प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
:
Let's look at L5 again very, very carefully.
स्वभावैर्य - there is definitely य.
Then there is द्वि? Look at the ligature:
It has a top loop, a vertical stroke, a lower loop... wait, is that द्वि?
Wait, why would anyone write यद्विद्भिः? Does यद्विद्भिः exist in Sanskrit?
यद्-विद्भिः? "By those who know that"?
WAIT!
"कार्यं स्वभावैर्यद्विद्भिरविनाभावि कारणे"
"A karyam, by its natures, which [nature] is known by the wise (यद्विद्भिः) to be inalienable from the cause..."?
NO! Look at the commentary in L15-18:
L15-16: इत्याह—कार्यं स्वभावैर्यद्विद्भिर्र्विशिष्टै- (or र्यावद्भिर्विशिष्टै-?)
र्धूमवत्त्वादिभिरविनाभावि विना न भवतीति कारणे कारणविषयेऽवधारितम्,
L17: तैरेव विशिष्टैः स्वभावैर्हेतुर्न साधारणैः पार्थिवत्त्वादिभिः...
L18: `तथा कारणेऽधिकरणे यावद्भिः स्वभावैरग्नित
विचारः ] स्वार्थानुमानपरिच्छेदः २५९
हेतुः१ स्वभावे भावोऽपि भावमात्रानुरोधिनि१ ॥ २ ॥
अनुपलब्धिविचारः
अप्रवृत्तिः प्रमाणानाम् अप्रवृत्तिफलाऽसति२ ।
असज्ज्ञानफला, काचिद्२ हेतुभेदव्यपेक्षया ॥ ३ ॥
भावोऽपि स्वभावोऽपि हेतुः स्वभावे साध्ये । कीदृशे ? हेतोर्भावः केवलं
भावमात्रं तदनुरोद्धुमनुवर्तितुं शीलमस्येति भावमात्रानुरोधि तस्मिन् । यस्य
सत्तामात्रेण यो धर्मोऽवश्यं भवति न हेत्वन्तरमपेक्षते, तस्मिन् साध्ये स्वभा-
वाख्यो हेतुः, नान्यत्र; यथा—वस्त्रत्वं रागे । एवं च विधिसाधनत्वं कार्यस्वभाव-
योर्दर्शितम् ॥ २ ॥
इदानीं तृतीयहेतोः प्रतिषेधफलत्वमाह—प्रमाणनिवृत्तिरूपाऽनुपलब्धिरसति
सद्द्व्यवहारातिक्रान्तत्वादसदविशिष्टे देशकालस्वभावविप्रकृष्टे सुमेर्वादौ सञ्ज्ञान-
शब्दव्यवहाराणां प्रवृत्तिप्रतिषेधोऽप्रवृत्तिस्तत्फला । एतच्चाप्रवृत्तिफलत्वं दृश्या-
दृश्यानुपलब्ध्योः साधारणम्; ज्ञानपूर्वकत्वात् । सञ्ज्ञानशब्दव्यवहारस्य ज्ञानाभावे
तदभावस्य न्यायप्राप्तत्वात् ।
दृश्यानुपलब्धेः फलान्तरमाह—काचित् प्रमाणनिवृत्तिरसञ्ज्ञानमभावज्ञानं
तत्फला । कथम् ? इत्याह-हेतुरनुपलम्भः, तस्य भेदो विशेषणम्, उपलब्धि-
लक्षणप्राप्तविषयत्वम्, तस्य व्यपेक्षया कांक्षया । उपलब्धिलक्षणप्राप्तानुप-
लब्धिरित्यर्थः ।
ननु यद्यनुपलब्ध्याऽभावः साध्यते, तदोपलब्ध्यभावोऽपि तत एवेत्यनवस्था-
नादभावाप्रतिपत्तिः स्यात् ; दृष्टान्तश्च न स्याद्, अन्यस्याभावसाधनस्याभावादनुप-
लब्धेश्चानवस्थाप्राप्तत्वात् । अथ पदार्थान्तरोपलब्धिरेवानुपलब्धिः, तयाऽध्यक्ष-
सिद्ध्याऽभावः साध्यते, तस्मान्न दोषः ? यद्येवम्, अर्थान्तरादपि किन्नाभावः साध्यते,
तदपि ह्यनुपलब्धिरूपं प्रत्यक्षसिद्धं च । को वान्योलम्भाभावेन सम्बन्धः ?
उच्यते—एकज्ञानसंसर्गि वस्त्वन्तरम्, तदुपलब्धिश्चानुपलब्धिर्विवक्षिता;
१-१. रा० पुस्तके नास्ति । २-२. रा० पुस्तके नास्ति ।
२६० प्रमाणवार्त्तिके [ अनुपलब्धि-
विरुद्धकार्ययोः सिद्धिरसिद्धिर्हेतुभावयोः१ ।
दृश्यात्मनोरभावार्थानुपलब्धिश्चतुर्विधा२ ॥ ४ ॥
तद्विरुद्धनिमित्तस्य योपलब्धिः प्रयुज्यते ।
निमित्तयोविरुद्धत्वाभावे३ सा व्यभिचारिणी३ ॥ ५ ॥
उपलब्धेरन्यत्वादभक्ष्यास्पर्शनीयवत् । स एवाभावः; तदतिरिक्तस्य विग्रहवतोऽभाव-
स्याभावात् । तस्मात् तादात्म्यमभावानुपलम्भयोः सम्बन्धः ।
एवं तर्ह्यनुपलब्धिसिद्धिरेवाभावसिद्धिः, किं साध्यते ? सत्यम्; नाभावः
साध्यः, सिद्धत्वादस्य, किं तर्हि ? विषयोपदर्शनेन विषयी व्यवहारः साध्यते ।
यथा—गोव्यवहारविषयोऽयं सास्नादिसमुदायात्मकत्वात् ॥ ३ ॥
सा च प्रयोगभेदादनुपलब्धिश्चतुर्विधा । कथम् ? इत्याह-विरुद्धञ्च कार्यञ्च
विरुद्धकार्ये, कार्यञ्च प्रत्यासत्तेविरुद्धस्यैव बोद्धव्यम्, तयोः, दृश्यात्मनोर्हेतु-
भावयोः कारणस्वभावयोश्च दृश्यात्मनोर्यथाक्रमं सिद्धिरुपलब्धिः, असिद्धिरनु-
पलब्धिश्च ।
विरुद्धोपलब्धिर्यथा—नात्र शीतस्पर्शोऽग्नेः । व्याप्यव्यापकयोर्वस्तुतस्ता-
दात्म्यात् । व्यापकविरुद्धोपलब्धिरप्यनेनैवोक्ता भवति । यथा—नात्र तुषार-
स्पर्शोऽग्नेः । विरुद्धकार्योपलब्धिर्यथा—नात्र शीतस्पर्शो धूमात् । कारणानुप-
लब्धिर्यथा—नात्र धूमोऽनग्नेः । स्वभावानुपलब्धिर्यथा—नात्र धूमोऽनुपलब्धेः ।
अनेन व्यापकानुपलब्धिरप्युक्ता, यथा—नात्र शिंशपा वृक्षाभावात् ।
चतुर्विधाप्यनुपलब्धिरभावार्था प्रतिषेधफला । तत्र स्वभावानुपलब्धिः
स्वयमेव प्रतिषेध्याभावरूपतया सिद्धाऽभावव्यवहारसाधनी । इतरास्तु निषेध्या-
भावाव्यभिचारिण्यस्तदभावमभावव्यवहारं च साधयन्ति; तस्यासिद्धत्वात् ॥ ४ ॥
यदि विरुद्धकार्योपलब्ध्याऽभावसिद्धिः, तदा विरुद्धकारणोपलब्ध्यापि किं
