प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
२३८ प्रमाणवार्त्तिके
॥ स च प्रकाशस्तद्रूपः स्वयमेव प्रकाशते ॥ ४७९ ॥
तथाभ्युपगमे बुद्धेर्बुद्धौ बुद्धिः स्ववेदिका ।
सिद्धान्यथा तुल्यधर्मा विषयोऽपि धिया सह ॥ ४८० ॥
इति प्रकाशरूपा नः स्वयं धीः सम्प्रकाशते ।
अन्योऽस्यां रूपसंक्रान्त्या प्रकाशः सन् प्रकाशते ॥ ४८१ ॥
सादृश्येऽपि हि धीरन्या प्रकाश्या न तया मता ।
स्वयं प्रकाशमाना१;
ऽर्थस्तद्रूपेण प्रकाशते ॥ ४८२ ॥
सम्भवात् ज्ञानेनार्थप्रकाशित इत्युच्यते । स च प्रकाशस्तद्रूपो विषयस्वरूपः
स्वयमेवापरोक्षप्रकाशात्मनोत्पन्नः प्रकाशते, न त्वन्येन प्रकाइयते ॥ ४७९ ॥
स्यादेतद् । बुद्धिरपि बुद्ध्यन्तरस्वरूपोत्पन्ना प्रकाशमाना बुद्धेर्व्यञ्जिका
मतेति चेत् ? आह—बुद्धेः प्रकाश्यायाः बुद्धौ व्यञ्जिकायां तथा संक्रान्तसा-
रूप्यप्रकाशद्वारेण वेदनाभ्युपगमे व्यञ्जिका बुद्धिः स्वसंवेदिका सिद्धा ।
धीस्वरूपाया बुद्धेः स्वप्रकाशत्वे पूर्वबुद्धिः प्रकाशिता स्यात् । अन्यथा स्वप्रका-
शत्वानभ्युपगमे विषयोऽप्यप्रकाशस्वभावतया धिया सह तुल्यधर्मेति सोऽपि
बुद्धेर्व्यञ्जकः स्यात् । सरूपयोर्धीविषययोरन्योन्यं व्यञ्जकता भवेत् ॥४८०॥
इति तस्मान्नोऽस्माकं मते धीः स्वयमात्मना प्रकाशरूपोत्पन्ना सती
प्रकाशते, न त्वन्येन प्रकाइयते इति युक्तम् । अन्यः पुनरन्योऽस्यां बुद्धौ
प्रकाशायां रूपसंक्रान्त्या प्रकाशः सन् प्रकाशते । ततोऽर्थवेदन-
व्यवहारः ॥ ४८१ ॥
सादृश्ये सारूप्येऽपि सति तया सरूपया धियाऽन्या पूर्विका धीर्न
प्रकाश्या मता; प्रकाशस्वभावस्य परेण प्रकाशयोगात् । किन्तु स्वयं प्रकाश-
स्वभावतया प्रकाशमाना प्रकाशत इत्यभ्युपेयम् ।
एवं तर्ह्यर्थस्याप्रकाशात्मनः कथं प्रकाशता ? इत्याह—अर्थः सारूप्य-
संक्रान्तेस्तद्रूपेण ज्ञानरूपेण प्रकाशते, न तु साक्षात् स्वरूपेण ॥ ४८२ ॥
१. प्रकाशनाद्—पाठा० ।
प्रत्यक्षपरिच्छेदः २३९
यथा प्रदीपयोर्दीपघटयोश्च तदाश्रयः ।
व्यङ्ग्यव्यञ्जकभेदेन व्यवहारः प्रतन्यते ॥ ४८३ ॥
विषयेन्द्रियमात्रेण न दृष्टमिति निश्चयः ।
तस्माद् यतोऽयं तस्यापि वाच्यमन्यस्य दर्शनम् ॥ ४८४ ॥
स्वसंवित्तिसिद्धिः
स्मृतेरप्यात्मवित् सिद्धा ज्ञानस्या;
ऽन्येन वेदने ।
दीर्घादिग्रहणं न स्याद् बहुमात्रानवस्थितेः ॥ ४८५ ॥
दृष्टान्तमाह—यथा प्रदीपयोः प्रकाशात्मनोर्न प्रकाश्यप्रकाशकभावः,
तथा बुद्धयोरपि । यथा दीपघटयोः प्रकाशाप्रकाशस्वभावयोरेकः प्रकाशकोऽन्यः
प्रकाश्यः, तथा ज्ञानार्थयोरपि । तदाश्रयोऽप्रकाशप्रकाशात्मनिष्ठो व्यङ्ग्यव्य-
ञ्जकभेदेन व्यवहारो लोके प्रतन्यते ॥ ४८३ ॥
यतश्च विषयमात्रेण इन्द्रियमात्रेण वेदं दृष्टमिति न निश्चयः; तस्माद्
यतस्तद्व्यतिरिक्ताज्ज्ञानादिदं दृष्टमिति निश्चयः, तस्यापि विषयेन्द्रियाभ्यामन्यस्य
ज्ञानस्य दर्शनमपरोक्षत्वं वाच्यमिति बुद्धिपरोक्षतावादो न युक्तः ॥ ४८४ ॥
स्वसंवित्तिसिद्ध्यर्थमुपपत्त्यन्तरमाह—ज्ञानस्यातीतस्य स्मृतेरप्यात्मवित्
स्वसंवित्तिः सिद्धा । प्रतीतमेव हि स्मर्यते यथार्थः ।
स्यादेतत्—ज्ञानं प्रतीतमन्येन चेतसा, न स्वसंवेदनेन ? इत्याह—अन्येन
ज्ञानेन पूर्वकस्य ज्ञानस्य वेदनेऽभिधीयमाने दीर्घादेः स्वरस्य ग्रहणं न
स्यात्; क्षणिकस्य ज्ञानस्य एकाण्वत्ययकालमात्रस्थायिनोऽनेकक्षणनिर्वर्त्त्यासु बह्वीषु
मात्रासु दीर्घादिनिर्वर्त्तनिकासु ग्राहकत्वेनानवस्थितेः । न ह्येकक्षणमात्रस्थायि
ज्ञानमनेकक्षणकलापनिर्वर्त्तनीयमात्रासञ्चयात्मकं दीर्घादिकं शक्नोति ग्रहीतुम्;
किन्त्वकाराद्येकैकमात्रावयवलेशं गृह्णाति । तद्ग्राहकत्वेन द्वितीयज्ञानेन तत् प्रतीयते ।
एवमपरावरैर्ज्ञानैरवयवलेशग्राहकैः स्वस्वग्राहकज्ञानान्तरितैर्ग्रहणक्रमे केन मात्रा-
ग्रहणम्, मात्राप्रचयदीर्घादिग्रहणं वा स्यात् ! ॥ ४८५ ॥
२४० : प्रमाणवार्त्तिके
अवस्थितावक्रमायां सकृदाभासनान्मतौ ।
वर्णः स्यादक्रमोऽदीर्घः ;
क्रमवानक्रमां कथम् ॥ ४८६ ॥
उपकुर्यादसंश्लिष्यन् वर्णभागः परस्परम् ।
आन्त्यं पूर्वस्थितादूर्ध्वं वर्धमानो ध्वनिर्भवेत्¹ ॥ ४८७ ॥
अक्रमेण ग्रहादन्ते क्रमवद्धीश्च नो भवेत् ।
अथानेकमात्राकालमेकैव बुद्धिरस्तीत्युच्यते, तदानेककालमवस्थितौ सत्या-
मक्रमायां मतौ सर्वमात्राणां सकृदाभासनाद्दीर्घादिवर्णोऽक्रमः स्यात् ;
प्रतीतिनिबन्धनत्वाद् वस्तुव्यवस्थायाः । तथा चादीर्घो भवेत् । न ह्येककालमुच्चै-
रुच्चार्यमाणोऽप्येकमात्रिको दीर्घः ।
ननु क्रमवन्तो वर्णा अवयवक्रमेणोत्पद्यमाना दीर्घादिवुद्धिमुत्पादयिष्यन्ति ?
