प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 159, कुल 532 में से
संदर्भ में पढ़ेंप्रत्यक्षपरिच्छेदः १३३
तथा ह्यलिङ्गमाबालमसंश्लिष्टोत्तरोदयम् ।
पश्यन् परिच्छिनत्त्येव दीपादि नाशिनं जनः ॥ १०५ ॥
भावस्वभावभूतायामपि शक्तौ फलेऽदृशः ।
अनानन्तर्यतो मोहो विनिश्चेतुरपाटवात् ॥ १०६ ॥
तस्यैव विनिवृत्त्यर्थमनुमानोपवर्णनम् ।
व्यवस्यन्तीक्षणादेव सर्वाकारान् महाधियः ॥ १०७ ॥
व्यावृत्ते सर्वतस्तस्मिन् व्यावृत्तिविनिबन्धना ।
बुद्धयोऽर्थे प्रवर्त्तन्तेऽभिन्ने भिन्नाश्रया इव ॥ १०८ ॥
ननु यदि क्वचिन्नाशो दृश्येत, तदास्याहेतुकस्य स्वभावत्वात् क्षणक्षयिषु
भावेषु एकताबुद्धेर्भ्रान्तित्वं भवेद् ? इत्याह—तथा हि दीपादि, आदिशब्दात्
तुरङ्गादि, सन्तानविच्छेदकालेऽसंश्लिष्टोत्तरोदयमघटित उत्तरस्य उदयो जन्म
यस्मिन् तमेकस्य स्वरसनिरोधित्वेऽपरस्य कारणाभावादनुत्पत्तौ¹ नाशिनमध्यक्षतः
पश्यन्नलिङ्गं गमकलिङ्गरहितमाबालं बालपर्यन्तं जनः परिच्छिनत्त्येव । ततः
प्रागपि सतः स्वरसनिरोधात् सदृशापरापरक्षणप्रचये ‘स एवायम्’ इति बुद्धि-
र्भ्रान्तिरेव ॥ १०५ ॥
यथा—भावस्य बीजादेः स्वभावभूतायामपि अङ्कुरादिजनिकायां शक्तौ
फलेऽङ्कुरादौ अनानन्तर्यतोऽदृशोऽदर्शनात् विनिश्चेतुः पुंसोऽपाटवात्
मोहोऽशक्तभ्रमः । तथा क्षणिकेषु भावेषु सदृशापरापरोत्पत्तेर्भावशून्यक्षणादर्श-
नाच्च स्थिरभ्रमः ॥ १०६ ॥
तस्यैकत्वभ्रमस्यैव निवृत्त्यर्थं संवादिलिङ्गजस्य क्षणिकताविषयस्यानु-
मानस्योपवर्णनम्; “निश्चयारोपणमनसोर्बाध्यबाधकभावतः” (प्र० वा० ३. ४८)
इति न्यायात् । ये तु महाधियो विपरीतव्यवसायानाक्रान्तप्रत्यक्षा योगिनः, ते
पदार्थस्य ईक्षणादेव सर्वानाकारान् व्यवस्यन्ति निश्चिन्वन्ति ॥ १०७ ॥
एवञ्च—तस्मिन्नर्थे वस्तुतोऽभिन्ने निरंशे सर्वतः सजातीयाद् विजा-
तीयाच्च व्यावृत्ते यावत्यो व्यावृत्तयः सन्ति तावद्व्यावृत्तिविनिबन्धना
निश्चयात्मिका बुद्धयो भिन्नाश्रया इव तत्तद्व्यावृत्तिमात्रविषयत्वेन भिन्नधर्मि-
१. कारणाभावात् । अनु०—रा० ।