सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

मदापवादः ] नवमः सर्गः १८५
यथा प्ररोहन्ति तृणान्ययत्नतः क्षितौ प्रयत्नात्तु भवन्ति शालयः ।
तथैव दुःखानि भवन्त्ययत्नतः सुखानि यत्नेन भवन्ति वा न वा ॥ ३९ ॥
अन्वयः—यथा क्षितौ तृणानि अयत्नतः प्ररोहन्ति, शालयः तु प्रयत्नात् भवन्ति,
तथैव दुःखानि अयत्नतः भवन्ति, सुखानि तु यत्नेन भवन्ति वा न वा ॥ ३९ ॥
व्याख्या—यथा=येन प्रकारेण, क्षितौ=पृथिव्याम्, तृणानि=नालानि,
अयत्नतः=अनायासेन, प्ररोहन्ति=प्रादुर्भवन्ति, शालयः=व्रीहयः, तु=किन्तु, प्रयत्नात्
=प्रयत्नपूर्वकात्, भवन्ति=जायन्ते, तथैव=तेनैव प्रकारेण, दुःखानि=कष्टानि,
अयत्नतः =आयासं विना, भवन्ति = प्रादुर्भवन्ति, सुखानि = भोगादीनि तु, यत्नेन =
प्रयासेन, भवन्ति =जायन्ते, वा न वा=भवन्ति वा न भवन्ति ॥ ३९ ॥
हिन्दी—जैसे धरती पर घास-फूस अनायास उग आते हैं, परन्तु धान के पौधे के
लिए प्रयास करना पड़ता है; उसी तरह इस देह में दुःख अनायास होता है, परन्तु
सुख आयास करने पर भी कभी होता है और कभी नहीं ॥ ३९ ॥
शरीरमार्तं परिकर्षतश्चलं न चास्ति किञ्चित् परमार्थतः सुखम् ।
सुखं हि दुःखप्रतिकारसेवया स्थिते च दुःखे तनुनि व्यवस्यति ॥ ४० ॥
अन्वयः—आर्त्तं चलं च शरीरं परिकर्षतः परमार्थतः किञ्चित् सुखं नास्ति, दुःख-
प्रतिकारसेवया तनुनि दुःखे हि च सुखं व्यवस्यति ॥ ४० ॥
व्याख्या—आर्त्तम् = रोगार्त्तम्, चलम् = विनाशशीलम्, च=पुनः, शरीरम् =
देहम्, परिकर्षतः = आकर्षणात्, परमार्थतः = परमञ्चासो अर्थस्तस्मात्, किञ्चित् =
किमपि, सुखम्=हर्षम्, नास्ति=न भवति, दुःखप्रतिकारसेवया—दुःखस्य=कष्टस्य,
प्रतिकारः=शमनोपायः, तस्य सेवा=परिचर्या, तया, तनुनि=किञ्चित्, दुःखे =
कष्टे, हि =एव, च =पुनः, सुखम्=आनन्दम्, व्यवस्यति =कल्पते ॥ ४० ॥
हिन्दी—आर्त्त एवं क्षणभंगुर इस देह को घसीटने से वास्तव में कुछ भी सुख
नहीं है। दुःख के प्रतिकार से थोड़ा-सा दुःख रहने पर भी मनुष्य सुख की कल्पना
कर लेता है ॥ ४० ॥
यथानपेक्ष्याग्र्यमपीप्सितं सुखं प्रबाधते दुःखमुपेतमण्वपि ।
तथानपेक्ष्यात्मनि दुःखमागतं न विद्यते किञ्चन कस्यचित् सुखम् ॥४१॥
अन्वयः—यथा ईप्सितम् अग्र्यं सुखम् अणु अपि उपेतं दुःखम् अनपेक्ष्य प्रबाधते,
तथा आत्मनि आगतं दुःखम् अनपेक्ष्य कस्यचित् किञ्चन सुखं न विद्यते ॥ ४१ ॥
व्याख्या—यथा=येन रूपेण, ईप्सितम्=अभिलषितम्, अग्र्यम् = महत्, सुखम्=
प्रसन्नताम्, अणु अपि=किञ्चिदपि, उपेतम् =प्राप्तम्, दुःखम्=कष्टम्, अनपेक्ष्य =
उपेक्ष्य, प्रबाधते =प्रपीडयते, तथा =तेनैव प्रकारेण, आत्मनि =स्वस्मिन्, आगतम् =
समागतम्, दुःखम् =पीडाम्, अनपेक्ष्य =अपेक्षां विनैव, कस्यचित्, किञ्चन =किमपि,
सुखम् = हर्षम्, न =नहि, विद्यते =वर्त्तते ॥ ४१ ॥

१८६ सौन्दरनन्दं महाकाव्यम्
हिन्दी—जैसे इच्छित सुख की अपेक्षा न होने पर भी प्राप्त दुःख छोटा भी हो
तो पीड़ा पहुँचाता है, उसी तरह अपने ऊपर आये दुःख की अपेक्षा न होने पर भी
किसी को कोई सुख नहीं हो सकता है ॥ ४१ ॥
शरीरमीदृग्बहुदुःखमध्रुवं
फलानुरोधादथ नावगच्छसि ।
द्रवत्फलेभ्यो धृतिरश्मिभिर्मनो
निगृह्यतां गौरिव शस्यलालसा ॥ ४२ ॥
अन्वयः—ईदृग् शरीरं बहुदुःखम् अध्रुवम् अथ फलानुरोधात् न अवगच्छसि,
द्रवत्फलेभ्यः धृति रश्मिभिः मनः शस्यलालसा गौः इव निगृह्यताम् ॥ ४२ ॥
व्याख्या—ईदृग्=ईदृशम्, इत्थम्, शरीरम् = देहम्, बहुदुःखम् = बहूनि = अनेकानि,
दुःखानि = कष्टानि, यस्मिंस्तत्, अध्रुवम् = अनिश्चिंतम्, अथ = यदि, फलानुरोधात्
—फलस्य = परिणामस्य, अनुरोधात् = आसक्त्याः, न = नहि, अवगच्छसि = जानासि,
द्रवत्फलेभ्यः—द्रवन्ति = चलन्ति, फलानि = परिणामानि, तेभ्यः, धृतिरश्मिभिः—
धृतिः = धैर्यं एव, रश्मि = प्रग्रहः, ताभ्यः, मनः = चित्तम्, शस्यलालसा—शस्यस्य =
क्षेत्रस्थफलस्य, लालसा = अभिलाषा, यस्यां सा, गौः = धेनुः, इव = यथा, निगृह्यताम्
= निगृहीतम् । गौरिवेत्यत्रोपमालङ्कारः, तथा श्रुतिरश्मिभिरित्यत्र रूपका-
लङ्कारः ॥ ४२ ॥
हिन्दी—इस प्रकार यह देह दुःखों से भरा तथा क्षणभंगुर है, यदि फल की
आसक्ति के कारण नहीं समझ रहे हो, तो भी चपल फलों की ओर धीरज रूपी रस्सी
के द्वारा मन को बाँधकर रखो, ठीक उसी तरह जैसे फसल चरने की लालसा रखने
वाली गाय को रोका जाता है ॥ ४२ ॥
न कामभोगा हि भवन्ति तृप्तये हवींषि दीप्तस्य विभावसोरिव ।
यथा यथा कामसुखेषु वर्तते तथा तथेच्छा विषयेषु वर्धते ॥ ४३ ॥
अन्वयः—कामभोगाः हि दीप्तस्य विभावसो हवींषि इव तृप्तये न भवन्ति, यथा
यथा कामसुखेषु इच्छा वर्त्तते तथा तथा विषयेषु वर्धते ॥ ४३ ॥
व्याख्या—कामभोगाः = विषयोपभोगाः, हीति निश्चयेन, दीप्तस्य = प्रज्वलितस्य,
विभावसोः = वह्नेः, हवींषि = आहुतयः, इव = यथा, तृप्तये = शान्तये, न = नहि,
भवन्ति = जायन्ते, यथा यथा = येन प्रकारेण, कामसुखेषु = विषयानन्देषु, इच्छा =
कामना, वर्त्तते = जायते, तथा तथा = तेनैव क्रमेण, विषयेषु = कामेषु, इच्छा =
कामना, वर्धते = वृद्धि याति ॥ ४३ ॥
हिन्दी—प्रज्वलित आग की तृप्ति जैसे आहुतियों से नहीं होती, उसी तरह
विषयोपभोग से काम की तृप्ति नहीं होती, जैसे-जैसे कामसुखों में प्रवृत्ति होती जाती
है, उसी क्रम में विषयोपभोग के प्रति इच्छा बढ़ती जाती है ॥ ४३ ॥

