मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
सूत्रावयवयोजनया सूचितः । नन्वर्थविशेषविषय शब्दानुशासनानन्तरीयकत्वेनार्थानु-
५६० मीमांसादर्शनम् [ सू०
शब्दः । उदाहरणपर्यालोचनयापि मन्त्रविनाशविषयतैवास्य श्लोकस्यावसीयत इत्याह—
तथा चेति । स यज्ञवशसं कृत्वा प्रासहामसोममपिबत् तस्य यदीयशिष्यत तत्त्वष्टाऽऽहवनीय-
मुपप्रावात्तंयत्स्वाहेन्द्रशत्रुर्वर्द्धस्वेति यदवर्तंयत्तद् वृत्रस्य वृत्रत्वं यदब्रवीत्स्वाहेन्द्रशत्रुर्वर्द्धस्वेति
तस्मादस्येन्द्रःशत्रुरभवदि (तै. सं २.२.२१)त्या याद्युदात्तेन्द्रशत्रुपदप्रयोगेणेन्द्रो यस्य शत्रुरिति
बहुव्रीह्यर्थसम्पत्तेस्त्वष्टुः पुत्रस्य वृत्रस्येन्द्रः शातयिता हिंसितो जात इत्याद्युदात्तत्वलक्षण-
स्वरदोषेण वृत्रशत्रोरिन्द्रस्योत्पत्तिवादिन्द्रवधसमर्थपुत्रोत्पादनार्थं यागं कुर्वाणस्य त्वष्टुर्यजमा-
नस्याभिप्रेतार्थासिद्धिलक्षणा हिंसा जातेति स्वरापराधलक्षणमन्त्रविनाशनिमित्तयजमानगा-
मिदोषोदाहरणं कृतमित्यर्थः । इन्द्रशत्रुरिति मन्त्रपदं स्वरापराधात् यथा यजमानं
हिनस्तीत्युदाहरणार्थः । तस्मादिन्द्रस्य शत्रुर्भुत्वा वर्द्धस्वेति तत्पुरुषार्थविवक्षायां मन्त्रोदा-
हृतमिदं प्रयोक्तव्यमित्याशयः ।
यच्च नाम भाष्यकृता—
'यदधीतमविज्ञातं निगदेनैव शब्द्यते ।
अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ॥'
इति श्लोकमुपन्यस्य, तस्मादविज्ञातमनर्थकमधिगीष्महीत्यध्येयं व्याकरणमिति
वेदाध्ययनसाध्यं वेदार्थज्ञानं व्याकरणप्रयोजनत्वेनोक्तम् । तद्व्याकरणप्रयोजनत्वेनाभास-
मानमप्यन्यतः सिद्धेनं व्याकरणप्रयोजनमित्याह—यस्त्विति । अध्ययनविधेर्दृष्टार्थत्वाभि-
धानान्मीमांसाप्रयोजनत्वेनैतद्युक्तं भवतीत्याशयः । ननु मीमांसावद्व्याकरणमपि वेदार्थ-
ज्ञानसाधनं भविष्यतीत्याशङ्क्याह—तन्विति । शब्दानुशासनार्थत्वेनार्थपरत्वाभावः
सूत्रावयवयोजनया सूचितः । नन्वर्थविशेषविषय शब्दानुशासनानन्तरीयकत्वेनार्थानु-
शासनमपि सेत्स्यतीति, स्वयमेवाशङ्क्योत्तरं सूत्रावयवं परिहारे योजयति—शब्देति ।
नन्वर्थगतसन्देहविपर्ययनिरासमात्रस्य मीमांसासाध्यत्वाद्भेदात्स्वरूपज्ञानं व्याकरणाद्भूविष्य-
तीत्याशङ्कां निरस्यन्नुपसंहरति तस्मादिति ।
यच्च—
'यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान्यथावद्व्यवहारकाले ।
सोऽनन्तमाप्नोति फलं परत्र वाग्योगविद् दुष्यति चापशब्दैः ॥'
इति श्लोकेन शब्दव्यवहारकालेऽर्थविशेषे सम्यक्शब्दप्रयोगस्य पारलौकिकफलप्राप्ति-
हेतुत्वाभिधानात्तत्सिद्धिर्व्याकरणस्य प्रयोजनमिति भाष्यकृतोक्तम् । तदप्यन्यथा व्याख्यातुं
