प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 154, कुल 532 में से
संदर्भ में पढ़ें१२८ प्रमाणवार्त्तिके
विरोधाच्चेद्, असावपि ॥ ८७ ॥
सिद्धः केन,
असहस्थानादिति चेत्, तत् कुतो मतम् ! ।
दृश्यस्य दर्शनाभावादिति चेत्, साऽप्रमाणता ॥ ८८ ॥
तस्मात् स्वशब्देनोक्तापि साऽभावस्य प्रसाधिका ।
यस्याप्रमाणं साऽवाच्यो निषेधस्तेन सर्वथा ॥ ८९ ॥
एतेन तद्विरुद्धार्थकार्योक्तिरुपवर्णिता ।
प्रयोगः केवलं भिन्नः सर्वत्रार्थो न भिद्यते ॥ ९० ॥
परस्य सत्त्वाभावः; अतिप्रसङ्गात् । अनिषिद्धोपलब्धेरभावासिद्धेः ॥
अथ यन्निषिध्यते यच्चोपदर्श्यते तयोर्विरोधात् सहानवस्थानलक्षणादे-
कभावेऽन्याभाव इति चेत् ? ॥ ८७ ॥
नन्वसावपि विरोधः केन प्रकारेण सिद्धः ? द्वयोः सहानवस्थानाद्
विरोधः सिद्ध इति चेत् ? तत्सहानवस्थानं कुतो हेतोर्मतं येन विरोधव्यवस्था ।
अविकलकारणस्य प्रवर्त्तमानस्य दृश्यस्यान्यभावेऽदर्शनात् सहानवस्थानगतिरिति
चेत् ? ननु यदेवादर्शनं साऽप्रमाणता प्रमाणरहितताऽनुपलब्धिरित्यर्थः ॥ ८८ ॥
यस्मादवश्यं परम्परयाऽनुपलब्धेरेव प्रतिषेधः, तस्मात् स्वशब्देनानुपलम्भ-
स्वरूपवाचकशब्देनोक्ता स्वभावानुपलम्भादावपि शब्दादनुक्तापि विरुद्धोप-
लब्ध्यादौ सानुपलब्धिरभावसाधिका; तस्या एव प्रतिपाद्यत्वात् । यस्य तु
चार्वाकस्य साऽनुपलब्धिरप्रमाणम्, प्रतिषेधे साध्ये तेन सर्वथा निषेधोऽ-
वाच्यः; प्रत्यक्षस्य भावमात्रविषयत्वात्, प्रमाणान्तरस्य चाभावात् ॥ ८९ ॥
एतेन स्वभाव-तत्कारणविरुद्धोपलब्ध्योरनुपलब्धित्वप्रतिपादनेन तयोः
स्वभाव-तत्कारणयोर्विरुद्धार्थस्य कार्योक्तिरुपवर्णिता बोद्धव्या, यथा—नात्र
शीतस्पर्शो रोमहर्षवान् वा पुरुषो धूमादिति; अत्रापि निषेध्यानुपलम्भस्य परम्परया
प्रतिपादनात् । उपलक्षणं चैतत् । व्यापकविरुद्धतत्कार्योपलब्धी अपि बोद्धव्ये,
यथा—नात्र तुषारस्पर्शो वह्नेर्धूमादिति । एतासु स्वभावानुपलब्धिविरुद्धोपलब्ध्यादिषु
प्रयोगः शब्दाभिधाव्यापारः परमनुपलम्भोपलम्भप्रतिपादकत्वेन भिद्यते । सर्व-
त्रार्थो निषेध्यानुपलम्भलक्षणो न भिद्यते; तस्यैव सर्वत्र प्रतिपाद्यत्वात् ॥ ९० ॥