मदापवादः ] नवमः सर्गः १८७
यथा च कुष्ठव्यसनेन दुःखितः प्रतापनान्नैव शमं निगच्छति ।
तथेन्द्रियार्थेष्वजितेन्द्रियश्चरन्न कामभोगैरुपशान्तिमृच्छति ॥ ४४ ॥
अन्वयः - यथा च कुष्ठव्यसनेन दुःखितः प्रतापनात् शमं नैव निगच्छति, तथा
अजितेन्द्रियः इन्द्रियार्थेषु चरन् कामभोगैः शान्तिं न ऋच्छति ॥ ४४ ॥
व्याख्या - यथा = येन रूपेण, च = पुनः, कुष्ठव्यसनेन = कुष्ठरोगेण, दुःखितः = पीडितः,
प्रतापनात् = देहतापनात्, शमम् = शान्तिम्, नैव = नास्त्येव, निगच्छति = याति, तथा
= तेन रूपेण, अजितेन्द्रियः = अवशः, इन्द्रियार्थेषु - इन्द्रियाणाम् = करणानाम्, अर्थास्तेषु
= विषयेषु, चरन् = विचरन्, कामभोगैः = विषयोपभोगैः, शान्तिम् = शमम्, न =
नहि, ऋच्छति = प्रयाति ॥ ४४ ॥
हिन्दी-और जैसे कुष्ठरोग से पीड़ित व्यक्ति अपने को तपा कर शान्ति नहीं
पाता है, उसी तरह इन्द्रियों के विषय में अवश होकर घूमता हुआ आदमी विषयो-
पभोग से शान्ति नहीं पाता है ॥ ॥ ४४ ॥
यथा हि भैषज्यसुखाभिकाङ्क्षया भजेत रोगान्न भजेत तत्क्षमम् ।
तथा शरीरे बहुदुःखभाजने रमेत मोहाद्विषयाभिकाङ्क्षया ॥ ४५ ॥
अन्वयः - यथा हि भैषज्यसुखाभिकाङ्क्षया रोगान् भजेत तत्क्षमं न भजेत, तथैव
मोहात् विषयाभिकाङ्क्षया बहुदुःखभाजने शरीरे रमेत ॥ ४५ ॥
व्याख्या-यथा = येन प्रकारेण, हि = यतः, भैषज्यसुखाभिकाङ्क्षया = भैषज्यस्य =
औषधेः, सुखम् = आनन्दम्, तस्य अभिकाङ्क्षया = अभिलाषया, रोगान् = गदान्, भजेत
= सेवेत, तत्क्षमम् = तत्प्रतीकारसमर्थम्, न भजेत = न सेवेत, तथैव = तेनैव प्रकारेण,
मोहात् = सम्मोहात्, विषयाभिकाङ्क्षया = भोगेच्छया, बहुदुःखभाजने = अतिपीडापात्रे,
शरीरे = देहे, रमेत = सेवेत ॥ ४५ ॥
हिन्दी-जैसे ओषधि-सुख की इच्छा से रोगों का सेवन करे, उसके प्रतिकार का
सेवन नहीं करे, उसी तरह मोह के कारण विषयों की अभिलाषा से अत्यन्त दुःख के
पात्र इस देह में रमण करे ॥ ४५ ॥
अनर्थकामः पुरुषस्य यो जनः स तस्य शत्रुः किल तेन कर्मणा ।
अनर्थमूला विषयाश्च केवला ननु प्रहेया विषमा ययारयः ॥ ४६ ॥
अन्वयः - यः जनः पुरुषस्य अनर्थकामः सः तस्य तेन कर्मणा शत्रुः किल, ननु
विषयाः केवलाः अनर्थमूलाः विषमाः अरयः यथा प्रहेयाः ॥ ४६ ॥
व्याख्या - यः जनः = लोकः, पुरुषस्य = यस्य नरस्य, अनर्थकामः = अनर्थस्य =
अहितस्य, कामना = इच्छा, यस्य सः, सः = पूर्वोक्तः, तस्य = जनस्य, तेन = पूर्वोक्तेन,
कर्मणा = कार्येण, शत्रुः = अरिः, किल = निश्चयेन, ननु, विषयाः = भोगाः, केवलाः,
अनर्थमूलाः = अनर्थस्य = अहितस्य, मूलाः = कारणानि, विषमाः = भयङ्कराः, अरयः =
रिपवः, यथा = इव, प्रहेयाः = त्याज्याः सन्ति ॥ ४६ ॥

१८८ सौन्दरनन्दं महाकाव्यम्
हिन्दी—जो व्यक्ति किसी मनुष्य के अनर्थ की कामना करता है, वह उस कर्म
के कारण उसका शत्रु है। वासना केवल अनर्थों की मूल है, इनको विषयशत्रु की
तरह छोड़ देना चाहिए ॥ ४६ ॥
इहैव भूत्वा रिपवो वधात्मकाः प्रयान्ति काले पुरुषस्य मित्रताम् ।
परत्र चैवेह च दुःखहेतवो भवन्ति कामा न तु कस्यचिच्छिवाः ॥ ४७ ॥
अन्वयः—इहैव रिपवः भूत्वा वधात्मकाः काले पुरुषस्य मित्रतां प्रयान्ति, परत्र इह
एव च कामाः दुःखहेतवः भवन्ति न तु कस्यचित् शिवाः ( भवन्ति ) ॥ ४७ ॥
व्याख्या—इहैव = अत्रैव, रिपवः = शत्रवः, भूत्वा = भूय, वधात्मकाः—वधः =
घातः, आत्मा = चेतना, येषां ते = हिंसकाः, काले = समये, पुरुषस्य = नरस्य, मित्रताम्
=सौहृदम्, प्रयान्ति = गच्छन्ति, परत्र = परलोके, इह = अस्मिन् लोके, एव च,
कामाः =विषयोपभोगाः, न तु, कस्यचित् = कस्यापि लोकस्य, शिवाः = मङ्गलप्रदाः
भवन्ति ॥ ४७ ॥
हिन्दी—संसार में हत्यारे भी कभी समय पर मित्र बन जाते हैं, किन्तु काम इह-
लोक ही नहीं परलोक में भी दुःख के कारण हैं, ये कभी कल्याणकारी नहीं हैं ॥४७॥
यथोपयुक्तं रसवर्णगन्धवद्वधाय किम्पाकफलं न पुष्टये ।
निषेव्यमाणा विषयाश्चलात्मनो भवन्त्यनर्थाय तथा न भूतये ॥ ४८ ॥
अन्वयः—यथा रसवर्णगन्धवत् किम्पाकफलं वधाय उपयुक्तं न पुष्टये तथा च
निषेव्यमाणाः विषयाः चलात्मनः अनर्थाय भवन्ति न भूतये ॥ ४८ ॥
व्याख्या—यथा = येन प्रकारेण, रसवर्णगन्धवत्—रसश्च = आस्वादश्च, वर्णश्च =
रङ्गश्च, गन्धश्च =सौरभश्च तं, तैर्युक्तम्, किम्पाकफलम् = आयुर्वेदशास्त्रे वर्णितं विशेष-
प्रकारकं फलम्, वधाय = हननाय, उपयुक्तम् = समीचीनम्, न = नहि, पुष्टये = पोष-
णाय भवति, तथा = तेन प्रकारेण, च = पुनः, निषेव्यमाणाः = सेव्यमानाः, विषयाः =
उपभोगाः, चलात्मनः = चञ्चलचेतनः, अनर्थाय = अनिष्टये, भवन्ति = स्युः, न भूतये
=न तु कल्याणाय भवन्ति ॥ ४८ ॥
हिन्दी—जैसे रस, रंग और सुगन्धयुक्त किम्पाक का फल वध के लिए होता है,
पुष्टिकारक नहीं; उसी तरह विषयोपभोग करते हुए चंचलात्मा वाले का अनर्थ ही
होता है, कल्याण नहीं ॥ ४८ ॥
तदेतदाज्ञाय विपाप्मनात्मना विमोक्षधर्माद्युपसंहितं हितम् ।
जुषस्व मे सज्जनसम्मतं मतं प्रचक्ष्व वा निश्चयमुद्गिरन् गिरम् ॥ ४९ ॥
अन्वयः—तत् विपाप्मनात्मना विमोक्षधर्माद्युपसंहितम् एतत् हितम् आज्ञाय
सज्जनसम्मतं मे मतं जुषस्व गिरम् उद्गिरन् निश्चयं वा प्रचक्ष्व ॥ ४९ ॥
व्याख्या—तत् =तस्मात्, विपाप्मनात्मना—विगतः=विनष्टः, पाप्मा=पापः,
यस्य सः तेन, विमोक्षधर्माद्युपसंहितम्—विमोक्षस्य =मुक्तेः, धर्मस्तस्य आदिस्तेन

मदापवादः ] नवमः सर्गः १८९
उपसंहितम् = आरम्भयुक्तम्, एतत् = इदम्, हितम् = हितकरम्, आज्ञाय = ज्ञात्वा,
सज्जनसम्मतम् = सुपुरुषानुमतम्, मे = मम भिक्षोः, मतम् = विचारम्, जुषस्व =
सेव्यताम्, गिरम् = वाणीम्, उद्गिरन् = उच्चारयन्, निश्चयम् = दृढसङ्कल्पम्, वा =
अथवा, प्रचक्ष्व = वद ॥ ४९ ॥
हिन्दी—तो फिर इस पापरहित आत्मा से मोक्षधर्म के प्रारंभ से युक्त अपने हित
को पहचानो और सज्जन सम्मत मेरे विचार का सेवन करो अथवा मुँह खोलकर
अपना विचार व्यक्त करौं ॥ ४९ ॥
इति हितमपि बह्वपीदमुक्तः श्रुतमहता श्रमणेन तेन नन्दः ।
न धृतिमुपययौ न शर्म लेभे द्विरद इवातिमदो मदान्धचेताः ॥ ५० ॥
अन्वयः—श्रुतमहता तेन श्रमणेन इति बहु अपि हितम् उक्तः अपि नन्दः अतिमदः
मदान्धचेताः द्विरद इव न धृतिम् उपययौ न शर्म लेभे ॥ ५० ॥
व्याख्या—श्रुतमहता—श्रुतेन = शास्त्रादिज्ञानेन, महान् = उत्कृष्टस्तेन, तेन =
पूर्वोक्तेन, श्रमणेन = बौद्धभिक्षुणा, इति = इत्थम्, बहु = अत्यन्तम्, अपि, हितम् =
हितकरम्, उक्तः = कथितः, अपि, नन्दः = बुद्धानुजः, अतिमदः = अत्यन्तप्रमत्तः,
मदान्धचेताः = मदेन = उन्मादेन, अन्धः = उन्मत्तः, चेतः = मानसः, यस्य सः, द्विरदः
—द्वौ रदौ अस्ति अस्येति द्विरदः = गजराजः, इव = यथा, न = नहि, धृतिम् = धैर्यम्,
उपययौ = जगाम, न = न तु, शर्म = शान्तिम्, लेभे = प्राप्तवान् ॥ ५० ॥
हिन्दी—उस परमोत्कृष्ट विद्वान् भिक्षु द्वारा इस प्रकार बहुत कुछ कहे जाने के
बावजूद भी उस नन्द को न तो धीरज ही बँधा और न शान्ति ही मिली, क्योंकि
अत्यन्त मदमत्त गजराज की तरह वह मदान्ध था ॥ ५० ॥
नन्दस्य भावमवगम्य ततः स भिक्षुः
पारिप्लवं गृहसुखाभिमुखं न धर्मे ।
सत्त्वाशयानुशयभावपरीक्षकाय
बुद्धाय तत्त्वविदुषे कथयाञ्चकार ॥ ५१ ॥
सौन्दरनन्दे महाकाव्ये मदापवादो नाम नवमः सर्गः ॥ ९ ॥
अन्वयः—ततः सः भिक्षुः पारिप्लवं गृहसुखाभिमुखं न धर्मे भावम् अवगम्य
सत्त्वाशयानुशयभावपरीक्षकाय तत्त्वविदुषे बुद्धाय कथयाञ्चकार ॥ ५१ ॥
व्याख्या—ततः = तत्पश्चात्, सः = पूर्वोक्तः, भिक्षुः = श्रमणः, पारिप्लवम् =
चपलम्, गृहसुखाभिमुखम् = गृहस्य = गेहस्य, सुखाय = आनन्दाय, अभिमुखम् =
उन्मुखम्, न = नहि, धर्मे = धार्मिकानुष्ठाने, भावम् = चित्तम्, इति, अवगम्य =
सौ०-16

