प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 147, कुल 532 में से
संदर्भ में पढ़ेंप्रत्यक्षपरिच्छेदः १२१
तन्निश्चयप्रमाणं वा द्वितीयम्;
नाक्षजा मतिः ॥ ६५ ॥
अभावेऽर्थबलाज्जातेरर्थशक्त्यनपेक्षणे ।
व्यवधानादिभावेऽपि जायेतेन्द्रियजा मतिः ॥ ६६ ॥
अभावे विनिवृत्तिश्चेत् प्रत्यक्षस्यैव निश्चयः ।
विरुद्धं सैव वा लिङ्गमन्वयव्यतिरेकिणी ॥ ६७ ॥
सिद्धं च परचैतन्यप्रतिपत्तेः प्रमाद्वयम् ।
तच्च सदेवेति कथमप्रमेयम्, तत्तत्साधनमपि प्रमाणमेव । तथाऽसतोऽप्रमेयत्वे
साध्येऽसत्त्वादिति हेतुरनेकान्तोऽपि । तथा हि परलोकादेरसत्तया चार्वाके-
णापीष्यत एव केनापि प्रमाणेन निश्चयः ।
अथ वा—प्रमेयत्वाभावस्याप्यसत्त्वहेतुनैव निश्चय इति व्यक्तमनैकान्ति-
कत्वम् । अतश्च यत एव प्रमाणात् तस्याभावस्य निश्चयः, तदेव द्वितीयं
प्रमाणमनुमानम्, नाध्यक्षम् ।
कस्मादेवम् ? इत्याह—नाक्षजा मतिरभावे विषये प्रवर्तते; अर्थस्य बला-
ज्जातेः, यद्बलेन प्रत्यक्षं प्रवर्तते तदेव प्रतिपद्यते । न चाभावस्य सामर्थ्यं नाम ।
यदि पुनरर्थसामर्थ्यानपेक्षणमस्य, तदा ग्राह्यस्यार्थस्य शक्त्यनपेक्षणे तद्-
व्यवधानादिभावेऽपीन्द्रियजा मतिर्जायेत, न चैतदस्ति, ततोऽर्थसामर्थ्या-
पेक्षि नाभावविषयं भवितुमर्हति ॥ ६५-६६ ॥
स्यादेतत् । प्रत्यक्षस्यैव प्रवृत्तिर्भावे सत्त्वनिश्चयः, विनिवृत्तिश्चाभावे
निश्चयः, न तु प्रमाणान्तरवृत्तिरिति चेत् ? विरुद्धमिदम्—यः प्रत्यक्षाभावान्निश्चयः स
प्रत्यक्षादिति । न हि प्रत्यक्षतन्निवृत्त्योरेकात्म्यम्, तथा हि—अभावो भाव एव स्यात्,
भावोऽपि चाभावः। न च प्रत्यक्षनिवृत्तावप्यवश्यमभावः; व्यवधानादिष्वर्थसत्त्वेऽपि
तस्याभावात् । अथार्थान्वयव्यतिरेकानुविधायिनी प्रत्यक्षनिवृत्तिरेकज्ञानसंसर्गिपदार्था-
न्तरोपलब्धिरूपाऽभावनिश्चयहेतुः, तदा सैव प्रत्यक्षनिवृत्तिरनुपलब्ध्याख्यान्वयव्य-
तिरेकिणी लिङ्गमिति तज्जा प्रतीतिरनुमानमेवेति कथं नाप्रत्यक्षं प्रमाणम् ॥ ६७॥
किञ्च—परचैतन्यप्रतिपत्तेः प्रमाणद्वयं सिद्धम् । न हि प्रत्यक्षादर्वा-
ग्दर्शनः परचैतन्यमवैति; किन्तु स्वसन्ताने बुद्धिपूर्वकत्वेनोपलब्धचेष्टादिदर्शनात् ।