रागं
प्रतिहन्तुकामः विरागः मुनिः इति गिरम् उवाच ॥ ४७ ॥
व्याख्या—ततः = तदनन्तरम्, नन्दम् = बुद्धानुजम्, उदीर्णरागम् — उदीर्णः = प्रवृद्धः,
रागः = आसक्तिः, यस्य सः तम्, भार्यानुरोधात् = स्त्रीनिर्बन्धात्, अपवृत्तरागम् —
अपवृत्तः = निवृत्तः, रागः = आसक्तिः, यस्य सः तम्, मत्वा = ज्ञात्वा, रागेण = आसक्त्या,
रागम् = आसक्तिम्, प्रतिहन्तुकामः — प्रतिहन्तुम् = विनष्टं कर्तुम्, कामयते = अभिलषते,
विरागः — विगतः = विनष्टः, रागः = आसक्तिर्यस्य सः, मुनिः = बुद्धः, इति = इत्थम्,
गिरः = वाचम्, उवाच = अवोचत् ॥ ४७ ॥
हिन्दी—तब नन्द को बढे हुए राग वाला तथा पत्नी के प्रति अनुराग हीन
समझकर, राग से ही राग को नष्ट करने की इच्छा से विरागी मुनि ने ऐसी बातें
कही ॥ ४७ ॥
एताः स्त्रियः पश्य दिवौकसस्त्वं निरीक्ष्य च ब्रूहि यथार्थतत्त्वम् ।
एताः कथं रूपगुणैर्मतास्ते स वा जनो यत्र गतं मनस्ते ॥ ४८ ॥
अन्वयः—त्वम् एताः दिवौकसः स्त्रियः पश्य निरीक्ष्य च यथार्थतत्त्वं ब्रूहि, रूप-
गुणैः एताः स वा जनः यत्र ते मनः गतं ते कथं मताः ? ॥ ४८ ॥
व्याख्या—त्वम् = भवान्, एताः = इमाः, दिवौकसः = स्वर्गीयाः, स्त्रियः = अङ्गनाः,
पश्य = अवलोकय, निरीक्ष्य च = दृष्ट्वा च, यथार्थतत्त्वम् = निर्भ्रान्तितथ्यम्, ब्रूहि =
वद, रूपगुणैः = स्वरूपोत्कर्षैः, एताः = देवाङ्गनाः, स वा जनः = तव भार्यालोकः, यत्र =
यस्मिन्, ते = तव, मनः = चित्तम्, गतम् = यातम्, ते = तव, कथम् = केन प्रकारेण,
मताः = सम्मताः ? ॥ ४८ ॥