शक्यत्वात्प्रयोजनाभासमित्याह—यस्त्विति । गुरुसम्प्रदायागते स्वरादिविशेषे कुशलः
सन्वेदाध्ययनादिव्यवहारकाले वैदिकांश्शब्दान्प्रयुङ्क्त इति व्याख्येयमित्याशयः । ननु
मन्त्रब्राह्मणेष्वपशब्दाभावात्तद्विषयत्वे दुष्यति चापशब्दैरित्ययुक्तं स्यादित्याशङ्क्याह—
यथेति । कथं वैदिकशब्दविनाशविषयताऽस्याऽवसीयत इत्यपेक्षायामाह—स्वाध्यायेति ।
२४ ] प्रथमाध्याये तृतीयपादः ५६१
पौरुषेयत्वेनास्य प्रमाणान्तरावगतदोषानुवादत्वावसायादुदाहृतेन वचनेन यजनयाजनगत-
वेदशब्दविनाशहेतुकदोषावगतेरादिशब्दाच्चेतिकरणसूचितेन च—
'हस्तहीनं तु योऽधीते स्वरवर्णविवर्जितम् ।
ऋग्यजुःसामभिर्दग्धो वियोनिमधिगच्छति ॥
इति स्मृत्यनुमितेन वचनेनाध्ययनाध्यापनगतवेदशब्दविनाशहेतुकदोषावगतेस्तद्विषयत्व-
नियम इत्याशयः । यद्यप्येषांमृगादिशब्दानामुपक्रमानुरोधेन वेदपरत्वं तृतीये वक्ष्यते ।
तथापि ऋग्वेदादिविहितमन्त्रविषयाया अप्यार्तेर्विनाशाख्यायाः पदार्थान्तरातिवत्सामान्य-
शब्देनोपपादानादविरोधः ।
ननु प्रकृतिप्रत्ययरूपयोर्वाचयोर्योगं सम्बन्धं वेत्तीति व्युत्पत्त्या वाग्योगविच्छब्देन
वैयाकरणाभिधानात्तत्समभिव्याहारेणास्य वाक्यस्य व्याकरणानुगताननुगतशब्दप्रयोगविषय-
तावगम्यत इत्याशङ्क्य त्रेधा परिहरति—वागिति । वाचः प्रतियोगितयाऽऽक्षिप्तोऽर्थेन यो
वाचं वेत्तीति प्रथमे परिहारे निगमनिरुक्तादिकुशलो वाग्योगवित् । द्वितीये तु वाचो
वचनस्य योगं पदार्थविषयविशेषरूपां व्यक्तिं ब्राह्मणवाक्येषु मन्त्रेषु च वाचो भासनस्य
प्रकाशनस्य योग्यं योगमर्हं वेत्तीति मीमांसकोऽभिधीयते चोदितत्वेनावगतस्य स्वार्थत्वा-
त्प्रकाशनार्हत्वम् अनूदितत्वेनावगतस्य परार्थत्वात्प्रकाशनार्हत्वं वेत्तीति समासार्थः ।
निर्वापमन्त्रे त्वग्नेश्चोदितत्वेनानुष्ठानाय स्मर्त्तव्यत्वात्प्रकाशनार्हत्वम्, सवित्रादीनां वा
चोदितत्वेन निर्वापकस्तुत्यर्थत्वात्प्रकाशनार्हत्वं प्रसिद्धं विदेर्विचारणार्थत्वसूचनार्थं
प्रकाशनार्हत्वं प्रतियोगितयोक्तं वैयाकरणस्य वाग्योगवित्त्वासम्भवोपपादनायास्य
पदस्याऽन्येनार्थेन प्रकृतो योगः स्वाभाविकसम्बन्धोऽस्य वचनस्यैवम्भूतपदान्वयरूपा व्यक्तिरस्य
वा मन्त्रस्यायमर्थः प्रकाशनयोग्य इत्येवं विविधप्रयोगोत्पत्तिं प्रति व्याकरणस्याशास्त्रत्वा-
दिति त्रेधा सूत्रावयवं तन्त्रेण योजयति—वैयाकरणस्येति ।
यच्च--
'अविद्वांसः प्रत्यभिवादे नाम्नो येन प्लुतिं विदुः ।
कामं तेषु तु विप्रोष्य स्त्रीष्विवाहमहं वदेत् ॥'
इति श्लोकमुपन्यस्य स्त्रीवन्माभूमेत्यध्येयं व्याकरणमिति भाष्येण स्त्रीसाम्यपरिहारो