न साध्यते ? इत्याह—तद्विरुद्धनिमित्तस्य निषेध्यस्य ( शीतस्पर्शवह्नेः )
विरुद्धकारणस्य ( काष्ठस्य ) योपलब्धिः प्रयुज्यते, यथा—न शीतस्पर्शोऽत्र
काष्ठादिति, सा निषेध्यस्य विरुद्धस्य च ये निमित्ते तयोर्विरुद्धत्वाभावे व्यभि-
१. ०रथ हेतुस्वभावयोः—रा० । २. ०रभावाच्चानु०—क० ।
३-३. ०भावो हि व्यभिचारवान्—रा० ।
विचारः ] स्वार्थानुमानपरिच्छेदः २६१
इष्टं विरुद्धकार्येऽपि देशकालाद्यपेक्षणम् ।
अन्यथा व्यभिचारि¹ स्याद् भस्मेवाशीतसाधने ॥ ६ ॥
हेतुना यः समग्रेण कार्योत्पादोऽनुमीयते ।
अर्थान्तरानपेक्षत्वात् स स्वभावोऽनुवर्णितः ॥ ७ ॥
सामग्रीफलशक्तीनां परिणामानुबन्धिनि ।
अनैकान्तिकता कार्ये प्रतिबन्धस्य सम्भवात् ॥ ८ ॥
चारिणी अनैकान्तिकी। विरोधे तु निमित्तयोरिष्यत एव, यथा—नास्य रोमहर्षा-
दिविशेषः सन्ति; सन्निहितदहनविशेषत्वात् । रोमहर्षतदभावयोर्विरोधः, तत्कार-
णयोश्च शीतदहनयोरिति युक्तेयमनुपलब्धिः । तथा निषेध्य( = रोमहर्ष )
विरुद्ध( = ताप )कारण( = दहन )कार्यो( = धूमो )पलब्धिर्यथा—न रोमहर्ष-
युक्तपुरुषवानयं प्रदेशो धूमादिति ॥ ५ ॥ उक्ताष्टविधानुपलब्धिः ॥
अनया दिशाऽपरा अपि बोद्धव्याः । विरुद्धकार्ये विरुद्धकार्योपलब्धावपि
विषये निर्देशात् देशस्य सन्निहितस्य कालस्य वर्त्तमानस्य क्वचिदतीतापेक्ष-
णमिष्टम्; अन्यथा व्यभिचारि स्याल्लिङ्गम् । उदाहरणमाह—भस्मेवाशीतस्य
शीताभावस्य साधने । यथा—नासीत् क्वचित् शीतस्पर्शः, नास्ति वात्र भस्मन इति
भस्मानैकान्तिकम् । देशविशेष्येऽतीतकालापेक्षया तु स्याद्धेतुः—नासीदत्र शीत-
स्पर्शो भस्मन इति ॥ ६ ॥
ननु हेतुना समग्रेण यः कार्योत्पादोऽनुमीयते स कस्मिन् हेताव-
न्तर्भवति ? इत्याह—स स्वभावहेतुरनुवर्णितः । न हि समग्राद्धेतोः कार्य-
सम्भवोऽनुमीयते, किं तर्हि ? कार्यार्जनयोग्यत्वम् । तच्चार्थान्तरानपेक्षत्वाद्धेतुसाक-
ल्यमात्रानुबन्ध्येवेति तस्मिन् साध्ये हेतुसाकल्यं स्वभावहेतुरेव ॥ ७ ॥
कस्मात् पुनः कार्यमेव नानुमीयते ? इत्याह—कार्येऽनुमेयेऽनैकान्ति-
कता हेतुसाकल्यस्य । कीदृशे ? सामग्रयाः फलञ्च ताः² शक्तयश्च तासां
परिणामः कार्योत्पादानुगुणस्तारतम्ययोगी क्षणप्रबन्धः, तदनुबन्धिनि तद-
पेक्षिणि । अत एव प्रतिबन्धस्य सम्भवादित्युक्तम् ॥ ८ ॥
१. व्यभिचारी—रा० । २. ताः [ उत्तरक्षणं ]—रा०।
२६२ प्रमाणवार्त्तिके [ अनुपलब्धि-
एकसामग्र्यधीनस्य रूपादे रसतो गतिः ।
हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥ ९ ॥
शक्तिप्रवृत्त्या न विना रसः सैवान्यकारणम् ।
इत्यतीतैककालानां गतिस्तत्कार्यलिङ्गजा १ ॥ १० ॥
हेतुना योऽसमग्रेण २ कार्योत्पादोऽनुमीयते ।
तच्छेषवदसामर्थ्याद् देहाद् रागानुमानवत् ॥ ११ ॥
न खलु कार्यहेतवो मिलिता इत्येव भवति, किन्त्वेषां विशेषमपेक्षते, अत्रान्तरे
च शक्तिव्याघातो मन्त्रतन्त्रादिना वैकल्यं च सम्भवतीति कार्यस्यावश्यभावान्न
तदनुमानम्। या च रसतो मधुरादिकात् रूपादेः, आदिशब्दाद् गन्धस्य च, एक-
सामग्र्यधीनस्य रसादिना सहैकसामग्र्यायत्तस्य गतिः, सा कथम् ? इत्याह-
हेतुधर्मानुमानेन रसकारणस्य धर्मो रसादिसहचररूपजनकत्वम्, तदनुमानेन
रसाद् रूपादिगतिः । न हि कार्यं रसः कारणमन्तरेण । कारणं चास्य रससहकारि
रूपजनकम् ; पुञ्जात पुञ्जोत्पत्तेः । अतस्तस्मिन्ननुमितेऽनुमितमेव रूपम् । धूमे-
न्धनविकारवत् । धूमाद्धेतुधर्मानुमानेनेन्धनविकारस्याङ्गारादेर्धूमसहचरस्येवानु-
मानम् ॥ ९ ॥
एतदेव स्फुटयन्नाह—रसहेतोः शक्तिप्रवृत्त्या शक्त्याभिमुख्येन विना
न रस उत्पद्यते । सैव रसहेतोः शक्तिप्रवृत्तिरन्यस्य रूपादेः कारणं इतर-
समानकालरूपादिजनकत्वेन रसहेतोरतीतस्य हेतोरेककालानां रससहचराणां च
रूपादीनां गतिस्तस्य रसरूपहेतोः कार्याद् रसाल्लिङ्गाज्जाता ।
एवं पिपीलिकोत्सरणादिदर्शनात् वर्षापिपीलिकादिक्षोभहेतोर्भूतपरिणामविशे-
षस्यानुमानात् वर्षानुमानं कार्यलिङ्गं वेदितव्यम् । नदीपूरादेर्वर्षकार्यत्वं
व्यक्तमेव ॥ १० ॥
यः पुनर्हेतुनाऽसमग्रेण कार्योत्पादः कार्योत्पादनयोग्यत्वममनुमीयते,
तच्छेषवदनैकान्तिकमसामर्थ्यात् । समर्थं हि कार्योत्पादनयोग्यम् , न च व्यग्राणां
समर्थता । देहात् बुद्धीन्द्रियादेश्च हेतो रागानुमानवत् । देहादीनां कथञ्चिद्
१. जायते कार्यलिङ्गतः—रा० । २. त्वसमग्रेण—क० ।
विचारः ] स्वार्थानुमानपरिच्छेदः २६३
विपक्षेऽदृष्टिमात्रेण कार्यसामान्यदर्शनात् ।
हेतुज्ञानं१ प्रमाणाभं१ वचनाद् रागितादिवत् ॥ १२ ॥
न चादर्शनमात्रेण विपक्षेऽव्यभिचारिता ।
सम्भाव्यव्यभिचारित्वात्२ स्थालीतण्डुलपाकवत् ॥ १३ ॥
शेषवदनुमाननिरासनम्
यस्यादर्शनमात्रेण व्यतिरेकः प्रदर्श्यते ।
तस्य संशयहेतुत्वाच्छेषवत् तदुदाहृतम् ॥ १४ ॥
रागहेतुत्वेऽपि नायोनिशोमनस्काररहितानां कारणत्वम् ; सहितानामेव हेतुत्वात् ।
