सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 240, कुल 496 में से
संदर्भ में पढ़ें१८६ सौन्दरनन्दं महाकाव्यम्
हिन्दी—जैसे इच्छित सुख की अपेक्षा न होने पर भी प्राप्त दुःख छोटा भी हो
तो पीड़ा पहुँचाता है, उसी तरह अपने ऊपर आये दुःख की अपेक्षा न होने पर भी
किसी को कोई सुख नहीं हो सकता है ॥ ४१ ॥
शरीरमीदृग्बहुदुःखमध्रुवं
फलानुरोधादथ नावगच्छसि ।
द्रवत्फलेभ्यो धृतिरश्मिभिर्मनो
निगृह्यतां गौरिव शस्यलालसा ॥ ४२ ॥
अन्वयः—ईदृग् शरीरं बहुदुःखम् अध्रुवम् अथ फलानुरोधात् न अवगच्छसि,
द्रवत्फलेभ्यः धृति रश्मिभिः मनः शस्यलालसा गौः इव निगृह्यताम् ॥ ४२ ॥
व्याख्या—ईदृग्=ईदृशम्, इत्थम्, शरीरम् = देहम्, बहुदुःखम् = बहूनि = अनेकानि,
दुःखानि = कष्टानि, यस्मिंस्तत्, अध्रुवम् = अनिश्चिंतम्, अथ = यदि, फलानुरोधात्
—फलस्य = परिणामस्य, अनुरोधात् = आसक्त्याः, न = नहि, अवगच्छसि = जानासि,
द्रवत्फलेभ्यः—द्रवन्ति = चलन्ति, फलानि = परिणामानि, तेभ्यः, धृतिरश्मिभिः—
धृतिः = धैर्यं एव, रश्मि = प्रग्रहः, ताभ्यः, मनः = चित्तम्, शस्यलालसा—शस्यस्य =
क्षेत्रस्थफलस्य, लालसा = अभिलाषा, यस्यां सा, गौः = धेनुः, इव = यथा, निगृह्यताम्
= निगृहीतम् । गौरिवेत्यत्रोपमालङ्कारः, तथा श्रुतिरश्मिभिरित्यत्र रूपका-
लङ्कारः ॥ ४२ ॥
हिन्दी—इस प्रकार यह देह दुःखों से भरा तथा क्षणभंगुर है, यदि फल की
आसक्ति के कारण नहीं समझ रहे हो, तो भी चपल फलों की ओर धीरज रूपी रस्सी
के द्वारा मन को बाँधकर रखो, ठीक उसी तरह जैसे फसल चरने की लालसा रखने
वाली गाय को रोका जाता है ॥ ४२ ॥
न कामभोगा हि भवन्ति तृप्तये हवींषि दीप्तस्य विभावसोरिव ।
यथा यथा कामसुखेषु वर्तते तथा तथेच्छा विषयेषु वर्धते ॥ ४३ ॥
अन्वयः—कामभोगाः हि दीप्तस्य विभावसो हवींषि इव तृप्तये न भवन्ति, यथा
यथा कामसुखेषु इच्छा वर्त्तते तथा तथा विषयेषु वर्धते ॥ ४३ ॥
व्याख्या—कामभोगाः = विषयोपभोगाः, हीति निश्चयेन, दीप्तस्य = प्रज्वलितस्य,
विभावसोः = वह्नेः, हवींषि = आहुतयः, इव = यथा, तृप्तये = शान्तये, न = नहि,
भवन्ति = जायन्ते, यथा यथा = येन प्रकारेण, कामसुखेषु = विषयानन्देषु, इच्छा =
कामना, वर्त्तते = जायते, तथा तथा = तेनैव क्रमेण, विषयेषु = कामेषु, इच्छा =
कामना, वर्धते = वृद्धि याति ॥ ४३ ॥
हिन्दी—प्रज्वलित आग की तृप्ति जैसे आहुतियों से नहीं होती, उसी तरह
विषयोपभोग से काम की तृप्ति नहीं होती, जैसे-जैसे कामसुखों में प्रवृत्ति होती जाती
है, उसी क्रम में विषयोपभोग के प्रति इच्छा बढ़ती जाती है ॥ ४३ ॥