इत्याह—क्रमवान् वर्णभागः स्वस्वकालस्थायी परस्परमसंश्लिष्यन्नसम्ब-
ध्यमानो दीर्घबुद्धिमक्रमां कथमुपकुर्यादुत्पादयेत् ! क्रमवति ज्ञेये ज्ञानमपि
तथैव युक्तम् ॥ ४८६ ॥
अथोत्पन्ना वर्णावयवा अन्त्यावयवोत्पत्तिपर्यन्तमनुवर्तन्ते, ततः क्रमग्रहणं
सर्वग्रहणं चास्तीति युक्तं दीर्घादिग्रहणम् ? इत्याह—आ अन्त्यमन्त्यं वर्णावयवं
यावत् पूर्वपूर्वेषां वर्णावयवानां क्रमोत्पन्नानां स्थितौ सत्यां प्रथमवर्णावयवादूर्ध्वं
पूर्वोत्पन्नस्यानुवृत्तावपूर्वस्य चापरस्योत्पत्तौ वर्धमानो ध्वनिर्भवेत्, न
चैतदस्ति; अवयवक्रमग्रहणेन दीर्घबुद्धेरनुत्पादात् ॥ ४८७ ॥
स्यादेतत् । क्रमेणोत्पन्नानामवयवानान्त्यावयवकाले ग्रहणमिति न वर्धमान-
ध्वनिर्भवति पूर्वं कस्यचिद् ग्रहणाभावाद् ? इत्याह—अक्रमेण ग्रहणादन्त्यवर्ण-
निष्पत्तिकाले च तद्ग्राहिका क्रमवती धीर्नो भवेत्, ततश्च न दीर्घग्रहणम् ।
न ह्येककालमनेकैरुच्चार्यमाणेऽनेकस्मिन्नकारादौ दीर्घबुद्धिर्भवेत् ।
१. "नादैराहितबीजायामन्त्येन ध्वनिना सह ।
आवृत्तपरियाकायां बुद्धौ शब्दोऽवधार्यते" ॥ (वा० प० १. ८४)
इति वैयाकरणाः, तान् प्रत्याह आचार्यः ।
प्रत्यक्षपरिच्छेदः २४१
॥ धियः स्वयं च न स्थानं तदूर्ध्वविषयास्थितेः ॥ ४८८ ॥
स्थाने स्वयं न नश्येत् सा पश्चादप्यविशेषतः ।
॥ दोषोऽयं सकृदुत्पन्नाक्रमवर्णस्थितावपि ॥ ४८९ ॥
सकृच्चत्नोद्भावाद् व्यर्थः स्याद् यत्नश्रोत्तरोत्तरः ।
॥ व्यक्तावप्येष वर्णानां दोषः समनुषज्यते ॥ ४९० ॥
अनेकया तद्ग्रहणे यान्त्या धीः सानुभूयते ।
एकैकबुद्धिः सकृदुत्पन्ना क्रमेणावयवान् गृह्णन्त्यन्त्यावयवग्रहणकाले^१ दीर्घ-
ग्राहिकेति चेत् ? आह—धियोऽवयवग्राहिकायास्तस्मादेकावयवग्रहणादूर्ध्वं
पूर्वगृहीतस्य विषयस्यास्थितेर्हेतोर्न स्थानं स्थितियुक्ता ॥ ४८८ ॥
अथ विषयानवस्थानेऽपि स्वयमविनश्वरस्वभावतया बुद्धेः स्थाने वा
स्वीक्रियमाणे पश्चादन्तावयवग्रहणानन्तरमप्यविनश्वरस्वभावतयाऽविशेषतो न
नश्येत् । बुद्धेः सकृदुत्पन्नायाश्चिरावस्थाने यो दोषः सर्वदाऽविनाशप्रसङ्ग
उक्तः, अयं सकृदुत्पन्नानामक्रमाणां वर्णानां क्रमग्राहिविज्ञानोत्पत्तिकाsubscriptionलं यावद्-
वस्थितावप्युच्यमानायां बोद्धव्यः । यदि सकृदुत्पन्ना अप्यविनश्वरस्वभावतया
कञ्चित् कालमनुवर्तन्ते^२, तदा चिरमपि तत्स्वभावाप्रच्यवादनुवर्तेरन् ॥ ४८९ ॥
किञ्च—सकृत् कृताद् यत्नात् ताल्वादिव्यापारात वर्णानामुत्पन्नतवादु-
त्तरोत्तरो यत्नश्च व्यर्थः स्यात् ।
योऽपि मन्यते—“प्रयत्नप्रेरितेन वायुना स्तिमितस्य वायोराकाशसंयुक्तस्य
संयोगविभागकृता शब्दस्याभिव्यक्तिर्भवति” इति, तं प्रत्याह—वर्णानां वायवीय-
संयोगविभागद्वारेणाभिव्यक्तावपीष्यमाणायामयमनन्तरोक्तोऽक्रमाणां सकृदभि-
व्यक्तेरुत्तरो यत्नः प्राणप्रेरणादिको व्यर्थः स्यादिति दोषः समनुषज्यते ॥४९०॥
स्यादेतद्—अनेकया धिया तस्यानेकाश्रयात्मकस्य वर्णस्य ग्रहणे कृते
पश्चाद् यान्त्या धीरन्त्यावयवग्राहिका सा बुद्ध्यन्तरेणानुभूयते, तया दीर्घा-
दिबुद्धिर्भविष्यति चेत् ? नन्वेवं पूर्वासां बुद्धीनामनेकावयवग्राहिकाणां न
बुद्ध्यन्तरेण ग्रहः, नापि स्वसंवेदनेन वित्तिः । यां चानुभूयते, साऽन्त्यावयव-
१. गृह्णात्यु०—रा० । २. मनुवर्तते—रा० ।
प्र० वा० : १६
of किञ्चिद.
- L25: स्यात् ॥ ४९४ ॥
- L26: बुद्धेर्बुद्ध्यन्तरेण गृहीतावविच्छेदप्रतिभासो नास्तीति सोपपत्तिकमाख्यातु-
- L27: माह—सर्वेषां दीर्घादीनामेकमात्रिकत्वादन्त्यो वर्णात्माऽकारादिः निमेषेण
- L28: १. तद् ध्वनिः श्रुतेः—रा० ।
- Final Polish:
- Ensure exact character representation.