ततः केवलाद् देहाद् रागानुमानमनैकान्तिकम् ॥ ११ ॥
तथा—विपक्षेऽदृष्टिमात्रेण कार्यसामान्यस्य कचिद् धर्मिणि दर्श-
नात् हेतुज्ञानं यत् प्रमाणाभं सन्दिग्धविपक्षव्यावृत्तिकं तद् वचनाद्,
रागितादिवत् । यथा वचनस्य वीतरागेऽदर्शनात् क्वचिद् दर्शनाद् रागानुमान-
मनैकान्तिकम् । न हि रागवचनयोः कार्यकारणभावः सिद्धः; वक्तुकामताहेतुत्वात्
तस्य । सा च वीतरागस्य करुणया सम्भवति । यद्यपि वक्तरि रागो दृश्यते,
तथापि क्वचिद् वक्तुकामतासत्त्वेऽपि रागाभावे वचनाभावासिद्धेर्न तत्कार्यतासिद्धिः ।
उपलखण्डाद् वक्तुकामतानिवृत्तेरेव वचनाभावः, न तु रागाभावात् । ततो वीत-
रागाद् सन्दिग्धोऽस्य व्यतिरेकः ॥ १२ ॥
न च विपक्षे हेतोरदर्शनमात्रेण साध्याभावप्रयुक्तसाधनाभावनिश्चय-
रहितेन साध्याव्यभिचारिता साध्यते; सम्भाव्यव्यभिचारित्वात् , यदि
विपक्षाद्धेतुनिवृत्तिनिश्चय एवं व्यभिचारशङ्कानिरासः, स तु नास्तीति तस्याप्य-
भावः । स्थालीतण्डुलपाकवत् । स्थाल्यन्तर्गतानां तण्डुलानां पाकस्येवानुमानम् ,
तदितरेषां पाकादर्शनात् शेषवत् ॥ १३ ॥
किं पुनः शेषवदित्युच्यते ? इत्याह—यस्य लिङ्गस्यादर्शनमात्रेण
विपक्षे व्यतिरेकः प्रदर्श्यते, न तु कारणव्यापकनिवृत्त्या; तस्य संशय-
हेतुत्वात् साध्यानिश्चायकत्वात् शेषवत् तदुदाहृतम् । सन्दिग्धविपक्षव्यावृत्ति-
कत्वं शेषवदुच्यते; प्रतिबन्धाभावादित्यर्थः ॥ १४ ॥
१-१. हेतुज्ञानप्रमाणाभं—रा० । २. ०व्यभिचारत्वात्—क० ।
२६४ प्रमाणवार्त्तिके [ व्याप्ति-
हेतोस्त्रिष्वपि रूपेषु निश्चयस्तेन वर्णितः ।
असिद्धविपरीतार्थव्यभिचारिविपक्षतः ॥ १५ ॥
व्याप्तिविचारः
व्यभिचारिविपक्षेण वैधर्म्यवचनं च यत् ।
यच्चदृष्टिफलं तच्च तदनुक्तेऽपि गम्यते ॥ १६ ॥
न च नास्तीति वचनात् तन्नास्त्येव यथा यदि ।
नास्ति स ख्याप्यते न्यायस्तदा १ नास्तीति गम्यते १ ॥ १७ ॥
तेन प्रतिबन्धस्यावश्याभ्युपगन्तव्यत्वेन हेतोस्त्रिष्वपि रूपेषु पक्षधर्मा-
न्वयव्यतिरेकेषु निश्चय आचार्यदिङ्नागेन वर्णितः । कथमुक्तः ? इत्याह—
असिद्धस्य विपरीतार्थस्य विरुद्धस्य व्यभिचारिणोऽनैकान्तिकस्य विप-
क्षेण । तत्रासिद्धत्वविपक्षेण पक्षधर्मत्वस्य निश्चय उक्तः; विरुद्धविपक्षेणान्व-
यस्य, अनैकान्तिकविपक्षेण व्यतिरेकस्य ॥ १५ ॥
न ह्यसति प्रतिबन्धे विपक्षाद् व्यतिरेकः शक्यनिश्चयः, उक्तश्च निश्चयः,
ततः प्रतिबन्धोऽप्याचार्येणेष्ट इति प्रतीयते । अन्यथा प्रतिबन्धानिष्टौ व्यभिचा-
रिणोऽनैकान्तिकस्य विपक्षेण वैधर्म्यस्य व्यतिरेकस्य वचनं यदाचार्यस्य २ ।
एष तावन्न्यायः ३ — “यदुभयं वक्तव्यं विरुद्धानैकान्तिकप्रतिपक्षेण” इति । उभय-
मन्वयव्यतिरेकौ । तच्च यद्यदृष्टिफलमदर्शनमात्रफलं तददर्शनमात्रमनुक्तेऽपि
व्यभिचारिविपक्षेण व्यतिरेको गम्यते; हेतुत्रैरूप्यनिर्देशादेव विपक्षेऽदर्शनमात्रस्य
गतत्वात् । तस्माद् वैधर्म्यवचनेन विपक्षे हेत्वभावः कथ्यते । स चादर्शनमात्रेण
न सिध्यति ॥ १६ ॥
नास्तीति वचनादेव सिध्यतीति चेत् ? न च नास्तीति वचनादेव
तत्साधनं विपक्षे नास्त्येवेति युक्तम् ; तदपि ह्यनुपलम्भमेव ख्यापयति । स च
सर्वस्माद्विपक्षाद्धेत्वभावप्रतीतावशक्तः । कथं तर्हि ? इत्याह—यथा येन प्रकारेण
साध्यसाधनयोः प्रतिबन्धे सति साध्याभावेन साधनं विपक्षे नास्ति स न्यायो
१-१. चायमुक्तौ नेति गतिस्तदा—रा० । २. तद्व्यर्थमिति शेषः ।
३. न्यायमुखग्रन्थपाठ इत्यर्थः ।
तृतीय परिच्छेद: प्रत्यक्ष परिच्छेद (निर्विकल्पक प्रत्यक्ष एवं अपोह-सिद्धि)
विचारः ] स्वार्थानुमानपरिच्छेदः २६५
यद्यदृष्टौ¹ निवृत्तिः स्याच्छेषवद् व्यभिचारि किम् ।
व्यतिरेक्यपि हेतुः स्यान्न वाच्याऽसिद्धियोजना ॥ १८ ॥
विशेषस्य व्यवच्छेदहेतुता स्याददर्शनात् ।
प्रमाणान्तरबाधा चेन्नेदानीं नास्तिताऽदृशः ॥ १९ ॥
यदि ख्याप्यते व्यभिचारिविपक्षेण वैधर्म्योक्त्या; तदा नास्तीति गम्यते,
नान्यथा ॥ १७ ॥
किञ्च—यद्यदृष्टौ विपक्षाद्धेतोर्निवृत्तिः स्यात् शेषवत् सन्दिग्धविपक्ष-
व्यतिरेकं व्यभिचारि किमिष्टमाचार्येण । एवं च—सरसान्येतानि फलानि
रूपाविशेषादिति सर्वस्य तादृग्रूपस्य पक्षीकृतत्वात् न व्यभिचारदर्शनम्, विपक्षे
चादर्शनमस्तीति प्राप्तमदर्शनमात्राद् व्यतिरेकवादिनो हेतुत्वमस्य ।
व्यतिरेक्यपि हेतुः स्यात् । नेदं निरात्मकं जीवच्छरीरमप्राणादिमत्त्व-
प्रसङ्गादिति बौद्धं प्रति सात्मकस्य कस्यचिदसिद्धेरन्वयाभावात्, निरात्मकेभ्यश्च
घटादिभ्यो निवृत्तेः प्राणादिर्व्यतिरेकी, स हेतुः स्यात्; अदर्शनाद् व्यतिरेकसिद्धेः,
अनिष्टश्चाचार्येण ।
किञ्च—वादिप्रतिवादिनोरसिद्धस्यान्यतरासिद्धस्य सन्दिग्धस्याश्रयासिद्धस्य
असिद्धस्य² च निरासं पक्षधर्मत्वनिश्चयेन प्रतिपाद्य, अन्वयव्यतिरेकनिश्चयवचनेन
सपक्षविपक्षयोर्हेतोरन्वयस्य व्यतिरेकस्य च विपरीताया असिद्धेश्चतुर्विधाया
