प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 152, कुल 532 में से
संदर्भ में पढ़ें१२६ प्रमाणवार्त्तिके
यो हि भावो यथाभूतो स तादृग्लिङ्गचेतसः ।
हेतुस्तज्जा तथाभूते तस्माद् वस्तुनि लिङ्गिधीः ॥ ८१ ॥
लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि ।
प्रतिबन्धात् तदाभासशून्ययोरप्यवञ्चनम् ॥ ८२ ॥
तद्रूपाध्यवसायाच्च तयोस्तद्रूपशून्ययोः ।
तद्रूपावञ्चकत्वेऽपि कृता भ्रान्तिव्यवस्थितिः ॥ ८३ ॥
कथं पुनर्वस्त्वध्यवसायेऽपि तत्संवादकता ? इत्याह—यो हि साध्यधर्मो
यथाभूतः कारणव्यापकस्वभावः स तादृशः कारणकार्यतया व्यापकव्याप्यतया
गृहीतव्याप्तिकस्य लिङ्गस्य चेतसः परम्पराहेतुः । तज्जा तस्माल्लिङ्गचेतसो
जाता तथाभूते वस्तुनि कारणव्यापकरूपे साध्यधर्मे लिङ्गिधीः । तस्मात्
परम्परया साध्यप्रतिबन्धात् लिङ्गिधीः सत्येव वस्तुनि भवन्ती तत्संवादात्
प्रमाणमेव ॥ ८१ ॥
ननु लिङ्गमपि लिङ्गिवत् सामान्यमेव; तथा धूमः कृतकं वेत्येव न लिङ्गम्,
किं तर्हि ? वह्निकार्यतयाऽनित्यत्वव्याप्यतया च गृहीतम्; न च विशेषे व्याप्तिग्रहः,
सामान्यञ्च नाध्यक्षगम्यम्, विकल्पमात्रेण तत्प्रतीतावनाश्वासः ? नैष दोषः;
प्रत्यक्षेण कारणकार्ययोर्व्यावृत्तिद्वयविशिष्टयोर्गृहीतयोर्विजातीयव्यावृत्त्याश्रयेणो-
त्पन्नविकल्पेन क्वचिदनुमानेन व्याप्तिं गृहीतवतः पश्चाद् धूमकृतकत्वादि-
दर्शनात् ताद्रूप्ये कार्यव्याप्यबुद्धिर्लिङ्गबुद्धिः, सा च तत्प्रतिबन्धादनुमानमेवेति
नास्त्यनाश्वासः । एतदेवाह—लिङ्गलिङ्गिधियोरेवमुक्तक्रमात् पारम्पर्येण
वस्तुनि प्रतिबन्धात् तयोर्लिङ्गलिङ्गिनोराभासः साक्षात् स्वरूपप्रतिभासः ।
तच्छून्ययोरपि लिङ्गलिङ्गिवस्तुनि अवञ्चनं संवादनम् ॥ ८२ ॥
ननु लिङ्गबुद्धेरपि लिङ्गिबुद्धित्वात् पृथग् उपादानमनर्थकम् ? नानर्थकम् ;
प्रत्यक्षमुद्भूतविकल्पो वा तद्बुद्धिरिति विप्रतिपत्तिनिरासार्थत्वात् । यदि प्रमाणे
लिङ्गलिङ्गिधियौ, तदा प्रत्यक्षवदभ्रान्ते स्याताम् ? इत्याह—तयोर्द्वयोः तद्रूपस्य
लिङ्गलिङ्गिरूपस्याध्यवसायात् प्रवर्त्तने सति वस्तुनि परम्परया तत्प्रतिबद्धतया च
तद्रूपस्यावञ्चकत्वे संवादकत्वेऽपि भ्रान्तिव्यवस्थितिः कृता । कस्माद् ?