प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 161, कुल 532 में से
संदर्भ में पढ़ेंप्रत्यक्षपरिच्छेदः १३५
षष्ठ्याद्ययोगादिति चेद् अन्तयोः स कथं भवेत् ! ॥ ११२ ॥
सत्तासम्बन्धयोर्ध्रौव्यादन्ताभ्यां न विशेषणम् ।
अविशेषणमेव स्यादन्तौ चेत् कार्यकारणे ॥ ११३ ॥
असम्बन्धान्न भावस्य प्रागभावं स वाञ्छति ।
तदुपाधिसमाख्याने तेऽप्यस्य च न सिध्यतः ॥ ११४ ॥
सत्तास्वकारणाश्लेषकरणात् कारणं किल ।
सा सत्ता स च सम्बन्धो नित्यौ कार्यमथेह किम् ॥ ११५ ॥
यस्याभावः क्रियेतासौ न भावः प्रागभाववान् ।
सम्बन्धानभ्युपगमान्नित्यं विश्वमिदं ततः ॥ ११६ ॥
षष्ठ्यादिविभक्त्ययोगात् प्रध्वंसाभावः, नानित्यता । न हि भावाभावयो संयोगादिः
कश्चित् सम्बन्धोऽस्ति य उच्येत षष्ठ्यादिभिरिति चेत् ? एवं तर्ह्यन्तयोः
स षष्ठ्यादियोगः कथं भवेत्—अभावयोर्व्यवधिभूता सत्तेत्यादि ॥ ११२ ॥
किञ्च—सत्ता तत्सम्बन्धे परमते ध्रौव्यादन्ताभ्यां प्राक्प्रध्वंसाभावाभ्यां
न विशेषणं स्याद्—अन्तद्वयविशिष्टा सत्ता, तत्सम्बन्धो वेति । न हि नित्यस्य
सर्वकालव्यापिनोऽन्तसम्भवः ।
कार्यकारणे अन्तावभिमते इति चेत् ? तदा ताभ्यां सत्तासम्बन्धयोर-
विशेषणमेव स्यात् ॥ ११३ ॥
यस्मात् स नैयायिकादिर्भावस्यासम्बन्धात् प्रागभावं सम्बन्धिर्न
न वाञ्छति । तथा च तदुपाधिसमाख्याने प्रागभावविशेषणं कार्यकारणमिति
समाख्यानं व्यपदेशो ययोस्ते तथा ते कार्यकारणेऽप्यस्य न सिध्यतः । यस्य
हि प्रागभावः स भवन् कार्यं स्यात् । न च तत्सम्बन्धो भावस्येति कार्याभावः ।
कार्याभावाच्च कारणाभावः; तदुत्पादकस्य कारणत्वात् ॥ ११४ ॥
किञ्च—जन्म सत्ताश्लेषः सत्तासमवायः स्वकारणेन समवायिना सह
नित्यः, तयोः करणात् किल त्वयेष्टं कारणम् । सा च सत्ता स च
सम्बन्धो नित्यौ द्वावपि कार्यम्, अथेह द्वयोर्मध्ये किं युक्तम् ! ॥ ११५ ॥
अपि च—यस्याभावस्योत्पत्तेः प्रागभावः कारणैरसौ क्रियते । न