प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
प्रत्यक्षपरिच्छेदः ११७
यदि भावाश्रयं ज्ञानं भावे भावानुबन्धतः ।
नोक्तोत्तरत्वाद् दृष्टत्वाद्; अतीतादिषु चान्यथा ॥ ५२ ॥
भावधर्मत्वहानिश्चेद् भावग्रहणपूर्वकम् ।
तज्ज्ञानमित्यदोषोऽयम्,
मेयं त्वेकं स्वलक्षणम् ॥ ५३ ॥
तस्मादर्थक्रियासिद्धेः सदसत्ताविचारणात् ।
तस्य स्वपररूपाभ्यां गतेर्मेयद्वयं मतम् ॥ ५४ ॥
भावनाश्रित्य कृतकत्वादिशब्दवाच्यं लिङ्गम् । अभावोपादानं यथा—उपलब्धि-
लक्षणप्राप्तस्यासतोऽनुपलब्धिः, अनुत्पत्तिमत्त्वादि च; तद्ध्यभावाश्रयं सामान्यं
लिङ्गम् । उभयाश्रयमनुपलब्धिमात्रं ज्ञेयत्वादि च; भावाभावसाधारणत्वात् ॥ ५१ ॥
यदि किञ्चित् सामान्यं भावाश्रयं तत् ज्ञानं तद्भावे भावविषयं प्राप्नोति,
भावानुबन्धतो भावान्वयव्यतिरेकानुविधानात् ? नैतद्युक्तम्; “न तद् वस्त्व-
भिधेयत्वात्” ( प्र० वा० २.११ ) इत्यादिनोक्तोत्तरत्वात् । निषिद्धं हि
सामान्यस्य वस्तुत्वमनन्तरमेव प्रपञ्चेनेत्यनुमानबाधितत्वं प्रतिज्ञाया दृष्टत्वात् ।
अतीतादिषु चान्यथा वस्तुव्यतिरेकेणैव—‘आसीद् घटो भविष्यति च’ इति
सामान्यबुद्धिरुत्पद्यते इत्यसिद्धतापि भावानुबन्धत इति हेतोः ॥ ५२ ॥
वस्तु विना सामान्यबुद्धयुत्पादे भावधर्मत्वहानिः सामान्यस्य प्रसज्येत
चेत् ? भावस्य रूपादेर्ग्रहणपूर्वकं तस्य सामान्यस्य साधारणबाह्यरूपतयाऽध्य-
वसितबुद्ध्याकारलक्षणस्याध्यवसायेन ज्ञानमित्यमवस्तुधर्मत्वलक्षणोऽदोषो
दोषो न भवति । न हि सामान्यं रूपादिरिव भावरूपतया ज्ञानविषय इति
भावधर्म इष्टम् ।
किन्तु भाववासनाप्रबोधप्रसूतविकल्पकल्पितत्वात् परमार्थतो मेयं त्वेकं
स्वलक्षणम्; तस्यैव रूपबुद्धयुत्पादकत्वात् । सामान्यस्य तु कल्पितत्वात् सामर्थ्या-
भावात् स्वलक्षणमेकं प्रमेयम् ॥ ५३ ॥
तस्मादर्थक्रियासिद्धेः अर्थक्रियार्थिभिः सदसत्ताभ्यां तस्यैव विचारणात्
असत्त्वमपि स्वलक्षणस्यैव विचिन्त्यते ।
११८ प्रमाणवार्त्तिके
अनुमानविचारः
अयथाभिनिवेशेन द्वितीया भ्रान्तिरिष्यते ।
गतिश्चेत् पररूपेण न च भ्रान्तेः प्रमाणता ॥ ५५ ॥
अभिप्रायविसंवादादपि भ्रान्तेः प्रमाणता ।
गतिरप्यन्यथा दृष्टा,
पक्षश्चायं कृतोत्तरः ॥ ५६ ॥
मणिप्रदीपप्रभयोर्मणिबुद्ध्याभिधावतोः ।
यद्येकमेव प्रमेयम्, तदाचार्येण १ प्रमेयद्वैविध्यं यदुक्तम्— “न स्वसामान्य-
लक्षणाभ्यामन्यत् प्रमेयमस्ति” इति, तद् विरुद्धयते ? इत्याह— तस्य स्वलक्षणस्य
प्रत्यक्षतः स्वरूपेणानुमानतः पररूपेण सामान्याकारेण गतेर्मेयद्वयं मतम्,
न तु भूतसामान्यस्य सत्त्वात् ॥ ५४ ॥
या च द्वितीया पररूपेण गतिरयथाभिनिवेशेन भ्रान्तिरिष्यते,
साऽनुमानं यथाऽर्थोऽस्ति यथा वा स्वाकारः, तथा नाभिनिविशते; किन्तु स्वाकारं
बाह्यसाधारणतया २ मन्यते ।
नन्वनुमानं पररूपेण गतिश्चेत् तदा भ्रान्तिरेव, न च भ्रान्तेः प्रमाण-
तेष्यते मृगतृष्णादेरिव ? ॥ ५५ ॥
अत्रोच्यते—भ्रान्तेरपि प्रमाणता; अभिप्रायस्य अर्थक्रियार्थिभिः
ज्ञानगोचरतया अभिप्रायविषयीकृतस्यार्थक्रियासमर्थस्यार्थस्य संवादात् । अर्थ-
क्रियार्थिनो हि तत्साधनसमर्थार्थप्रापकं प्रमाणमिच्छन्ति । अन्यथा पररूपेण
गतिरपि काचिदभिप्रेतार्थसंवादिका दृष्टेति प्रमाणमेव ।
नन्वनुमानं वस्त्वेव गृह्णत् प्रमाणमस्तु, किं भ्रान्तिरिष्यते ? इत्याह—
पक्षश्चायं प्रागेव “न तद् वस्त्वभिधेयत्वात्” इत्यादिना ( प्र० वा० २.११ )
कृतोत्तरः ॥ ५६ ॥
ननु भ्रान्तमपि यद्यनुमानं प्रमाणम्, तदा सर्वैव भ्रान्तिः प्रमाणं स्यात् ?