- Use superscripts for footnote numbers like
¹. - All punctuation matches image:
॥,।,;,—,",(,).२४२ प्रमाणवार्त्तिके
न दीर्घग्राहिका सा च तन्न स्याद् दीर्घधीस्मृतिः ॥ ४९१ ॥
पृथक् पृथक् च बुद्धीनां संवित्तौ तद्ध्वनिश्रुतेः¹ ।
अविच्छिन्नाभता न स्याद् घटनं च निराकृतम् ॥ ४९२ ॥
विच्छिन्नं शृण्वतोऽप्यस्य यद्यविच्छिन्नविभ्रमः ।
ह्रस्वद्वयोच्चारणेऽपि स्यादविच्छिन्नविभ्रमः ॥ ४९३ ॥
वि
प्रत्यक्षपरिच्छेदः २४३
स च क्रमादनेकाणुसम्बन्धेन नितिष्ठति ॥ ४९५ ॥
एकाण्वत्ययकालश्च कालोऽल्पीयान् क्षणो मतः ।
बुद्धिश्च क्षणिका तस्मात् क्रमाद् वर्णान् प्रपद्यते ॥ ४९६ ॥
इति वर्णेऽपि रूपादावविच्छिन्नाभासिनी ।
विच्छिन्नाप्यन्यया बुद्धिः सर्वा स्याद् वितथार्थिका ॥ ४९७ ॥
घटनं यच्च भावानामन्यत्रेन्द्रियविभ्रमात् ।
भेदालक्षणविभ्रान्तं स्मरणं तद् विकल्पकम् ॥ ४९८ ॥
तस्य स्पष्टावभासित्वं जल्पसंसर्गिणः कुतः ।
नाक्षग्राह्योऽस्ति शब्दानां योजनेति विवेचितम् ॥ ४९९ ॥
नयननिमीलनेन तुलिता परिमिता स्थितैर्यस्य स तथा । स चाक्षिनिमेषकाल-
स्थाय्यकारादिरनेकेषामाकाशतमःसंज्ञितानां पक्ष्ममालाद्वयवर्त्तिनामणूनां सम्बन्धे-
नाक्रमणेन निमेषकालसंज्ञितेन क्रमाद् भूयः क्षणव्यवधानान्नितिष्ठति परि-
समाप्यते । एतेन 'अन्योऽपि वर्णोऽनेकक्षणस्थायी' इत्युक्तम् ॥ ४९५ ॥
एकस्याणोरत्यय आक्रमणं स कालः परिमाणं यस्य तादृशश्च कालोऽ-
ल्पीयान् लघुतमो भेत्तुमशक्यः क्षणो भवेत् । तावत्कालमात्रस्थास्नुतया
बुद्धिश्च क्षणिका । तस्मात् क्षणिकत्वाद् बुद्धिः क्रमात् पुनर्धीर्व्यवहिता भूयसो
भवन्ती वर्णान् प्रतिपद्यते । तत् कथमविच्छिन्नवर्णग्रहः सङ्गतः ! ॥४९६॥
इति तस्माद् वर्णेऽपि रूपादावपि बुद्धिस्तद्ग्राहिक्याऽन्यया धियाऽ-
न्तरिता वस्तुतो विच्छिन्नाप्यविच्छिन्नाभासिनी कुतश्चिन्निमित्ताद् भवन्ती
सर्वा वितथार्थिका शून्या भ्रान्तिः स्यात् ॥ ४९७ ॥
यच्च भावानां सदृशापरापरेषामुत्पद्यमानानां 'स एवायम्' इत्येकत्वघटनं
तद् भावानां परस्परतो भेदालक्षणेन विभ्रान्तं विकल्पकं ज्ञानं स्मरणम्;
अन्यत्रेन्द्रियविभ्रमात् । अतः पुनरलातादिषु आभ्राम्यमाणेषु चक्राद्याकारं ज्ञान-
मुत्पद्यते, असाविन्द्रियक्रमो निर्विकल्पक एव ॥ ४९८ ॥
तस्य विकल्पस्य जल्पसंसर्गिणः शब्दसंसर्गवतः स्पष्टावभासित्वं
२४४ प्रमाणवार्त्तिके
विच्छिन्नं पश्यतोऽप्यक्षैर्घटयेद् यदि कल्पना ।
अर्थस्य तत्संवित्तेश्च सततं भासमानयोः ॥ ५०० ॥
बाधकेऽसति सन्न्याये विच्छिन्न इति तत् कुतः ।
बुद्धीनां शक्तिनियमादिति चेत् स कुतो मतः ! ॥ ५०१ ॥
युगपद् बुद्धयदृष्टेश्चेत् ? तदेवेदं विचार्यते ।
तासां समानजातीये सामर्थ्यनियमो भवेत् ॥ ५०२ ॥
ज्ञेयाकारवैशद्यं कुतः ! यस्मादक्षग्राह्ये स्वलक्षणे शब्दानां संकेताग्रहणात्
वाचकत्वेन योजना नास्तीति विवेचितं प्राक् ॥ ४९९ ॥
अथाक्षैरिन्द्रियज्ञानैः स्वज्ञानव्यवहितैरपरापरमर्थं विच्छिन्नं पश्यतोऽपि
ज्ञानानुचरी कल्पना 'तदेवेदम्' इत्येकत्वेन घटयेदिति यद्युच्यते, तदा
विच्छिन्नदर्शनमेव नास्तीति वक्तुमाह— अर्थस्य ग्राह्यस्य तत्संवित्तेश्च विजातीया-
व्यवकीर्णत्वात् सततं भासमानयोरनयोरविच्छेदभासनस्य बाधके सँश्चासौ
न्यायश्च तस्मिन् प्रमाणभूते बाधकेऽसतीत्यर्थः । तेऽर्थसंवित्ती ज्ञानज्ञानेन
विच्छिन्ने इति यदुच्यते तत्कुतः ! बुद्धीनामेकैकबुद्धिजननशक्तिनियमात्,
न ग्राह्यबुद्ध्या सह तद्ग्राहिका बुद्धिर्भवति । ततो विच्छिन्नतयाऽर्थदर्शनमिति
चेत् ? स युगपद् ज्ञानानुत्पादः कुतो हेतोर्मतः ॥ ५००-५०१ ॥
युगपद् बुद्धयोरुत्पन्नयोरदृष्टेश्चेत् ? यद्दर्शनं प्रमाणं विच्छेदस्यापि तद-
स्तीति, सोऽप्युक्ताभ्युपगमः। अथ विच्छेददर्शनेऽपि विचारात् सा सिध्यति, तदा
तदेवेदं युगपद् बुद्धयदर्शनमपि बाध्यतया न युगपद् बुद्धयुत्पादबाधनासमर्थमिति
विचार्यते, तत् किमस्योपन्यासेन !
