सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 148, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 148

१२२ प्रमाणवार्त्तिके
व्यवहारादौ प्रवृत्तेश्च सिद्धस्तद्भावनिश्चयः ॥ ६८ ॥
प्रमाणमविसंवादात् तत् क्वचिद् व्यभिचारतः ।
नाश्वास इति चेल्लिङ्गं दुर्द्दृष्टिरतदीदृशम् ॥ ६९ ॥
यतः कदाचित् सिद्धाऽस्य प्रतीतिर्वस्तुनः क्वचित् ।
तदवश्यं ततो जातं तत्स्वभावोऽपि वा भवेत् ॥ ७० ॥
स्वनििमित्तात् स्वभावाद् वा विना नार्थस्य सम्भवः ।
यच्च रूपं तयोर्द्दृष्टं तदेवान्यत्र लक्षणम् ॥ ७१ ॥
तदनुमानं परचित्तनिश्चयः किमस्तीत्याह—परस्परप्रेषणाध्येषणव्यवहारादौ प्रवृ-
त्तेश्च सिद्धश्च तस्याः परचैतन्यप्रतिपत्तेर्भावनिश्चयः ॥ ६८ ॥
नन्वनुमानाभिमता प्रतीतिर्नास्त्येवेति न ब्रूमः, किन्तु प्रामाण्ये तस्या
विप्रतिपद्यामहे ? इत्याह—प्रमाणं तदनुमानम्, अविसंवादात् । प्रत्यक्षमपि हि
संवादकत्वात् प्रमाणम्, तच्चानुमानस्यापि समानम् । क्वचिच्छ्यामतादिसाधनार्थ-
मुपात्ते तत्पुत्रादौ लिङ्गे व्यभिचारतः संवादेऽनाश्वास इति चेत् ? लिङ्गस्य
दुर्द्दृष्टिर्भ्रान्तिः—अलिङ्ग एव लिङ्गबुद्धिः, तस्या एतल्लिङ्गमीदृशं व्यभिचारि भवतः
प्रतिभाति । न खलु त्रिविधं लिङ्गं साध्यव्यभिचारि । यच्च व्यभिचारि तत्
त्रिविधमेव न भवति ॥ ६९ ॥
एतदेवाह—यतो वस्तुनो धूमशिंशपादेः लिङ्गादस्य साध्यस्य वह्निवृक्षादेः
क्वचिद् धर्मिणि कदाचिदनुमानकाले प्रतीतिः सिद्धा, तद् धूमादिकं ततो
वह्न्यादेरवश्यं जातम् । तच्छिंशपादिकं तस्य वृक्षस्य स्वभावोऽपि वाऽवश्यं
भवेत् ॥ ७० ॥
न च कार्यस्वभावयोः कारणव्यापकव्यभिचारः; यस्मात् स्वस्य निमित्तात्
कारणाद् विना, स्वभावाद् व्यापकाद् वा विनाऽर्थस्य कार्यस्य व्याप्यस्य च
न सम्भवः; तदुत्पाद्यत्वात्, तद्रूपत्वाच्च । ततस्तदाश्रयेणोत्पन्नानुमानप्रतीतिरव्य-
भिचारिण्येव । यच्च तयोर्धूमशिंशपयो रूपं साध्यकार्यस्वभावत्वस्याव्यभिचार-
निमित्तं दृष्टम्, तदेवान्यत्रापि हेतौ लक्षणं बोद्धव्यम् । न च तत्पुत्रत्वं
इयामलत्वस्य कार्यं स्वभावो वा, ततो यद् व्यभिचारि तदलिङ्गमेव ॥ ७१ ॥