इत्याह—मणिप्रदीपयोर्ये प्रभे तयोर्मणिबुद्ध्या ‘मणिरेवायम्’ इत्यध्यवसायेन
१. दिङ्नागेनेत्यर्थः । २. बाह्यं साधारणतया—रा० ।
प्रत्यक्षपरिच्छेदः ११९
मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥ ५७ ॥
यथा तथाऽयथार्थत्वेऽप्यनुमानतदाभयोः ।
अर्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम् ॥ ५८ ॥
बुद्धैर्यत्रार्थसामर्थ्यादन्वयव्यतिरेकिणी ।
तस्य स्वतन्त्रं ग्रहणमतोऽन्यद् वस्त्वतीन्द्रियम् ॥ ५९ ॥
तस्यादृष्टात्मरूपस्य गतेरन्योऽर्थ आश्रयः ।
तदाश्रयेण सम्बन्धी यदि स्याद् गमकस्तदा ॥ ६० ॥
गमकानुगसामान्यरूपेणैव तदा गतिः ।
तद्ग्रहणार्थं धावतो मिथ्याज्ञानस्य भ्रान्तत्वस्याविशेषेऽपि विशेषोऽर्थक्रियां
प्रति । मणिप्रभायामप्यध्यवसायी मणिसाध्यामर्थक्रियां प्राप्नोति ॥ ५७ ॥
दीपप्रभायां तु मणिव्यवसायी तन्न प्राप्नोतीति यथा तथा त्रिरूपलिङ्ग-
जमनुमानम् । तदाभञ्च तन्न¹ तथा, तयोः स्वाकारे बाह्याध्यवसायप्रवृत्तत्वात्
अयथार्थत्वेऽपि प्रमाणत्वं व्यवस्थितम् । विशेषेणावस्थितमर्थक्रियानुरोधे-
नानुमानमेव प्रमाणम्; परम्परयाऽर्थोत्पत्तेः तत्प्रापकत्वात् । नेतरद्; विपर्ययात् ।
तस्मात् प्रमेयद्वित्वम्; गतिभेदात् ॥ ५८ ॥
तयोर्लक्षणं ग्रहणं चाख्यातुमाह—अर्थसामर्थ्याज्जायमाना बुद्धैर्यत्रान्व-
यव्यतिरेकिणी तत्स्वलक्षणम्, तस्य ग्रहणमपराश्रयं स्वरूपग्रहणम्; स्वजन्ययाऽ-
र्थस्वरूपया बुद्ध्या साक्षात्तस्य ग्रहणात् । अतः स्वलक्षणादन्यद्वस्तु यदन्वय-
व्यतिरेकौ नानुकरोति बुद्धिः साक्षादप्रतिभासमानं केवलमध्यवसायविषयः, तत्सामा-
न्यलक्षणमतीन्द्रियम्; बुद्धिष्वप्रतिभासनात् ॥ ५९ ॥
कथं तत् प्रत्येतव्यम् ? इत्याह—तस्य सामान्यस्य स्वलक्षणविशेषेण स्व-
लक्षणविवेकेनादृष्टात्मरूपस्य गतेः प्रतीतेः तस्मादन्योऽर्थो लिङ्गभूत आश्रयः
सिद्धिनिमित्तं यदि, ततः प्रत्येतव्येनानन्यव्यवच्छेदादिना तदाश्रयेण च
धर्मिणा सम्बन्धी सम्बन्धवान् स्यात्, तदा गमकः; नान्यथा । अनेन साध्य-
प्रतिबन्धोऽन्वयव्यतिरेकरूपः, पक्षधर्मता च लिङ्गस्योक्ता ॥ ६० ॥
१. तन्न न—रा० ।
१२० प्रमाणवार्त्तिके
तस्मात् सर्वः परोक्षोऽर्थो विशेषेण न गम्यते ॥ ६१ ॥
या च सम्बन्धिनो धर्माद् भूतिर्धर्मिणि जायते ।
सानुमानं परोक्षाणामेकान्तेनैव साधनम् ॥ ६२ ॥
न प्रत्यक्षपरोक्षाभ्यां मेयस्यान्यस्य सम्भवः ।
तस्मात् प्रमेयद्वित्वेन प्रमाणद्वित्वमिष्यते ॥ ६३ ॥
त्र्येकसंख्यानिरासो वा प्रमेयद्वयदर्शनात् ।
एकमेवाप्रमेयत्वादसतश्चेन्मतं च नः ॥ ६४ ॥
अनेकान्तोऽप्रमेयत्वेऽसद्भावस्य विनिश्चयः ।
नन्वन्याश्रयेण च स्वरूपप्रतीतिर्भविष्यति, तथापि परोक्षता कथम् ? इत्याह—
तदाऽर्थान्तरात् प्रतीतिकोले गमकं पक्षसपक्षानुयायि लिङ्गम्, तदनुयायिना
तद्व्यापकेन सामान्यरूपेणैव परोक्षोऽर्थो गम्यते, न तु सर्वतो व्यावृत्तेन
विशिष्टेन रूपेण । तस्मात् सर्वः परोक्षोऽर्थः प्रतीयमानो न विशेषेण
कथञ्चिद् गम्यते येन परोक्षताहानिः स्यात् ॥ ६१ ॥
या च सम्बन्धिनो धर्मादन्वयव्यतिरेकतो लिङ्गात् तदाश्रये धर्मिणि
जायते परोक्षार्थप्रतीतिः सानुमानम् ; त्रिरूपलिङ्गप्रभवत्त्वात् । तदेवानुमानं
परोक्षाणामेकान्तेनैव साधनम् ; प्रत्यक्षस्य तत्रावृत्तेः ॥ ६२ ॥
न च प्रत्यक्षपरोक्षाभ्यामन्यस्य प्रमेयस्य सम्भव इति दर्शितं
प्राक् । तस्मात् प्रमेयस्य द्वित्वेन प्रमाणद्वित्वमिष्यते प्रमेयमधिगच्छत्
प्रमाणमुच्यते ॥ ६३ ॥
तच्च द्विविधमिति तद्ग्राहकं द्वयमपि प्रमाणमेव; प्रमेयद्वयस्य दर्शनात् ।
त्र्येकसंख्यानिरासो वा बोद्धव्यः । तृतीयादिकं न प्रमाणम्; तृतीयादिप्रमेया-
भावात् । नाप्येकम् ; द्वितीयस्य प्रमेयस्य तेनानधिगतेः । न हि प्रत्यक्षं स्वलक्षण-
सामर्थ्यात् तदाकारग्राहि जातं सामान्यं प्रत्येति, कल्पनागम्यत्वात् तस्य ।
ननु प्रत्यक्षमेकमेव प्रमाणम् ; असतोऽप्रमेयत्वात्, असच्च सामान्यम् ?
अत्राह—असतोऽप्रमेयत्वं मतञ्च नः ॥ ६४ ॥
किमनिष्टमापद्यते, स्वलक्षणमेव तु पररूपेण गतेः सामान्यलक्षणमिष्टम्,
प्रत्यक्षपरिच्छेदः १२१
तन्निश्चयप्रमाणं वा द्वितीयम्;
नाक्षजा मतिः ॥ ६५ ॥
अभावेऽर्थबलाज्जातेरर्थशक्त्यनपेक्षणे ।
व्यवधानादिभावेऽपि जायेतेन्द्रियजा मतिः ॥ ६६ ॥
अभावे विनिवृत्तिश्चेत् प्रत्यक्षस्यैव निश्चयः ।
विरुद्धं सैव वा लिङ्गमन्वयव्यतिरेकिणी ॥ ६७ ॥
सिद्धं च परचैतन्यप्रतिपत्तेः प्रमाद्वयम् ।
तच्च सदेवेति कथमप्रमेयम्, तत्तत्साधनमपि प्रमाणमेव । तथाऽसतोऽप्रमेयत्वे
साध्येऽसत्त्वादिति हेतुरनेकान्तोऽपि । तथा हि परलोकादेरसत्तया चार्वाके-
णापीष्यत एव केनापि प्रमाणेन निश्चयः ।
अथ वा—प्रमेयत्वाभावस्याप्यसत्त्वहेतुनैव निश्चय इति व्यक्तमनैकान्ति-