योजना आचार्येण—"सपक्षे सन्नसन्नित्येवमादिष्वपि यथायोगमुदाहार्यम्"
इत्यादिना निर्दिष्टा, सापि न वाच्या; अदर्शनस्य व्यतिरेकनिश्चयहेतुत्वे
सन्दिग्धव्यतिरेकस्य हेतुत्वात् ॥ १८ ॥
अपि च—विशेषस्यासाधारणस्य श्रावणत्वादेर्नित्येऽनित्ये चादर्शना-
दुभयतो व्यावृत्तेः शब्दे धर्मिणि द्वयव्यवच्छेदहेतुता स्यात् । प्रमाणा-
न्तरबाधा चेत् अन्योन्यव्यवच्छेदरूपयोरेकप्रतिषेधस्यापरविधिनान्तरीयकत्वात्
उभयव्यवच्छेदोऽनुमानबाधितः । नेदानीं बाधसम्भवे नास्तिताऽदृशः । एवं
तर्ह्यदृष्टेरभावनिश्चयो नास्तीति वक्तव्यम् ॥ १९ ॥
१. यद्यदृष्ट्या—क० । २. सन्दिग्धाश्रयासिद्धस्य असिद्धस्य—रा० ।
२६६ प्रमाणवार्त्तिके [ व्याप्ति-
तथान्यत्रापि सम्भाव्यं प्रमाणान्तरबाधनम् ।
दृष्टाऽयुक्तिरदृष्टेश्च स्यात् स्पर्शस्याविरोधिनी ॥ २० ॥
देशादिभेदाद् दृश्यन्ते भिन्ना द्रव्येषु शक्तयः ।
तत्रैकदृष्ट्या नान्यत्र युक्तस्तद्भावनिश्चयः ॥ २१ ॥
आत्ममृच्चेतनादीनां योऽभावस्याप्रसाधकः ।
स एवानुपलम्भः किं हेत्वभावस्य साधकः ॥ २२ ॥
यथा श्रावणत्वेनोभयव्यावृत्ततया निश्चितेन प्रसाध्यमानस्योभयव्यवच्छेदस्य
प्रमाणान्तरेण बाधा, तथान्यत्रापि विपक्षाद्धेतोर्व्यतिरेकेऽपि सम्भाव्यं प्रमा-
णान्तरबाधनम्; अदर्शनमात्रस्य निमित्तस्य समानत्वात् । तथा दृष्टाऽयुक्तिर-
दृष्टेश्च स्यात् स्पर्शस्याविरोधिनी । दृष्टेषु पृथिव्यादिष्वपाकजस्यानुष्णाशीत-
स्पर्शस्य अयुक्तिर्योगभावः । अदृष्टेरदर्शनात् वैशेषिकस्येष्टाऽनुपलम्भाद् व्याप्या
निवृत्त्या निश्चयादाचार्येण प्रतिक्षिप्ता च । “यद्यदर्शनमात्रेण दृष्टेभ्यः प्रतिषेधः
क्रियते, न च सोऽपि युक्तः” इत्यादिनाऽविरोधिनी विरोधरहिता स्यात् ।
एवमाचार्यैयः कश्चन प्रतिबन्धमनभ्युपगच्छन् विरोधादुपालब्धः ॥ २० ॥
सम्प्रति परान् प्रत्याह—देशादिभेदात् देशकालसहकारिभेदात् दृश्यन्ते
भिन्ना नानाप्रकारा द्रव्येषु शक्तयः । तत्रैकस्मिन् देशादावेकस्य द्रव्यस्य
शक्तिविशेषवतो दृष्ट्याऽन्यत्र देशादौ तस्य शक्तिविशेषवतो द्रव्यस्य भाव-
निश्चयो न युक्तः प्रतिबन्धमन्तरेण । न ह्येकत्र यथौषधयो दृष्टास्तथैवान्य-
त्रापि ताः शक्यन्ते व्यवस्थापयितुम्; क्षेत्रादिविशेषाद् विशिष्टतररसवीर्यादि-
दर्शनात् ॥ २१ ॥
किञ्च—आत्ममृच्चेतनादीनां योऽभावस्याप्रसाधकः । आत्मनोऽ-
नुपलभ्यमानस्य च योऽनुपलम्भोऽभावस्याप्रसाधको वैशेषिकस्येष्टः, तथा मृदश्चे-
तनायाः स्वभावभूताया योऽनुपलम्भोऽभावप्रसाधकश्चार्वाकस्येष्टः, तथा
क्षीरादौ दध्याद्यभावस्य योऽनुपलम्भोऽप्रसाधक इष्टः सांख्यस्य, स एवानु-
पलम्भः किं कस्माद् विपक्षे हेत्वभावस्येष्टो वैशेषिकादिभिः । यथा घटादौ
प्राणादिमत्त्वाभावो वैशेषिकस्य, वक्तृत्वाभावो विपक्षे चार्वाकस्य, सङ्घातत्वाभावो
तस्मात् तन्मात्रसम्बद्धः १ स्वभावो भावमेव वा ।
निवर्त्तयेत् , कारणं वा कार्यमव्यभिचारतः ॥ २३ ॥
अन्यथैकनिवृत्त्यान्यविनिवृत्तिः कथं भवेत् ।
नाश्ववानिति मर्त्येन २ न भाव्यं गोमतापि किम् २ ॥ २४ ॥
सन्निधानात् तथैकस्य कथमन्यस्य सन्निधिः ।
गोमानित्येव मर्त्येन भाव्यमश्ववतापि किम् ॥ २५ ॥
तस्माद् वैधर्म्यदृष्टान्ते नेष्टोऽवश्यमिहाश्रयः ।
तदभावे च तन्नेति वचनादपि तद्गतिः ३ ॥ २६ ॥
वा विपक्षे सांख्यस्यानुपलम्भादिष्टः ॥ २२ ॥
उक्तः परेषाञ्च न्यायव्याघातः; परस्परविरोधश्च ॥
यस्माददर्शनमात्रात् न व्यतिरेकसिद्धिः; तस्मात् तन्मात्रसम्बद्धस्तत्साधनं
केवलं तन्मात्रं तेन सम्बद्धः । हेतुसत्तामात्रेण कारणान्तरापेक्षारहितेन सम्बन्धो
यस्येत्यर्थः । स्वभावो व्यापको धर्मो निवर्त्तमानो भावं व्याप्यमेव वा
निवर्त्तयेत् , यथा—वृक्षत्वं शिंशपाम्, वृक्षविशेषत्वाच्छिशपायाः । कारणं वा
निवर्त्तमानं कार्यं निवर्त्तयति; अव्यभिचारतः । न हि व्याप्यं कार्यं च
व्यापकेन कारणेन विना भवतः; तत्स्वभावत्वात्, तदधीनत्वाच्चेति ॥ २३ ॥
तादात्म्यतदुत्पत्ती अवश्यमाश्रयणीये; अन्यथैकस्य साध्यस्य निवृत्त्याऽ-
न्यस्य साधनस्य विनिवृत्तिः कथं भवेत् ; स्वतन्त्रत्वात् । न हि मर्त्योऽश्वरहित
इति गोरहितोऽपि भवति ॥ २४ ॥
तथा, तथा सन्निधानादेकस्य हेतोः कथमन्यस्य साध्यस्य सन्निधिः ।
गोमानित्येव मर्त्येन भाव्यमश्ववतापि किम् ! गवाश्वस्य परस्परमप्रति-
बद्धत्वादेकभावे नान्यभावः । तथा शिंशपाऽवृक्षादावपि स्यात् ॥ २५ ॥
यस्मात् कारणव्यापकनिवृत्त्या कार्यव्यापकनिवृत्तिर्दर्शनीया विपक्षे; तस्माद्
वैधर्म्यदृष्टान्ते नेष्टोऽवश्यमिहाश्रयः वस्तुभूतो धर्मी । तस्य कारणव्यापकस्य
साध्यस्याभावे च तत्कार्यव्याप्यं साधनं नेति वचनादपि तस्य साध्याभावे
१. ०सम्बन्धः—रा० । २-२. सन्देहे किं न वा पशुसंशयः—रा० ।
३. तद्गतेः—क० ।
२६८ प्रमाणवार्त्तिके [ व्याप्ति-
तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः ।
ख्याप्येते, विदुषां वाच्यो हेतुरेव हि केवलः ॥ २७ ॥
तेनैव ज्ञातसम्बन्धे द्वयोरन्यतरोक्तिः ।
अर्थापत्त्या द्वितीयेऽपि स्मृतिः समुपजायते ॥ २८ ॥
हेतुस्वभावाभावोऽतः प्रतिषेधे च कस्यचित् ।
साधनाभावस्य गतिः वस्तुनि वस्तुनिवृत्तिः सन्दिग्धा; वस्तुसम्बन्धाविरोधात् ।
अवस्तुनि तु वस्तुसत्ता विरुध्यते, निवृत्तिस्तु युक्ता । अतः स धर्मिणमन्तरेणापि
वाङ्मात्रतोऽपि गम्यत एव ॥ २६ ॥
यतः तद्भावहेतुभावौ दृष्टान्ते ख्याप्येते । तस्य साधनस्य भावस्ता-
दात्म्यं हेतुभावश्च ख्याप्येते¹ । वैधर्म्यदृष्टान्ते साध्यनिवृत्त्या साधनवृत्तिकथनेन
तयोस्तादात्म्यतदुत्पत्तिप्रतिबन्धमजानतो या ह्यन्यनिवृत्तेरतरनिवृत्तिः, सा वस्तु-
भूतमाश्रयमन्तरेणापि शक्यते निर्देष्टुम् । ये तु प्रतिबन्धं विदन्ति तेषां विदुषां
हेतुरेव केवलो वाच्यः, न दृष्टान्तः; तत्र दर्शनीयस्य प्रतिबन्धस्य
सिद्धत्वात् ॥ २७ ॥
यस्माद् दृष्टान्ते प्रतिबन्धः कथ्यते, तेनैव कारणेन ज्ञातसम्बन्धे हेतौ
साधर्म्यदृष्टान्तयोरन्यतरस्योक्तितोऽर्थापत्त्या सामर्थ्येन द्वितीयेऽपि स्मृतिः
समुपजायत इति न तस्य निर्देशः कर्तव्यः । तथा हि—'यत् कृतकं तदनित्यं
यथा घटः' इति तादात्म्ये निर्ज्ञाते नित्यत्वाभावे कृतकत्वाभावः सामर्थ्या-
दाकाशादौ गम्यते । तथा वैधर्म्यदृष्टान्तेन तादात्म्ये कथिते सामर्थ्यादन्वयो
घटादौ गम्यते ॥ २८ ॥
एवं साधनभावे साध्यस्यावश्यं भावः, यदि साध्याभावे हेत्वभावः । तथा
साध्याभावे हेत्वभावस्तदा भवति यदि साधनभावेऽवश्यं साध्यभावः । एवं
कार्यानुपलम्भयोरपि योज्यम् ।
यतः कारणव्यापकनिवृत्तिभ्यां कार्यव्याप्यनिवृत्तिः; अतो हेतोः स्वभावस्य
व्यापकस्याभावः । कस्यचित् कार्यस्य व्याप्यस्य च प्रतिषेधेऽभावे, अभाव-
१. ख्याप्येते—रा० ।
-विचारः ] स्वार्थानुमानपरिच्छेदः २६९
हेतुः, युक्तोपलम्भस्य तस्य चानुपलम्भनम् ॥ २९ ॥
इतीयं त्रिविधोक्ताप्यनुपलब्धिरनेकधा¹ ।
तत्तद्विरुद्धाद्यवगतिगतिभेदप्रयोगतः ॥ ३० ॥
कार्यकारणभावाद्वा स्वभावाद् वा नियामकात् ।
अविनाभावनियमोऽदर्शनान्न न दर्शनात् ॥ ३१ ॥
अवश्यंभावनियमः² कः परस्यान्यथा² परैः ।
अर्थान्तरनिमित्ते वा धर्मे वाससि रागवत् ॥ ३२ ॥
व्यवहारे च हेतुः । तथा तस्य प्रतिषेध्यस्य युक्तोपलम्भस्य उपलब्धि-
लक्षणप्राप्तस्यानुपलम्भनं प्रतिषेधे प्रतिषेधव्यवहारे हेतुः, तस्य स्वयमेवाभाव-
रूपत्वात् ॥ २९ ॥
इति निर्दिष्टक्रमेणेयमनुपलब्धिः कारणव्यापकस्वभावानुपलब्धिभेदेन
त्रिविधाप्यनेकधा बहुप्रकारा; तत्तद्विरुद्धाद्यवगतिगतिभेदप्रयोगतः । ते च
कारणव्यापकस्वभावास्तेषां विरुद्धादयश्च तत्तद्विरुद्धादयः, आदिशब्दाद् विरुद्ध-
कार्यादयश्च, विरुद्धादीनामुपलब्धयश्च तासामन्योन्यं भेदो नानात्वं तस्य प्रयोगतः
शब्दस्याभिधाव्यापारात् । यथोक्तं प्राक् । सैषाऽनेकप्रकारापि त्रिविधानुपलब्धिः
संगृहीतेत्यर्थः ॥ ३० ॥
उक्तमर्थं श्लोकाभ्यां संगृह्णन्नाह—कार्यकारणभावात् तदुत्पत्तेर्वा
नियामकात् साधनस्य साध्याव्यभिचारकारणात् स्वभावात् तादात्म्याद् वा
नियामकादविनाभावनियमः साध्याव्यभिचारित्वनियमः साधनस्य । विपक्षे
हेतोरदर्शनात् न सपक्षे दर्शनात् ; दर्शनादर्शनयोर्व्यभिचारिण्यपि हेतौ
सम्भवात्, नियमहेत्वभावाच्च ॥ ३१ ॥
अन्यथा तादात्म्यतदुत्पत्त्योर्व्यभिचारनिबन्धनयोरस्वीकारे परस्य साध्यस्य
परैः साधनैः कोऽवश्यम्भावनियमः, न कश्चित् । उत्पादकादन्योऽर्थोऽर्थान्तरं
तन्निमित्ते वा धर्मेऽस्वभावभूते कोऽवश्यम्भावनियमः । वाससि रागवत्
यथा अर्थान्तरनिमित्तस्य रागस्य वस्त्रे नावश्यम्भावनियमः॥ ३२ ॥
१. त्रिविधाप्युक्तानु०—क० । २-२. ०नियमोऽन्यथा परस्य कः—रा० ।
२७० प्रमाणवार्त्तिके [ व्याप्ति-
अर्थान्तरनिमित्तो हि धर्मः स्यादन्य एव सः ।
पश्चाद्भावान्न हेतुत्वं फलेऽप्येकान्तता कुतः ॥ ३३ ॥
कार्यं धूमो हुतभुजः कार्यधर्मानुवृत्तितः ।
तस्याभावे१ तु स भवन्१ हेतुमत्तां विलङ्घयेत् ॥ ३४ ॥
नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् ।
अपेक्षातश्च२ भावानां कादाचित्कस्य सम्भवः ॥ ३५ ॥
अग्निस्वभावः शक्रस्य मूर्धा यद्यग्निरेव सः ।
वस्त्रोत्पादकार्थान्तरनिमित्तो रागद्रव्यकारणो हि धर्मो रागः प्रागुत्पन्नाद्
वस्त्रादन्य एव स्याद्; भिन्नकालत्वाद्, भिन्नहेतुकत्वाच्च । इत्थमपि यद्येकत्वम्,
विश्वमेकं भवेत् । ततश्च सहोत्पत्तिनाशौ स्याताम् । सर्वत्र सर्वं चोपयुज्यते,
एकत्वाभिमानस्तु सदृशापरोत्पत्तेर्भ्रान्त्या । तस्य चार्थान्तरनिमित्तस्य धर्मस्य
वस्त्रोत्पादात् पश्चाद् भावान्न हेतुत्वं वस्त्रं प्रति । अतः कारणतयापि नास्यानु-
मानम् । रागोत्पत्तौ वस्त्रं सहकारि कारणम्, अतः कार्यतया रागानुमानं चेत् ?