व्याकरणप्रयोजनमित्युक्तम् । तदपि प्रयोजनाभासमित्याह—यदपीति ।
तत्प्लुतस्येति तच्छब्दोऽव्ययम् । यत्रेत्यर्थे तस्मिन् विषये तद्व्याकरणं प्लुतप्रयोगोत्पत्ति
पूर्वशास्त्रे प्लुतस्वरूपस्य लोकसिद्धत्वात्नामान्ते च प्लुतप्रयोगस्य मन्वाद्युपदिष्टत्वादित्यर्थः ।
'ऊकालोऽज्झ्रस्वदीर्घप्लुतः इत्येतत्सूत्राधीनत्वं प्लुतस्वरूपज्ञानस्य ह्युपगम्य प्रकृतिप्रत्ययान्वा-
ख्यानद्वारा शब्दापशब्दविवेकार्थस्य नैकसूत्रमात्रसाध्यं प्रयोजनं युक्तमिति शब्देषु न व्यवस्था
स्यादित्युत्तरसूत्रावयवयोजनया दर्शयति—न चेति । शब्दविषया व्यवस्था या व्याकरणेन
क्रियते, सा न कर्त्तव्या स्यादित्येवं सूत्रावयवयोजनेन योजितः ।
३६
५६२ मीमांसादर्शनम् [ सू०
यच्च विभक्तिं कुर्वन्तीत्युपक्रम्य याज्ञिकाः पठन्ति प्रयाजाः सविभक्तिकाः कर्तव्या
इति । न चान्तरेण व्याकरणं प्रयाजाः सविभक्तकाः शक्याः कर्तुमिति भाष्येण विभक्तिज्ञानं
व्याकरणप्रयोजनमुक्तम् । तदपि प्रयोजनाभासमित्याह-एवमिति । तदित्यव्ययं तत्रेत्यर्थे,
तत्रापि व्याकरणमशास्त्रमित्यपिशब्दाध्याहारेण योज्यम् । कस्मादित्यपेक्षिते सौत्रं प्रयोगो-
त्पत्तिपदं समासाद्निष्कृष्य हेत्वर्थत्वेन त्रिविधोपपत्तिपूर्वकं याज्ञिकेत्यादिना योजितम् ।
समिधः समिधोऽग्न आज्यस्य व्यन्तु,तनूनपादग्निनमग्न आज्यस्य वेतु, इडोऽग्निनमग्न आज्यस्य
व्यन्तु, बर्हिरग्निरग्न आज्यस्य वेत्विति याज्ञिकदोषोद्देशेन सम्बुद्धिद्वितीयातृतीयाप्रथमानां
विभक्तीनां प्रयाजेषु सिद्धत्वात् छान्दोग्यब्राह्मणे च षडहविभक्तिर्नानारूपेत्युपक्रम्याग्न इति
प्रथमस्याग्नेः रूपम् अग्निमिति द्वितीयस्य, अग्निनेति तृतीयस्य अग्नेरिति, चतुर्थस्य
अग्नेरिति पञ्चमस्याग्नेः इति षष्ठ्येति परस्परविभक्तसम्बुद्धिद्वितीयातृतीयाप्रथमाषष्ठीसम्बु-
द्धयाख्यविभक्तिप्रयोगदर्शनान्मन्त्रेषु चाग्निवृत्राणीत्यादिषु विभक्तविभक्तिप्रयोगदर्शनाभावेऽपि
वा सिद्धशब्दानुक्रमार्थवैभक्तिकग्रन्थमात्रालोचनेनापि विभक्तिप्रयोगसिद्धेरित्यर्थः ।
यच्च 'यो वा इमां पदशः स्वरशोऽक्षरशो वाचं विदधाति, स आत्विजीनो भवतीति
श्रुतिमुपन्यस्यार्त्विजीनाः स्यामेत्यध्येयं व्याकरणमिति भाष्येणार्त्विज्यार्हत्वं व्याकरण-
प्रयोजनमुक्तम् । तद् गुरुसम्प्रदायसिद्धत्वाद व्याकरणप्रयोजनत्वं योग्यमेव न भवतीत्याह-
यो इमामिति ।
चत्वारि शृङ्गेत्यृचं महाभाष्यकृता पूर्वोपन्यस्तामपि मन्त्राधिकरणेऽन्यविषयत्वेन
व्याख्यातत्वादुपेक्ष्य, अपर आहेत्युपक्रम्य ।
चत्वारि वाक्परिमिता पदानि ।
तानि विदुर्ब्राह्मणा ये मनीषिणः ॥