१९० सौन्दरनन्दं महाकाव्यम्
ज्ञात्वा, सत्त्वाशयानुशयभावपरीक्षकाय—सत्त्वानाम्=जीवानाम्, आशयाः=अभिप्रायाः,
अनुशयाः=विचाराः, भावाश्च=मनोविकाराश्च, तेषां परीक्षकाः=समीक्षकाः,
तस्मै, तत्त्वविदुषे—तत्त्वस्य=तथ्यस्य, विद्वान्=पण्डितस्तस्मै, बुद्धाय=तथागताय,
कथयाञ्चकार = निवेदयामास ॥ ५१ ॥
हिन्दी—तब नन्द के चंचल मन को जानकर गृहसुख की ओर उन्मुख धैर्यच्युत
प्राणियों के आशय, विचार और मनोविकृति के परीक्षक तथा यथार्थ के जानकार बुद्ध
को निवेदित किया ॥ ५१ ॥
सौन्दरनन्दमहाकाव्य में 'अभिमान-निन्दा'
नामक नवम सर्ग समाप्त ॥ ९ ॥

दशमः सर्गः
स्वर्गोपवादः
सूर्यलोक से ध्रुव तक फैला जरामरण-भय मुक्त।
स्वर्ग, पुण्यफल भोगलोक यह भव्यभावना युक्त॥
श्रुत्वा ततः सद्व्रतमुत्सिसृक्षुं भार्यां दिदृक्षुं भवनं विविक्षुम्।
नन्दं निरानन्दमपेतधैर्यमभ्युज्जिहीर्षुर्मुनिराजुहाव ॥ १ ॥
अन्वयः—ततः सद्व्रतम् उत्सिसृक्षुं भार्यां दिदृक्षुं भवनं विविक्षुम् अपेतधैर्यं
निरानन्दं नन्दं श्रुत्वा उज्जिहीर्षुः मुनिः आजुहाव ॥ १ ॥
व्याख्या—ततः = तत्पश्चात्, सद्व्रतम् = भिक्षुनियमम्, उत्सिसृक्षुम् = त्यक्तुमि-
च्छुम्, भार्याम् = पत्नीम्, दिदृक्षुम् = द्रष्टुमिच्छुम्, भवनम् = स्वकीयसदनम्, विविक्षुम्
= प्रवेष्टुमिच्छुम्, अपेतधैर्यम् = अपेतः = समाप्तिं गतः, धैर्यः = धृतिः, यस्य सः तम् =
स्खलितधृतिः, निरानन्दम्—निर्गतः = निष्क्रान्तः, आनन्दः = सुखम्, यस्य सः तम्,
नन्दम् = स्वानुजम्, श्रुत्वा = आकर्ण्य, उज्जिहीर्षुः = उद्धर्तुमिच्छुः, मुनिः = गौतमः,
आजुहाव = आहूतवान् ॥ १ ॥
हिन्दी—तब नन्द भिक्षुव्रत को छोड़ना चाहते हैं, पत्नी को देखना चाहते हैं,
घर लौट जाना चाहते हैं, उनका धीरज टूट गया है, वे दुःखी हैं, यह सुनकर उनका
उद्धार करने के लिए मुनि ने उन्हें अपने पास बुलाया ॥ १ ॥
तं प्राप्तमप्राप्तविमोक्षमार्गं पप्रच्छ चित्तस्खलितं सुचित्तः।
स ह्रीमते ह्रीविनतो जगाद स्वं निश्चयं निश्चयकोविदाय ॥ २ ॥
अन्वयः—प्राप्तम् अप्राप्तविमोक्षमार्गं चित्तस्खलितं तं सुचित्तः पप्रच्छ, ह्रीविनतः
सः ह्रीमते निश्चयकोविदाय स्वं निश्चयं जगाद ॥ २ ॥
व्याख्या—प्राप्तम् = लब्धम्, अप्राप्तविमोक्षमार्गम्—न = नहि, प्राप्तः = अधिकृतः,
विमोक्षस्य = विमुक्तेः, मार्गः = पथः, येन सः तम्, चित्तस्खलितम् = भ्रान्तमतिम्,
तम् = बुद्धानुजं नन्दम्, सुचित्तः = शोभनम् = सुष्ठु, चित्तम् = हृदयम्, यस्य सः,
पप्रच्छ = पृष्टवान्, ह्रीविनतः—ह्रिया = लज्जया, विनतः = अवनतः, सः = नन्दः,
ह्रीमते—ह्रीः अस्ति अस्येति = लज्जावते, निश्चयकोविदाय—निश्चयस्य = कृत-
सङ्कल्पस्य, कोविदः = वेत्ता, तस्मै, स्वम् = स्वकीयम्, निश्चयम् = निर्णयम्,
जगाद = कथयामास ॥ २ ॥
हिन्दी—बौद्ध धर्म में दीक्षित होकर भी बिना मुक्ति मार्ग पाये ही घर लौटने

१९२ सौन्दरनन्दं महाकाव्यम्
वाले भ्रष्ट बुद्धि उस नन्द से पूछा—लज्जा से झुके नन्द ने उसके मन की बात जानने
वाले उस संकोची मुनि से अपना निर्णय बतलाया ॥ २ ॥
नन्दं विदित्वा सुगतस्ततस्तं भार्याभिधाने तमसि भ्रमन्तम् ।
पाणौ गृहीत्वा वियदुत्पपात मलं जले साधुरिवोज्जिहीर्षुः ॥ ३ ॥
अन्वयः—ततः नन्दं भार्याभिधाने तमसि भ्रमन्तं विदित्वा सुगतः तं पाणौ
गृहीत्वा जले साधुः इव मलम् उज्जिहीर्षुः वियद् उत्पपात ॥ ३ ॥
व्याख्या—ततः = तत्पश्चात्, नन्दम् = स्वानुजम्, भार्याभिधाने—भार्यायाः =
सहधर्मिण्याः, विधाने = स्वरूपे, तमसि = अन्धकारे, भ्रमन्तम् = विचरन्तम्, विदित्वा
= ज्ञात्वा, सुगतः = बुद्धः, तम् = नन्दम्, पाणौ = करे, गृहीत्वा = नीत्वा, जले =
सलिले, साधु इव = परिव्राजक इव, मलम् = अयस्करः, उज्जिहीर्षुः = प्रक्षालनमिच्छुः,
वियत् = आकाशम्, उत्पपात = तिरोऽभवत् ॥ ३ ॥
हिन्दी—तब नन्द को पत्नी रूपी अन्धकार में भटकते जानकर बुद्ध ने उसका
हाथ पकड़ लिया, फिर उसके मन के मैल को धोने के लिए उसे लेकर उसी तरह
आकाश में उड़ गये, जैसे कोई परिव्राजक अपनी गन्दगी साफ करने के लिए जलाशय
गया हो ॥ ३ ॥
काषायवस्त्रौ कनकावदातौ विरेजतुस्तौ नभसि प्रसन्ने ।
अन्योन्यसंश्लिष्टविकीर्णपक्षौ सरःप्रकीर्णाविव चक्रवाकौ ॥ ४ ॥
अन्वयः—तौ काषायवस्त्रौ कनकावदातौ प्रसन्ने नभसि अन्योन्यसंश्लिष्टविकीर्ण-
पक्षौ सरःप्रकीर्णौ चक्रवाकौ इव विरेजतुः ॥ ४ ॥
व्याख्या—तौ = सुगतनन्दौ, काषायवस्त्रौ—काषायम् = गैरिकम्, वस्त्रम् = वस-
नम्, ययोः तौ, कनकावदातौ—कनकमिव = स्वर्णमिव, अवदातौ = पीताभौ, प्रसन्ने =
निर्मले, नभसि = आकाशे, अन्योन्यसंश्लिष्टविकीर्णपक्षौ—अन्योन्यम् = परस्परम्,
संश्लिष्टौ = सन्निहितौ, विकीर्णौ = प्रसृतौ, च = पुनः, पक्षौ = पवित्रे, ययोः तौ, सरः =
सरोवरः, प्रकीर्णौ = विश्लिष्टौ, चक्रवाकौ = कोकौ, इव = यथा, विरेजतुः = शुशुभिरे ।
उपमाऽलङ्कारोऽत्र ॥ ४ ॥
हिन्दी—सुनहले रंग वाले गेरुआ वस्त्र पहने निर्मल आकाश में वे दोनों वैसे ही
लगते थे, जैसे स्वच्छ सरोवर में एक-दूसरे से सटे, पांख फैलाये चकवे शोभते हैं ॥४॥
तौ देवदारूत्तमगन्धवन्तं नदीसरःप्रस्रवणौघवन्तम् ।
आजग्मतुः काञ्चनधातुमन्तं देवर्षिमन्तं हिमवन्तमाशु ॥ ५ ॥
अन्वयः—तौ देवदारूत्तमगन्धवन्तं नदीसरःप्रस्रवणौघवन्तं काञ्चनधातुमन्तं
देवर्षिमन्तं हिमवन्तम् आशु आजग्मतुः ॥ ५ ॥
व्याख्या—तौ = तथागतनन्दौ, देवदारूत्तमगन्धवन्तम्—देवदार्वोः = एतदाख्य-
वृक्षस्य, उत्तमम् = उत्कृष्टम्, गन्धम् = सौरभम्, अस्ति अस्य, नदीसरःप्रस्रवणौघवन्तम्