ननूक्तं भगवता—"अस्थानमेतत् यद् द्वे चित्ते युगपत्त् संप्रतिपद्येयाताम्"
( ) इति, तत्कथम् ? इत्याह— तासां बुद्धीनां विकल्पिकानामिन्द्रिय-
ज्ञानाञ्च समानजातीय एकस्मिन् ज्ञाने कर्त्तव्ये सामर्थ्यनियमस्तथा भगवता
प्रतिपादितो भवेत् । ततो ग्राह्यग्राहकमसमानजातीयं बुद्धिद्वयमपि सह जायेत ।
समानजातीयं तु न सह जायेत ॥ ५०२ ॥
प्रत्यक्षपरिच्छेदः २४५
तथा हि सम्यग् लक्ष्यन्ते विकल्पाः क्रमभाविनः ।
प्रत्यभिज्ञाविचारः
एतेन यः समक्षेऽर्थे प्रत्यभिज्ञानकल्पनाम् ॥ ५०३ ॥
स्पष्टावभासां प्रत्यक्षां कल्पयेत् सोऽपि वारितः ।
केशगोलकदीपादावपि स्पष्टावभासनात् ॥ ५०४ ॥
प्रतीतभेदेऽप्यध्यक्षा धीः कथं तादृशी भवेत् ।
तस्मान्न प्रत्यभिज्ञानाद् वर्णाद्येकत्वनिश्चयः ॥ ५०५ ॥
पूर्वानुभूतस्मरणात् तद्धर्मारोपणाद् विना ।
स एवायमिति ज्ञानं नास्ति तच्चाक्षजे कुतः ॥ ५०६ ॥
तथा हि विकल्पाः क्रमभाविनः सम्यग् लक्ष्यन्ते । इन्द्रियज्ञानानि
च समानजातीयानि क्रमवन्ति च दृश्यन्ते, विकल्पेन्द्रियज्ञाने चक्षुःश्रोत्रादिज्ञाने
च सहोत्पद्यन्ते ।
एतेन विकल्पाविकल्पयोः सहोत्पादेन यो मीमांसकः समक्षे प्रत्यक्षेऽर्थे
‘स एवायम्’ इत्येकत्वविषयां प्रत्यभिज्ञानाख्यां कल्पनां स्पष्टप्रतिभासां प्रत्यक्षां
प्रमाणं कल्पयेत्, सोऽपि निवारितः ।
विकल्पो हि विकल्पितार्थगोचरत्वादस्पष्टप्रतिभास एव विशदप्रतिभासने-
न्द्रियज्ञानेन सहभावित्वात् स्पष्टग्राभारोपोऽध्यवसीयते ।
किञ्च—एकत्वमन्तरेणापि प्रत्यभिज्ञानं दृश्यत इति दर्शयन्नाह—लूनपुनर्जात-
केशादौ मायाकारदर्शिते गोलकादौ क्षणविनाशिदीपादौ स्पष्टावभासनात्
प्रत्यक्षात् प्रतीते भेदे सा प्रत्यभिज्ञा तादृशी एकत्वाध्यवसायिनी दृश्य-
मानाध्यक्षा धीः कथं भवेत् ! प्राप्नोति च प्रत्यभिज्ञा प्रत्यक्षवादिनो मते,
तस्मान्नास्ति प्रत्यभिज्ञानाद् वर्णाद्येकत्वनिश्चयः ॥ ५०३–५०५ ॥
यस्मात् पूर्वानुभूतस्यार्थस्य स्मरणात् तद्धर्मस्य विद्यमानत्वेनारोपणात्
विना 'स एवायम्' इति ज्ञानमेकत्वविषयं नास्ति । तच्च पूर्वानुभूतस्मरणं
तद्धर्मारोपणं चाक्षजे वर्तमानवस्तुबलभाविनि कुतः सम्भवति ! ॥ ५०६ ॥
२४६ प्रमाणवार्त्तिके
न चार्थज्ञानसंवित्त्योर्युगपत् सम्भवो यतः ।
लक्ष्येते¹ प्रतिभासौ द्वौ नार्थार्थज्ञानयोः पृथक् ॥ ५०७ ॥
न ह्यर्थभासि च ज्ञानमर्थो बाह्यश्च केवलः ।
एकाकारमतिग्राह्ये भेदाभावप्रसङ्गतः ॥ ५०८ ॥
सूपलक्षेण भेदेन यौ संवित्तौ न लक्षितौ ।
अर्थार्थप्रत्ययौ पश्चात् स्मर्येते तौ पृथक् कथम् ॥ ५०९ ॥
क्रमेणानुभवोत्पादेऽप्यर्थार्थमनसोरयम् ।
प्रतिभासस्य नानात्वचोद्यदोषो दुरुद्धरः ॥ ५१० ॥
अर्थसंवेदनं तावत् ततोऽर्थाभासवेदनम् ।
न हि संवेदनं शुद्धं भवेदर्थस्य वेदनम्² ॥ ५११ ॥
स्यादेतत् । अर्थज्ञानयोर्युगपत्सम्भवे सत्यविच्छिन्नं वर्णादिदर्शनं स्याद् ?
इत्याह—न चार्थज्ञानयोर्ये संवित्ती तयोर्युगपत्सम्भवोऽस्ति; यतोऽर्थस्या-
र्थज्ञानस्य द्वौ प्रतिभासौ पृथग् न भेदेन लक्ष्येते ॥ ५०७ ॥
न ह्यर्थभासि तत् ज्ञानम्, अर्थो बाह्यश्च केवलो बुद्धिव्यतिरिक्त इति द्वौ
प्रतिभासौ सम्भवतः ।
स्यादेतत् । अर्थज्ञानज्ञानयोर्भिन्नाविव प्रतिभासौ केवलं तदुत्तरया विकल्प-
बुद्ध्या एकत्वेन गृह्येते ? अत्राह—एकाकारया मत्या विकल्पिकया ग्राह्येऽ-
र्थज्ञानयोर्ज्ञाने यदि, तदा तयोर्भेदस्याभावप्रसङ्गत एकत्वमेवाभ्युपगन्तव्यम्;
अर्थज्ञानज्ञानयोः प्रतिभासभेदाभावात् ॥ ५०८ ॥
अर्थश्चार्थप्रत्ययश्चार्थार्थप्रत्ययौ सूपलक्षेण भेदेन संवित्तावनुभवे न
लक्षितौ । तौ पश्चात् कालान्तरे पृथग् भेदेन 'अयमर्थः, अर्थज्ञानं चेदम्' इति
कथं स्मर्येते; युगपदर्थज्ञानतज्ज्ञानयोरुत्पादे प्रतिभासनानात्वप्रसङ्गात् ॥५०९॥
अर्थार्थमनसोः क्रमेणानुभवोत्पादेऽपीष्यमाणेऽयं प्रतिभासस्य
नानात्वचोद्यलक्षणो दोषो दुरुद्धरः; द्वयप्रतिभासस्य क्रमेणाभ्युपगमात्
॥ ५१० ॥
१. लक्ष्यते—रा० । २. मन्येऽस्याः कारिकाया वृत्तिर्विनष्टा—सम्पा० ।
प्रत्यक्षपरिच्छेदः २४७
तथा हि नीलाद्याकार एक एकं च वेदनम् ।
लक्ष्यते न तु नीलाभे वेदने वेदनं परम् ॥ ५१२ ॥
ज्ञानान्तरेणानुभवो भवेत् तत्रापि हि१ स्मृतिः ।
दृष्टा; तद्वेदनं केन तस्याप्यन्येन चेद् ?