गुहा त्रीणि निहिता नेङ्गयन्ति ।
तुरीयं वाचो मनुष्या वदन्ति ॥
इत्यृचमुपक्रम्य चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताश्चेति भाष्येण ये ब्राह्मणा-
स्तानि विदुस्ते मनीषिण इत्यर्थाश्रयणेन पदचतुष्टयज्ञानसाध्यं मनीषित्त्वं व्याकरणप्रयोजन-
मुक्तम् । तत् अस्या ऋचोऽन्यपरत्वादप्रमाणकमित्याह-तथेति । निरुक्ते यान्योङ्कारो भूर्भुवः
स्वरिति महाव्याहृतित्रयं वेति चतुष्टयम् । आदिशब्दाद्वेदचतुष्टयम्, मृगपक्षिसरीसृपमनुष्याः
वाक्चतुष्टयमनपायिनी पश्यन्ती मध्यमा वैखरीति सूक्ष्मतमसूक्ष्मतरसूक्ष्मस्थूलरूपावस्थाभेद-
भिन्नवाक्चतुष्टयमिति चतुष्टयबाहुल्यरूपप्रयोजनानुसारेण चत्वारि पदजातानि प्रपञ्चितानि ।
तन्न व्याकरणस्य व्यापार इत्यर्थः । एतच्च पदनिर्वचनसामर्थ्येऽपि, तद्विषये संचारयं-
संख्यामात्रसामान्यादुक्तम्, न प्रामाणिकमित्यर्थः । अप्यक्षरैति निरुक्तकारवचनोपन्यासेन
सूचितम् । ननु वैयाकरणाभिमतं नामादिचतुष्टयमपि निरुक्तेरोक्तं तद्वयाकरणापेक्षं भविष्य-
तीत्याशङ्कयाह-यस्त्विति । परमार्थतस्तूत्तराद्धंर्चविरोधान्नैतद्विषयताप्यस्या ऋचः
२४ ] प्रथमाध्याये तृतीयपादः ५६३
सम्भवतीत्याह—एतद्विषयत्वे चेति । कस्तर्ह्यस्या ऋचः पारमार्थिकोऽर्थः पूर्वापरार्द्धर्चा
विरोधीत्यपेक्षायामाह -- तस्मादिति । अस्मिन् व्याख्याने वागिति पदं षष्ठ्यन्तत्वेन
विपरिणमयितव्यं प्रबो देवायानय इति शंसतीति प्रतीकविधिप्रभवमवयवान्तरानुमानम् ।
विश्वजिता यजेतेत्यत्राव्यक्तचोदनात्वरूपप्राकृतवाक्यसारूप्यसम्भवं ज्योतिष्टोमवदिति पदोप-
मानम्, विधिप्रत्ययावगतफलव्यतिरेकेणानुपपद्यमानयागकर्त्तव्यत्वप्रभवा -स्वर्गकामपद-
कल्पिकार्थापत्तिः । दध्नेन्द्रियकामस्येत्यत्र सारूप्याभावेऽपि सन्निधानमात्रेणाग्निहोत्रवदिति
पदोपमानसूचनायादिशब्दः । ननु प्रमाणषट्कस्य प्रथमपादे व्युत्पादितत्वाच्चतुष्ट्वं प्रमाणानां
न युक्तमित्याशङ्कयाह - षडिति । अपोद्धारे कारणमाह—अभावस्तावदिति । न चैरं
कृत्वोद्गेयमित्यागमार्थज्ञायज्ञीयस्यैरापदवत्त्वावगतेरागमस्याप्यागमप्रामाण्यमस्तीत्याशङ्कयाह -
प्रत्यक्ष्येति । स्वरूपादानेनात्र प्रत्यक्षत्वसम्भवान्नागमगम्यतेत्याशयः ।
ननु नामादिपदचतुष्टयविषयत्वे भाष्यकृता पूर्वं—
चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य ।
त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आविवेश ॥
इतीयमृगुपन्यस्ता सा किमित्यपेक्षितेत्याशङ्कयाह-चत्वारीति । ननु भाष्यकृता चत्वारि
शृङ्गेति चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताश्च, त्रयो अस्य पादा भूतमविष्यद्
