सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 241, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 241

मदापवादः ] नवमः सर्गः १८७
यथा च कुष्ठव्यसनेन दुःखितः प्रतापनान्नैव शमं निगच्छति ।
तथेन्द्रियार्थेष्वजितेन्द्रियश्चरन्न कामभोगैरुपशान्तिमृच्छति ॥ ४४ ॥
अन्वयः - यथा च कुष्ठव्यसनेन दुःखितः प्रतापनात् शमं नैव निगच्छति, तथा
अजितेन्द्रियः इन्द्रियार्थेषु चरन् कामभोगैः शान्तिं न ऋच्छति ॥ ४४ ॥
व्याख्या - यथा = येन रूपेण, च = पुनः, कुष्ठव्यसनेन = कुष्ठरोगेण, दुःखितः = पीडितः,
प्रतापनात् = देहतापनात्, शमम् = शान्तिम्, नैव = नास्त्येव, निगच्छति = याति, तथा
= तेन रूपेण, अजितेन्द्रियः = अवशः, इन्द्रियार्थेषु - इन्द्रियाणाम् = करणानाम्, अर्थास्तेषु
= विषयेषु, चरन् = विचरन्, कामभोगैः = विषयोपभोगैः, शान्तिम् = शमम्, न =
नहि, ऋच्छति = प्रयाति ॥ ४४ ॥
हिन्दी-और जैसे कुष्ठरोग से पीड़ित व्यक्ति अपने को तपा कर शान्ति नहीं
पाता है, उसी तरह इन्द्रियों के विषय में अवश होकर घूमता हुआ आदमी विषयो-
पभोग से शान्ति नहीं पाता है ॥ ॥ ४४ ॥
यथा हि भैषज्यसुखाभिकाङ्क्षया भजेत रोगान्न भजेत तत्क्षमम् ।
तथा शरीरे बहुदुःखभाजने रमेत मोहाद्विषयाभिकाङ्क्षया ॥ ४५ ॥
अन्वयः - यथा हि भैषज्यसुखाभिकाङ्क्षया रोगान् भजेत तत्क्षमं न भजेत, तथैव
मोहात् विषयाभिकाङ्क्षया बहुदुःखभाजने शरीरे रमेत ॥ ४५ ॥
व्याख्या-यथा = येन प्रकारेण, हि = यतः, भैषज्यसुखाभिकाङ्क्षया = भैषज्यस्य =
औषधेः, सुखम् = आनन्दम्, तस्य अभिकाङ्क्षया = अभिलाषया, रोगान् = गदान्, भजेत
= सेवेत, तत्क्षमम् = तत्प्रतीकारसमर्थम्, न भजेत = न सेवेत, तथैव = तेनैव प्रकारेण,
मोहात् = सम्मोहात्, विषयाभिकाङ्क्षया = भोगेच्छया, बहुदुःखभाजने = अतिपीडापात्रे,
शरीरे = देहे, रमेत = सेवेत ॥ ४५ ॥
हिन्दी-जैसे ओषधि-सुख की इच्छा से रोगों का सेवन करे, उसके प्रतिकार का
सेवन नहीं करे, उसी तरह मोह के कारण विषयों की अभिलाषा से अत्यन्त दुःख के
पात्र इस देह में रमण करे ॥ ४५ ॥
अनर्थकामः पुरुषस्य यो जनः स तस्य शत्रुः किल तेन कर्मणा ।
अनर्थमूला विषयाश्च केवला ननु प्रहेया विषमा ययारयः ॥ ४६ ॥
अन्वयः - यः जनः पुरुषस्य अनर्थकामः सः तस्य तेन कर्मणा शत्रुः किल, ननु
विषयाः केवलाः अनर्थमूलाः विषमाः अरयः यथा प्रहेयाः ॥ ४६ ॥
व्याख्या - यः जनः = लोकः, पुरुषस्य = यस्य नरस्य, अनर्थकामः = अनर्थस्य =
अहितस्य, कामना = इच्छा, यस्य सः, सः = पूर्वोक्तः, तस्य = जनस्य, तेन = पूर्वोक्तेन,
कर्मणा = कार्येण, शत्रुः = अरिः, किल = निश्चयेन, ननु, विषयाः = भोगाः, केवलाः,
अनर्थमूलाः = अनर्थस्य = अहितस्य, मूलाः = कारणानि, विषमाः = भयङ्कराः, अरयः =
रिपवः, यथा = इव, प्रहेयाः = त्याज्याः सन्ति ॥ ४६ ॥