सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 246, कुल 496 में से
संदर्भ में पढ़ें१९२ सौन्दरनन्दं महाकाव्यम्
वाले भ्रष्ट बुद्धि उस नन्द से पूछा—लज्जा से झुके नन्द ने उसके मन की बात जानने
वाले उस संकोची मुनि से अपना निर्णय बतलाया ॥ २ ॥
नन्दं विदित्वा सुगतस्ततस्तं भार्याभिधाने तमसि भ्रमन्तम् ।
पाणौ गृहीत्वा वियदुत्पपात मलं जले साधुरिवोज्जिहीर्षुः ॥ ३ ॥
अन्वयः—ततः नन्दं भार्याभिधाने तमसि भ्रमन्तं विदित्वा सुगतः तं पाणौ
गृहीत्वा जले साधुः इव मलम् उज्जिहीर्षुः वियद् उत्पपात ॥ ३ ॥
व्याख्या—ततः = तत्पश्चात्, नन्दम् = स्वानुजम्, भार्याभिधाने—भार्यायाः =
सहधर्मिण्याः, विधाने = स्वरूपे, तमसि = अन्धकारे, भ्रमन्तम् = विचरन्तम्, विदित्वा
= ज्ञात्वा, सुगतः = बुद्धः, तम् = नन्दम्, पाणौ = करे, गृहीत्वा = नीत्वा, जले =
सलिले, साधु इव = परिव्राजक इव, मलम् = अयस्करः, उज्जिहीर्षुः = प्रक्षालनमिच्छुः,
वियत् = आकाशम्, उत्पपात = तिरोऽभवत् ॥ ३ ॥
हिन्दी—तब नन्द को पत्नी रूपी अन्धकार में भटकते जानकर बुद्ध ने उसका
हाथ पकड़ लिया, फिर उसके मन के मैल को धोने के लिए उसे लेकर उसी तरह
आकाश में उड़ गये, जैसे कोई परिव्राजक अपनी गन्दगी साफ करने के लिए जलाशय
गया हो ॥ ३ ॥
काषायवस्त्रौ कनकावदातौ विरेजतुस्तौ नभसि प्रसन्ने ।
अन्योन्यसंश्लिष्टविकीर्णपक्षौ सरःप्रकीर्णाविव चक्रवाकौ ॥ ४ ॥
अन्वयः—तौ काषायवस्त्रौ कनकावदातौ प्रसन्ने नभसि अन्योन्यसंश्लिष्टविकीर्ण-
पक्षौ सरःप्रकीर्णौ चक्रवाकौ इव विरेजतुः ॥ ४ ॥
व्याख्या—तौ = सुगतनन्दौ, काषायवस्त्रौ—काषायम् = गैरिकम्, वस्त्रम् = वस-
नम्, ययोः तौ, कनकावदातौ—कनकमिव = स्वर्णमिव, अवदातौ = पीताभौ, प्रसन्ने =
निर्मले, नभसि = आकाशे, अन्योन्यसंश्लिष्टविकीर्णपक्षौ—अन्योन्यम् = परस्परम्,
संश्लिष्टौ = सन्निहितौ, विकीर्णौ = प्रसृतौ, च = पुनः, पक्षौ = पवित्रे, ययोः तौ, सरः =
सरोवरः, प्रकीर्णौ = विश्लिष्टौ, चक्रवाकौ = कोकौ, इव = यथा, विरेजतुः = शुशुभिरे ।
उपमाऽलङ्कारोऽत्र ॥ ४ ॥
हिन्दी—सुनहले रंग वाले गेरुआ वस्त्र पहने निर्मल आकाश में वे दोनों वैसे ही
लगते थे, जैसे स्वच्छ सरोवर में एक-दूसरे से सटे, पांख फैलाये चकवे शोभते हैं ॥४॥
तौ देवदारूत्तमगन्धवन्तं नदीसरःप्रस्रवणौघवन्तम् ।
आजग्मतुः काञ्चनधातुमन्तं देवर्षिमन्तं हिमवन्तमाशु ॥ ५ ॥
अन्वयः—तौ देवदारूत्तमगन्धवन्तं नदीसरःप्रस्रवणौघवन्तं काञ्चनधातुमन्तं
देवर्षिमन्तं हिमवन्तम् आशु आजग्मतुः ॥ ५ ॥
व्याख्या—तौ = तथागतनन्दौ, देवदारूत्तमगन्धवन्तम्—देवदार्वोः = एतदाख्य-
वृक्षस्य, उत्तमम् = उत्कृष्टम्, गन्धम् = सौरभम्, अस्ति अस्य, नदीसरःप्रस्रवणौघवन्तम्