वर्त्तमानाः, द्वे शीर्षे शब्दात्मानौ, नित्यः कार्यश्चेति, सप्त हस्तासो अस्य सप्त विभक्तयः ।
त्रिधा बद्धो वृषभो रोरवीति त्रिषु स्थानेषु बद्धः उरसि कण्ठे शिरसीति, वृषभो वर्षणात्
रोरवीति शब्दं करोति महोदेवो मर्त्याँ आविवेश महान्देवः शब्दः मर्त्यान्मरणधर्माणो
मनुष्यानाविवेशेति व्याख्याय, महता देवेन नः साम्यं स्यादित्यध्येयं व्याकरणमिति
भाष्येण शब्दब्रह्मसाम्यं व्याकरणप्रयोजनमुक्तम् । का तत्रानुपपत्तिरित्याशङ्कयाह—
यत्त्वि त । विनियोगनिरपेक्षं मन्त्रस्यार्थतात्पर्य्यविधारणमशक्यमित्याशयः । संख्यासामान्य-
मात्रेण च विनियोगनिरपेक्षमन्त्रयोजनायां वैशेषिकादिष्वपि तन्त्रेषु योजयितुं शक्यत्वाद-
व्यवस्था स्यादित्याह—तादृशं चेति । पार्थिवाप्यतैजसवायवीयान्यवयविद्रव्याणि चत्वारि
शृङ्गाणि । त्रयो अस्य लोकस्य पादा महत् कार्यारम्भकाणि द्व्यणुकाति । द्वे शीर्षे प्रधाना-
प्रधानपुरुषौ सप्त हस्ता द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षड्भावरूपाः । सप्तमश्चा-
भावः त्रिधा बद्धः समवाय्यसमवायिनिमित्तकारणैर्बद्धः । वृषभो भोगहेतुः रोरवीति
शब्दवान्महा देवो द्योतनात् मर्त्यानाविवेश मर्त्यैर्योग्य इत्येवमादियोजनोपपत्तेरतिप्रसक्तिः
स्यादित्याशयः ।
यच्च भाष्यकृता —
उत त्वः पश्यन्न ददर्श वाचमुतः त्वः शृण्वन्न शृणोत्येनाम् ।
उतो त्वस्मै तन्वं विसस्रे जायेव पत्यउशती सुवासा ॥
इत्यृचमुपन्यस्याप्येकः पश्यन्नपि न पश्यति, शृण्वन्नपि न शृणोत्येनामिति पूर्वार्द्धर्चम-
विद्वांसमाहार्थमिति भाष्येण। विद्वांसमर्धं पूर्वार्द्धं वा वदतीत्यभिधानाद्वेदार्थविद्विषयत्वेन
५६४ मीमांसादर्शनम् [ सू०
व्याख्याय, उतो त्वस्मै तन्वं विसस्रे तनु विवृणुते । जायेव पत्य उशती सुवासाः तद्यथा जाया
पत्ये कामयमाना सुवासाः स्वमात्मानं विवृणुते, एवं वाग्वाग्विदे स्वमात्मानं विवृणुत
इत्युत्तरार्द्धं व्याख्याय, वाङ् नो विवृणुयादित्यध्येयं व्याकरणमिति भाष्येण वाक्प्रकाशनं
व्याकरणप्रयोजनमुक्तम् । तद् अन्यतः सिद्धेः प्रयोजनाभासमित्याह—उतत्व इति ।
यत्तु भाष्यकृता—
सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत ।
अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधिवाचि ॥
इत्यृचमुपन्यस्य सक्तुः सचतेर्दुर्द्भावो भवति, कसतेर्वा विपरीताद्विकसितो भवतीति
तितउ परिपवनं ततवद्वा तुन्नवद्वा धीरा ध्यानवन्तः मनसा प्रज्ञानेन वाचमकृषत अत्र
सखायः सन्तः सख्यानि जानते क्व एष दुर्गो मार्गः एकगम्यो वाग्विषयः । के पुनस्ते ?