फलेऽपि कारणादनुमीयमाने एकान्तता कुतः ! न ह्यवश्यं कारणानि कार्यवन्ति
भवन्ति ॥ ३३ ॥
यदि दर्शनादर्शने नान्वयव्यतिरेकबुद्धिहेतूधूमोऽग्निं न व्यभिचरतीति न
स्यात् प्रतिपत्तिः ? इत्याह—कार्यं धूमो हुतभुजः कार्यधर्मस्य कारणान्वयव्य-
तिरेकानुविधायित्वस्य त्रिविधदर्शनादर्शननिश्चितस्यानुवृत्तितः स धूमस्तस्या-
ग्नेरभावे तु भवन् हेतुमत्तां विलङ्घयेदतिक्रामयेत् ॥ ३४ ॥
अहेतुत्वे च धूमस्य नित्यं सत्त्वमाकाशस्येव स्यात् । असत्त्वं शशवि-
षाणादेरिव; अहेतोरन्यानपेक्षणाभावात् । अपेक्षातश्च भावानां कादाचित्कस्य
सम्भवः । ततो यद्यहेतुर्भावः, तदा नित्यं स्यात् । असद्देव वा स्याद्; हेत्वभावात् ।
तस्माद् धूमस्य कादाचित्कत्वदर्शनात् हेतुमत्त्वम् । अग्न्यन्वयव्यतिरेकानुविधान-
दर्शनात् तत्कार्यत्वञ्च । यश्च यस्य कार्यं स तं न व्यभिचरति; तदधीनस्व-
रूपत्वात् ॥ ३५ ॥
अतश्च—अग्निस्वभावः शक्रस्य मूर्द्धा वल्मीकः । यद्यग्निरेव सः,
१-१. स भवँस्तदभावेऽपि- क० । २. अपेक्षया हि—क० ।
। अहेतुत्वे च “नित्यं सत्त्वमसत्त्वं वाQuotation mark beforeनित्यं: “नित्यं`
Line 17:
स्यात्” ( प्र० वा० ३.३५ ) इत्युक्तम् ॥ ३७ ॥
Wait, is it ३.३५?
Let's check the numbers: ( प्र० वा० ३.३५ ) or ( प्र० वा० २.३५ )?
Looking closely at line 17:
( प्र० वा० ३.३५ ) -> wait, the first digit is ३: circle at bottom, looks like ३. Wait, PV 1.35 is Pramanasiddhi or Svarthanumana? In Manorathanandin, Ch 3 is Svarthanumana! In Dwarikadas Shastri's edition, Pramanavarttika chapters are: 1. Pratyaksha, 2. Pramanasiddhi, 3. Svarthanumana, 4. Pararthanumana!
So Svarthanumana is chapter 3! Thus ( प्र० वा० ३.३५ ) makes 100% sense! It cites verse 35 of the same chapter: "नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात्"!
Yes, ( प्र० वा० ३.३५ )!
Line 18:
`स्या
२७२ प्रमाणवार्त्तिके [ सामान्य-
सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः ।
स्वभावपरभावाभ्यां यस्माद्¹ व्यावृत्तिभागिनः¹ ॥ ४० ॥
तस्माद् यतो² यतोऽर्थानां व्यावृत्तिस्तन्निबन्धनाः² ।
जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ॥ ४१ ॥
तस्माद् विशेषो³ यो येन धर्मेण³ सम्प्रतीयते ।
न स शक्यस्ततोऽन्येन तेन भिन्ना व्यवस्थितिः ॥ ४२ ॥
यदि य एव कृतकः स एवानित्यः, भेदाभावात्; तदा प्रतिज्ञार्थैकदेशो हेतुः
स्यादित्याह—सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः आत्मात्मीय-
रूपव्यवस्थितत्वात् । स्वभावपरभावाभ्यां सजातीयाद् विजातीयाच्च व्यावृत्ति-
भागिनो यस्मान्न केनचिन्मिश्राः, तस्माद् यतो यतोऽस्वरूपात्पदार्थाद्
व्यावृत्तिरर्थानां तन्निबन्धनाः तत्तद्व्यावृत्तिनिमित्ता जातिभेदास्तद्विशेषाव-
गाहिनः तत्स्वलक्षणाश्रयाः कल्प्यन्ते शब्दैः स्ववाच्यतया ॥ ४०-४१ ॥
यतः शब्दः काश्चिद् अर्थक्रियाः कुर्वन्नतत्कारिणोऽशब्दादकृतकानित्यादेश्च
व्यावृत्त इति तत्तद्व्यवच्छेदप्रतिपादनार्थं शब्दकृतकानित्यत्वाद्या जातयोऽनन्य-
शब्दवाच्यतया कल्प्यन्ते, तस्मात् स्वभावाभेदेऽपि कृतकत्वानित्यत्वादीनां येन
धर्मेण नाम्नाऽनित्य इत्यनेन यो विशेषो नित्याद् व्यावृत्तिः सम्प्रतीयते, न
स विशेषः शक्यस्ततोऽनित्यशब्दादन्येन कृतकशब्देन प्रत्येतुम् । तेन कारणेन
साध्यसाधनयोर्भिन्ना व्यवस्थितिः ।
यद्यपि शब्द एव कृतकोऽनित्यश्च, तथाप्यशब्दव्यावृत्ततया निश्चितो धर्मी
कृतकतया च हेतुः, अनित्यतया चासिद्धः साध्यः । ततो धर्मिसाध्यसाधनानां
भेदः कल्पितः, न तु तान्येव कल्पितानि; तेषां सत्त्वात् । ततः कल्पित-
धर्मिणि कल्पितात् साधनात् कल्पितस्य साध्यस्य सिद्धिमाचक्षाणः प्रत्याख्यातः ।
तस्मान्न प्रतिज्ञार्थैकदेशो हेतुः; साध्यसाधनयोर्भिन्नव्यवच्छेदरूपत्वात् ॥ ४२ ॥
१. व्यावृत्तिभागिनो यतः—रा० ।
२-२. तस्माद् व्यावृत्तिरर्थानां यतश्च तन्निबन्धनाः—रा० ।
३-३. यो येन धर्मेण विशेषः—पाठा० ।
विचारः ] स्वार्थानुमानपरिच्छेदः २७३
एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् ।
कोऽन्यो भागो १ न दृष्टः १ स्याद् यः प्रमाणैः परीक्ष्यते ॥ ४३ ॥
नो चेद् भ्रान्तिनिमित्तेन संयोज्येत गुणान्तरम् ।
शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात् ॥ ४४ ॥
तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः ।
भ्रान्तेर्निश्चीयते २ नेति २ साधनं सम्प्रवर्तते ॥ ४५ ॥
वस्तुग्रहेऽनुमानाच्च धर्मस्यैकस्य निश्चये ।
सर्वग्रहो ३ ह्यपोहे तु ३ नायं दोषः प्रसज्यते ॥ ४६ ॥
कस्मात् पुनर्व्यवच्छेदः शब्दलिङ्गाभ्यां प्रतिपाद्यत इतीष्यते, न तु वस्त्वेव
विधिरूपेण ? इत्याह — एकस्यार्थस्वभावस्य स्वयमात्मना प्रत्यक्षस्य सतः
कोऽन्यो भागो न दृष्टः स्यात्, यः प्रमाणैः परीक्ष्यते निर्णीयते । यदि
प्रमाणान्तरैः शब्दान्तरैश्च वस्त्वेव विषयीकर्त्तव्यम्, तदा तत् प्रत्यक्षेण शब्दान्तरेण
च दृष्टमेवेति व्यर्थानि प्रमाणानि स्युः ॥ ४३ ॥
तन्मतेऽपि प्रत्यक्षेण दृष्टे धर्मिणि प्रमाणान्तरवैफल्यं स्यात् ? नेत्याह —
दृष्टे सर्वथा वस्तुनि नो चेद् भ्रान्तिनिमित्तेन सादृश्यादिना संयोज्येतारोप्येत
