सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 273, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 273

प्रत्यक्षपरिच्छेदः २४७
तथा हि नीलाद्याकार एक एकं च वेदनम् ।
लक्ष्यते न तु नीलाभे वेदने वेदनं परम् ॥ ५१२ ॥
ज्ञानान्तरेणानुभवो भवेत् तत्रापि हि१ स्मृतिः ।
दृष्टा; तद्वेदनं केन तस्याप्यन्येन चेद् ?
इमाम् ॥ ५१३ ॥
मालां ज्ञानविदां कोऽयं जनयत्यनुबन्धिनीम् ।
पूर्वा धीः सैव चेन्न स्यात् सञ्चारो विषयान्तरे ॥ ५१४ ॥
तां ग्राह्यलक्षणप्राप्तामासन्नां जनिकां धियम् ।
अगृहीत्वोत्तरं ज्ञानं गृह्णीयादपरं कथम् ॥ ५१५ ॥
न चार्थज्ञानं ज्ञानं च कदाचिद् भेदेन प्रतीयते । तथा हि—नीला-
द्याकार एको ग्राह्यतया एकं च तद्ग्राहकं वेदनं लक्ष्यते, न तु नीलाभे
वेदने पृथग् ग्राहकं परं२ वेदनं लक्ष्येते । तस्माज्ज्ञानस्य विदितस्यान्येनानु-
भवासम्भवे स्ववेदनमेव तदिति व्यवतिष्ठते ॥ ५११–५१२ ॥
किञ्च—नीलादिविषयस्य ज्ञानस्य ज्ञानान्तरेणानुभवो भवेत् । तत्रापि
ज्ञानज्ञानेऽपि हि स्मृतिर्दृष्टा । यदा ज्ञानान्तरालम्बकं ज्ञानं क्रमेण स्मर्यते, न
चागृहीतं स्मर्यते इति तस्य ज्ञानज्ञानस्य वेदनं वक्तव्यम् । तत् केनास्तु
वेदनम् ! यदि स्वसंवेदनेन ? तदा पूर्वकस्यापि तथा स्थितिः, व्यर्थमन्येन
वेदनाङ्गीकरणम् । तस्याप्यन्येन चेद् वेदनम् ? तदा ज्ञानवृत्तीनामिमां
मालामनुबन्धिनीं प्रबन्धप्रवृत्तां को जनयति ! न तावदर्थेन्द्रियादिसामग्री;
तस्या अर्थज्ञानमात्रजननव्यापारत्वात् । सैव ग्राह्या धीः पूर्विका स्वग्राहिकां धियं
जनयति, सा च स्वग्राहिकामिति प्रबन्धप्रवृत्तिरिति चेत् ? एवं सति स्वकारण-
ग्रहणप्रवणत्वाद् विषयान्तरे ज्ञानादन्यस्मिन्नर्थे सञ्चारो ग्राहकत्वेन प्रवृत्तिर्न
स्यात् ॥ ५१३–५१४ ॥
तथा हि—जनिकां धियमासन्नां ग्राह्यलक्षणप्राप्तामगृहीत्वोत्तरं
ज्ञानमपरं विषयं कथं गृह्णीयात् ॥ ५१५ ॥
१. च—रा० । २. अपरं—रा० ।