कत्वम् । अतश्च यत एव प्रमाणात् तस्याभावस्य निश्चयः, तदेव द्वितीयं
प्रमाणमनुमानम्, नाध्यक्षम् ।
कस्मादेवम् ? इत्याह—नाक्षजा मतिरभावे विषये प्रवर्तते; अर्थस्य बला-
ज्जातेः, यद्बलेन प्रत्यक्षं प्रवर्तते तदेव प्रतिपद्यते । न चाभावस्य सामर्थ्यं नाम ।
यदि पुनरर्थसामर्थ्यानपेक्षणमस्य, तदा ग्राह्यस्यार्थस्य शक्त्यनपेक्षणे तद्-
व्यवधानादिभावेऽपीन्द्रियजा मतिर्जायेत, न चैतदस्ति, ततोऽर्थसामर्थ्या-
पेक्षि नाभावविषयं भवितुमर्हति ॥ ६५-६६ ॥
स्यादेतत् । प्रत्यक्षस्यैव प्रवृत्तिर्भावे सत्त्वनिश्चयः, विनिवृत्तिश्चाभावे
निश्चयः, न तु प्रमाणान्तरवृत्तिरिति चेत् ? विरुद्धमिदम्—यः प्रत्यक्षाभावान्निश्चयः स
प्रत्यक्षादिति । न हि प्रत्यक्षतन्निवृत्त्योरेकात्म्यम्, तथा हि—अभावो भाव एव स्यात्,
भावोऽपि चाभावः। न च प्रत्यक्षनिवृत्तावप्यवश्यमभावः; व्यवधानादिष्वर्थसत्त्वेऽपि
तस्याभावात् । अथार्थान्वयव्यतिरेकानुविधायिनी प्रत्यक्षनिवृत्तिरेकज्ञानसंसर्गिपदार्था-
न्तरोपलब्धिरूपाऽभावनिश्चयहेतुः, तदा सैव प्रत्यक्षनिवृत्तिरनुपलब्ध्याख्यान्वयव्य-
तिरेकिणी लिङ्गमिति तज्जा प्रतीतिरनुमानमेवेति कथं नाप्रत्यक्षं प्रमाणम् ॥ ६७॥
किञ्च—परचैतन्यप्रतिपत्तेः प्रमाणद्वयं सिद्धम् । न हि प्रत्यक्षादर्वा-
ग्दर्शनः परचैतन्यमवैति; किन्तु स्वसन्ताने बुद्धिपूर्वकत्वेनोपलब्धचेष्टादिदर्शनात् ।
१२२ प्रमाणवार्त्तिके
व्यवहारादौ प्रवृत्तेश्च सिद्धस्तद्भावनिश्चयः ॥ ६८ ॥
प्रमाणमविसंवादात् तत् क्वचिद् व्यभिचारतः ।
नाश्वास इति चेल्लिङ्गं दुर्द्दृष्टिरतदीदृशम् ॥ ६९ ॥
यतः कदाचित् सिद्धाऽस्य प्रतीतिर्वस्तुनः क्वचित् ।
तदवश्यं ततो जातं तत्स्वभावोऽपि वा भवेत् ॥ ७० ॥
स्वनििमित्तात् स्वभावाद् वा विना नार्थस्य सम्भवः ।
यच्च रूपं तयोर्द्दृष्टं तदेवान्यत्र लक्षणम् ॥ ७१ ॥
तदनुमानं परचित्तनिश्चयः किमस्तीत्याह—परस्परप्रेषणाध्येषणव्यवहारादौ प्रवृ-
त्तेश्च सिद्धश्च तस्याः परचैतन्यप्रतिपत्तेर्भावनिश्चयः ॥ ६८ ॥
नन्वनुमानाभिमता प्रतीतिर्नास्त्येवेति न ब्रूमः, किन्तु प्रामाण्ये तस्या
विप्रतिपद्यामहे ? इत्याह—प्रमाणं तदनुमानम्, अविसंवादात् । प्रत्यक्षमपि हि
संवादकत्वात् प्रमाणम्, तच्चानुमानस्यापि समानम् । क्वचिच्छ्यामतादिसाधनार्थ-
मुपात्ते तत्पुत्रादौ लिङ्गे व्यभिचारतः संवादेऽनाश्वास इति चेत् ? लिङ्गस्य
दुर्द्दृष्टिर्भ्रान्तिः—अलिङ्ग एव लिङ्गबुद्धिः, तस्या एतल्लिङ्गमीदृशं व्यभिचारि भवतः
प्रतिभाति । न खलु त्रिविधं लिङ्गं साध्यव्यभिचारि । यच्च व्यभिचारि तत्
त्रिविधमेव न भवति ॥ ६९ ॥
एतदेवाह—यतो वस्तुनो धूमशिंशपादेः लिङ्गादस्य साध्यस्य वह्निवृक्षादेः
क्वचिद् धर्मिणि कदाचिदनुमानकाले प्रतीतिः सिद्धा, तद् धूमादिकं ततो
वह्न्यादेरवश्यं जातम् । तच्छिंशपादिकं तस्य वृक्षस्य स्वभावोऽपि वाऽवश्यं
भवेत् ॥ ७० ॥
न च कार्यस्वभावयोः कारणव्यापकव्यभिचारः; यस्मात् स्वस्य निमित्तात्
कारणाद् विना, स्वभावाद् व्यापकाद् वा विनाऽर्थस्य कार्यस्य व्याप्यस्य च
न सम्भवः; तदुत्पाद्यत्वात्, तद्रूपत्वाच्च । ततस्तदाश्रयेणोत्पन्नानुमानप्रतीतिरव्य-
भिचारिण्येव । यच्च तयोर्धूमशिंशपयो रूपं साध्यकार्यस्वभावत्वस्याव्यभिचार-
निमित्तं दृष्टम्, तदेवान्यत्रापि हेतौ लक्षणं बोद्धव्यम् । न च तत्पुत्रत्वं
इयामलत्वस्य कार्यं स्वभावो वा, ततो यद् व्यभिचारि तदलिङ्गमेव ॥ ७१ ॥
प्रत्यक्षपरिच्छेदः १२३
स्वभावे स्वनिमित्ते वा दृश्ये दर्शनहेतुषु ।
अन्येषु सत्स्वदृश्ये च सत्ता वा तद्गतः कथम् ! ॥ ७२ ॥
अप्रामाण्ये च सामान्यबुद्धेस्तल्लोप आगतः ।
प्रेत्यभाववद्;
अक्षैस्तत् पर्यायेण प्रतीयते ॥ ७३ ॥
तच्च नेन्द्रियशक्त्यादावक्षबुद्धेरसम्भवात् ।
अभावप्रतिपत्तौ स्याद् बुद्धेर्जन्मानिमित्तकम् ॥ ७४ ॥
अनुपलब्धेरव्यभिचारं दर्शयितुमाह—प्रतिषेधस्य स्वभावे स्वस्य निषेध्या-
त्मनो निमित्ते कारणे । दृश्ये दर्शनयोग्ये दर्शनस्य हेतुष्विन्द्रियमनस्कारादि-
ष्वन्येषु सत्सु १विद्यमानेष्वदृश्येऽनुपलभ्यमाने च तद्गतो दृश्यानुपलम्भवतो
भावस्य सत्ता वा कथं युज्येत । न हि सत्स्वन्येषूपलम्भप्रत्ययेषु दृश्यस्य सतः
कदाचिदनुपलम्भसम्भवः । तस्माद् दृश्यानुपलब्धिरर्थाभाव एव भवतीति तत्प्रभवा-
भावप्रतीतिरविसंवादिनी । तस्मात् साध्यप्रतिबद्धलिङ्गं प्रसूतत्वात् त्रिविधलिङ्गे-
ऽप्यनुमाने नास्त्यनाश्वासः ॥ ७२ ॥
एवमपि त्वप्रामाण्ये सामान्यबुद्धेरिष्यमाणे तस्य परोक्षस्यार्थस्यानुमान-
व्यवस्थाप्यमानस्य लोपोऽभाव आगतः, प्रेत्यभाववत् परलोकस्येव । यदि हि
प्रत्यक्षमेकं प्रमाणम्, तदा यत्र तन्न प्रवर्तते तस्याप्यभाव एव स्यात्, न चैतदस्ति,
न हि चार्वाको देशान्तरस्थं स्वपितरमनुपलभमानस्तदभावं व्यवस्थापयितुमर्हति !
