सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 150, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 150

१२४ प्रमाणवार्त्तिके

स्वलक्षणे च प्रत्यक्षमविकल्पतया विना ।
विकल्पेन न सामान्यग्रहस्तस्मिंस्ततोऽनुमा ॥ ७५ ॥
प्रमेयनियमे वर्णानित्यता न प्रतीयते ।
प्रमाणमन्यत् तद्बुद्धिर्विना लिंगेन सम्भवात् ॥ ७६ ॥
विशेषदृष्टे लिङ्गस्य सम्बन्धस्याप्रसिद्धितः ।
तत् प्रमाणान्तरं मेयबहुत्वाद् बहुतापि वा ॥ ७७ ॥
प्रमाणानामनेकस्य वृत्तेरेकत्र वा यथा ।

मिष्यते, यस्येन्द्रियमिति व्यपदेशः। तस्य पर्यायेणापि नाध्यक्षं ग्राहकमस्तीत्य-
भावः स्यात् । ततश्चाकारणं प्रत्यक्षजन्म प्राप्तम् । अहेतोश्च “नित्यं सत्त्वमसत्त्वं
वा स्यात्” ( प्र० वा० १. १८२ ) इत्युक्तम् ॥ ७४ ॥
स्यादेतत् । प्रत्यक्षादेव सामान्यप्रतीतिर्भविष्यति, किमनुमानेन ? इत्याह—
स्वलक्षणे च प्रत्यक्षमविकल्पतया प्रवर्तते, सामान्यस्य तु ग्रहो विकल्पेन
विना न भवति; ततः कारणात् तस्मिन् सामान्येऽनुमैव विकल्पिका, नाध्य-
क्षमविकल्पकम् ॥ ७५ ॥
ननु 'प्रत्यक्षं स्वलक्षणविषयम्, अनुमानं सामान्यविषयम्' इति प्रमेयस्य नियमे
स्वीक्रियमाणे वर्णस्य नीलादेर्विषयस्यानित्यताऽनित्यसामान्यात्मता न प्रतीयत
इति प्राप्तम्। न हि सामान्यविशेषात्मकं प्रमेयं विशेषमात्रविषयेणाध्यक्षेण सामान्य-
मात्रविषयेणानुमानेन वा प्रत्येतुं शक्यम्, प्रतीयते च, अतस्तद्बुद्धिप्रमाण-
मन्यत् स्यात्, न प्रत्यक्षम्; सामान्यस्य ग्रहणात्। नाप्यनुमानम्; विना लिंगेन
सम्भवात् विशेषस्यापि ग्रहणाच्च ॥ ७६ ॥
तथा—विशेषदृष्टे प्रत्यक्षेणाग्निं दृष्ट्वा क्रमात्तमेव धूमाल्लिङ्गात् 'स एवायं
वह्निः' इति निश्चिनोत्यनुमानेन । लिङ्गस्य सम्बन्धसिद्धितः तत् प्रमाणान्तरं
स्यात्। न हि तत् प्रत्यक्षम्१; लिङ्गबलादुत्पत्तेः१। नाप्यनुमानम्; दहनधूमविशेषयोः
सम्बन्धाग्रहणात् । तस्मात् मेयानां प्रत्यक्षं लक्षणं सामान्यम् । सामान्यविशेषाणां
बहुत्वाद् बहुतापि वा प्रमाणानां स्यात् । अनेकस्य वा प्रमाणस्यैकत्र
१-१. प्रत्यक्षं लिङ्गं बलादु०—रा० ।