प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 265, कुल 532 में से
संदर्भ में पढ़ेंप्रत्यक्षपरिच्छेदः २३९
यथा प्रदीपयोर्दीपघटयोश्च तदाश्रयः ।
व्यङ्ग्यव्यञ्जकभेदेन व्यवहारः प्रतन्यते ॥ ४८३ ॥
विषयेन्द्रियमात्रेण न दृष्टमिति निश्चयः ।
तस्माद् यतोऽयं तस्यापि वाच्यमन्यस्य दर्शनम् ॥ ४८४ ॥
स्वसंवित्तिसिद्धिः
स्मृतेरप्यात्मवित् सिद्धा ज्ञानस्या;
ऽन्येन वेदने ।
दीर्घादिग्रहणं न स्याद् बहुमात्रानवस्थितेः ॥ ४८५ ॥
दृष्टान्तमाह—यथा प्रदीपयोः प्रकाशात्मनोर्न प्रकाश्यप्रकाशकभावः,
तथा बुद्धयोरपि । यथा दीपघटयोः प्रकाशाप्रकाशस्वभावयोरेकः प्रकाशकोऽन्यः
प्रकाश्यः, तथा ज्ञानार्थयोरपि । तदाश्रयोऽप्रकाशप्रकाशात्मनिष्ठो व्यङ्ग्यव्य-
ञ्जकभेदेन व्यवहारो लोके प्रतन्यते ॥ ४८३ ॥
यतश्च विषयमात्रेण इन्द्रियमात्रेण वेदं दृष्टमिति न निश्चयः; तस्माद्
यतस्तद्व्यतिरिक्ताज्ज्ञानादिदं दृष्टमिति निश्चयः, तस्यापि विषयेन्द्रियाभ्यामन्यस्य
ज्ञानस्य दर्शनमपरोक्षत्वं वाच्यमिति बुद्धिपरोक्षतावादो न युक्तः ॥ ४८४ ॥
स्वसंवित्तिसिद्ध्यर्थमुपपत्त्यन्तरमाह—ज्ञानस्यातीतस्य स्मृतेरप्यात्मवित्
स्वसंवित्तिः सिद्धा । प्रतीतमेव हि स्मर्यते यथार्थः ।
स्यादेतत्—ज्ञानं प्रतीतमन्येन चेतसा, न स्वसंवेदनेन ? इत्याह—अन्येन
ज्ञानेन पूर्वकस्य ज्ञानस्य वेदनेऽभिधीयमाने दीर्घादेः स्वरस्य ग्रहणं न
स्यात्; क्षणिकस्य ज्ञानस्य एकाण्वत्ययकालमात्रस्थायिनोऽनेकक्षणनिर्वर्त्त्यासु बह्वीषु
मात्रासु दीर्घादिनिर्वर्त्तनिकासु ग्राहकत्वेनानवस्थितेः । न ह्येकक्षणमात्रस्थायि
ज्ञानमनेकक्षणकलापनिर्वर्त्तनीयमात्रासञ्चयात्मकं दीर्घादिकं शक्नोति ग्रहीतुम्;
किन्त्वकाराद्येकैकमात्रावयवलेशं गृह्णाति । तद्ग्राहकत्वेन द्वितीयज्ञानेन तत् प्रतीयते ।
एवमपरावरैर्ज्ञानैरवयवलेशग्राहकैः स्वस्वग्राहकज्ञानान्तरितैर्ग्रहणक्रमे केन मात्रा-
ग्रहणम्, मात्राप्रचयदीर्घादिग्रहणं वा स्यात् ! ॥ ४८५ ॥