स्यादेतत् । नोपलभ्यमानमेवास्ति, किन्तु पर्यायेण परिपाट्याऽक्षैर्यत् प्रती-
यते तदप्यस्ति चेत, पित्रादयश्चोपलब्धा उपलप्स्यन्ते चेति सन्त्येव ॥ ७३ ॥
तच्च न युक्तम्; इन्द्रियाख्यायां शक्तौ, आदिग्रहणादाहारादेः, क्षुदुपघा-
तादिसामर्थ्ये च पर्यायेणापीन्द्रियबुद्धेरसम्भवादभावप्रतीतौ सत्यां प्रत्यक्षाया
बुद्धेर्जन्मानिमित्तकं स्यात् । न हि दृष्टमात्रेभ्यो विषयालोकमनस्कारचक्षुर्गोल-
केभ्योऽध्यक्षजन्म; सत्स्वपि तेष्वभावात् व्यतिरेकादतिरिक्तं किञ्चिददृश्यं कारण-
१. विद्यमानेषु०—रा० ।
१२४ प्रमाणवार्त्तिके
स्वलक्षणे च प्रत्यक्षमविकल्पतया विना ।
विकल्पेन न सामान्यग्रहस्तस्मिंस्ततोऽनुमा ॥ ७५ ॥
प्रमेयनियमे वर्णानित्यता न प्रतीयते ।
प्रमाणमन्यत् तद्बुद्धिर्विना लिंगेन सम्भवात् ॥ ७६ ॥
विशेषदृष्टे लिङ्गस्य सम्बन्धस्याप्रसिद्धितः ।
तत् प्रमाणान्तरं मेयबहुत्वाद् बहुतापि वा ॥ ७७ ॥
प्रमाणानामनेकस्य वृत्तेरेकत्र वा यथा ।
मिष्यते, यस्येन्द्रियमिति व्यपदेशः। तस्य पर्यायेणापि नाध्यक्षं ग्राहकमस्तीत्य-
भावः स्यात् । ततश्चाकारणं प्रत्यक्षजन्म प्राप्तम् । अहेतोश्च “नित्यं सत्त्वमसत्त्वं
वा स्यात्” ( प्र० वा० १. १८२ ) इत्युक्तम् ॥ ७४ ॥
स्यादेतत् । प्रत्यक्षादेव सामान्यप्रतीतिर्भविष्यति, किमनुमानेन ? इत्याह—
स्वलक्षणे च प्रत्यक्षमविकल्पतया प्रवर्तते, सामान्यस्य तु ग्रहो विकल्पेन
विना न भवति; ततः कारणात् तस्मिन् सामान्येऽनुमैव विकल्पिका, नाध्य-
क्षमविकल्पकम् ॥ ७५ ॥
ननु 'प्रत्यक्षं स्वलक्षणविषयम्, अनुमानं सामान्यविषयम्' इति प्रमेयस्य नियमे
स्वीक्रियमाणे वर्णस्य नीलादेर्विषयस्यानित्यताऽनित्यसामान्यात्मता न प्रतीयत
इति प्राप्तम्। न हि सामान्यविशेषात्मकं प्रमेयं विशेषमात्रविषयेणाध्यक्षेण सामान्य-
मात्रविषयेणानुमानेन वा प्रत्येतुं शक्यम्, प्रतीयते च, अतस्तद्बुद्धिप्रमाण-
मन्यत् स्यात्, न प्रत्यक्षम्; सामान्यस्य ग्रहणात्। नाप्यनुमानम्; विना लिंगेन
सम्भवात् विशेषस्यापि ग्रहणाच्च ॥ ७६ ॥
तथा—विशेषदृष्टे प्रत्यक्षेणाग्निं दृष्ट्वा क्रमात्तमेव धूमाल्लिङ्गात् 'स एवायं
वह्निः' इति निश्चिनोत्यनुमानेन । लिङ्गस्य सम्बन्धसिद्धितः तत् प्रमाणान्तरं
स्यात्। न हि तत् प्रत्यक्षम्१; लिङ्गबलादुत्पत्तेः१। नाप्यनुमानम्; दहनधूमविशेषयोः
सम्बन्धाग्रहणात् । तस्मात् मेयानां प्रत्यक्षं लक्षणं सामान्यम् । सामान्यविशेषाणां
बहुत्वाद् बहुतापि वा प्रमाणानां स्यात् । अनेकस्य वा प्रमाणस्यैकत्र
१-१. प्रत्यक्षं लिङ्गं बलादु०—रा० ।
प्रत्यक्षपरिच्छेदः १२५
विशेषदृष्टेरेकत्रिसंख्यापोहो न वा भवेत् ॥ ७८ ॥
विषयानियमादन्यप्रमेयस्य च सम्भवात् ?
योजनाद् वर्णसामान्ये नायं दोषः प्रसज्यते ॥ ७९ ॥
नावस्तुरूपं तस्यैव तथा सिद्धेः¹ प्रसाधनात् ।
अन्यत्र नान्यसिद्धिश्चेन्न तस्यैव प्रसिद्धितः ॥ ८० ॥
विषये वृत्तेः प्रमाणबहुता स्यात् । यथैकमेव स्वलक्षणं प्रत्यक्षेण विशेषदृष्टेन
चानुमानेन प्रतीयते । प्रमेयस्य द्वित्वग्रहणयोर्नियमे प्रमाणद्वित्वं स्यात्, नान्यथा ।
त्र्येकसंख्याया अपोहो य उक्तः, प्रमेयद्वित्वात् स न वा भवेत् ॥ ७७-७८ ॥
विषयस्य ग्रहणानियमात् यदा ह्येकेनापि प्रमाणेनानेकं गृह्यते, तदा
प्रमेयद्वित्वेऽप्येकमेव प्रमाणं स्यात् ; प्रमेयद्वयादन्यस्य च सामान्यविशेषस्य
मेयस्य सम्भवात् त्र्यादिकं वा तद्ग्राहकं मानं भवेत् ?
अत्रोच्यते—विकल्पकेन ज्ञानेनानित्यताया वर्णसामान्ये योजनादयं
सामान्यविशेषात्मकप्रमेयग्राहकप्रमाणान्तराभ्युपगमलक्षणो दोषो न प्रसज्यते ।
न हि विशेषोऽनित्यतया योज्यते; विकल्पानामतद्विषयत्वस्योक्तेर्वक्ष्यमा-
णत्वाच्च ॥ ७९ ॥
ननु वर्णसामान्यस्यावस्तुत्वात् तद्योजिताऽनित्यतादयोऽवस्तुधर्माः स्युः ?
इत्याह—नावस्तुनो रूपमनित्यत्वादि; तस्यैव वस्तुनस्तथाऽनित्यत्वादिभिराकारैः
सिद्धेः² निश्चयस्य प्राक् प्रसाधनात् । अध्यवसायानुरोधेन हि विकल्पानां विषय-
व्यवस्था । यद्यपि चैते स्वाकारग्राहिणः, तथापि बाह्यमेव विषयतया व्यवस्थाप्यन्ते;
अनाद्यभ्यासविशेषात् । अनुमानं तु वस्तुप्रतिबद्धलिङ्गप्रभवत्वाद् यथावस्थितमेव
वस्तु व्यवस्थापयतीति वस्त्वेव क्षणस्थितिधर्मकमस्मात् सिद्धम् । ततो नावस्तुरूपम-
नित्यत्वादि ।
स्यादेतद् । अन्यत्रावस्तुनि सामान्येऽनित्यतादिसम्बन्धिनि सिध्यत्यन्यस्य
वस्तुनोऽनित्यरूपस्य न सिद्धिरिति चेत् ? नैतद्युक्तम्; तस्यैव वस्तुनः तस्यैवा-
नित्यरूपस्याध्यवसायवशेनानुमानात् प्रसिद्धितः ॥ ८० ॥
१. सिद्धे—रा० । २. सिद्धे—रा० ।
१२६ प्रमाणवार्त्तिके
यो हि भावो यथाभूतो स तादृग्लिङ्गचेतसः ।
हेतुस्तज्जा तथाभूते तस्माद् वस्तुनि लिङ्गिधीः ॥ ८१ ॥
लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि ।
प्रतिबन्धात् तदाभासशून्ययोरप्यवञ्चनम् ॥ ८२ ॥
तद्रूपाध्यवसायाच्च तयोस्तद्रूपशून्ययोः ।
तद्रूपावञ्चकत्वेऽपि कृता भ्रान्तिव्यवस्थितिः ॥ ८३ ॥
कथं पुनर्वस्त्वध्यवसायेऽपि तत्संवादकता ? इत्याह—यो हि साध्यधर्मो
यथाभूतः कारणव्यापकस्वभावः स तादृशः कारणकार्यतया व्यापकव्याप्यतया
गृहीतव्याप्तिकस्य लिङ्गस्य चेतसः परम्पराहेतुः । तज्जा तस्माल्लिङ्गचेतसो
जाता तथाभूते वस्तुनि कारणव्यापकरूपे साध्यधर्मे लिङ्गिधीः । तस्मात्
परम्परया साध्यप्रतिबन्धात् लिङ्गिधीः सत्येव वस्तुनि भवन्ती तत्संवादात्
प्रमाणमेव ॥ ८१ ॥
ननु लिङ्गमपि लिङ्गिवत् सामान्यमेव; तथा धूमः कृतकं वेत्येव न लिङ्गम्,
किं तर्हि ? वह्निकार्यतयाऽनित्यत्वव्याप्यतया च गृहीतम्; न च विशेषे व्याप्तिग्रहः,