वैयाकरणाः । कुतः एतद् भद्रैषां लक्ष्मीर्निहिताधिवाचि भद्रा ह्येषां लक्ष्मीर्निहिता भवति ।
क्व अधिवाचि लक्ष्मीर्लक्षणाल्लाञ्छनाद्वा परिवृढा भवतीति व्याख्यानेन लक्ष्मीनिधानं
व्याकरणप्रयोजनमुक्तम् । तद् गुरुसम्प्रदायसिद्धत्वात् व्याकरणप्रयोजनत्वयोग्यं न
भवतीत्याह—एवमिति ।
यच्च सारस्वतीमित्युपक्रम्य याज्ञिकाः पठन्त्याहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां
सारस्वतीमिष्टिं निर्वपेदिति श्रुतिमुपन्यस्य प्रायश्चित्तीया माभूमेत्यध्येयं व्याकरणमिति
भाष्येण प्रायश्चित्ताभाजनत्वं व्याकरणप्रयोजनमुक्तम् । तदपि वैदिकशब्दविनाशविषयत्वात्
व्याकरणप्रयोजनत्वयोग्यं न भवतीत्याह—आहिताग्निरिति ।
यच्च दशम्यां पुत्रस्येत्युपक्रम्य याज्ञिकाः पठन्ति 'दशम्युत्तरकालं पुत्रस्य जातस्य
पिता नाम विदध्यात् घोषवदाद्यन्तरस्थमवृद्धं त्रिपुरुषानूकमनरिप्रतिष्ठितं तद्धि सुप्र-
तिष्ठिततमं भवति द्वयक्षरं चतुरक्षरं वा कृतं कुर्यान्न तद्धितमिति' न चान्तरेण व्याकरणं
कृतस्तद्धिता वा शक्या विज्ञातुमिति भाष्येण पुत्रनामज्ञानं व्याकरणप्रयोजनमुक्तम् । तद्
अन्यतः सिद्धेः प्रयोजनाभासमित्याह—यदपीति । घोषवन्तो वर्गंतृतीयाद्या वर्णा आदौ
यस्य, तदन्तरं तस्य घोषवदादेरन्तरस्थस्य द्विचतुरादिवर्णस्य कृदन्तस्य नाम्नः परिग्रहः
तद्धितस्य वर्जनं वा तयोर्न्नामकरणे वचनम् । तत्र न व्याकरणं नामप्रयोगोत्पत्ति-
शास्त्रत्वेनापेक्षणीयमिति । तत्कृत्तद्धितसञ्ज्ञयोरिति तदित्यव्ययं लुप्तसप्तमीकमङ्गीकृत्य
योज्यं तदुपपादनाथं कृत्तद्धितसञ्ज्ञयोरित्याद्युक्तम् ।
यच्च भाष्यकृता—
सुदेवो असि वरुण यस्य ते सप्तसिन्धवः ।
अनुक्षरन्ति काकुदं सूर्म्यं सुषिरामिव ॥
इत्यृचमुपन्यस्य, सुदेवो असि वरुण सत्यदेवो यस्य ते सप्तसिन्धवः, सप्तविभक्तयः
अनुक्षरन्ति काकुदं तालुं काकुर्जिह्व्वा सास्मिन्नुद्यत इति काकुदं सूर्म्यं सुषिरामिव तद्यथा
सूर्य्यं सुपिराग्निरनुप्रविश्य तदन्तर्गतं मलमपहन्ति एवं सप्तसिन्धवः ताल्वनुक्षरन्ति