स्वर्गापवादः ] दशमः सर्गः १९३
—नद्यः = शैवलिन्यः, सरांसि = तडागानि, प्रस्त्रवणानि = निर्झराणि, च तेषाम्,
ओघः = समूहः, अस्ति अस्येति, काञ्चनधातुमन्तम् = कनकधातुसमन्वितम्, देवर्षिमन्तम्
—देवर्षयः = सुरमुनयः, सन्ति अस्येति, हिमवन्तम् = नगाधिराजम्, आशु = त्वरितम्,
आजग्मतुः = आगतवन्ताविति ॥ ५ ॥
हिन्दी—वे दोनों देवदारु की उत्तम सुगन्ध से महकते, नदी, तालाब और झरनों
से सुशोभित, सोने-चांदी जैसे खनिजों से भरपूर देवर्षियों से अधिष्ठित हिमालय पर
शीघ्र ही पहुँच गये ॥ ५ ॥
तस्मिन् गिरौ चारणसिद्धजुष्टे शिवे हविर्धूमकृतोत्तरीये ।
अगम्यपारस्य निराश्रयस्य तौ तस्थतुर्द्वीप इवाम्बरस्य ॥ ६ ॥
अन्वयः—अगम्यपारस्य निराश्रयस्य अम्बरस्य द्वीपे इव चारणसिद्धजुष्टे हविर्धूम-
कृतोत्तरीये तस्मिन् शिवे गिरौ तौ तस्थतुः ॥ ६ ॥
व्याख्या—अगम्यपारस्य—अगम्यः = दुर्गम्यः, पारः = अन्यतरस्तटः, यस्य तस्य,
निराश्रयस्य—निर्गतः = निष्क्रान्तः, आश्रयः = आधारः, यस्य तस्य, अम्बरस्य = गगनस्य,
द्वीपे = भागे, इव = यथा, चारणसिद्धजुष्टे—चारणैः = गन्धर्वैः, सिद्धैश्च = किन्नरैश्च,
जुष्टम् = सेवितम्, तस्मिन्, हविर्धूमकृतोत्तरीये—हविषः = होमकुण्डस्य, धूमः =
शिखिध्वजः, तस्य कृतम् = धृतम्, उत्तरीयम् = संव्यानम्, येन सः तस्मिन्, तस्मिन्
=पूर्वोक्ते, शिवे = कल्याणप्रदे, गिरौ = हिमालये, तौ = तथागतनन्दौ, तस्थतुः =
विरेजतुः । श्लोकस्यास्य उत्तरार्द्धे इवेन सह समासत्वादुपमाऽलङ्कारस्तथा 'हविर्धूम-
कृतोत्तरीयेऽत्रोत्प्रेक्षालङ्कारश्चेति ॥ ६ ॥
हिन्दी—चारण और सिद्धों से सेवित उस मंगलमय हिमालय पर्वत पर जिसकी
चादर होम के धुएँ थी—वे दोनों उस दुर्गम अपार और आधारहीन आकाशद्वीप में
स्थित हुए ॥ ६ ॥
शान्तेन्द्रिये तत्र मुनौ स्थिते तु सविस्मयं दिक्षु ददर्श नन्दः ।
दरीश्च कुञ्जांश्च वनौकसश्च विभूषणं रक्षणमेव चाद्रेः ॥ ७ ॥
अन्वयः—शान्तेन्द्रिये मुनौ तत्र स्थिते तु नन्दः दिक्षु अद्रेः विभूषणं रक्षणम् एव
च दरीश्च कुञ्जांश्च वनौकसश्च ददर्श ॥ ७ ॥
व्याख्या—शान्तेन्द्रिये = शमान्विते करणे, मुनौ = गौतमबुद्धे, तत्र = तस्मिन् गिरौ,
स्थिते = विराजमाने सति, तु नन्दः = बुद्धानुजः, दिक्षु = अभितः, अद्रेः = भूधरस्य,
विभूषणम् = अलङ्करणम्, रक्षणम् = शरणम्, एव च = केवलमेव, दरीश्च = गह्वरञ्च,
कुञ्जांश्च = लतासमूहांश्च, वनौकसश्च—वनम् = अरण्यम्, ओकः = निवासम्, येषां ते
तान्, ददर्श = दर्शयामास ॥ ७ ॥
हिन्दी—प्रशान्त इन्द्रियवाले भगवान् बुद्ध के वहाँ विराजमान हो जाने के बाद
नन्दं ने चारों ओर उस पहाड़ के आभूषण एवं रक्षक के रूप में गुफाओं, कुञ्जों और
वनवासियों को देखा ॥ ७ ॥

१९४ सौन्दरनन्दं महाकाव्यम्
बह्वायतं तत्र सिते हि शृङ्गे सङ्क्षिप्तबर्हः शयितो मयूरः ।
भुजे बलस्यायत पीनबाहोर्वैदूर्यकेयूर इवाबभासे ॥ ८ ॥
अन्वयः—तत्र बह्वायते सिते हि शृङ्गे सङ्क्षिप्तबर्हः शयितः मयूरः आयतपीन
बाहोः बलस्य भुजे वैदूर्यकेयूरः इव आवभासे ॥ ८ ॥
व्याख्या—तत्र = तस्मिन् पर्वते, बह्वायते = बहुविशाले, सिते = शुभ्रे, हि = यतः,
शृङ्गे = सानौ, सङ्क्षिप्तबर्हः—सम्यक् = सुष्ठुतया, क्षिप्तः = प्रसारितः, बर्हः = पिच्छः,
येन सः, शयितः = प्रसुप्तः, मयूरः = बर्हिणः, आयतपीनबाहोः—आयते = विस्तृते,
पीने = स्थूले, च बाहू = भुजे, यस्य तस्य, बलस्य = बलरामस्य, भुजे = बाहौ, वैदूर्य-
केयूरः = वैदूर्यमणिनिर्मितवलयम्, इव=यथा, आबभासे = शोभयामास । सम्भावनाया-
मुत्प्रेक्षाऽलङ्कारोऽत्र ॥ ८ ॥
हिन्दी—उस पहाड़ के श्वेत शिखर पर अपने पंख समेटकर मयूर सोया था।
इससे प्रतीत होता था जैसे अपनी लम्बी विशाल बाँहों में वैदूर्यमणि का बाजूबन्द पहने
बलराम जी शोभित हो रहे हैं ॥ ८ ॥
मनःशिलाधातुशिलाश्रयेण पीतीकृतांसो विरराज सिंहः ।
सन्तप्तचामीकरभक्तिचित्रं रूप्याङ्गदं शीर्णमिवाम्बिकस्य ॥ ९ ॥
अन्वयः—मनःशिलाधातुशिलाश्रयेण पीतीकृतांसः सिंहः सन्तप्तचामीकरभक्ति-
चित्रम् आम्बिकस्य शीर्णं रूप्याङ्गदम् इव विरराज ॥ ९ ॥
व्याख्या—मनःशिलाधातुशिलांश्रयेण—मनःशिला=नागजिह्विका, तस्याः शिलायाः
= गण्डशैलस्य, आश्रयेण=सम्पर्केण, पीतीकृतांसः—न पीतः पीतः कृतः इति पीतीकृतः,
पीतीकृतः अंसः यस्य सः=पीताभस्कन्धः, सिंहः = वनराजः, सन्तप्तचामीकरभक्ति-
चित्रम्—सन्तप्तम् = ज्वलितम्, चामीकरम् = कनकम्, तस्य, भक्तिः = अनुरक्तिस्तया
चित्रम् = चित्रितम्,. आम्बिकस्य = अम्बासुतस्य, कार्त्तिकेयस्य, शीर्णम् = च्युतम्,
रूप्याङ्गदम् = रजतकेयूरम्, इव = यथा, विरराज = शोभयामास । कल्पितोपगान-
त्वादत्राप्युपमालङ्कारः ॥ ९ ॥
हिन्दी—मैनसिल धातु की शिला के संपर्क से पीले कंधे वाला सिंह ऐसा शोभ
रहा था मानो तपाये हुए सोने के तारों से मढ़ा हुआ कार्त्तिकेय का टूटा हुआ चांदी
का बाजूबन्द हो ॥ ९ ॥
व्याघ्रः क्लमव्यायतखेलगामी लाङ्गूलचक्रेण कृतापसव्यः ।
बभौ गिरेः प्रस्रवणं पिपासुर्दित्सन् पितृभ्योऽम्भ इवावतीर्णः ॥ १० ॥
अन्वयः—क्लमव्यायतखेलगामी लाङ्गूलचक्रेण कृतापसव्यः गिरेः प्रस्रवणम्
अवतीर्णः पिपासुः व्याघ्रः पितृभ्यः अम्भः दित्सन् इव बभौ ॥ १० ॥
व्याख्या—क्लमेन = आयासेन, व्यायत्तः = कृतव्यायाम, तस्मात्, खेलेन =
लीलया, गन्तुम् = चलितुम्, शीलमस्येति, लाङ्गूलचक्रेण—लाङ्गूलस्य = पुच्छस्य,
चक्रेण = गोलाकारेण, कृतापसव्यः—कृतः = सम्पादितः, अपसव्यः = सव्येतरः, इति

Here is the exact line-by-line transcription of the text from the image into Devanagari script:

स्वर्गापवादः ] दशमः सर्गः १९५
दक्षिणस्कन्धोपरि स्थापयित्वा, गिरेः = भूधरस्य, प्रस्रवणम् = प्रपातः, अवतीर्णः =
प्रविष्टः, पिपासुः = पातुमिच्छुः, व्याघ्रः = चुलुकः, पितृभ्यः = पितृदेवेभ्यः, अम्भः =
जलम्, दित्सन् = दातुमिच्छन्, बभौ = शुशुभे ॥ १० ॥
हिन्दी-थकान के कारण लीलापूर्वक चलता हुआ, पूँछ को दाहिने कन्धे पर रखे
हुए, पहाड़ी झरने पर उतरा हुआ बाघ ऐसा लगता था, जैसे मानो पितरों को पानी
देने की इच्छा कर रहा है ॥ १० ॥
चलत्कदम्बे हिमवन्नितम्बे तरौ प्रलम्बे चमरो ललम्बे ।
छेतुं विलग्नं न शशाक बालं कुलोद्गतां प्रीतिमिवार्यवृत्तः ॥ ११ ॥
अन्वयः-चलत्कदम्बे हिमवन्नितम्बे प्रलम्बे तरौ चमरः ललम्बे, विलग्नं बालम्
आर्यवृत्तः कुलोद्गतां प्रीतिम् इव छेत्तुं न शशाक ॥ ११ ॥
व्याख्या-चलत्कदम्बे = चलन्तः = कम्पयन्तः, कदम्बाः = नीपाः, यस्मिन् तस्मिन्,
हिमवंन्नितम्बे = हिमालयस्य शिखरे, प्रलम्बे = विशाले, तरौ = वृक्षे, चमरः = धेनुगः,
ललम्बे = अलम्बत, सः, विलग्नम् = संसक्तम्, बालम् = पुच्छम्, आर्यवृत्तः-आर्यम् =
शालीनम्, वृत्तम् = आचरणम्, यस्य सः, कुलोद्गताम्-कुलात् = वंशात्, उद्गता
समुत्पन्ना, ताम्, प्रीतिम् = मैत्रीम्, इव = सदृशः, छेत्तुम् = कर्त्तयितुम्, न = नहि,
शशाक = अशक्नोत् । अत्रोपमाऽलङ्कारः । अनुप्रासालङ्कारस्य छटाऽपि विलक्षणात्र ॥
हिन्दी-हिमालय के नितम्बभाग पर एक लम्बे हिलते कदम्ब की डाल में एक
चमर की पूँछ फँसी थी । एक शालीन व्यक्ति जैसे परम्परागत मित्रता को नहीं तोड़
पाता, उसी तरह वह चमर भी उसे नहीं तोड़ सका ॥ ११ ॥
सुवर्णगौराश्च किरातसङ्घा मयूरपिच्छोज्ज्वलगात्रलेखाः ।
शार्दूलपातप्रतिमा गुहाभ्यो निष्पेतुरुद्गार इवाचलस्य ॥ १२ ॥
अन्वयः-सुवर्णगौराः मयूरपिच्छोज्ज्वलगात्रलेखाः च शार्दूलपातप्रतिमा किरात-
सङ्घाः अचलस्य गुहाभ्यः उद्गार इव निष्पेतुः ॥ १२ ॥
व्याख्या-सुवर्णगौराः = कनकाभाः, मयूरपिच्छोज्ज्वलगात्रलेखाः-मयूरस्य =
कलापिनः, पिच्छैः = बर्हिणैः, उज्ज्वलाः = देदीप्यमानाः, गात्रस्य = देहस्य, लेखाः =
सङ्गणनाः, येषां ते, च = पुनः, शार्दूलपातप्रतिमा = व्याघ्रपातसदृशाः, किरातसङ्घाः =
वनेचरसमूहाः, अचलस्य = भूधरस्य, गुहाभ्यः = कन्दराभ्यः, उद्गारः = वान्तः, इव =
यथा, निष्पेतुः = निर्जग्मुः, शार्दूलप्रतिमेत्यत्रोपमाऽलङ्कारस्तथा उद्गार इवेत्यत्र
उत्प्रेक्षाऽलङ्कारः ॥ १२ ॥
हिन्दी-सुनहले रंग के झुण्ड के झुण्ड किरात, जिनके शरीर मयूर की पूँछों से
उज्ज्वल थे, शेरों की तरह गुफाओं से निकल आये; जैसे पर्वत ने उन्हें वमन
किया हो ॥ १२ ॥
दरीचराणामतिसुन्दरीणां मनोहरश्रोणिकुचोदरीणाम् ।
वृन्दानि रेजुर्गदिशि किन्नरीणां पुष्पोत्कचानामिव वल्लरीणाम् ॥ १३ ॥