सामान्यञ्च नाध्यक्षगम्यम्, विकल्पमात्रेण तत्प्रतीतावनाश्वासः ? नैष दोषः;
प्रत्यक्षेण कारणकार्ययोर्व्यावृत्तिद्वयविशिष्टयोर्गृहीतयोर्विजातीयव्यावृत्त्याश्रयेणो-
त्पन्नविकल्पेन क्वचिदनुमानेन व्याप्तिं गृहीतवतः पश्चाद् धूमकृतकत्वादि-
दर्शनात् ताद्रूप्ये कार्यव्याप्यबुद्धिर्लिङ्गबुद्धिः, सा च तत्प्रतिबन्धादनुमानमेवेति
नास्त्यनाश्वासः । एतदेवाह—लिङ्गलिङ्गिधियोरेवमुक्तक्रमात् पारम्पर्येण
वस्तुनि प्रतिबन्धात् तयोर्लिङ्गलिङ्गिनोराभासः साक्षात् स्वरूपप्रतिभासः ।
तच्छून्ययोरपि लिङ्गलिङ्गिवस्तुनि अवञ्चनं संवादनम् ॥ ८२ ॥
ननु लिङ्गबुद्धेरपि लिङ्गिबुद्धित्वात् पृथग् उपादानमनर्थकम् ? नानर्थकम् ;
प्रत्यक्षमुद्भूतविकल्पो वा तद्बुद्धिरिति विप्रतिपत्तिनिरासार्थत्वात् । यदि प्रमाणे
लिङ्गलिङ्गिधियौ, तदा प्रत्यक्षवदभ्रान्ते स्याताम् ? इत्याह—तयोर्द्वयोः तद्रूपस्य
लिङ्गलिङ्गिरूपस्याध्यवसायात् प्रवर्त्तने सति वस्तुनि परम्परया तत्प्रतिबद्धतया च
तद्रूपस्यावञ्चकत्वे संवादकत्वेऽपि भ्रान्तिव्यवस्थितिः कृता । कस्माद् ?
लब्धिःorसाक्षान्निषेध्यानुपलब्धिः? साक्षान्निषेध्यानुपलब्धिः,`
Let's check line 18:
सर्वत्रानुपलम्भतः साध्यते; यस्मात् प्रमाणैरर्थस्य सिद्धिं वदतामर्थात्
Let's check line 19:
सामार्थ्यादेव विपर्ययात् प्रमाणाभावादर्थाभावः सिध्यति ॥ ८५ ॥
Wait, is it सामार्थ्यादेव or सामर्थ्यादेव?
Let's look at line 19 again:
Actually, सा followed by मा with ा? It looks like सामार्थ्यादेव due to an extra stem or सामर्थ्यादेव?
Wait, if it's सामार्थ्याद्देव, let's just transcribe what is printed.
Wait, let's look at सामार्थ्यादेव:
स + ा = सा.
Then म + ा = मा.
Then र् + थ + या = र्थ्या.
Then द + े = दे.
Then व.
Wait, why would it be सामार्थ्या-? In Sanskrit, सामर्थ्य has समर्थस्य भावः = सामर्थ्यम्. There is NO word सामार्थ्य! But could the types
१२८ प्रमाणवार्त्तिके
विरोधाच्चेद्, असावपि ॥ ८७ ॥
सिद्धः केन,
असहस्थानादिति चेत्, तत् कुतो मतम् ! ।
दृश्यस्य दर्शनाभावादिति चेत्, साऽप्रमाणता ॥ ८८ ॥
तस्मात् स्वशब्देनोक्तापि साऽभावस्य प्रसाधिका ।
यस्याप्रमाणं साऽवाच्यो निषेधस्तेन सर्वथा ॥ ८९ ॥
एतेन तद्विरुद्धार्थकार्योक्तिरुपवर्णिता ।
प्रयोगः केवलं भिन्नः सर्वत्रार्थो न भिद्यते ॥ ९० ॥
परस्य सत्त्वाभावः; अतिप्रसङ्गात् । अनिषिद्धोपलब्धेरभावासिद्धेः ॥
अथ यन्निषिध्यते यच्चोपदर्श्यते तयोर्विरोधात् सहानवस्थानलक्षणादे-
कभावेऽन्याभाव इति चेत् ? ॥ ८७ ॥
नन्वसावपि विरोधः केन प्रकारेण सिद्धः ? द्वयोः सहानवस्थानाद्
विरोधः सिद्ध इति चेत् ? तत्सहानवस्थानं कुतो हेतोर्मतं येन विरोधव्यवस्था ।
अविकलकारणस्य प्रवर्त्तमानस्य दृश्यस्यान्यभावेऽदर्शनात् सहानवस्थानगतिरिति
चेत् ? ननु यदेवादर्शनं साऽप्रमाणता प्रमाणरहितताऽनुपलब्धिरित्यर्थः ॥ ८८ ॥
यस्मादवश्यं परम्परयाऽनुपलब्धेरेव प्रतिषेधः, तस्मात् स्वशब्देनानुपलम्भ-
स्वरूपवाचकशब्देनोक्ता स्वभावानुपलम्भादावपि शब्दादनुक्तापि विरुद्धोप-
लब्ध्यादौ सानुपलब्धिरभावसाधिका; तस्या एव प्रतिपाद्यत्वात् । यस्य तु
चार्वाकस्य साऽनुपलब्धिरप्रमाणम्, प्रतिषेधे साध्ये तेन सर्वथा निषेधोऽ-
वाच्यः; प्रत्यक्षस्य भावमात्रविषयत्वात्, प्रमाणान्तरस्य चाभावात् ॥ ८९ ॥
एतेन स्वभाव-तत्कारणविरुद्धोपलब्ध्योरनुपलब्धित्वप्रतिपादनेन तयोः
स्वभाव-तत्कारणयोर्विरुद्धार्थस्य कार्योक्तिरुपवर्णिता बोद्धव्या, यथा—नात्र
शीतस्पर्शो रोमहर्षवान् वा पुरुषो धूमादिति; अत्रापि निषेध्यानुपलम्भस्य परम्परया
प्रतिपादनात् । उपलक्षणं चैतत् । व्यापकविरुद्धतत्कार्योपलब्धी अपि बोद्धव्ये,
यथा—नात्र तुषारस्पर्शो वह्नेर्धूमादिति । एतासु स्वभावानुपलब्धिविरुद्धोपलब्ध्यादिषु
प्रयोगः शब्दाभिधाव्यापारः परमनुपलम्भोपलम्भप्रतिपादकत्वेन भिद्यते । सर्व-
त्रार्थो निषेध्यानुपलम्भलक्षणो न भिद्यते; तस्यैव सर्वत्र प्रतिपाद्यत्वात् ॥ ९० ॥
प्रत्यक्षपरिच्छेदः १२९
विरुद्धं तच्च सोपायमविधायापिधाय च ।
प्रमाणोक्तिर्निषेधे या न साम्नायानुसारिणी ॥ ९१ ॥
उक्त्यादेः सर्ववित्प्रेत्यभावादिप्रतिषेधवत् ।
अतीन्द्रियाणामर्थानां विरोधस्याप्रसिद्धितः ॥ ९२ ॥
बाध्यबाधकभावः कः स्यातां यद्युक्तिसंविदौ ।
तादृशोऽनुपलब्धेश्चेद्, उच्यतां सैव साधनम् ॥ ९३ ॥
अनिश्चयकरं प्रोक्तमीदृक् चानुपलम्भनम् ।
तन्नात्यन्तपरोक्षेषु सदसत्ताविनिश्चयौ ॥ ९४ ॥
या पुनर्द्विविधेनापि विरोधेन विरुद्धमर्थमभिधाय यं कञ्चिदर्थमुपदर्श्यते
तन्निषेध्यं च सहाभावनिश्चयोपायेन कारणव्यापककार्यानुपलम्भे वर्तमानम-
विधाय, अत एवापिधाय च पिधानमिव पिधानं स्वरूपप्रतीतिविरोधित्वादनुपलम्भः,
तमकृत्वा कारणाद्यनुपलम्भाप्रदर्शनात् तदुपलम्भसम्भावना न व्याहतैव । एवं
निषेध्योपलम्भसम्भावनाम निवार्यान्यविधिना निषेधे कर्तव्ये प्रमाणोक्तिर्या न
सा आम्नायानुसारिणी ॥ ९१ ॥
उक्त्यादेर्हेतोः सर्वविदः प्रेत्यभावस्य परलोकस्य निषेधवत् । यथा—
न सर्वज्ञत्वमस्य पुरुषस्य, वक्तृत्वात्; प्रेत्यभावः पुरुषत्वादित्यादि ।
कस्मात् पुनरियं विरुद्धोक्तिरेव न ? इत्याह—अतीन्द्रियाणां सार्वज्ञपर-
लोकादीनामर्थानां केनचित् वक्तृत्वादिना विरोधस्याप्रसिद्धितः । ज्ञानोत्कर्षा-
पकर्षयोर्वचनापकर्षोत्कर्षदर्शनाद् विपर्ययदर्शनाच्च ॥ ९२ ॥
यदि चोक्तिसंविदौ सह स्याताम्, कस्तयोः परस्परं बाध्यबाधकभावः !
