प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 155, कुल 532 में से
संदर्भ में पढ़ेंप्रत्यक्षपरिच्छेदः १२९
विरुद्धं तच्च सोपायमविधायापिधाय च ।
प्रमाणोक्तिर्निषेधे या न साम्नायानुसारिणी ॥ ९१ ॥
उक्त्यादेः सर्ववित्प्रेत्यभावादिप्रतिषेधवत् ।
अतीन्द्रियाणामर्थानां विरोधस्याप्रसिद्धितः ॥ ९२ ॥
बाध्यबाधकभावः कः स्यातां यद्युक्तिसंविदौ ।
तादृशोऽनुपलब्धेश्चेद्, उच्यतां सैव साधनम् ॥ ९३ ॥
अनिश्चयकरं प्रोक्तमीदृक् चानुपलम्भनम् ।
तन्नात्यन्तपरोक्षेषु सदसत्ताविनिश्चयौ ॥ ९४ ॥
या पुनर्द्विविधेनापि विरोधेन विरुद्धमर्थमभिधाय यं कञ्चिदर्थमुपदर्श्यते
तन्निषेध्यं च सहाभावनिश्चयोपायेन कारणव्यापककार्यानुपलम्भे वर्तमानम-
विधाय, अत एवापिधाय च पिधानमिव पिधानं स्वरूपप्रतीतिविरोधित्वादनुपलम्भः,
तमकृत्वा कारणाद्यनुपलम्भाप्रदर्शनात् तदुपलम्भसम्भावना न व्याहतैव । एवं
निषेध्योपलम्भसम्भावनाम निवार्यान्यविधिना निषेधे कर्तव्ये प्रमाणोक्तिर्या न
सा आम्नायानुसारिणी ॥ ९१ ॥
उक्त्यादेर्हेतोः सर्वविदः प्रेत्यभावस्य परलोकस्य निषेधवत् । यथा—
न सर्वज्ञत्वमस्य पुरुषस्य, वक्तृत्वात्; प्रेत्यभावः पुरुषत्वादित्यादि ।
कस्मात् पुनरियं विरुद्धोक्तिरेव न ? इत्याह—अतीन्द्रियाणां सार्वज्ञपर-
लोकादीनामर्थानां केनचित् वक्तृत्वादिना विरोधस्याप्रसिद्धितः । ज्ञानोत्कर्षा-
पकर्षयोर्वचनापकर्षोत्कर्षदर्शनाद् विपर्ययदर्शनाच्च ॥ ९२ ॥
यदि चोक्तिसंविदौ सह स्याताम्, कस्तयोः परस्परं बाध्यबाधकभावः !
न हि ज्ञानवचनयोर्विरोधः सिद्धः, येनैकसत्त्वेऽपरस्याभावः। अविरोधोऽपि न सिद्ध
इति चेत् ? सत्यम्; किन्तु संशयेऽपि न(?) वक्तृत्वमनैकान्तिकम् । तादृशः
सर्वज्ञस्य वक्तुरनुपलब्धेरभावश्चेत् उच्यतां निषेधे साध्ये सैवानुपलब्धिः
साधनम्, नान्यस्य शक्तिः ॥ ९३ ॥
किन्त्वीदृग्गतीन्द्रियार्थविषयमनुपलम्भनमनिश्चयकरं प्रोक्तम्; सत्य-
प्यर्थे सम्भवात् । तत तस्मादत्यन्तपरोक्षेषु सदसत्तानिश्चयौ न स्तः ।
प्र० वा० : ९