१९६ सौन्दरनन्दं महाकाव्यम्
अन्वयः - दरीचराणां मनोहरः श्रोणिकुचोदरीणां अतिसुन्दरीणां किन्नरीणां
वृन्दानि पुष्पोत्कचानां बल्लरीणाम् इव दिशि रेजुः ॥ १३ ॥
व्याख्या - दरीचराणाम् = दरीषु = कन्दरासु, चरन्तीति = विचरन्तीति, तासाम्,
मनोहरः = रुचिकरः, श्रोणिकुचोदरीणाम् - श्रोणयः = नितम्बाः, कुचाः = स्तनाः,
उदराः = कुक्षाश्चेति श्रोणिकुचोदराः, मनोहराश्च ते यासाम् तासाम्, अतिसुन्दरीणाम् =
अत्यन्तरूपवतीनाम्, किन्नरीणां वृन्दानि = एतदाख्यदेवयोनिस्त्रीणां समूहाः, पुष्पोत्क-
चानाम् = कुसुमयुक्तानाम्, वल्लरीणाम् = लतानाम्, इव = यथा, दिशि = परितः,
रेजुः = शुशुभिरे ॥ १३ ॥
हिन्दी - कन्दराओं में घूमने वाली अत्यन्त सुन्दर किन्नरियां, जिनके स्तन और
पेट मनोहर थे, वे झुंड के झुंड चारों ओर ऐसी शोभती थीं, मानो लताएँ फूलों से
भरी हों ॥ १३ ॥
नगान्नगस्योपरि देवदारूनायासयन्तः कपयो विचेरुः ।
तेभ्यः फलं नापुरतोऽपजग्मुर्मोघप्रसादेभ्य इवेश्वरेभ्यः ॥ १४ ॥
अन्वयः - नगात् नगस्योपरि देवदारून् आयासयन्तः कपयः विचेरुः फलं न आपुः,
अतः तेभ्यः मोघप्रसादेभ्यः ईश्वरेभ्यः इव अपजग्मुः ॥ १४ ॥
व्याख्या - नगात् = भूधरात्, नगस्योपरि = पर्वतस्योपरि, देवदारून् = देवदारु-
वृक्षान्, आयासयन्तः = पीडयन्तः, कपयः = वानराः, विचेरुः = बभ्रमुः, फलम्, न =
नहि, आपुः = प्राप्तवन्तः, अतः = अस्मात् कारणात्, तेभ्यः = द्रुमेभ्यः, मोघप्रसादेभ्यः

  • मोघम् = व्यर्थम्, प्रसादः = प्रसन्नता, येषां तेभ्यः, ईश्वरेभ्यः = धनिकेभ्यः,
    अपजग्मुः = अपसस्रुः । अत्राप्युपमालङ्कारोऽस्ति ॥ १४ ॥
    हिन्दी - एक पहाड़ से दूसरे पहाड़ पर चढ़कर वानरों के समूह देवदारु के वृक्षों
    को हिलाते थे, किन्तु फल न मिलने पर वे उसे उसी तरह छोड़ देते थे जैसे, उन
    धनिकों को जिनकी खुशी का कोई महत्त्व नहीं होता, उन्हें छोड़कर याचक दूर हट
    जाते हैं ॥ १४ ॥
    तस्मात्तु यूथादपसार्यमाणां निष्पीडितालक्तकरक्तवक्त्राम् ।
    शाखामृगीमेकविपन्नदृष्टिं दृष्ट्वा मुनिर्नन्दमिदं बभाषे ॥ १५ ॥
    अन्वयः- तस्मात् तु यूथात् अपसार्यमाणां निष्पीडितालक्तकरक्तवक्त्राम् एकविपन्न-
    दृष्टिं शाखामृगीं दृष्ट्वा मुनिः नन्दम् इदं बभाषे ॥ १५ ॥
    व्याख्या - तस्मात् = तेन हेतुना, तु = किन्तु, यूथात् = समूहात्, अपसार्यमाणाम् =
    असंलग्नाम्, निष्पीडितालक्तकरक्तवक्त्राम् - निष्पीडितेन = निश्च्योतितेन, आलक्त-
    केन = द्रुमामयेन, रक्तम् = रक्तवर्णम्, वक्त्रम् = मुखम्, यस्याः सा ताम्, एकविपन्न-
    दृष्टिम् - एका = एकमात्र, विपन्ना = विनष्टा, दृष्टिः = नेत्रम्, यस्याः सा ताम्,
    शाखामृगीम् = वानरीम्, दृष्ट्वा = अवलोक्य, मुनिः = बुद्धः, नन्दम् = स्वानुजम्,
    इदम् = एतत्, बभाषे = उवाच ॥ १५ ॥

सर्ग ११ से १५: काम-दोष दर्शन, इन्द्रिय-संयम, आहार-शुद्धि एवं ध्यान-साधना

स्वर्गपवादः ] दशमः सर्गः ५९७
हिन्दी-समूह से भटकी एक कानी वानरी जिसका मुँह लाल था, जैसे कि उस
पर महावर निचोड़ा गया हो, उसे देखकर भगवान् बुद्ध ने नन्द से कहा ॥ १५ ॥
का नन्द रूपेण च चेष्टया च सम्पश्यतश्चारुतरा मता ते ।
एषा मृगी वैकविपन्नदृष्टिः स वा जनो यत्र गता तवेष्टिः ॥ १६ ॥
अन्वयः-नन्द ! रूपेण चेष्टया च सम्पश्यतः ते का चारुतरा मता, एकविपन्न-
दृष्टिः एषा मृगी वा सः जनः वा यत्र तव दृष्टिः गता ? ॥ १६ ॥
व्याख्या-नन्द = हे भ्रातः ! रूपेण = सुष्ठु आकृत्या, च=पुनः, चेष्टया =
विलासेन, च सम्पश्यतः = अवलोकयतः, ते=तव, का चारुतरा मता=शोभनतरा विहिता,
एकविपन्नदृष्टिः = नष्टैकचक्षुः, एषा = इयम्, मृगी = वानरी, वा = अथवा, सः =
असौ, जनः = लोकः, वा = अथवा, यत्र = यस्मिन् स्थाने, तव = भवतः, दृष्टिः =
आसक्तिः, गता=याता ॥ १६ ॥
हिन्दी-ओ नन्द ! तुम्हारे विचार से रूप और विलास में कौन अधिक सुन्दर
दिखलायी पड़ रहा है, यह कानी वानरी या जिसमें तुम्हारी आसक्ति है वह ? ॥१६॥
इत्येवमुक्तः सुगतेन नन्दः कृत्वा स्मितं किञ्चिदिदं जगाद ।
क्व चोत्तमस्त्री भगवन् वधूस्ते मृगी नगक्लेशकरी क्व चैषा ॥ १७ ॥
अन्वयः-सुगतेन इत्येवम् उक्तः नन्दः किञ्चित् स्मितं कृत्वा इदं जगाद-
भगवन् ! क्व च उत्तमस्त्री ते वधूः क्व च नगक्लेशकरी एषा मृगी ॥ १७ ॥
व्याख्या-सुगतेन = तथागतेन, इत्येवम् = अनेन रूपेण, उक्तः = पृष्टः, नन्दः =
बुद्धानुजः, किञ्चित् = ईषद्, स्मितम् = मन्दहास्यम्, कृत्वा = निष्पाद्य, इदम् = एतत्,
जगाद = उवाच, भगवन् = श्रीमन् ! क्व च = कुत्र च, उत्तमस्त्री = श्रेष्ठतमवामा, ते =
तव, वधूः = अनुजवधूः, क्व च = कुत्र च, नगक्लेशकरी-करोतीति स्त्रियां करी,
क्लेशस्य करी क्लेशकरी, न गच्छतीति नगस्तेषां नगानां क्लेशकरी नगक्लेशकरी =
पादपपीडा दायिनी, एषा = पुरोवर्त्तमाना, मृगी = वानरी ॥ १७ ॥
हिन्दी-इस प्रकार जब बुद्ध ने पूछा, तब मन्द-मन्द मुस्कुराते हुए नन्द ने उत्तर
दिया-भगवन् ! कहां तो दिव्य सुन्दरी आपकी अनुजवधू और कहाँ यह पेड़ों को
पीड़ा देने वाली बन्दरी ? ॥ १७ ॥
'ततो मुनिस्तस्य निशम्य वाक्यं हेत्वन्तरं किञ्चिदवेक्षमाणः ।
आलम्ब्य नन्दं प्रययौ तथैव क्रीडावनं वज्रधरस्य राज्ञः ॥ १८ ॥
अन्वयः-ततः मुनिः तस्य वाक्यं निशम्य किञ्चित् हेत्वन्तरम् अवेक्ष्यमाणः नन्दम्
आलम्ब्य तथैव राज्ञः वज्रधरस्य क्रीडावनं प्रययौ ॥ १८ ॥
व्याख्या-ततः = तत्पश्चात्, मुनिः = गौतमः, तस्य = नन्दस्य, वाक्यम् = वचनम्,
निशम्य = श्रुत्वा, किञ्चित् = ईषत्, हेत्वन्तरम्-अन्यम् = अपरम्, हेतुम् = कारणम्,
हेत्वन्तरम् = कारणान्तरम्, अवेक्ष्यमाणः = अवलोकयन्, नन्दम्=स्वानुजम्, आलम्ब्य=

