सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 274, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 274

३४८ प्रमाणवार्त्तिके
आत्मनि ज्ञानजनने स्वभावे नियतां च ताम् ।
को नामान्यो विबध्नीयाद् बहिरङ्गेऽन्तरङ्गिकाम् ॥ ५१६ ॥
बाह्यः सन्निहितोऽप्यर्थस्तां विबध्नन् हि न प्रभुः ।
धियं नानुभवेत् कश्चिदन्यार्थस्य सन्निधौ ॥ ५१७ ॥
न चासन्निहितार्थास्ति दशा काचिदतो धियः ।
उत्खातमूला स्मृतिरप्युत्सन्नेत्युज्ज्वलं मतम् ॥ ५१८ ॥
अतीतादिविकल्पानां येषां नार्थस्य सन्निधिः ।
सञ्चारकरणाभावाद् उत्सीदेदर्थचिन्तनम् ॥ ५१९ ॥
प्रत्यासन्नेनार्थेन प्रतिबद्धशक्तित्वात् पूर्वा धीरर्थग्राहकमेव ज्ञानं जनयति,
न स्वग्राहकमिति चेत् ? आह—आत्मनि विज्ञानजनने स्वग्राहकज्ञानोत्पा-
दके स्वभावे नियतां व्यवस्थितां च तामिमामन्तरङ्गिकामन्यनिरपेक्षत्वात्
को नामान्योऽर्थो बहिरङ्गः स्वज्ञानजनने चक्षुर्मनस्काराद्यपेक्षित्वाद्विबध्नी-
यात् स्वग्राहकज्ञानजननप्रवृत्तां तिरस्कुर्यात्, येन विषयान्तरसञ्चारो धियः
स्यात् ॥ ५१६ ॥
तस्माद् बाह्यः सन्निहितोऽप्यर्थस्तां स्वग्राहकजनने शक्तां धियं
विबध्नन् प्रतिहातुं न प्रभुः शक्तः । अन्यथा यद्येवं नाभ्युपगम्यते,
तदार्थस्य सन्निधौ तज्ज्ञानस्यैवोत्पादनात् ज्ञानज्ञानस्यानुत्पादाद्धियं कश्चिन्ना-
नुभवेत् ॥ ५१७ ॥
न च काचिद्दशा सन्निहितार्थास्ति यत्र ज्ञानज्ञानमुत्पद्येत नार्थज्ञानमिति
न स्यादनुभवो बुद्धेः । तस्माद् धियः स्मृतिरप्युत्खातमला उत्सन्ना । बुद्धि-
स्मरणस्य हि मूलं बुद्ध्यनुभव इति ज्ञानाननुभवे कुतः स्मरणमिति ज्ञानान्तरेण
ज्ञानानुभववादिनामुज्ज्वलं मतमित्युपहसति ॥ ५१८ ॥
किञ्च—येषामतीताद्यर्थविषयाणां विकल्पानामर्थस्य सन्निधिर्नास्ति
यः पूर्वकस्य ज्ञानस्य स्वग्राहकज्ञानजननशक्तिं प्रतिबध्नीयात्, येन विषयान्तर-
ग्राहिणो विकल्पाः स्युः । तत्र सञ्चारकरणस्यार्थस्य विकल्पविषयस्याभावात्
कस्यचिदतीतादेरर्थस्य चिन्तनं विकल्पनमुत्सीदेत् ॥ ५१९ ॥