न हि ज्ञानवचनयोर्विरोधः सिद्धः, येनैकसत्त्वेऽपरस्याभावः। अविरोधोऽपि न सिद्ध
इति चेत् ? सत्यम्; किन्तु संशयेऽपि न(?) वक्तृत्वमनैकान्तिकम् । तादृशः
सर्वज्ञस्य वक्तुरनुपलब्धेरभावश्चेत् उच्यतां निषेधे साध्ये सैवानुपलब्धिः
साधनम्, नान्यस्य शक्तिः ॥ ९३ ॥
किन्त्वीदृग्गतीन्द्रियार्थविषयमनुपलम्भनमनिश्चयकरं प्रोक्तम्; सत्य-
प्यर्थे सम्भवात् । तत तस्मादत्यन्तपरोक्षेषु सदसत्तानिश्चयौ न स्तः ।
प्र० वा० : ९
१३० प्रमाणवार्त्तिके
भिन्नोऽभिन्नोऽपि वा धर्मः स विरुद्धः प्रयुज्यते १ ।
यथाऽग्निरहिमे साध्ये सत्ता वा जन्मबाधनी ॥ ९५ ॥
यथा वस्त्वेव वस्तूनां साधने साधनं मतम् ।
तथा वस्त्वेव वस्तूनां स्वनिवृत्तौ निवर्त्तकम् ॥ ९६ ॥
एतेन कल्पनान्यस्तो यत्र क्वचन सम्भवात् ।
धर्मः पक्षसपक्षान्यतरत्वादिरपोदितः ॥ ९७ ॥
तत्रापि व्यापको धर्मो निवृत्तेर्गमको मतः ।
व्याप्यस्य स्वनिवृत्तिश्चेत् परिच्छिन्ना कथञ्चन ॥ ९८ ॥
सत्यपि प्रमाणवृत्तेः । प्रमाणनिवृत्तावप्यर्थभावासिद्धेः । तस्मान्नानुपलब्धेः कुत-
श्चिदन्यस्माद्भावसिद्धिः, किन्तु विरुद्धादेव ॥ ९४ ॥
स च विरुद्धो धर्मः क्वचिद् भिन्नो वा प्रयुज्यते, यथा—अग्नि-
रहिमे हिमाभावे साध्ये । क्वचिदभिन्नो वा, यथा—सत्ता जन्मनो बाधनी
महदादीनां जन्माभावप्रसङ्गः सत्त्वादिति। सत्ताजन्मनोश्चाभेदः सांख्याभ्युपगमा-
दुच्यते, न तु परमार्थतस्तादात्म्यं विरुद्धयोरस्ति । विरुद्धे च सत्ताजन्मनी प्रागसत्तया
हि अभिव्यक्तिरूपताया लाभो जन्मोच्यते । सत्ता तु विद्यमानता । ततो येन
रूपेण सत्त्वं न तेन जन्म, येन च जन्म तेन न सत्त्वमिति व्यक्तः परस्परपरि-
हारस्थितिविरोधः ॥ ९५ ॥
यथा च वस्तूनां साध्यानां साधने साधनं वस्त्वेव मतम् , नावस्तु;
तथा वस्त्वेव स्वस्य निवृत्तौ वस्तूनां निवर्त्तकम् , नावस्तु ॥ ९६ ॥
एतेन वस्तुनः साधनत्वप्रतिपादनेन विकल्पनान्यस्तो धर्मः पक्षस-
पक्षान्यतरत्वादिः, आदिशब्दान्मदुपगमादिश्च, अपोदितः प्रतिक्षिप्तो बोद्धव्यः;
तादृशस्य साधनस्य यत्र क्वचन साध्ये सम्भवात् । न हि पक्षत्वं सपक्ष-
त्वं वा जातिनियतम् ; किन्तु वाञ्छाधीनमवस्तु । अतः समीहितसिद्धौ सर्वं सर्वस्य
सिध्येत् ॥ ९७ ॥
तत्र वस्तुन्यपि व्यापको धर्मः कारणं स्वभावो वा व्याप्यस्य कार्यस्य
स्वभावस्य निवृत्तेर्गमको मतः । व्यापकस्य कारणस्वभावस्य स्वनिवृत्तिः
१. प्रसज्यते—पाठा० ।
यदप्रमाणताऽभावे लिङ्गं तस्यैव कथ्यते ।
तदत्यन्तविमूढार्थम्;
आगोपालमसंवृतेः १ ॥ ९९ ॥
एतावन्निश्चयफलमभावेऽनुपलम्भनम् ।
तच्च हेतौ स्वभावे वाऽदृश्ये दृश्यतया मते ॥ १०० ॥
अनुमानादनित्यादेर्ग्रहणेऽयं क्रमो मतः ।
कथञ्चन साक्षात् परम्परया वा परिच्छिन्ना चेत् स्यात् ॥ ९८ ॥
तथा यस्यार्थस्य एकज्ञानसंसर्गिणोऽप्रमाणता प्रमाणनिवृत्तिः, तस्यैवाभावे-
ऽभावव्यवहारे च साध्ये सा प्रमाणनिवृत्तिः स्वभावानुपलम्भाख्या लिङ्गं कथ्यते ।
तत् स्वभावानुपलब्धिलिङ्गमत्यन्तविमूढार्थम् । ये ह्यनुपलभ्यमानमपि दृश्यम-
सत्त्या मोहान्न व्यवहरन्ति तान् प्रति व्यवहारसाधकं तल्लिङ्गम् ।
कस्मात् पुनर्मूढार्थमपि तन्न ? इत्याह—आगोपालमस्यार्थस्यासंवृतेर-
मूढत्वात् प्रसिद्धेरित्यर्थः ॥ ९९ ॥
एतावत् त्रिविधं कारणव्यापकस्वभावानुपलम्भनम्, अभावेऽभावव्यव-
हारे च निश्चयफलम् । कारणविरुद्धोपलम्भादयस्तु कारणाद्यनुपलम्भोपलक्षणत्वात्
त्रिविध एवान्तर्भूताः । तच्चाभावनिश्चयफलत्वमनुपलम्भस्य हेतौ स्वभावे च
व्यापके निषेध्यरूपे च दृश्यतया दर्शनयोग्यतया मते दृश्येऽनुपलभ्यमाने
सति, नान्यथा ।
तदेवं त्रिविधलिङ्गजमनुमानं प्रमाणम्, वस्तुसंवादात्; ततस्तत्प्रसिद्धस्या-
नित्यतादेर्न वस्तुधर्मतेति स्थितम् ॥ १०० ॥
ननु ‘अनित्योऽयं वर्णः’ इति स्वलक्षणे योजना, तत् कथम् “योजनाद् वर्ण-
सामान्ये” ( प्र० वा० २. ७९ ) इत्युक्तम् ? अत्राह—अनुमानात् परोक्षस्या-
नित्यादेर्धर्मस्य ग्रहणे वस्तुसामान्यमनित्यत्वेन गृह्यत इत्ययं क्रमो मतः ।
वर्णसामान्यं च प्रत्यक्षतः सिद्धम् ; तद्बलभाविना विकल्पेन विजातीयव्यावृत्त्याश्रयेण
व्यवस्थापनात् । यस्तु विनश्वरं वर्णं दृष्ट्वा ‘अनित्योऽयम्’ इति विशेषविषयो-
१. मसंवृत्तेः—रा० । एवं वृत्तावपि ।
१३२ प्रमाणवार्त्तिके