१९८ सौन्दरनन्दं महाकाव्यम्
नीत्वा, तथैव = तेनैव प्रकारेण, राज्ञः = नृपस्य, वज्रधरस्य - धरतीति धरः, वज्रस्य
धरः वज्रधरः, तस्य = देवराजस्य, क्रीडावनम् = केलिवनम्, प्रययौ = गतवान् ॥१८॥
हिन्दी-इसके बाद भगवान् बुद्ध ने नन्द की बात सुनकर किसी अन्य कारण को
देखते हुए नन्द को साथ लेकर देवराज इन्द्र के केलिवन में प्रवेश किया ॥ १८ ॥
ऋतावृतावाकृतिमेक एके क्षणे क्षणे बिभ्रति यत्र वृक्षाः ।
चित्रां समस्तामपि केचिदन्ये षण्णामृतूनां श्रियमुद्वहन्ति ॥ १९ ॥
अन्वयः-यत्र एके-एके वृक्षाः क्षणे-क्षणे ऋतावृत्तौ आकृतिं बिभ्रति, अन्ये केचित्
षण्णाम् ऋतूनां समस्ताम् अपि चित्रां श्रियम् उद्वहन्ति ॥ १९ ॥
व्याख्या-यत्र = यस्मिन् लीलाकानने, एके-एके = प्रत्येकम्, वृक्षाः = तरवः, क्षणे-
क्षणे = प्रतिक्षणम्, ऋतावृत्तौ = वसन्तादिप्रतिऋतौ, आकृतिम् = स्वरूपसौन्दर्यम्,
बिभ्रति = धारयन्ति, अन्ये = अपरे, केचित् = कश्चित्, षण्णाम् = उक्तासङ्ख्यानाम्,
ऋतूनाम् = वसन्तादिपरिवर्त्तितकालानामू, समस्तामपि = सकलामपि, चित्राम् =
विचित्राम्, श्रियम् = कान्तिम्, उद्वहन्ति = धारयन्ति, तरुभिः ऋतूनां शोभाधारणे-
नातिशयोक्तिरलङ्कारोऽत्र ॥ १९ ॥
हिन्दी-इस केलिवन के प्रतिवृक्ष प्रतिक्षण प्रतिऋतु की बदलती रूपशोभा को
धारण करते हैं और अन्य पेड़ षड्ऋतुओं की सारी की सारी चित्र-विचित्र शोभा धारण
करते हैं ॥ १९ ॥
पुष्यन्ति केचित् सुरभीरुदारा मालाः स्रजश्च ग्रथिता विचित्राः ।
कर्णानुकूलानवतंसकांश्च प्रत्यर्थिभूतानिव कुण्डलानाम् ॥२०॥
अन्वयः-केचित् सुरभीः उदाराः मालाः विचित्राः ग्रथिताः स्रजश्च कुण्डलानां
प्रत्यर्थिभूतान् इव कर्णानुकूलान् अवतंसकांश्च पुष्यन्ति ॥ २० ॥
व्याख्या-केचित् = कियन्तस्तरवः, सुरभीः = सुगन्धिताः, उदाराः = बहुप्रदाः,
मालाः = हाराः, विचित्राः = विस्मापकाः, ग्रथिताः = गुम्फिताः, स्रजश्च = मालाश्च,
कुण्डलानाम् = वलयानाम्, प्रत्यर्थिभूतान् = प्रतिरूपजान्, इव = यथा, कर्णानुकूलान्-
कर्णयोः = श्रोत्रयोः, अनुकूलान् = उपकारकान्, अवतंसकांश्च = कर्णभूषणांश्च, पुष्यन्ति=
धारयन्ति । अत्रोत्प्रेक्षाऽलङ्कार इति ॥ २० ॥
हिन्दी-कितने ही वृक्ष सुगन्धित हैं, सुन्दर मालाएँ, रंग-बिरंगे गूँथे हार तथा
कुण्डलों की बराबरी करने वाले कानों के अनुकूल आभूषण धारण करते हैं ॥ २० ॥
रक्तानि फुल्लाः कमलानि यत्र
प्रदीपवृक्षा इव भान्ति वृक्षाः ।
प्रफुल्लनीलोत्पलरौहिणोऽन्ये
सोन्मीलिताक्षा इव भान्ति वृक्षाः ॥ २१ ॥
अन्वयः-यत्र रक्तानि कमलानि फुल्लाः वृक्षाः प्रदीपवृक्षाः इव भान्ति, अन्ये
प्रफुल्लनीलोत्पलरौहिणः वृक्षाः सोन्मीलिताक्षाः इव भान्ति ॥ २१ ॥

स्वर्गपवादः ] दशमः सर्गः १९९
व्याख्या—यत्र = यस्मिन् वने, रक्तानि = लोहितानि, कमलानि = पद्मानि, फुल्लाः =
विकसिताः, वृक्षाः = द्रुमानि, प्रदीपवृक्षाः = दीपद्रुमानि, इव = यथा, भान्ति = राजन्ते,
अन्ये = अपरे, प्रफुल्लनीलोत्पलरोहिणः—प्रफुल्लानि = विकसितानि, यानि
नीलोत्पलानि = कुवलयानि, तानि रोहन्ति = शोभन्ति येषु ते, वृक्षाः = तरवः,
सोन्मीलिताक्षाः—उन्मीलितानि = विस्फारितानि, अक्षीणि = नेत्राणि, तैः, सहिताः =
संयुक्ताः, इव = यथा, भान्ति = राजन्ते । सम्भावनायामुत्प्रेक्षाऽलङ्कारः ॥ २१ ॥
हिन्दी—जहाँ लाल-लाल विकसित कमलों के पौधे, प्रज्वलित दीप के पौधे की
तरह शोभित हो रहे हैं तथा विकसित नीलकमलों से युक्त पेड़ ऐसे शोभ रहे हैं,
मानो उनकी आँखें विस्फारित हुई है ॥ २१ ॥
नानाविरागाण्यथ पाण्डराणि सुवर्णभक्तिव्यवभासितानि ।
अतान्तवान्येकघनानि यत्र सूक्ष्माणि वासांसि फलन्ति वृक्षाः ॥ २२ ॥
अन्वयः—अथ यत्र वृक्षाः नानाविरागाणि पाण्डराणि सुवर्णभक्तिव्यवभासितानि
अतान्तवानि एकनानि सूक्ष्माणि वासांसि फलन्ति ॥ २२ ॥
व्याख्या—अथ = अन्यच्च, यत्र = यस्मिन् स्थाने, वृक्षाः = पादपाः, नानाविरा-
गाणि = अनेकवर्णानि, पाण्डराणि = सितपीतवर्णानि, सुवर्णभक्तिव्यवभासितानि—
सुवर्णानाम् = कनकानाम्, भक्तिभिः = रेखाभिः, व्यवभासितानि = भास्वराणि, अतन्त-
वानि = तन्तुशून्यानि, एकघनानि = अविरलानि, सूक्ष्माणि = तनूनि, वासांसि = वस्त्राणि,
फलन्ति = जायन्ते ॥ २२ ॥
हिन्दी—जहाँ के पेड़ अनेक रंगों वाले, श्वेतपीत वर्णवाले, सुनहली रेखाओं से
भास्वर, तन्तरहित, सघन एवं पतले वस्त्रों को उत्पन्न करते हैं ॥ २२ ॥
हारान् मणीनुत्तमकुण्डलानि केयूरवर्याण्यथ नूपुराणि ।
एवंविधान्याभरणानि यत्र स्वर्गानुरूपाणि फलन्ति वृक्षाः ॥ २३ ॥
अन्वयः—अथ यत्र वृक्षाः हारान् मणीन् उत्तमकुण्डलानि केयूरवर्याणि नूपुराणि
एवंविधानि स्वर्गानुरूपाणि अन्याभरणानि फलन्ति ॥ २३ ॥
व्याख्या—अथ = अपि च, यत्र = वने, वृक्षाः = पादपाः, हारान् = मालान्,
मणीन् = रत्नानि, उत्तमकुण्डलानि = उत्कृष्टश्रवणाभरणानि, केयूरवर्याणि = उत्तम-
वलयानि, नूपुराणि = चरणभूषणानि, एवंविधानि = एतादृग्रूपाणि, स्वर्गानुरूपाणि =
नाकोपयुक्तानि, अन्याभरणानि = अपरभूषणानि, फलन्ति = जायन्ते ॥ २३ ॥
हिन्दी—कितने ही वृक्ष हारों, मणियों, उत्तम कुण्डलों, उत्तम केयूरों, नूपुरों
और स्वर्ग के अनुरूप ऐसे ही आभूषणों के फल देते हैं ॥ २३ ॥
वैडूर्यनालानि च काञ्चनानि पद्मानि वज्राङ्कुरकेसराणि ।
स्पर्शक्षमाण्युत्तमगन्धवन्ति रोहन्ति निष्कम्पतला नलिन्यः ॥ २४ ॥
अन्वयः—च निष्कम्पतला नलिन्यः वैडूर्यनालानि वज्राङ्कुरकेसराणि स्पर्शक्षमाणि
[

