सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 145, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 145

प्रत्यक्षपरिच्छेदः ११९
मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥ ५७ ॥
यथा तथाऽयथार्थत्वेऽप्यनुमानतदाभयोः ।
अर्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम् ॥ ५८ ॥
बुद्धैर्यत्रार्थसामर्थ्यादन्वयव्यतिरेकिणी ।
तस्य स्वतन्त्रं ग्रहणमतोऽन्यद् वस्त्वतीन्द्रियम् ॥ ५९ ॥
तस्यादृष्टात्मरूपस्य गतेरन्योऽर्थ आश्रयः ।
तदाश्रयेण सम्बन्धी यदि स्याद् गमकस्तदा ॥ ६० ॥
गमकानुगसामान्यरूपेणैव तदा गतिः ।
तद्ग्रहणार्थं धावतो मिथ्याज्ञानस्य भ्रान्तत्वस्याविशेषेऽपि विशेषोऽर्थक्रियां
प्रति । मणिप्रभायामप्यध्यवसायी मणिसाध्यामर्थक्रियां प्राप्नोति ॥ ५७ ॥
दीपप्रभायां तु मणिव्यवसायी तन्न प्राप्नोतीति यथा तथा त्रिरूपलिङ्ग-
जमनुमानम् । तदाभञ्च तन्न¹ तथा, तयोः स्वाकारे बाह्याध्यवसायप्रवृत्तत्वात्
अयथार्थत्वेऽपि प्रमाणत्वं व्यवस्थितम् । विशेषेणावस्थितमर्थक्रियानुरोधे-
नानुमानमेव प्रमाणम्; परम्परयाऽर्थोत्पत्तेः तत्प्रापकत्वात् । नेतरद्; विपर्ययात् ।
तस्मात् प्रमेयद्वित्वम्; गतिभेदात् ॥ ५८ ॥
तयोर्लक्षणं ग्रहणं चाख्यातुमाह—अर्थसामर्थ्याज्जायमाना बुद्धैर्यत्रान्व-
यव्यतिरेकिणी तत्स्वलक्षणम्, तस्य ग्रहणमपराश्रयं स्वरूपग्रहणम्; स्वजन्ययाऽ-
र्थस्वरूपया बुद्ध्या साक्षात्तस्य ग्रहणात् । अतः स्वलक्षणादन्यद्वस्तु यदन्वय-
व्यतिरेकौ नानुकरोति बुद्धिः साक्षादप्रतिभासमानं केवलमध्यवसायविषयः, तत्सामा-
न्यलक्षणमतीन्द्रियम्; बुद्धिष्वप्रतिभासनात् ॥ ५९ ॥
कथं तत् प्रत्येतव्यम् ? इत्याह—तस्य सामान्यस्य स्वलक्षणविशेषेण स्व-
लक्षणविवेकेनादृष्टात्मरूपस्य गतेः प्रतीतेः तस्मादन्योऽर्थो लिङ्गभूत आश्रयः
सिद्धिनिमित्तं यदि, ततः प्रत्येतव्येनानन्यव्यवच्छेदादिना तदाश्रयेण च
धर्मिणा सम्बन्धी सम्बन्धवान् स्यात्, तदा गमकः; नान्यथा । अनेन साध्य-
प्रतिबन्धोऽन्वयव्यतिरेकरूपः, पक्षधर्मता च लिङ्गस्योक्ता ॥ ६० ॥
१. तन्न न—रा० ।