इमाम् ॥ ५१३ ॥
मालां ज्ञानविदां कोऽयं जनयत्यनुबन्धिनीम् ।
पूर्वा धीः सैव चेन्न स्यात् सञ्चारो विषयान्तरे ॥ ५१४ ॥
तां ग्राह्यलक्षणप्राप्तामासन्नां जनिकां धियम् ।
अगृहीत्वोत्तरं ज्ञानं गृह्णीयादपरं कथम् ॥ ५१५ ॥
न चार्थज्ञानं ज्ञानं च कदाचिद् भेदेन प्रतीयते । तथा हि—नीला-
द्याकार एको ग्राह्यतया एकं च तद्ग्राहकं वेदनं लक्ष्यते, न तु नीलाभे
वेदने पृथग् ग्राहकं परं२ वेदनं लक्ष्येते । तस्माज्ज्ञानस्य विदितस्यान्येनानु-
भवासम्भवे स्ववेदनमेव तदिति व्यवतिष्ठते ॥ ५११–५१२ ॥
किञ्च—नीलादिविषयस्य ज्ञानस्य ज्ञानान्तरेणानुभवो भवेत् । तत्रापि
ज्ञानज्ञानेऽपि हि स्मृतिर्दृष्टा । यदा ज्ञानान्तरालम्बकं ज्ञानं क्रमेण स्मर्यते, न
चागृहीतं स्मर्यते इति तस्य ज्ञानज्ञानस्य वेदनं वक्तव्यम् । तत् केनास्तु
वेदनम् ! यदि स्वसंवेदनेन ? तदा पूर्वकस्यापि तथा स्थितिः, व्यर्थमन्येन
वेदनाङ्गीकरणम् । तस्याप्यन्येन चेद् वेदनम् ? तदा ज्ञानवृत्तीनामिमां
मालामनुबन्धिनीं प्रबन्धप्रवृत्तां को जनयति ! न तावदर्थेन्द्रियादिसामग्री;
तस्या अर्थज्ञानमात्रजननव्यापारत्वात् । सैव ग्राह्या धीः पूर्विका स्वग्राहिकां धियं
जनयति, सा च स्वग्राहिकामिति प्रबन्धप्रवृत्तिरिति चेत् ? एवं सति स्वकारण-
ग्रहणप्रवणत्वाद् विषयान्तरे ज्ञानादन्यस्मिन्नर्थे सञ्चारो ग्राहकत्वेन प्रवृत्तिर्न
स्यात् ॥ ५१३–५१४ ॥
तथा हि—जनिकां धियमासन्नां ग्राह्यलक्षणप्राप्तामगृहीत्वोत्तरं
ज्ञानमपरं विषयं कथं गृह्णीयात् ॥ ५१५ ॥
१. च—रा० । २. अपरं—रा० ।
३४८ प्रमाणवार्त्तिके
आत्मनि ज्ञानजनने स्वभावे नियतां च ताम् ।
को नामान्यो विबध्नीयाद् बहिरङ्गेऽन्तरङ्गिकाम् ॥ ५१६ ॥
बाह्यः सन्निहितोऽप्यर्थस्तां विबध्नन् हि न प्रभुः ।
धियं नानुभवेत् कश्चिदन्यार्थस्य सन्निधौ ॥ ५१७ ॥
न चासन्निहितार्थास्ति दशा काचिदतो धियः ।
उत्खातमूला स्मृतिरप्युत्सन्नेत्युज्ज्वलं मतम् ॥ ५१८ ॥
अतीतादिविकल्पानां येषां नार्थस्य सन्निधिः ।
सञ्चारकरणाभावाद् उत्सीदेदर्थचिन्तनम् ॥ ५१९ ॥
प्रत्यासन्नेनार्थेन प्रतिबद्धशक्तित्वात् पूर्वा धीरर्थग्राहकमेव ज्ञानं जनयति,
न स्वग्राहकमिति चेत् ? आह—आत्मनि विज्ञानजनने स्वग्राहकज्ञानोत्पा-
दके स्वभावे नियतां व्यवस्थितां च तामिमामन्तरङ्गिकामन्यनिरपेक्षत्वात्
को नामान्योऽर्थो बहिरङ्गः स्वज्ञानजनने चक्षुर्मनस्काराद्यपेक्षित्वाद्विबध्नी-
यात् स्वग्राहकज्ञानजननप्रवृत्तां तिरस्कुर्यात्, येन विषयान्तरसञ्चारो धियः
स्यात् ॥ ५१६ ॥
तस्माद् बाह्यः सन्निहितोऽप्यर्थस्तां स्वग्राहकजनने शक्तां धियं
विबध्नन् प्रतिहातुं न प्रभुः शक्तः । अन्यथा यद्येवं नाभ्युपगम्यते,
तदार्थस्य सन्निधौ तज्ज्ञानस्यैवोत्पादनात् ज्ञानज्ञानस्यानुत्पादाद्धियं कश्चिन्ना-
नुभवेत् ॥ ५१७ ॥
न च काचिद्दशा सन्निहितार्थास्ति यत्र ज्ञानज्ञानमुत्पद्येत नार्थज्ञानमिति
न स्यादनुभवो बुद्धेः । तस्माद् धियः स्मृतिरप्युत्खातमला उत्सन्ना । बुद्धि-
स्मरणस्य हि मूलं बुद्ध्यनुभव इति ज्ञानाननुभवे कुतः स्मरणमिति ज्ञानान्तरेण
ज्ञानानुभववादिनामुज्ज्वलं मतमित्युपहसति ॥ ५१८ ॥
किञ्च—येषामतीताद्यर्थविषयाणां विकल्पानामर्थस्य सन्निधिर्नास्ति
यः पूर्वकस्य ज्ञानस्य स्वग्राहकज्ञानजननशक्तिं प्रतिबध्नीयात्, येन विषयान्तर-
ग्राहिणो विकल्पाः स्युः । तत्र सञ्चारकरणस्यार्थस्य विकल्पविषयस्याभावात्
कस्यचिदतीतादेरर्थस्य चिन्तनं विकल्पनमुत्सीदेत् ॥ ५१९ ॥
प्रत्यक्षपरिच्छेदः २४५
आत्मविज्ञानजनने शक्तिसंक्षयतः शनैः ।
विषयान्तरसञ्चारो यदि ?