२०० सौन्दरनन्दं महाकाव्यम्
व्याख्या—च = अपि च, निष्कम्पतलाः—निर्गतः = निष्क्रान्तः, कम्पः = वेपनम्,
यस्य सः निष्कम्पः, निष्कम्पानि = स्थिराणि, तलानि = मूलानि, यासां ताः, नलिन्यः =
पद्मिन्यः, वैदूर्यनालाानि = वैदूर्यमणिस्तम्भानि, वज्राङ्कुरकेसराणि—वज्रस्य = हीरकस्य,
अङ्कुराः = प्ररोहाः, केसराश्च = कुङ्कुमानिव, येषां तानि, स्पर्शक्षमाणि = स्पृश्यानि,
उत्तमगन्धवन्ति—उत्तमाः = श्रेष्ठाः, गन्धाः = सौरभाणि, सन्ति येषु तानि, काञ्चनानि
= कनकानि, पद्मानि = कमलानि, रोहन्ति = प्रादुर्भवन्ति ॥ २४ ॥
हिन्दी—और जहाँ शान्त सरोवर, वैदूर्यनालवाले, हीरे के अंकुर और केसर वाले
तथा स्पर्श करने योग्य उत्कृष्ट सुगन्धवाले, सोने के कमल उत्पन्न करते हैं ॥ २४ ॥
यत्रायतंाश्चैव ततांश्च तांस्तान् वाद्यस्य हेतून् सुषिरान् घनांश्च ।
फलन्ति वृक्षा मणिहेमचित्रा क्रीडासहायास्त्रिदशालयानाम् ॥२५॥
अन्वयः—यत्र त्रिदशालयानाम् क्रीडासहायाः मणिहेमचित्राः वृक्षाः वाद्यस्य तान्
तान् हेतून् आयतान् ततान् चैव सुषिरान् च घनान् च फलन्ति ॥ २५ ॥
व्याख्या—यत्र = वने, त्रिदशालयानाम्—तिसृणां दशानाम् आलयाः त्रिदशालया-
नाम् = सुराणाम्, क्रीडासहायाः = लीलासहयोगिनः, मणिहेमचित्राः—मणिभिः = रत्नैः,
हेमैः = कनकैश्च, चित्राः = विचित्राः, मणिहेमचित्राः = कनकमणिखचिताः, वृक्षाः =
पादपाः, वाद्यस्य = वीणादियन्त्रस्य, तान्-तान् = अनेकान्, हेतून् = उपकरणान्, आय-
तान् = विस्तृतान्, ततान् = तन्त्रीयुक्तान् वीणादीन्, च = पुनः, एव, सुषिरान् = वंशी-
प्रभृतितूर्यदीन्, च = पुनः, घनान् च = कांस्यनिर्मितवाद्यविशेषांश्च, फलन्ति =
उत्पादयन्ति ॥ २५ ॥
हिन्दी—जहाँ देवताओं की लीला में सहायक मणिकांचन रेखाङ्कित पेड़ वाद्य
उपकरणादि, वीणा, बांसुरी, झांझ, मंजीरे आदि फल के रूप में देते हैं ॥ २५ ॥
मन्दारवृक्षांश्च कुशेशयांश्च पुष्पानतान् कोकनदांश्च वृक्षान् ।
आक्रम्य माहात्म्यगुणैर्विराजन् राजायते यत्र स पारिजातः ॥ २६ ॥
अन्वयः—यत्र मन्दारवृक्षान् च कुशेशयान् च पुष्पानतान् च कोकनदान् वृक्षान् च
माहात्म्यगुणैः आक्रम्य विराजन् सः पारिजातः राजायते ॥ २६ ॥
व्याख्या—यत्र = वने, मन्दारवृक्षान् = स्वर्गवृक्षविशेषान्, च = पुनः, कुशेशयान् =
सरसिजानि, च = पुनः, पुष्पानतान् = कुसुमावनतान्, कोकनदान् = नीलकमलानि,
वृक्षान् = पुमान्, माहात्म्यगुणैः = उत्तमगुणयुक्तैः, आक्रम्य = विजित्य, विराजन् =
शोभमानः, सः = तत्र स्थितः, पारिजातः = कल्पतरुः, राजायते—राजानमिवाचरति
राजायते = नृपवत् शोभते । अस्मिन् श्लोके लुप्तोपमाऽलङ्कारः ॥ २६ ॥
हिन्दी—और जहाँ मन्दार के पेड़ और कमल के फूलों से लदे नीलकमल के पेड़ों
को अपने माहात्म्य और गुणों से जीत कर वह पारिजात राजा की तरह विराजित है।
कृष्टे तपःशीलहलैरुस्रैस्त्रिविष्टपक्षेत्रतले प्रसूताः ।
एवंविधा यत्र सदानुवृत्ता दिवौकसां भोगविधानवृक्षाः ॥ २७ ॥

स्वर्गापवादः ] दशमः सर्गः २०१
अन्वयः—यत्र अखिन्नैः तपःशीलहलैः कृष्टे त्रिविष्टपक्षेत्रतले एवंविधाः प्रसूताः
दिवौकसां भोगविधानवृक्षाः सदानुवृत्ताः ॥ २७ ॥
व्याख्या -- यत्र = लीलावने, अखिन्नैः = अश्रान्तैः, तपःशीलहलैः = तपःशीलरूप-
हलैः, कृष्टे = कर्षिते, त्रिविष्टपक्षेत्रतले — त्रिविष्टपक्षेत्रस्य = स्वर्गीयक्षेत्रस्य, तले =
मूले, एवंविधाः = एतादृशाः, प्रसूताः = समुत्पन्नाः, दिवौकसाम् = सुराणाम्, भोग-
विधानवृक्षाः—भोगस्य = उपभोगस्य, विधानम् = सम्पादनम्, तस्य वृक्षाः = द्रुमाः,
सदानुवृत्ताः = सदानुकूलाः सन्ति । 'तपःशीलहलै'रित्यत्र रूपकालङ्कारः ॥ २७ ॥
हिन्दी-जहाँ कभी न थकने वाले तप और शील के हलों से जोती हुई देवताओं
की धरती पर ऐसे पेड़ पैदा होते हैं, जो देवताओं के भोग का विधान करते हैं और
सदैव उनके अनुकूल बने रहते हैं ॥ २७ ॥
मनःशिलाभैर्वदनैर्विहङ्गा यत्राक्षिभिः स्फाटिकसन्निभैश्च ।
शावैश्च पक्षैरभिलोहितान्तैर्माञ्जिष्ठकैरर्धसितैश्च पादैः ॥ २८ ॥
अन्वयः—यत्र विहङ्गाः मनःशिलाभैः वदनैः स्फाटिकसन्निभैश्च अक्षिभिः अभि-
लोहितान्तैः शावैश्च पक्षैः माञ्जिष्ठकैः अर्धसितैश्च पादैः ॥ २८ ॥
व्याख्या-यत्र = वने, विहङ्गाः = खगाः, मनःशिलाभैः = कल्याणिकातुल्यैः,
वदनैः = आननैः, स्फाटिकसन्निभैश्च = स्फटिकमणितुल्यैः, अक्षिभिः = चक्षुभिः, अभि-
लोहितान्तैः = आरक्तान्तैः, शावैश्च = पीताभैश्च, पक्षैः = पतत्रैः, माञ्जिष्ठकैः =
माञ्जिष्ठवर्णैः, अर्धसितैश्च = अर्धश्वेतैः, पादैः = चरणैः, भ्रमन्ति ॥ २८ ॥
हिन्दी-जहाँ मैनसिल की तरह लाल मुखवाले, स्फटिकमणि की तरह चमकीली
आँखों वाले, लाल एवं पीले पंखोंवाले, मजीठ के रंगवाले आधे सफेद पाँव वाले पक्षी
घूमते रहते हैं ॥ २८ ॥
चित्रैः सुवर्णच्छदनैस्तथान्ये वैडूर्यनीलैर्नयनैः प्रसन्नैः ।
विहङ्गमाः शिञ्जरिकाभिधाना रुतैर्मनःश्रोत्रहरैर्भ्रमन्ति ॥ २९ ॥
अन्वयः—तथा शिञ्जरिकाभिधानाः अन्ये विहङ्गमाः चित्रैः सुवर्णच्छदनैः प्रसन्नैः
वैडूर्यनीलैः नयनैः मनःश्रोत्रहरैः रुतैः भ्रमन्ति ॥ २९ ॥
व्याख्या-तथा = तेन प्रकारेण, शिञ्जरिकाभिधानाः = शिञ्जरिकानामधेयाः,
अन्ये = अपरे, विहङ्गमाः = खगाः, चित्रैः = विचित्रैः, सुवर्णच्छदनैः-सुवर्णस्य =
काञ्चनस्य, छदनानि = पतत्राणि, येषां तैः, प्रसन्नैः = स्वच्छैः, वैडूर्यनीलैः-वैडूर्यमणि
इव नीलैः = नीलवर्णैः, नयनैः = नेत्रैः, मनःश्रोत्रहरैः-मनः = चित्तम्, श्रोत्रञ्च =
कर्णञ्च, हरन्तीति तैः, भ्रमन्ति = विचरन्ति । लुप्तोपमालङ्कारः ॥ २९ ॥
हिन्दी-उसी तरह रंग-बिरंगे सुनहले पंखवाले, लहसुनियां की तरह नीली एवं
स्वच्छ आँखों वाले, मन तथा कानों को आकृष्ट करने वाले शब्दों से युक्त अन्य
शिञ्जरिका नाम पक्षी विचरण कर रहे हैं ॥ २९ ॥

२०२ सौन्दरनन्दं महाकाव्यम्
रक्ताभिरग्रेषु च वल्लरीभिर्मध्येषु चामीकरपिञ्जराभिः ।
वैडूर्यवर्णाभिरुपान्तमध्येष्वलङ्कृता यत्र खगाश्चरन्ति ॥ ३० ॥
अन्वयः-यत्र च अग्रेषु रक्ताभिः वल्लरीभिः मध्येषु चामीकरपिञ्जराभिः उपान्त-
मध्येषु च वैडूर्यवर्णाभिः अलङ्कृताः खगाः चरन्ति ॥ ३० ॥
व्याख्या-यत्र = यस्मिन् स्थाने, च = पुनः, अग्रेषु = समीपेषु, रक्ताभिः = लोहि-
ताभिः, वल्लरीभिः = लताभिः, मध्येषु = मध्यभागेषु, चामीकरपिञ्जराभिः = कनक-
पीताभैः, उपान्तमध्येषु = प्रान्तमध्येषु, च, वैडूर्यवर्णाभिः = वैडूर्योपलैः, अलङ्कृताः =
सुशोभिताः, खगाः = पक्षिणः, चरन्ति = भ्रमन्ति ॥ ३० ॥
हिन्दी-यहाँ पक्षियों के पंखों का अगला हिस्सा लाल, बीचवाला भाग सुनहला
तथा अन्तिम भाग लहसुनियाँ रंग के होते हैं। ऐसे सुन्दर पखेरू वहाँ घूमते
रहते हैं ॥ ३० ॥
रोचिष्णवो नाम पतत्रिणोऽन्ये दीप्ताग्निवर्णा ज्वलितैरिवास्यैः ।
भ्रमन्ति दृष्टीर्वपुषाक्षिपन्तः स्वनैः शुभैरप्सरसो हरन्तः ॥ ३१ ॥
अन्वयः-ज्वलितैः इव आस्यैः दीप्ताग्निवर्णाः रोचिष्णवः नाम अन्ये पतत्रिणः
वपुषा दृष्टीः आक्षिपन्तः शुभैः स्वनैः अप्सरसः हरन्तः भ्रमन्ति ॥ ३१ ॥
व्याख्या-ज्वलितैः = प्रदीप्तैः, इव = यथा, आस्यैः = मुखैः, दीप्ताग्निवर्णाः-
दीप्तस्य = प्रज्वलितस्य, अग्नेः = वह्नेः, इव = यथा, वर्णः = स्वरूपम्, येषां ते, रोचिष्णवः =
रोचिष्णुनामकपक्षिणः, अन्ये = अपरे, पतत्रिणः-पतनात् त्रायते इति पतत्रम्, तदस्ति
अस्येति पतत्रिणः = पक्षिणः, वपुषा = शरीरेण, दृष्टीः = दृक्शक्तयः, आक्षिपन्तः =
आकर्षणं कुर्वन्तः, शुभैः = कल्याणकरैः, स्वनैः = रवैः, अप्सरसः = स्वरवेश्यायाः,
हरन्तः = अपहरन्तः, भ्रमन्ति = चरन्ति ॥ ३१ ॥
हिन्दी-जलती हुई आग की तरह रोचिष्णु नामक दूसरे पक्षी, जिनके मुँह मानो
जल रहा हो, ऐसे लाल-लाल अपनी देव-दृष्टि को आकर्षित करते हुए शुभ वचनों से
अप्सराओं के मन को अपनी ओर आकृष्ट करते हुए घूम रहे हैं ॥ ३१ ॥
यत्रेष्टचेष्टाः सततप्रहृष्टा निरर्तयो निर्जरसो विशोकाः ।
स्वैः कर्मभिर्हीनविशिष्टमध्याः स्वयम्प्रभाः पुण्यकृतो रमन्ते ॥ ३२ ॥
अन्वयः-यत्र इष्टचेष्टाः सततप्रहृष्टाः निरर्तयः निर्जरसः विशोकाः स्वैः कर्मभिः
हीनविशिष्टमध्याः स्वयम्प्रभाः पुण्यकृतः रमन्ते ॥ ३२ ॥
व्याख्या-यत्र = यस्मि न्स्थाने, इष्टचेष्टाः = अभीप्सितप्रयत्नः, सततप्रहृष्टाः-
सततम् = अनवरतम्, प्रहृष्टाः = प्रसन्नाः, निरर्तयः-निर्गताः = निर्याताः, अर्तयः =
रोगाः, येषां ते, निर्जरसः = जराहीनाः, विशोकाः-विगतः = निर्गतः शोकः = सन्तापः,
येषां ते, स्वयम्प्रभाः = स्वकीयप्रभाभासिताः, पुण्यकृतः = पुण्यवन्तः, रमन्ते = रमणं
कुर्वन्ति ॥ ३२ ॥

