प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 281, कुल 532 में से
संदर्भ में पढ़ेंप्रत्यक्षपरिच्छेदः २५५
पूर्वापरार्थभासित्वाच्चिन्तादावेकचेतसि ।
द्विर्द्विरेकं च भासेत भासनादात्मतद्धियोः ॥ ५३८ ॥
आत्मानुभूतं प्रत्यक्षम्
विषयान्तरसञ्चारे यद्यन्त्यं नानुभूयते ।
परानुभूतवत् सर्वाननुभूतिः प्रसज्यते ॥ ५३९ ॥
आत्मानुभूतं प्रत्यक्षं नानुभूतं परैः यदि ?
आत्मानुभूतिः सा सिद्धा कुतो येनैवमुच्यते ॥ ५४० ॥
व्यक्तिहेत्वप्रसिद्धिः स्यात् न व्यक्तेर्व्यक्तिमिच्छतः ।
किं कारणम् ? इत्याह — पूर्वापरार्थभासित्वात् चिन्तादिज्ञानेन हि पूर्व-
वर्णग्राहकज्ञानं गृह्येत इति तत्प्रतिभासी वर्णो गृह्येत, तत्कालोपनिपतितश्चान्यो वर्ण
इति क्रमोपलभ्ययोर्युगपद्ग्रहणप्रसङ्गः ।
एकं च वर्णादिद्विर्द्विर्भासेत ; आत्मतद्धियोर्भासनात् । तद्दर्शने
तज्ज्ञानदर्शने तु तद् दृष्टमिति द्विधा दर्शनप्रसङ्गः ॥ ५३८ ॥
अथ विषयज्ञाने वृत्ते तज्ज्ञाने चोत्पन्ने विषयदर्शनस्य निष्पन्नत्वात्
ज्ञानान्तरं विषयान्तरग्राहकमिति स्याद् विषयान्तरसञ्चार इत्यभिमते यद्यन्त्यं
ज्ञानं ज्ञानानुभवितृ नानुभूयते, तदा सर्वस्यार्थस्य तत ज्ञानस्य चाननुभूतिः
प्रसज्यते, परानुभूतवत् पुरुषान्तरानुभूतार्थतज्ज्ञानयोरिव ॥ ५३९ ॥
ननु आत्मनाऽनुभूतमर्थं तज्ज्ञानं प्रत्यक्षं न परैरनुभूतमिति यद्यु-
च्यते ? नन्वन्त्यज्ञानाननुभवेऽर्थज्ञानस्याननुभावात्, तदनुभवाभावे चार्थानुभवा-
सिद्धेरात्मानुभूतिः सा कुतः सिद्धा, येनैवमुच्यते—आत्मानुभूतं प्रत्यक्षं न
परानुभूतमिति ॥ ५४० ॥
ननु चक्षुरादावनर्थभूते चक्षुरादिना रूपाद्यनुभूतमिति यथा, तथा ज्ञानाननु-
भवेऽप्यर्थो ज्ञात इति भविष्यति ? इत्याह — अर्थव्यक्तिहेतोश्चक्षुरादेरर्थदर्शनेऽप्य-
प्रसिद्धिर्व्यक्तिः स्यात्; यतो न कारणदर्शनपूर्वकं कार्यदर्शनम् । न तु व्यक्ते-