सैवार्थधीः कुतः ! ॥ ५२० ॥
शक्तिक्षये पूर्वधियो न हि धीः प्राग्घिया विना ।
अन्यार्थाशक्तिवैगुणे ज्ञाने ज्ञानोदयागतेः ॥ ५२१ ॥
सकृद्विजातीयजातावप्येकेन पटीयसा ।
चित्तेनाहितवैगुण्यादालयान्नान्यसम्भवः ॥ ५२२ ॥
नापेक्षेतान्यथा साम्यं मनोवृत्तेर्मनोऽन्तरम् ।
स्यादेतत् । तज्ज्ञानानामात्मनि ग्राहकज्ञानजनने शनैः क्रमेण स्वग्राह-
कज्ञानजनिकायाः शक्तेः संक्षयतः तथाभूतज्ञानानुत्पत्तौ विषयान्तरे सञ्चारो
ज्ञानप्रवृत्तिर्यदि कथ्यते; तदा पूर्वधियः शक्तिक्षये सति सैवार्थग्राहिका
धीः कुतो जायते ! न हि प्राग्विधया पूर्विकां धियं समर्थां विनोत्तरमर्थ-
ज्ञानमुत्पद्यते ॥ ५२० ॥
यदि च सा शक्तत्वात् स्वग्राहिकां धियं कर्तुमसमर्था, अर्थधियमपि न
कुर्यात् । तथा हि--अन्यास्मिन्नर्थे आसक्तिरभिष्वङ्गः, तया विगुणे पूर्वे विज्ञाने
तदुत्तरस्य ज्ञानस्योदयागतेः जन्मप्रतीतेः । पूर्वबुद्धेः सामर्थ्यादुत्तरबुद्धेर्जन्मेति
निश्चीयते, ततः समर्था पूर्वबुद्धिः स्वग्राहिणीमेव धियं जनयेत्; तत्र परापेक्षा-
विरहात् ॥ ५२१ ॥
ननु 'आलयविज्ञानात् सकृत् षट् प्रवृत्तिविज्ञानानि जायन्ते' इतीष्यते,
ततस्तान्यर्थशक्तिवैगुण्येऽपि पूर्वचेतस आलयज्ञानान्तरं जायेरन्; आलयज्ञानस्या-
व्याहतशक्तित्वाद् ? इत्याह— सकृद्विजातीयानां प्रवृत्तिज्ञानानां जातावप्यालय-
ज्ञानादिष्ठायामेकेन चित्तेन स्वविषयासक्तेन पटीयसा विषयान्तरज्ञानजननं
प्रत्याहितमारोपितं वैगुण्यं यस्य तस्मादालयादन्यस्य विषयान्तरग्राहिज्ञानस्य
सम्भवो न भवति ॥ ५२२ ॥
न ह्यालयज्ञानमित्येव प्रवृत्तिज्ञानानि भवन्ति, किन्तु मनस्कारसाद्गुण्यम-
पेक्षन्ते; अन्यथा यद्येवं नेष्यते, तदा मनसः समनन्तरप्रत्ययस्य वृत्तेः साम्य-
मनोज्ञानक्रमोत्पत्तिरप्यपेक्षा प्रसाधनी ॥ ५२३ ॥
एकत्वान्मनसोऽन्यस्मिन् सक्तस्यान्यागतेर्यदि ।
ज्ञानान्तरस्यानुदयो न कदाचित् सहोदयात् ॥ ५२४ ॥
समवृत्तौ च तुल्यत्वात् सर्वदान्यागतिर्भवेत् ।
जन्म वात्ममनोयोगमात्रजानां¹ सकृद् भवेत् ॥ ५२५ ॥
एकैव चेत् क्रियैकः स्यात् किं दीपोऽनेकदर्शनः ।
मर्थान्तरानासक्तत्वेनानुकूल्यमुत्पित्सु मनोऽन्तरं नापेक्षेत, अपेक्षते च, ततो
मनस्कारानुकूलता सापेक्षादालयात् ज्ञानोत्पत्तिः । तथा मनोज्ञानानां विकल्पानां
क्रमेणोत्पत्तिर्युगपदनुत्पादोऽप्युत्तरज्ञानानां पूर्वज्ञानापेक्षा प्रसाधनी । अविगुण-
पूर्वज्ञानानपेक्षायामक्षादिन्द्रियज्ञानानीव विकल्पज्ञानान्यपि सह जायेरन् ॥५२३॥
अणुपरिमाणस्य नित्यस्यैकस्य मनसोऽन्यस्मिन्निन्द्रिये सक्तस्यान्य-
त्रेन्द्रियान्तरेऽगतेरगमनादिन्द्रियान्तरजस्य ज्ञानान्तरस्यानुदयो यदि सम्मतः,
सोऽपि न युक्तः; कदाचिद् नर्तकीदृष्ट्यवस्थादिष्वनेकविषयसन्निपाते चक्षु-
रादिज्ञानानां सहोदयात् ॥ ५२४ ॥
यदा च न पटीयान् कश्चिद् विषयः प्रत्युपतिष्ठते, पुरुषस्य च न क्वचिद्
विशेषेणेच्छा भवति, तदा अर्थपुरुषेच्छायाः समायां साधारणायां वृत्तौ च
मनस एकेन्द्रियसम्बद्धस्य तुल्यत्वाद् विषयान्तरे प्रेरकाभावाद् उदासीनत्वात्
सर्वदा तदिन्द्रियज्ञानोत्पत्तौ सत्यामन्यस्येन्द्रियान्तरज्ञानज्ञेयस्यागतिर्भवेत् प्रती-
तिर्न स्यात् । अस्ति च क्वचिदनासक्तस्य विषयान्तरेष्वेकस्याप्यनेकार्थदर्शनम् ।
आत्ममनोयोगमात्रजानां विषयानिरपेक्षाणां सुखादिज्ञानानामिन्द्रियमनोयोग-
विशेषस्य नियामकस्याभावात् सकृद् वा जन्म स्यात् ॥ २२५ ॥
न हि रूपादिबुद्धीनामेव सुखादिबुद्धीनामिन्द्रियमनोयोगविशेषात् प्रति-
नियमः शक्यो वक्तुम्, एकस्मान्मनस एकैव सुखादिबुद्धिलक्षणा क्रिया जायते,
न च द्वे इति चेत् ? यद्येवम्, किं कस्माद् दीप एकोऽनेकदर्शनोऽनेकद्रष्टृ-
१. चात्ममनो०—रा० ।
क्रमेणापि न शक्तं स्यात् पश्चादप्यविशेषतः ॥ ५२६ ॥
अनेन देहपुरुषावुक्तौ संस्कारतो यदि ।
नियमः स कुतः पश्चात् बुद्धेश्चेदस्तु सम्मतम् ॥ ५२७ ॥
न ग्राह्यतान्या जननाज्जननं ग्राह्यलक्षणम् ।
अग्राह्यं न हि तेजोऽस्ति;
न च सौक्ष्माद्यनंशके ॥ ५२८ ॥
ज्ञानजनकः । द्रष्टुरनेकत्वादेकोऽप्यनेकज्ञानजनक इति चेत् ? ज्ञेयस्यानेकत्वात्
तद्ग्राहकानेकज्ञानजनकोऽपि स्यादिति समानम् ।
किञ्च—मनो नित्यमेकदापि सर्वज्ञानजननशक्तं न वा ? शक्तं चेत्, सर्व-
ज्ञानानि सकृत् कुर्यात् । अशक्तञ्चेत्; क्रमेणापि तज्जनने न शक्तं स्यात्;
पूर्वावस्थितस्याशक्तस्य रूपस्य पश्चादप्यविशेषतो विशेषाभावात् ॥ ५२६ ॥
अनेन मनसः शक्तत्वाशक्तत्वविकल्पाद् दोषद्वयेन देहपुरुषौ शरीरात्माना-
वुक्तावुक्तोत्तरौ । तयोरपि तथाविकल्पे तथादोषसद्भावात् ज्ञानजातज्ञानहेतोः
संस्कारतो बुद्धीनामसकृद् भावनियमो यदिष्टः, तदा संस्कारस्य कुतः
पश्चादुत्पन्नो बुद्धीर्नियमयेत् । बुद्धेः पूर्विकाया उपपद्यत इति चेत् ? अस्तु
पूर्वस्या बुद्धेर्वासनासंज्ञकस्य संस्कारः स बुद्ध्यात्मनो जन्म सम्मतमस्माकम् ।
तथा च यदुक्तम्—“न हि धीः प्राग् धिया विना” ( प्र० वा० २. ५२१ )
इति, तदेव प्रसाधितं स्यात् । ततश्च बुद्धेर्बुद्ध्यन्तरजन्मनः सामर्थ्यादुत्तरया
धिया पूर्वबुद्धिर्गृह्येतेति न स्याद् विषयान्तरसञ्चारोऽस्याः ॥ ५२७ ॥
स्यादेतत् । बुद्धेरुपादानतामात्रं बुद्ध्यन्तरं प्रति न तद्ग्राह्यता, ततो
विषयान्तरसञ्चारो भवेद् ? इत्याह--न बुद्ध्यन्तरजननादन्या तद्ग्राह्यता,
किं तर्हि ? जननमेव ग्राह्यस्य लक्षणम् , तच्चेदस्ति, कुतो ग्राह्यताया अभावः !
