सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 283, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 283

स्वार्थानुमाननामा
तृतीयः परिच्छेदः¹
हेतुविचारः
हेतुलक्षणम्
पक्षधर्मस्तदंशेन व्याप्तो हेतुः;
तच्च त्रिरूपत्वम्
त्रिधैव सः ।
प्रत्यक्षमाख्याय, अवसरप्राप्तमनुमानमिदानीं वक्तव्यम् । तच्च द्विविधम्—
स्वार्थम्, परार्थं च । तत्र स्वार्थमिदानीं वक्तव्यम् ; तत्पूर्वकत्वात् परार्थस्य ।
तल्लिङ्गे च विप्रतिपत्तयः सन्तीति तासां निराकरणेन तद्व्यवस्थापनार्थ-
माह—पक्षो धर्मिधर्मसमुदायोऽनुमेयः । तदेकदेशत्वादुपचारेण धर्मी पक्ष उक्तः ।
तस्य धर्मः, अनेन पक्षधर्मत्वमुक्तम् । धर्मिधर्मो हेतुरित्यनुमाने सर्वस्य धर्मि-
धर्मो हेतुः स्यादित्युपचाराश्रयणम् । तथा चाक्षुषत्वादिः शब्दे धर्मिणि न हेतुः ।
तदंशेन पक्षस्य धर्मेण सिसाधयिषितेन व्याप्तो हेतुर्बोद्धव्यः ।
द्विविधा चे