गुणान्तरं धर्मान्तरमसदेव शुक्तौ वा शुक्ताविव रूपसाधर्म्यदर्शनात् भ्रान्ति-
निमित्ताद् रजताकारः, तदा सर्वथा वस्तुनिश्चयात् प्रमाणान्तरशब्दान्तरवैफल्यं
स्यात् ॥ ४४ ॥
एतदेवाह — तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः धर्मः ।
तथापि भ्रान्तेर्विपरीताकारारोपिकाया न निश्चीयत इत्यारोपितव्यवच्छेदार्थं
साधनं शब्दान्तरं च सम्प्रवर्त्तते ॥ ४५ ॥
न केवलं प्रत्यक्षाद् वस्तुग्रहे साधनान्तरशब्दान्तरवैफल्यम्, किन्त्वनुमाना-
दपीत्याह — वस्तुग्रहेऽनुमानाच्च धर्मस्यैकस्य कृतकत्वादेः प्रत्ययभेदाभेदित्वादि-
कृते निश्चये सर्वस्यानित्यत्वादेर्ग्रहः स्यात्; एकरूपत्वात्, कृतकत्वादिसाधनान्तर-
१-१. न दृष्टो भागः—पाठा० । २-२. भ्रान्तेर्न निश्चय इति—रा० ।
३-३. सर्वधर्मग्रहोऽपोहे—पाठा० ।
प्र० वा० : १८
२७४ प्रमाणवार्त्तिके [ सामान्य-
तस्मादपोहविषयमिति¹ लिङ्गं¹ प्रकीर्तितम् ।
अन्यथा धर्मिणः सिद्धावसिद्धं² किमतः² परम् ॥ ४७ ॥
क्वचित् सामान्यविषयं दृष्टे ज्ञानमलिङ्गजम् ।
कथमन्यापोहविषयम् ? तन्मात्रापोहगोचरम्³ ॥ ४८ ॥
निश्चयारोपमनसोर्बाध्यबाधकभावतः ।
समारोपविवेकेऽस्य प्रवृत्तिरिति गम्यते ॥ ४९ ॥
वैयर्थ्यम् । अपोहे त्वन्यव्यवच्छेदे शब्दलिङ्गविषये स्वीक्रियमाणे नायं
प्रमाणान्तरादिवैफल्यदोषः प्रसज्यते । न खलु प्रत्यग्दृष्टं वस्त्वन्तरं शब्द-
लिङ्गाभ्यां विषयीक्रियते; किन्त्वन्यव्यवच्छेदः । एकस्मिंश्च व्यवच्छेदे सिद्धेऽप्य-
सिद्धं व्यवच्छेदान्तरं लिङ्गान्तरतः शब्दान्तरतश्च साध्यत इति न कश्चिद्
दोषः ॥ ४६ ॥
तस्मादाचार्येणापोहविषयं लिङ्गमिति प्रकीर्तितम् । लिङ्गमुपलक्षणम्,
शब्दश्च । अन्यथा यदि वस्तुविषयं लिङ्गम्, तदा धर्मिणः सर्वात्मना प्रत्यक्षतः
सिद्धौ किमतो धर्मिणः परमसिद्धमस्ति यत्प्रसाधकं लिङ्गं प्रमाणं
स्यात् ! ॥ ४७ ॥
ननु क्वचिन्नीलादावसमारोपितोऽन्यो विपरीतांशो यस्मिन् तस्मिन्
प्रत्यक्षेण दृष्टे यज्ज्ञानमलिङ्गजं विकल्पकं सामान्यविषयं भवति, तदारोपा-
भावात् कथमन्यापोहविषयम् ? आह—तन्मात्रस्यानीलमात्रस्यापोहो
विजातीयाद् व्यावृत्तिर्व्यवच्छेदः स गोचरो यस्य तत् तथा । नीलविकल्पस्यानील-
व्यवच्छेद एव विषय इत्यर्थः ॥ ४८ ॥
कस्मादेवम् ? इत्याह—निश्चयारोपमनसोर्बाध्यबाधकभावतः । समा-
रोपस्य विवेके व्यवच्छेदेऽस्य निश्चयस्य प्रवृत्तिरिति गम्यते ॥ ४९ ॥
१-१. विषयं लिङ्गमिति—रा० । २-२. सिद्धौ किमतः साधकं—रा० ।
३. कारिकेयं क० मा० पुस्तकयोरेवमुपलभ्यते—
“क्वचिद् दृष्टेऽपि यज्ज्ञानं सामान्यार्थं विकल्पकम् ।
असमारोपितान्यांशे तन्मात्रापोहगोचरम्” ॥
विचारः ] स्वार्थानुमानपरिच्छेदः २७५
यावन्तोंऽशसमारोपास्तन्निरासे¹ विनिश्चयाः¹ ।
तावन्त एव शब्दाश्च² तेन ते भिन्नगोचराः² ॥ ५० ॥
अन्यथैकेन शब्देन व्याप्त एकत्र वस्तुनि ।
बुद्ध्या वा नान्यविषय इति पर्यायता भवेत् ॥ ५१ ॥
यस्यापि³ नानोपाधेर्ग्राहिकार्थस्य भेदिनः ।
नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मनो ग्रहे³ ॥ ५२ ॥
तस्माद्—यावन्तोंऽशस्य धर्मस्य समारोपास्तस्य निरासनिमित्तं
विनिश्चयाः, शब्दाश्च तावन्त एव । तेन ते निश्चयाः शब्दाश्च भिन्नव्य-
च्छेदगोचराः; अन्यथा यदि शब्दनिश्चयौ सर्वात्मना वस्तु विषयीकुरुतः, तदै-
केन शब्देन बुद्ध्या वा विकल्पिकया व्याप्ते सर्वात्मना विषयीकृते वस्तुन्येकत्र
नान्योऽप्रतिपन्नो विषयोऽस्तीति पर्यायता शब्दानां स्यात्, विकल्पानां च
एकविषयता भवेत् ! ॥ ५०–५१ ॥
ननु द्रव्याद्युपाधयः परस्परं च भिन्नाः, तन्निमित्ता विकल्पाः शब्दाश्च तेषु
तदाधारे वा द्रव्ये वर्त्तन्ते ? इत्याह—यस्यापि नैयायिकादेर्मते नानो-
पाधेर्द्रव्यत्वाद्यनेकधर्मविशिष्टस्य, अत एवोपाधिभेदाद् भेदिनोऽर्थस्य ग्राहिका
विधिरूपेण धीः; तस्यापि मतेन नानाप्रकाराणामुपाधीनामुपकारस्याङ्गं याः
शक्तयस्ताभ्योऽभिन्नात्मन उपाधिमतो द्रव्यस्य निश्चयज्ञानेन ग्रहे सर्वा-
त्मना कृते सत्युपकार्यस्योपाधिकलापस्य मध्ये को भेद उपाधिविशेषः
स्यादनिश्चितः । यथा द्रव्यमेकमुपाधिमुपकरोति, तथा परानपि । तत
एकोपाध्युपकारकत्वे विधिरूपेण गृह्यमाणे सर्वोपाध्युपकारकत्वं गृह्येत ।
तथा च सर्वोपाधिग्रहणप्रसङ्गः । न हि यत्सापेक्षं यद्रूपं तदग्रहणे तद् गृहीतुं
शक्यम् ॥ ५२ ॥
१-१. निश्चयास्तन्निरासतः—रा० ।
२-२. शब्दा भिन्नव्यवच्छेदगोचराः—रा० ।
३-३. “नानोपाधिविशिष्टस्य भेदिनोऽर्थस्य ग्राहिका ।
उपकाराङ्गशक्तिभ्योऽभिन्नात्मनिश्चयग्रहे” ॥—रा० ।
२७६ प्रमाणवार्त्तिके [ सामान्य-
सर्वात्मनोपकार्यस्य¹ को भेदः स्यादनिश्चितः ।
तयोरात्मनि सम्बन्धादेकज्ञाने द्वयग्रहः ॥ ५३ ॥
ननु धूमापेक्षं वह्नेः कारणत्वम् , न च तद्ग्रहे धूमग्रहः; नैतद् युक्तम् ,
तथा हि—किं पुनः कारणत्वमिष्टं वह्नेर्यद्यविद्यमानत्वाद् धूमात् पूर्वकालभाविता ।
धूमासाहित्यं वर्त्तमानकालसत्ता । न तद् धूमापेक्षम्; स्वकारणात् तथोत्पत्तेः, धूम-
मन्तरेणैव च भावात् । न च तद्ग्रहे धूमग्रहः; विरुद्धत्वात् । न हि धूमग्रहणे
तस्मात् प्राग्भावित्वस्य तदसाहित्यस्य च ग्रहणम् । अथ धूमस्यायं हेतुरिति निश्चय-
विषयत्वं कारणत्वमिष्टम्, तदाऽस्त्येवेदशकारणत्वस्य ग्रहे धूमप्रतीतिः, उभयप्रतीत्या-
कारत्वादस्य निश्चयस्य द्वयान्वयव्यतिरेकग्रहणसापेक्षत्वाच्च ?