न हि तेजो ज्योतिर्बुद्धेर्जनकतयाऽग्राह्यमस्ति । तस्मादिदमेव बुद्धिं प्रति
ग्राह्यत्वं ग्राह्यस्य यत्तत् ज्ञानं नाम ।
ननु च तेजसो बुद्धिजनकस्य सूक्ष्मो व्यवहितः सन्निहिततरश्च कश्चिद-
वयवो यथा न गृह्यते, तथा जनिकापि बुद्धिर्न गृह्येत ? इत्याह—अनंशके
२५२ प्रमाणवार्त्तिके
ग्राह्यताशक्तिहानिः स्यात् नान्यस्य जननात्मनः ।
ग्राह्यताया न खल्वन्यज्जननं ग्राह्यलक्षणे ॥ ५२९ ॥
साक्षान्न ह्यन्यथा बुद्धे रूपादि रुपकारकः ।
ग्राह्यता लक्षणादन्यस्तद्भावनियमोऽस्य कः ॥ ५३० ॥
बुद्धेरपि तदस्तीति सापि सत्त्वे व्यवस्थिता ।
ग्राह्योपादानसंवित्तो चेतसो ग्राह्यलक्षणम् ॥ ५३१ ॥
निरवयवे ज्ञाने सौक्ष्म्यं सूक्ष्मत्वं नास्ति । आदिशब्दात् स्वसन्तानवर्तित्वा-
व्यवधानात्यासत्त्यादयश्चानुपलम्भहेतवो न सन्ति ॥ ५२८ ॥
स्यादेतत् । ज्ञानस्य द्वे शक्ती—ज्ञानजननशक्तिः, ग्राह्यताशक्तिश्च, तत्र
क्रमेण ग्राह्यताशक्तिहानौ जननशक्तिमात्रमवतिष्ठते ? इत्याह—अन्यस्य
ज्ञानकार्यभूतजननात्मनो जनकस्वभावस्य पूर्वज्ञानस्य ग्राह्यताशक्तिहानिर्न
स्यात्; जननस्य ग्राह्यलक्षणत्वात् , तस्य च सत्त्वात् । तथा हि—ग्राह्य-
लक्षणेऽक्षविद्युपलभ्यमाने न खलु ग्राह्यताया अन्यत् साक्षाज्जननम् ।
यदेवोत्तरोत्तरज्ञानस्य साक्षाज्जननं तदेव तद्ग्राह्यत्वम् । ततो जननसत्त्वे नास्ति
ग्राह्यत्वहानिः ॥ ५२९ ॥
न ह्यन्यथा साक्षाज्जननादन्येन प्रकारेण रूपादिर्दृश्यमानो बुद्धेर्ग्राहि-
काया उपकारकः । परस्परोपकारिणोऽपि ग्राह्यत्वे रूपकारणग्रहणमपि स्यात् ।
अनुपकारकस्य ग्राह्यत्वे सर्वग्रहणप्रसङ्गः । तस्मादस्य रूपादेर्ग्राह्यता लक्षणाद्
देशाद्यविप्रकर्षिणः साक्षाज्जनकत्वादन्यः कस्तद्भावनियमो ग्राह्यत्वनियमः
॥ ५३० ॥
तत् साक्षाज्जनकत्वलक्षणं ग्राह्यत्वं बुद्धेरप्यस्तीति साप्युत्तरबुद्धिजनिका,
तथैव तद्ग्राह्यत्वे व्यवस्थिता रूपादिषु कारणत्वेऽपि देशाद्यविप्रकर्षश्चक्षुराद्युप-
योगं चापेक्ष्य तद्ग्राह्यतेष्यते । चेतसस्तु देशादिविप्रकर्षाभावाच्चक्षुराद्युपयोगा-
भावाच्च ग्राहिणो ज्ञानस्योपादानमुपादानकारणता संवित्तिरनुभवात्मता ते
ग्राह्यलक्षणम् । स्वसंवेदनस्वभावतायां सत्यामुपादानकारणतोत्तरबुद्धिग्राह्य-
तेत्यर्थः ॥ ५३१ ॥
?
Wait, compare with "बुद्धेः" in line 5 and line 17:
Line 5: बु (bu) द्धेः (ddheḥ)
Line 17: बु (bu) द्धे (ddhe)
Line 10: बु (bu) द्धि (ddhi)
Line 21: बु (bu) द्ध (ddha) - wait, then there is a 'य'? No, look at the ligature:
It has द्ध, then directly attached to न्त? Or is it द्ध + य?
Wait, in "बुद्ध्यन्तरं", usually it's ब ु द्ध ्य न्त रं or बु द्ध न्तरं (typo for बुद्धयन्तरं)?
Wait, let's look at the letter between द्ध and र:
It is: न्त (nta) with anusvara: न्तरं (ntaraṃ).
Before न्तरं, there is: बु (bu) and द्ध (ddha).
Wait, is there a य-फला on द्ध?
Look at the right side of द्ध: there is no ya-stroke! It is just द्ध!
Wait, let me look at "बुद्धचन्तरं"? No, it's बुद्धन्तरं! A typo for बुद्धयन्तरं / बुद्ध्यन्तरं!
Wait, let's look really closely: is it "बुद्धन्तरं"?
