प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 276, कुल 532 में से
संदर्भ में पढ़ेंमनोज्ञानक्रमोत्पत्तिरप्यपेक्षा प्रसाधनी ॥ ५२३ ॥
एकत्वान्मनसोऽन्यस्मिन् सक्तस्यान्यागतेर्यदि ।
ज्ञानान्तरस्यानुदयो न कदाचित् सहोदयात् ॥ ५२४ ॥
समवृत्तौ च तुल्यत्वात् सर्वदान्यागतिर्भवेत् ।
जन्म वात्ममनोयोगमात्रजानां¹ सकृद् भवेत् ॥ ५२५ ॥
एकैव चेत् क्रियैकः स्यात् किं दीपोऽनेकदर्शनः ।
मर्थान्तरानासक्तत्वेनानुकूल्यमुत्पित्सु मनोऽन्तरं नापेक्षेत, अपेक्षते च, ततो
मनस्कारानुकूलता सापेक्षादालयात् ज्ञानोत्पत्तिः । तथा मनोज्ञानानां विकल्पानां
क्रमेणोत्पत्तिर्युगपदनुत्पादोऽप्युत्तरज्ञानानां पूर्वज्ञानापेक्षा प्रसाधनी । अविगुण-
पूर्वज्ञानानपेक्षायामक्षादिन्द्रियज्ञानानीव विकल्पज्ञानान्यपि सह जायेरन् ॥५२३॥
अणुपरिमाणस्य नित्यस्यैकस्य मनसोऽन्यस्मिन्निन्द्रिये सक्तस्यान्य-
त्रेन्द्रियान्तरेऽगतेरगमनादिन्द्रियान्तरजस्य ज्ञानान्तरस्यानुदयो यदि सम्मतः,
सोऽपि न युक्तः; कदाचिद् नर्तकीदृष्ट्यवस्थादिष्वनेकविषयसन्निपाते चक्षु-
रादिज्ञानानां सहोदयात् ॥ ५२४ ॥
यदा च न पटीयान् कश्चिद् विषयः प्रत्युपतिष्ठते, पुरुषस्य च न क्वचिद्
विशेषेणेच्छा भवति, तदा अर्थपुरुषेच्छायाः समायां साधारणायां वृत्तौ च
मनस एकेन्द्रियसम्बद्धस्य तुल्यत्वाद् विषयान्तरे प्रेरकाभावाद् उदासीनत्वात्
सर्वदा तदिन्द्रियज्ञानोत्पत्तौ सत्यामन्यस्येन्द्रियान्तरज्ञानज्ञेयस्यागतिर्भवेत् प्रती-
तिर्न स्यात् । अस्ति च क्वचिदनासक्तस्य विषयान्तरेष्वेकस्याप्यनेकार्थदर्शनम् ।
आत्ममनोयोगमात्रजानां विषयानिरपेक्षाणां सुखादिज्ञानानामिन्द्रियमनोयोग-
विशेषस्य नियामकस्याभावात् सकृद् वा जन्म स्यात् ॥ २२५ ॥
न हि रूपादिबुद्धीनामेव सुखादिबुद्धीनामिन्द्रियमनोयोगविशेषात् प्रति-
नियमः शक्यो वक्तुम्, एकस्मान्मनस एकैव सुखादिबुद्धिलक्षणा क्रिया जायते,
न च द्वे इति चेत् ? यद्येवम्, किं कस्माद् दीप एकोऽनेकदर्शनोऽनेकद्रष्टृ-
१. चात्ममनो०—रा० ।