प्रामाण्यमेव नान्यत्र गृहीतग्रहणाम्मतम् ॥ १०१ ॥
नान्यास्या नित्यता भावात् पूर्वसिद्धः स चैन्द्रियात् ।
नानेकरूपो वाच्योऽसौ;
वाच्यो धर्मो विकल्पजः ॥ १०२ ॥
सामान्याश्रयसंसिद्धौ सामान्यं सिद्धमेव तत् ।
तदसिद्धौ तथास्यैव ह्यनुमानं प्रवर्तते ॥ १०३ ॥
क्वचित् तदपरिज्ञानं सदृशापरसम्भवात् ।
भ्रान्तेरपश्यतो भेदं मायागोलकभेदवत् ॥ १०४ ॥
ऽनुमानादन्यत्र, तत्र प्रामाण्यमेव न मतम्; गृहीतग्रहणात् ॥ १०१ ॥
कथं गृहीतग्राहित्वम् ? इत्याह—नान्या भावाद् वर्णादेरनित्यता;
तस्यैव क्षणक्षयिस्वभावत्वात् । स च भाव ऐन्द्रियात् प्रत्यक्षात् सिद्धः; पूर्वं
विकल्पात् । ततस्तमेव यथागृहीतं विकल्पयन् विकल्पो गृहीतग्राही । यत एव
नान्याभावादनित्यता; अत एवाभावोऽसौ धर्मिधर्मरूपतया नानेकरूपः । तथा न
वाच्योऽसौ; शब्दानां धर्मिधर्माभावस्य तैरवचनात्, तस्य च वस्तुन्यसम्भवात् ।
कस्तर्हि वाच्यः ? इत्याह—विकल्पजो विजातीयाश्रयेण विकल्पकल्पितो
धर्मः परस्परं यथासंकेतमसंकीर्णः शब्दानां वाच्यः ॥ १०२ ॥
तस्मात् सामान्यस्यानित्यादेराश्रयस्य वर्णादेः प्रत्यक्षात् संसिद्धौ
सिद्धमेव तत् सामान्यम् । यदि त्वभ्यासाद्यभावादनुरूपनिश्चयाभावादज्ञानम्,
तदा प्रत्यक्षात् तदसिद्धावस्यैव हि वर्णादेस्तथा नित्यत्वेन तदव्यभिचारिलिङ्गाद-
नुमानं प्रवर्तते ॥ १०३ ॥
कस्मात् पुनर्गृहीतेऽप्यपरिज्ञानम् ? इत्याह—क्वचिदनित्यतादौ गृहीते-
ऽप्यनिश्चयाभावादपरिज्ञानम्; पूर्वक्षणविनाशकाले तत्सदृशस्यापरस्य सम्भ-
वात् । भावशून्यान्तरा लक्षणाभावात् । 'स एवायम्' इति भ्रान्तेः स्थैर्यग्राहिण्याः
क्षणानां भेदमपश्यतोऽनिश्चिन्वतः पुंसो दृष्टान्तमाह—मायागोलकभेदवत् ।
मायाकारदर्शितौ गोलकौ भिन्नावध्यक्षेण गृहीत्वापि सादृश्याल्लाघवाच्च विप्र-
लब्धबुद्धिरेकत्वेनाध्यवस्यति यथा, तथा स्थिराध्यवसायः ॥ १०४ ॥
प्रत्यक्षपरिच्छेदः १३३
तथा ह्यलिङ्गमाबालमसंश्लिष्टोत्तरोदयम् ।
पश्यन् परिच्छिनत्त्येव दीपादि नाशिनं जनः ॥ १०५ ॥
भावस्वभावभूतायामपि शक्तौ फलेऽदृशः ।
अनानन्तर्यतो मोहो विनिश्चेतुरपाटवात् ॥ १०६ ॥
तस्यैव विनिवृत्त्यर्थमनुमानोपवर्णनम् ।
व्यवस्यन्तीक्षणादेव सर्वाकारान् महाधियः ॥ १०७ ॥
व्यावृत्ते सर्वतस्तस्मिन् व्यावृत्तिविनिबन्धना ।
बुद्धयोऽर्थे प्रवर्त्तन्तेऽभिन्ने भिन्नाश्रया इव ॥ १०८ ॥
ननु यदि क्वचिन्नाशो दृश्येत, तदास्याहेतुकस्य स्वभावत्वात् क्षणक्षयिषु
भावेषु एकताबुद्धेर्भ्रान्तित्वं भवेद् ? इत्याह—तथा हि दीपादि, आदिशब्दात्
तुरङ्गादि, सन्तानविच्छेदकालेऽसंश्लिष्टोत्तरोदयमघटित उत्तरस्य उदयो जन्म
यस्मिन् तमेकस्य स्वरसनिरोधित्वेऽपरस्य कारणाभावादनुत्पत्तौ¹ नाशिनमध्यक्षतः
पश्यन्नलिङ्गं गमकलिङ्गरहितमाबालं बालपर्यन्तं जनः परिच्छिनत्त्येव । ततः
प्रागपि सतः स्वरसनिरोधात् सदृशापरापरक्षणप्रचये ‘स एवायम्’ इति बुद्धि-
र्भ्रान्तिरेव ॥ १०५ ॥
यथा—भावस्य बीजादेः स्वभावभूतायामपि अङ्कुरादिजनिकायां शक्तौ
फलेऽङ्कुरादौ अनानन्तर्यतोऽदृशोऽदर्शनात् विनिश्चेतुः पुंसोऽपाटवात्
मोहोऽशक्तभ्रमः । तथा क्षणिकेषु भावेषु सदृशापरापरोत्पत्तेर्भावशून्यक्षणादर्श-
नाच्च स्थिरभ्रमः ॥ १०६ ॥
तस्यैकत्वभ्रमस्यैव निवृत्त्यर्थं संवादिलिङ्गजस्य क्षणिकताविषयस्यानु-
मानस्योपवर्णनम्; “निश्चयारोपणमनसोर्बाध्यबाधकभावतः” (प्र० वा० ३. ४८)
इति न्यायात् । ये तु महाधियो विपरीतव्यवसायानाक्रान्तप्रत्यक्षा योगिनः, ते
पदार्थस्य ईक्षणादेव सर्वानाकारान् व्यवस्यन्ति निश्चिन्वन्ति ॥ १०७ ॥
एवञ्च—तस्मिन्नर्थे वस्तुतोऽभिन्ने निरंशे सर्वतः सजातीयाद् विजा-
तीयाच्च व्यावृत्ते यावत्यो व्यावृत्तयः सन्ति तावद्व्यावृत्तिविनिबन्धना
निश्चयात्मिका बुद्धयो भिन्नाश्रया इव तत्तद्व्यावृत्तिमात्रविषयत्वेन भिन्नधर्मि-
१. कारणाभावात् । अनु०—रा० ।
१३४ प्रमाणवार्त्तिके
यथाचोदनमाख्याश्च सोऽसति भ्रान्तिकारणे ।
प्रतिभाः प्रतिसन्धत्ते स्वानुरूपाः स्वभावतः ॥ १०९ ॥
सिद्धोऽत्राप्यथ वा ध्वंसो लिङ्गादनुपलम्भनात् ।
प्राग्भूत्वा ह्यभवन्¹ भावोऽनित्य इत्यभिधीयते ॥ ११० ॥
यस्योभयान्तव्यवधिसत्तासम्बन्धवाचिनी ।
अनित्यता श्रुतिस्तेन तावन्ताविति कौ स्मृतौ ॥ १११ ॥
प्राक् पश्चादप्यभावश्चेत् स एवानित्यता न किम् !