Yes! बु - द्ध -
२५४ प्रमाणवार्त्तिके
नानेकभक्त्यभावेऽपि भावो नानेककार्यकृत् ।
प्रकृत्यैवेति गदितम्, नानेकस्मान्न चेद् भवेत् ॥ ५३५ ॥
हेतुसामग्र्याः सर्वसम्भवत्वम्
न किञ्चिदेकमेकस्मात् सामग्र्याः सर्वसम्भवः ।
एकं स्यादपि सामग्र्योरित्युक्तं तदनेककृत् ॥ ५३६ ॥
अर्थं पूर्वञ्च विज्ञानं गृह्णीयाद् यदि धीः परा ।
अभिलापद्वयं नित्यं स्याद् दृष्टक्रममक्रमम् ॥ ५३७ ॥
ननु भावा अनेकशक्तियोगादनेककार्यकारिणः, एकशक्तियोगादेककार्यकारिणः;
तत् ज्ञानस्य ग्राह्यताशक्तिरप्यन्या, अन्या च जननशक्तिः; ततो ग्राह्यताशक्ति-
हानादपि जननशक्तिर्भविष्यति ? इत्याह—नानेकशक्त्यभावेऽपि भावव्यति-
रिक्ताऽनेकासां शक्तीनामेकस्याश्च शक्तेरभावेऽपि भावः स्वहेतोर्नानेककार्यकारण-
स्वभावतयोत्पन्नो नानेककार्यकृत् प्रकृत्यैव भवतीति गदितम् ।
ननु नानेकं कार्यमेकस्मात् कारणान्न भवेत्, सिद्धान्तविरोधादिति
चेत् ? सत्यमेतत्; न किञ्चित् कार्यमेकस्मात् कारणाज्जायते, किन्तु सामग्र्या
जन्मानेकोपादानसहकारिभावसञ्चयात्मिकायाः सर्वस्यैकस्यानेकस्य च कार्यस्य
सम्भवः ।
कथं तर्ह्येकमनेकस्य हेतुरुच्यते ? इत्याह—चक्षूरूपालोकमनस्कारादिषु
जायमानरूपक्षणेन्द्रियज्ञानकार्यद्वयापेक्षयाऽवान्तरभिन्नसामग्र्योरेकस्य रूपस्योपा-
दानसहकारिभावेनोपयोगाद् एकस्मादप्यनेकं कार्यं जायत इति तद् एकम-
नेककार्यकृदित्युच्यते; न त्वेकस्मादसहायादनेकं कार्यं जायते इत्यभिप्रायात्
॥ ५३५-५३६ ॥
स्यादेतत् । धीर्जायमाना पूर्वं च विज्ञानमर्थं च तत्कालसन्निपतितं यदि
गृह्णीयात्, तदा विषयान्तरसञ्चारः सम्भवेत् ? अत्राह—पूर्वगृहीतस्य वर्णस्य
चिन्तादौ, आदिशब्दात् प्रत्यक्षेऽपि, एकस्मिन् चेतसि दृष्टः क्रमो यस्य तत् दृष्ट-
क्रममभिलापद्वयं वर्णद्वयं नित्यमक्रमं स्यात् युगपत् प्रतीयेतेत्यर्थः ॥५३७॥
प्रत्यक्षपरिच्छेदः २५५
पूर्वापरार्थभासित्वाच्चिन्तादावेकचेतसि ।
द्विर्द्विरेकं च भासेत भासनादात्मतद्धियोः ॥ ५३८ ॥
आत्मानुभूतं प्रत्यक्षम्
विषयान्तरसञ्चारे यद्यन्त्यं नानुभूयते ।
परानुभूतवत् सर्वाननुभूतिः प्रसज्यते ॥ ५३९ ॥
आत्मानुभूतं प्रत्यक्षं नानुभूतं परैः यदि ?
आत्मानुभूतिः सा सिद्धा कुतो येनैवमुच्यते ॥ ५४० ॥
व्यक्तिहेत्वप्रसिद्धिः स्यात् न व्यक्तेर्व्यक्तिमिच्छतः ।
किं कारणम् ? इत्याह — पूर्वापरार्थभासित्वात् चिन्तादिज्ञानेन हि पूर्व-
वर्णग्राहकज्ञानं गृह्येत इति तत्प्रतिभासी वर्णो गृह्येत, तत्कालोपनिपतितश्चान्यो वर्ण
इति क्रमोपलभ्ययोर्युगपद्ग्रहणप्रसङ्गः ।
एकं च वर्णादिद्विर्द्विर्भासेत ; आत्मतद्धियोर्भासनात् । तद्दर्शने
तज्ज्ञानदर्शने तु तद् दृष्टमिति द्विधा दर्शनप्रसङ्गः ॥ ५३८ ॥
अथ विषयज्ञाने वृत्ते तज्ज्ञाने चोत्पन्ने विषयदर्शनस्य निष्पन्नत्वात्
ज्ञानान्तरं विषयान्तरग्राहकमिति स्याद् विषयान्तरसञ्चार इत्यभिमते यद्यन्त्यं
ज्ञानं ज्ञानानुभवितृ नानुभूयते, तदा सर्वस्यार्थस्य तत ज्ञानस्य चाननुभूतिः
प्रसज्यते, परानुभूतवत् पुरुषान्तरानुभूतार्थतज्ज्ञानयोरिव ॥ ५३९ ॥
ननु आत्मनाऽनुभूतमर्थं तज्ज्ञानं प्रत्यक्षं न परैरनुभूतमिति यद्यु-
च्यते ? नन्वन्त्यज्ञानाननुभवेऽर्थज्ञानस्याननुभावात्, तदनुभवाभावे चार्थानुभवा-
सिद्धेरात्मानुभूतिः सा कुतः सिद्धा, येनैवमुच्यते—आत्मानुभूतं प्रत्यक्षं न
परानुभूतमिति ॥ ५४० ॥
ननु चक्षुरादावनर्थभूते चक्षुरादिना रूपाद्यनुभूतमिति यथा, तथा ज्ञानाननु-
भवेऽप्यर्थो ज्ञात इति भविष्यति ? इत्याह — अर्थव्यक्तिहेतोश्चक्षुरादेरर्थदर्शनेऽप्य-
प्रसिद्धिर्व्यक्तिः स्यात्; यतो न कारणदर्शनपूर्वकं कार्यदर्शनम् । न तु व्यक्ते-
२५६ प्रमाणवार्त्तिके
व्यक्त्यसिद्धावपि व्यक्तं यदि व्यक्तमिदं जगत् ॥ ५४१ ॥
रुपलब्धेर्व्यक्तमर्थमिच्छतो व्यक्त्यसिद्धिर्युक्ता । यदि पुनर्व्यक्तेरसिद्धावपि
व्यक्तं वस्तूच्यते, तदा सर्वमिदं जगद् व्यक्तं स्यात् ; अव्यक्तव्यक्तिकत्वेन
विशेषाभावात् । तथा हि—अर्थो न सत्तामात्रेण प्रतीत उच्यते; प्रतिपत्तिसंयोगात् ।
नापि ज्ञानसत्तामात्रेण; परचित्तज्ञानेनापि संवेदनप्रसङ्गात् । किन्तु ज्ञानानुभवेना-
र्थप्रतीतिर्वाच्या । न चान्येन संवेदनं ज्ञानस्योपपद्यत इति स्वप्रकाशमेव
स्वभावतस्तद्व्यक्तमिति स्वसंवेदनसिद्धिः ॥ ५४१ ॥
इत्याचार्यश्रीमनोरथनन्दिकृतायां
प्रमाणवार्तिकवृत्तौ प्रत्यक्ष-
परिच्छेदो द्वितीयः
स्वार्थानुमाननामा
तृतीयः परिच्छेदः¹
हेतुविचारः
हेतुलक्षणम्
पक्षधर्मस्तदंशेन व्याप्तो हेतुः;
तच्च त्रिरूपत्वम्
त्रिधैव सः ।
प्रत्यक्षमाख्याय, अवसरप्राप्तमनुमानमिदानीं वक्तव्यम् । तच्च द्विविधम्—
स्वार्थम्, परार्थं च । तत्र स्वार्थमिदानीं वक्तव्यम् ; तत्पूर्वकत्वात् परार्थस्य ।
तल्लिङ्गे च विप्रतिपत्तयः सन्तीति तासां निराकरणेन तद्व्यवस्थापनार्थ-
माह—पक्षो धर्मिधर्मसमुदायोऽनुमेयः । तदेकदेशत्वादुपचारेण धर्मी पक्ष उक्तः ।
तस्य धर्मः, अनेन पक्षधर्मत्वमुक्तम् । धर्मिधर्मो हेतुरित्यनुमाने सर्वस्य धर्मि-
धर्मो हेतुः स्यादित्युपचाराश्रयणम् । तथा चाक्षुषत्वादिः शब्दे धर्मिणि न हेतुः ।
तदंशेन पक्षस्य धर्मेण सिसाधयिषितेन व्याप्तो हेतुर्बोद्धव्यः ।
द्विविधा चे