ननु च गृहीततदुत्पत्तेरग्निमात्रदर्शनात् कारणत्वप्रतीतिः, न च तदा धूम-
प्रतीतिः ?
(सिद्धान्तवाद्याह—) न च तत्र प्रत्यक्षात् कारणत्वस्य प्रतीतिः, किं
त्वग्निरूपमात्रस्य; अन्यथा सर्वस्य तद्दर्शिनः कारणत्वप्रतीतिप्रसङ्गः । किन्तु
व्याप्तिग्रहसापेक्षा आनुमानिकी तत्प्रतीतिः । तथा हि—गृहीततदुत्पत्तेरेवेयं भवति,
नान्यस्य । तदुत्पत्तिग्रहे च 'यदेवं रूपं तदेतत्कारणम्' इति गृहीता व्याप्तिः, अनुमा-
नप्रतीतौ च धूमकारणं वह्निरिति व्यवच्छेदद्वयमन्योन्यसापेक्षं प्रतीयत एव इत्यलं
तत्प्रसङ्गेन । न ह्यनुत्खातितकार्यः कारणत्वनिश्चयः । अत्यन्ताभ्यासाच्च व्याप्ति-
ग्रहसंस्कारस्य प्रबुद्धत्वादपेक्षा नास्तीत्यतत्त्वविवेकिनां नानुमानत्वप्रबोधः । न
ह्यनुमानमहमित्युत्पन्नमनुमानमुच्यते; किन्तु त्रिरूपलिङ्गजन्मनुमेयविषयं कारण-
त्वज्ञानं च तादृशमेव । द्रव्यं तु येनैव रूपेण एकमुपाधिमुकरोति, तेनैवापरानपीत्ये-
कोपाध्युपकारकत्वे गृह्यमाणे नानेकोपाध्युपकारकत्वस्य ग्रहणात्सर्वोपाधिग्रहणप्रसङ्गः;
परस्परसापेक्षत्वात् । ततश्च तयोरुपाधिकलापतदुपकारकत्वयोरात्मनि सम्बन्धात्
द्रव्यस्य सम्बन्धादेकस्योपाध्युपकारकत्वस्य ज्ञाने द्वयस्य ग्रहः स्यात् ।
एकनियता प्रतीतिर्न भवेदित्यर्थः ॥ ५३ ॥
१. सर्वात्मना कृते ग्राह्ये—रा० ।
विचारः ] स्वार्थानुमानपरिच्छेदः २७७
धर्मोपकारशक्तीनां भेदे तास्तस्य किं यदि ।
नोपकारस्ततस्तासां तदा स्यादनवस्थितिः ॥ ५४ ॥
एकोपकारके ग्राह्ये नोपकारास्ततोऽपरे¹ ।
दृष्टे तस्मिन्नदृष्टाश्च¹ तद्ग्रहे सकलग्रहः ॥ ५५ ॥
न्यायमीमांसामतनिराकरणम्
यदि भ्रान्तिनिवृत्त्यर्थं गृहीतेऽप्यन्यदिष्यते ।
तद्व्यवच्छेदविषयं सिद्धं तद्वत् ततोऽपरम् ॥ ५६ ॥
अथ द्रव्यादुपाध्युपकारिकाः शक्तयो भिन्ना एव, द्रव्यग्रहणे तासामग्रहणात्
न सर्वोपाधिग्रहणप्रसङ्गः ? इत्याह — धर्माणाँमुपाधीनां उपकारस्य निमित्तभूतानां
शक्तीनां द्रव्याद् भेदे स्वीक्रियमाणे ताः शक्तयस्तस्य द्रव्यस्य किं कस्मात् !
यदि नोपकारस्ततो द्रव्यात् तासां शक्तीनामुपकारमन्तरेण सम्बन्धेऽतिप्र-
सङ्गात् । अथ तासां शक्तीनां द्रव्येणोपकारः क्रियते स्वरूपेण, तदा शक्त्युप-
कारत्वस्य ग्रहणाच्छक्तीनां ग्रहः । तद्ग्रहाच्च सर्वोपाधिग्रहप्रसङ्गस्तदवस्थः ।
स्यादेतत् । शक्तीरपि भिन्नाभिः शक्तिभिरुपकरोति तदा स्यादनव-
स्थितिः । तथा हि — यास्ताः शक्त्युपकारिकाः शक्तयस्ता द्रव्यस्योपकारद्वारा
यदीष्टाः, तदा स्वरूपेणोपकारकत्वे सर्वोपाधिग्रहप्रसङ्गभयादन्याः शक्तय
एष्टव्याः । तथा चानवस्था व्यक्ता ॥ ५४ ॥
उक्तमर्थं संगृह्णन्नाह — एकस्योपाधेरुपकारके द्रव्ये ग्राह्येऽभिमते तत्
एकोपाध्युपकारकद्रव्यस्वभावादपरे उपाध्यन्तराणामुपकारका उपकारशक्तिभेदा
दृष्टे तस्मिन्नेकोपाध्युपकारके द्रव्येऽदृष्टा ये ते न सन्ति । एकमेव हि रूपं
सर्वोपाध्युपकारकम्, अतस्तस्यैकोपाधिमतो ग्रहे सकलोपाधिग्रहः स्यात् ॥५५॥
सर्वात्मना विकल्पेन गृहीतेऽपि वस्तुनि भ्रान्त्या तथा न निश्चय इति
यदि भ्रान्तिनिवृत्त्यर्थमन्यत् प्रमाणान्तरमिष्यते, तद् भ्रान्तिनिवर्त्तकादपरं
व्यवच्छेदविषयं सिद्धम्; समारोपितत्वापोहविषयत्वाद् । ततो भ्रान्तिनिवर्त्तकाद-
परं यत् पूर्वमुत्पन्नं वस्तुविषयमिष्टं तद्वदपोहविषयं सिद्धम् ॥ ५६ ॥
१-१. ऽदृष्टाः तस्मिन्न सन्ति ते । सर्वोपकारकं ह्येकं—रा० ।