सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 149, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 149

प्रत्यक्षपरिच्छेदः १२३
स्वभावे स्वनिमित्ते वा दृश्ये दर्शनहेतुषु ।
अन्येषु सत्स्वदृश्ये च सत्ता वा तद्गतः कथम् ! ॥ ७२ ॥
अप्रामाण्ये च सामान्यबुद्धेस्तल्लोप आगतः ।
प्रेत्यभाववद्;
अक्षैस्तत् पर्यायेण प्रतीयते ॥ ७३ ॥
तच्च नेन्द्रियशक्त्यादावक्षबुद्धेरसम्भवात् ।
अभावप्रतिपत्तौ स्याद् बुद्धेर्जन्मानिमित्तकम् ॥ ७४ ॥
अनुपलब्धेरव्यभिचारं दर्शयितुमाह—प्रतिषेधस्य स्वभावे स्वस्य निषेध्या-
त्मनो निमित्ते कारणे । दृश्ये दर्शनयोग्ये दर्शनस्य हेतुष्विन्द्रियमनस्कारादि-
ष्वन्येषु सत्सु १विद्यमानेष्वदृश्येऽनुपलभ्यमाने च तद्गतो दृश्यानुपलम्भवतो
भावस्य सत्ता वा कथं युज्येत । न हि सत्स्वन्येषूपलम्भप्रत्ययेषु दृश्यस्य सतः
कदाचिदनुपलम्भसम्भवः । तस्माद् दृश्यानुपलब्धिरर्थाभाव एव भवतीति तत्प्रभवा-
भावप्रतीतिरविसंवादिनी । तस्मात् साध्यप्रतिबद्धलिङ्गं प्रसूतत्वात् त्रिविधलिङ्गे-
ऽप्यनुमाने नास्त्यनाश्वासः ॥ ७२ ॥
एवमपि त्वप्रामाण्ये सामान्यबुद्धेरिष्यमाणे तस्य परोक्षस्यार्थस्यानुमान-
व्यवस्थाप्यमानस्य लोपोऽभाव आगतः, प्रेत्यभाववत् परलोकस्येव । यदि हि
प्रत्यक्षमेकं प्रमाणम्, तदा यत्र तन्न प्रवर्तते तस्याप्यभाव एव स्यात्, न चैतदस्ति,
न हि चार्वाको देशान्तरस्थं स्वपितरमनुपलभमानस्तदभावं व्यवस्थापयितुमर्हति !
स्यादेतत् । नोपलभ्यमानमेवास्ति, किन्तु पर्यायेण परिपाट्याऽक्षैर्यत् प्रती-
यते तदप्यस्ति चेत, पित्रादयश्चोपलब्धा उपलप्स्यन्ते चेति सन्त्येव ॥ ७३ ॥
तच्च न युक्तम्; इन्द्रियाख्यायां शक्तौ, आदिग्रहणादाहारादेः, क्षुदुपघा-
तादिसामर्थ्ये च पर्यायेणापीन्द्रियबुद्धेरसम्भवादभावप्रतीतौ सत्यां प्रत्यक्षाया
बुद्धेर्जन्मानिमित्तकं स्यात् । न हि दृष्टमात्रेभ्यो विषयालोकमनस्कारचक्षुर्गोल-
केभ्योऽध्यक्षजन्म; सत्स्वपि तेष्वभावात् व्यतिरेकादतिरिक्तं किञ्चिददृश्यं कारण-
१. विद्यमानेषु०—रा० ।