स्वर्गापवादः ] दशमः सर्गः २०३
हिन्दी—यहाँ इच्छानुसार काम करने वाले, सदा खुश रहने वाले, रोग, शोक
और बुढ़ौती से रहित, अपने ही कर्मों से उत्तम, मध्यम और हीन होने वाले तथा
अपनी ही प्रभा से प्रोद्भासित होनेवाले पुण्यवान् व्यक्ति रमण करते हैं ॥ ३२ ॥
पूर्वं तपोमूल्यपरिग्रहेण स्वर्गक्रयार्थं कृतनिश्चयानाम् ।
मनांसि खिन्नानि तपोधनानां हरन्ति यत्राप्सरसो लडन्त्यः ॥ ३३ ॥
अन्वयः—यत्र पूर्वं तपोमूल्यपरिग्रहेण स्वर्गक्रयार्थं कृतनिश्चयानां तपोधनानां
खिन्नानि मनांसि लडन्त्यः अप्सरसः हरन्ति ॥ ३३ ॥
व्याख्या—यत्र = केलिकानने, पूर्वम् = प्रथमम्, तपोमूल्यपरिग्रहेण—तपः = परि-
व्रज्या, एव मूल्यम् = पण्यः, तस्य परिग्रहः = आदानस्तेन, स्वर्गक्रयार्थम् = देवलोकग्रह-
णार्थम्, कृतनिश्चयानाम् = कृतः = विहितः, निश्चयः = निर्णयः, येन सः तेषाम्, तपो-
धनानाम् = तपोनिधीनाम्, खिन्नानि = क्लेशितानि, मनांसि = चेतांसि, लडन्त्यः =
विलांसवत्यः, अप्सरसः = देवाङ्गनाः, हरन्ति = रमयन्ति ॥ ३३ ॥
हिन्दी—जिन्होंने तपरूपी कीमत चुकाकर स्वर्ग खरीदने का निश्चय किया था,
उन तपस्वियों के दुःखी मन को ये अप्सराएँ अपनी क्रीड़ा द्वारा प्रसन्न करती हैं ॥३३॥
नित्योत्सवं तं च निशाम्य लोकं निस्तन्द्रिनिद्रारतिशोकरोगम् ।
नन्दो जरामृत्युवशं सदार्तं मेने श्मशानप्रतिमं नृलोकम् ॥ ३४ ॥
अन्वयः—नन्दः नित्योत्सवं निस्तन्द्रिनिद्रारतिशोकरोगं च तं लोकं निशाम्य
जरामृत्युवशं सदार्तं नृलोकं श्मशानप्रतिमं मेने ॥ ३४ ॥
व्याख्या—नन्दः = गौतमानुजः, नित्योत्सवम् = सततं पर्व, निस्तन्द्रिनिद्रारति-
शोकरोगम्—निर्गता = निःसृता, तन्द्रा = श्यालुता, निद्रा = सुप्तिः, अरतिः = अप्रीतिः,
शोकः = आर्त्तिः, रोगः = व्याधिश्च, यस्मात् सः तम्, च = पुनः, तम् = देवलोकम्,
लोकम् = भुवनम्, निशाम्य = अवलोक्य, जरामृत्युवशम् = वार्द्धक्य-मरणाधीनम्, सदा-
र्तम् = सर्वदा पीडितम्, नृलोकम् = नृणाम् = नराणाम्, लोकः = प्रदेशः, तम्, श्मशान-
प्रतिमम् = श्मशानस्थ = पितृवनस्य, प्रतिमम् = सदृशम्, मेने = अमन्यतेति । अत्र
श्लोकेऽपि उपमालङ्कारः ॥ ३४ ॥
हिन्दी—उस शान्त लोक को, नित्य महोत्सवयुक्त, थकान, निद्रा, अप्रीति, रोग
और शोक रहित जानकर राजानन्द ने बुढ़ौती और मौत के अधीन सदा दुःखी
मनुष्यलोक को श्मशान की तरह माना ॥ ३४ ॥
ऐन्द्रं वनं तच्च ददर्श नन्दः समन्ततो विस्मयफुल्लदृष्टिः ।
हर्षान्विताश्चाप्सरसः परीयुः सगर्वमन्योन्यमवेक्षमाणाः ॥ ३५ ॥
अन्वयः—विस्मयफुल्लदृष्टिः नन्दः तत् च ऐन्द्रं वनं समन्ततः ददर्श हर्षान्विताश्च
अप्सरसः सगर्वम् अन्योन्यम् अवेक्षमाणाः परीयुः ॥ ३५ ॥

२०४ सौन्दरनन्दं महाकाव्यम्
व्याख्या—विस्मयफुल्लदृष्टिः—विस्मयेन = आश्चर्येण, फुल्लाः = विकसिताः,
दृष्टिः = लोचनम्, यस्य सः, नन्दः = गौतमानुजः, तत = पूर्वोक्तम्, च = पुनः, ऐन्द्रम्—
इन्द्रस्य इदम् ऐन्द्रम् = शचीपतिसम्बन्धि, वनम् = अरण्यम् समन्ततः = परितः,
ददर्श = अपश्यत्, हर्षान्विताश्च = आनन्दिताश्च, अप्सरसः = देवाङ्गनाश्च, सगर्वम्—
गर्वेण = दर्पेण, सह = युक्तः, अन्योन्यम् = परस्परम्, अवेक्षमाणा = अवलोकयन्तः,
परीयुः = सर्वतः आययुः ॥ ३५ ॥
हिन्दी—विस्मय-विस्फारित आँखों से नन्द ने इन्द्रवन को हर ओर से देखा
और देवाङ्गनाएँ खुश होकर गर्व युक्त होकर एक-दूसरे को देखते हुए उसके चारो ओर
आ गयीं ॥ ३५ ॥
सदा युवतयो मदनैककार्याः साधारणाः पुण्यकृतां विहाराः ।
दिव्याश्च निर्दोषपरिग्रहाश्च तपःफलस्याश्रयणं सुराणाम् ॥ ३६ ॥
अन्वयः—सदा युवतयः मदनैककार्याः साधारणाः पुण्यकृतां विहाराः दिव्याः
निर्दोषपरिग्रहाश्च सुराणां तपःफलस्य आश्रयणं चेति ॥ ३६ ॥
व्याख्या—सदा = अनवरतम्, युवतयः = तरुण्यः, मदनैककार्याः—मदन एव =
कामक्रीडा एव, यस्याः एकमात्रम् = केवलम्, कार्यम् = कृत्यम्, अस्ति ताः, साधारणाः =
सामान्याः, पुण्यकृताम् = सुकृतभाजाम्, विहाराः = उपभोग्याः, दिव्याः = स्वर्गीयाः,
निर्दोषपरिग्रहाश्च—निर्दोषः = दोषरहितः, परिग्रहः = अङ्गीकारः, यासां ताः, सुराणाम्
= अमराणाम्, तपःफलस्य—तपसः = वैराग्यस्य, फलस्य = परिणामस्य, आश्रयणम्
= निधानञ्च सन्तीति भावः ॥ ३६ ॥
हिन्दी—वे सदा तरुणी ही रहती हैं, काम-क्रीड़ा ही उनका एक मात्र काम है,
सामान्यतः वे पुण्यकर्मियों के लिए उपभोग्य हैं, वे अलौकिक हैं, उन्हें स्वीकार करने
में कोई दोष नहीं है, तपस्या के फलस्वरूप देवता उन्हें प्राप्त करते हैं ॥ ३६ ॥
तासां जगुर्धीरमुदात्तमन्याः पद्मानि काश्चिल्ललितं बभञ्जुः ।
अन्योन्यहर्षान्निनृतुस्तथान्याश्चित्राङ्गहाराः स्तनभिन्नहाराः ॥ ३७ ॥
अन्वयः—तासां काश्चित् ललितं पद्मानि बभञ्जुः, अन्याः धीरम् उदात्तं जगुः,
तथा अन्याः चित्राङ्गहाराः स्तनभिन्नहाराः अन्योन्यहर्षात् ननृतुः ॥ ३७ ॥
व्याख्या—तासाम् = पूर्वोक्तानां देवाङ्गनानाम्, काश्चित् = काऽप्यप्सरसः, ललितम्
= मनोहरम्, पद्मानि = सरसिजानि, बभञ्जुः = अचिन्नवन्, अन्याः = अपराः, धीरम् =
गभीरम्, उदात्तम् = उदात्तस्वरयुक्तम्, जगुः = गीतमगायन्, तथा = तेनैव प्रकारेण,
अन्याः = काश्चिदप्सरसः, चित्राङ्गहाराः = चित्रविचित्रहावभावयुक्ताः, स्तनभिन्नहाराः—
स्तनाभ्याम् = कठोरकुचाभ्यां, घर्षणेन भिन्नाः = भग्नाः, हाराः = मालाः, यासां
ताः, अन्योन्यहर्षात् = पारस्परिकप्रमोदात्, ननृतुः = अनृत्यन् । अत्र स्तनकाठिन्यध्व-
नेनालङ्कारः ध्वनिरस्ति ॥ ३७ ॥