धर्मादिगोचरा इव प्रवर्त्तन्ते ॥ १०८ ॥
यथाचोदनं यथासंकेतमाख्याः शब्दाश्च प्रवर्त्तन्ते । यत्र व्यावृत्तौ यः
शब्दो विनिवेशितः स च तस्यां निश्चितायां प्रवर्त्तते । स भावोऽसति भ्रान्ति-
कारणे यथाभ्यासं स्वानुरूपाः स्वव्यावृत्तिसमुचिताः प्रतिभा निश्चयबुद्धीः
स्वभावतः प्रतिसन्धत्ते उत्पादयति । तस्मादभ्यासवतामीक्षणादेवानित्यादि-
निश्चयः, अन्येषां तु स्थिरापोहनाथर्मनुमानमिति² स्थितमेतत् ॥ १०९ ॥
अन्ये त्वाचार्याः प्राहुः—अत्र वर्णसन्तानविच्छेदकालेऽपि सन्तान-
विच्छेदलक्षणो ध्वंसोऽनित्यता, न भावस्वभावात्मिका । स चानुपलम्भना-
लिङ्गात् सिद्धः । नाध्यक्षाद्; भावविषयत्वात् तस्य ।
कस्मात् पुनर्ध्वंसोऽनित्यता ? इत्याह—प्राग् भूत्वा हि भावः पश्चाद-
भवन्ननित्य इत्यभिधीयते, न तु भाव इत्येव । तथा ध्वंस एवानित्यता । सा
चानुपलब्धिलिङ्गजाऽनुमानगम्या ॥ ११० ॥
ननु प्राक्-पश्चादभावयोर्व्यवधायकः सत्तासम्बन्धोऽनित्यता, न प्रध्वंसा-
भावः ? इत्याह—यस्य नैयायिकादेरुभयस्य प्राक्-पश्चादभावस्यान्तस्य
यो व्यवधायकः सत्तासम्बन्धः, तद्वाचिन्यनित्यता श्रुतिरिष्टा, तेन वादिना
तावन्ताविति कौ स्मृतौ ! ॥ १११ ॥
प्रागभावः³ पश्चादभावोऽपि चेत् स एव प्रागभावः पश्चादभावोऽनित्यता
किं नेष्यते; सत्ताविशेषणत्वेनापि तदभ्युपगमस्येष्टत्वात् ! पटस्य घटे चाभाव इति
१. ह्यभवद्—रा० । २. स्थिरारोपणार्थ०—रा० । ३. प्राग्भावः—रा० ।
प्रत्यक्षपरिच्छेदः १३५
षष्ठ्याद्ययोगादिति चेद् अन्तयोः स कथं भवेत् ! ॥ ११२ ॥
सत्तासम्बन्धयोर्ध्रौव्यादन्ताभ्यां न विशेषणम् ।
अविशेषणमेव स्यादन्तौ चेत् कार्यकारणे ॥ ११३ ॥
असम्बन्धान्न भावस्य प्रागभावं स वाञ्छति ।
तदुपाधिसमाख्याने तेऽप्यस्य च न सिध्यतः ॥ ११४ ॥
सत्तास्वकारणाश्लेषकरणात् कारणं किल ।
सा सत्ता स च सम्बन्धो नित्यौ कार्यमथेह किम् ॥ ११५ ॥
यस्याभावः क्रियेतासौ न भावः प्रागभाववान् ।
सम्बन्धानभ्युपगमान्नित्यं विश्वमिदं ततः ॥ ११६ ॥
षष्ठ्यादिविभक्त्ययोगात् प्रध्वंसाभावः, नानित्यता । न हि भावाभावयो संयोगादिः
कश्चित् सम्बन्धोऽस्ति य उच्येत षष्ठ्यादिभिरिति चेत् ? एवं तर्ह्यन्तयोः
स षष्ठ्यादियोगः कथं भवेत्—अभावयोर्व्यवधिभूता सत्तेत्यादि ॥ ११२ ॥
किञ्च—सत्ता तत्सम्बन्धे परमते ध्रौव्यादन्ताभ्यां प्राक्प्रध्वंसाभावाभ्यां
न विशेषणं स्याद्—अन्तद्वयविशिष्टा सत्ता, तत्सम्बन्धो वेति । न हि नित्यस्य
सर्वकालव्यापिनोऽन्तसम्भवः ।
कार्यकारणे अन्तावभिमते इति चेत् ? तदा ताभ्यां सत्तासम्बन्धयोर-
विशेषणमेव स्यात् ॥ ११३ ॥
यस्मात् स नैयायिकादिर्भावस्यासम्बन्धात् प्रागभावं सम्बन्धिर्न
न वाञ्छति । तथा च तदुपाधिसमाख्याने प्रागभावविशेषणं कार्यकारणमिति
समाख्यानं व्यपदेशो ययोस्ते तथा ते कार्यकारणेऽप्यस्य न सिध्यतः । यस्य
हि प्रागभावः स भवन् कार्यं स्यात् । न च तत्सम्बन्धो भावस्येति कार्याभावः ।
कार्याभावाच्च कारणाभावः; तदुत्पादकस्य कारणत्वात् ॥ ११४ ॥
किञ्च—जन्म सत्ताश्लेषः सत्तासमवायः स्वकारणेन समवायिना सह
नित्यः, तयोः करणात् किल त्वयेष्टं कारणम् । सा च सत्ता स च
सम्बन्धो नित्यौ द्वावपि कार्यम्, अथेह द्वयोर्मध्ये किं युक्तम् ! ॥ ११५ ॥
अपि च—यस्याभावस्योत्पत्तेः प्रागभावः कारणैरसौ क्रियते । न
वा- yes, superscript footnote१. Then closing quotes: " Then(प्र० वा० २.७७) Thenइत्यत्र सानुषङ्गं`
Line 17:
प्रतिविहितम् । अनेकस्य वृत्तेरेकत्र वा यथा विशेषदृष्टेनेत्याह— अग्निं दृष्ट्वा
प्रतिविहितम् । (danda)
अनेकस्य वृत्तेरेकत्र वा यथा विशेषदृष्टेनेत्याह— (em-dash) अग्निं दृष्ट्वा
Line 18:
क्रमेण धूमाल्लिङ्गात् तस्यैव विशेषस्य 'स एवायं वह्निः' इति यत् प्रत्यभिज्ञानं न
'स एवायं वह्निः' in single quotes.
Line 19:
तत् प्रमाणम्; प्रतिक्षणं भावस्य भेदत एकार्थसाध्यार्थक्रियायाः संवादाभावात् ।
तत् प्रमाणम्; (semicolon)
प्रतिक्षणं भावस्य भेदत एकार्थसाध्यार्थक्रियायाः संवादाभावात् । (danda)
Line 20:
स्यादेतत्— न यथादृष्ट एव विशेषो गृह्यते, किन्तु तत्सामान्यम् ?
स्यादेतत्— (dash)
`न यथादृष्ट एव विशेषो