सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 239, कुल 496 में से
संदर्भ में पढ़ेंमदापवादः ] नवमः सर्गः १८५
यथा प्ररोहन्ति तृणान्ययत्नतः क्षितौ प्रयत्नात्तु भवन्ति शालयः ।
तथैव दुःखानि भवन्त्ययत्नतः सुखानि यत्नेन भवन्ति वा न वा ॥ ३९ ॥
अन्वयः—यथा क्षितौ तृणानि अयत्नतः प्ररोहन्ति, शालयः तु प्रयत्नात् भवन्ति,
तथैव दुःखानि अयत्नतः भवन्ति, सुखानि तु यत्नेन भवन्ति वा न वा ॥ ३९ ॥
व्याख्या—यथा=येन प्रकारेण, क्षितौ=पृथिव्याम्, तृणानि=नालानि,
अयत्नतः=अनायासेन, प्ररोहन्ति=प्रादुर्भवन्ति, शालयः=व्रीहयः, तु=किन्तु, प्रयत्नात्
=प्रयत्नपूर्वकात्, भवन्ति=जायन्ते, तथैव=तेनैव प्रकारेण, दुःखानि=कष्टानि,
अयत्नतः =आयासं विना, भवन्ति = प्रादुर्भवन्ति, सुखानि = भोगादीनि तु, यत्नेन =
प्रयासेन, भवन्ति =जायन्ते, वा न वा=भवन्ति वा न भवन्ति ॥ ३९ ॥
हिन्दी—जैसे धरती पर घास-फूस अनायास उग आते हैं, परन्तु धान के पौधे के
लिए प्रयास करना पड़ता है; उसी तरह इस देह में दुःख अनायास होता है, परन्तु
सुख आयास करने पर भी कभी होता है और कभी नहीं ॥ ३९ ॥
शरीरमार्तं परिकर्षतश्चलं न चास्ति किञ्चित् परमार्थतः सुखम् ।
सुखं हि दुःखप्रतिकारसेवया स्थिते च दुःखे तनुनि व्यवस्यति ॥ ४० ॥
अन्वयः—आर्त्तं चलं च शरीरं परिकर्षतः परमार्थतः किञ्चित् सुखं नास्ति, दुःख-
प्रतिकारसेवया तनुनि दुःखे हि च सुखं व्यवस्यति ॥ ४० ॥
व्याख्या—आर्त्तम् = रोगार्त्तम्, चलम् = विनाशशीलम्, च=पुनः, शरीरम् =
देहम्, परिकर्षतः = आकर्षणात्, परमार्थतः = परमञ्चासो अर्थस्तस्मात्, किञ्चित् =
किमपि, सुखम्=हर्षम्, नास्ति=न भवति, दुःखप्रतिकारसेवया—दुःखस्य=कष्टस्य,
प्रतिकारः=शमनोपायः, तस्य सेवा=परिचर्या, तया, तनुनि=किञ्चित्, दुःखे =
कष्टे, हि =एव, च =पुनः, सुखम्=आनन्दम्, व्यवस्यति =कल्पते ॥ ४० ॥
हिन्दी—आर्त्त एवं क्षणभंगुर इस देह को घसीटने से वास्तव में कुछ भी सुख
नहीं है। दुःख के प्रतिकार से थोड़ा-सा दुःख रहने पर भी मनुष्य सुख की कल्पना
कर लेता है ॥ ४० ॥
यथानपेक्ष्याग्र्यमपीप्सितं सुखं प्रबाधते दुःखमुपेतमण्वपि ।
तथानपेक्ष्यात्मनि दुःखमागतं न विद्यते किञ्चन कस्यचित् सुखम् ॥४१॥
अन्वयः—यथा ईप्सितम् अग्र्यं सुखम् अणु अपि उपेतं दुःखम् अनपेक्ष्य प्रबाधते,
तथा आत्मनि आगतं दुःखम् अनपेक्ष्य कस्यचित् किञ्चन सुखं न विद्यते ॥ ४१ ॥
व्याख्या—यथा=येन रूपेण, ईप्सितम्=अभिलषितम्, अग्र्यम् = महत्, सुखम्=
प्रसन्नताम्, अणु अपि=किञ्चिदपि, उपेतम् =प्राप्तम्, दुःखम्=कष्टम्, अनपेक्ष्य =
उपेक्ष्य, प्रबाधते =प्रपीडयते, तथा =तेनैव प्रकारेण, आत्मनि =स्वस्मिन्, आगतम् =
समागतम्, दुःखम् =पीडाम्, अनपेक्ष्य =अपेक्षां विनैव, कस्यचित्, किञ्चन =किमपि,
सुखम् = हर्षम्, न =नहि, विद्यते =वर्त्तते ॥ ४१ ॥