तेनासि सत्यदेव इति व्याख्याय, सत्यदेवाः स्यामेत्यध्येयं व्याकरणमिति भाष्येण सत्यदेव-
त्वप्राप्तिर्व्याकरणप्रयोजनमुक्तम् । तत्रास्या ऋचः सङ्ख्यासामान्यमात्रेण विभक्तिविषय-
त्वमभ्युपगम्याप्यन्यतः सिद्धत्वान्नातीव व्याकरणापेक्षेति तावदाह—सुदेव इति । परमार्थ-
तस्तु सिन्धुशब्दस्य नदीवाचित्वेन प्रसिद्धत्वान्नद्य एवात्र सप्त विवक्षिताः । अथापि
वरुणशब्देन यज्ञमृत्विजं यजमानं वाऽभिप्रेत्य तत्प्रशंसापरेयमृगिष्यते, तथापि होत्रीया-
प्रशास्त्रीयाब्राह्मणाच्छंसीयापोत्रीयानेष्ट्रीयाच्छावाकीयाग्नीध्रीयाह्वयहोत्रागताः सप्तवाचः,
षड्जऋषभ गान्धारमध्यमपञ्चमधैवतनिषादाख्यसामस्वरगतां वा प्रस्तावप्रणवोद्गीथहिङ्कार-
प्रतिहारोपद्रवनिधनाख्यसामभक्तिगता वा वाचः सप्तेत्यन्यपरत्वात् व्याकरणप्रयोजनत्वं
निष्प्रमाणकमित्याह — यदा पुनरिति । नदीनामतिहासगोचरापन्नत्वादितरासां याज्ञिक-
गोचरापन्नत्वादित्यर्थः ।
एवं महाभाष्योक्तमुख्यानुषङ्गिकप्रयोजननिराकरणेन न चाश्रितप्रतिपदपाठानां वैदि-
कानां लक्षणेन कार्यमित्यादिग्रन्थोक्ते व्याकरणस्य निष्प्रयोजनत्वे समर्थिते, यदि कश्चित-
स्मादव्याकृता वागुद्यत इति श्रुतिपर्यालोचनेन व्याकरणसंस्कृतानां शब्दानामदृष्टसाधनत्व-
लक्षणसाधुत्वावगमात्साधुत्वसिद्धिर्व्याकरणप्रयोजनं वदेतं प्रत्याह—संस्कृतानां चेति ।
श्लोकं व्याचष्टे —व्याकरणेनेति । शब्दत्ववर्णत्वतद्व्यक्तितत्समुदायावयविस्फोटगोशब्दत्व-
क्रमग्रहणोच्चारणतत् साधनपुरुषाणां मध्ये किं वस्त्विति कस्येत्यस्य व्याख्या ।
उत्पत्त्यादीनां चतुर्णां मध्ये कः संस्कार इति को वेत्यस्य । शब्दत्ववर्णत्वजातिव्यक्ति-
पक्षेषु तावद् दोषमाह — न तावदिति । जातिपक्षे तावदुभयत्र प्रसङ्गं विवृणोति-शब्दत्व इति ।
वर्णव्यक्तीनां तु संस्कारः प्रत्येकं वा स्यात् समुदितानां वा । तत्र प्रत्येकपक्षेऽतिप्रसङ्गं
विवृणोति — एतेनेति । समुदायाभावात् समुदितानामपि संस्कारो न भवतीत्याह —
समुदायस्त्विति । किं च नित्यानां वर्णव्यक्तीनां संस्कारः स्यादनित्यानां वा । तत्रानित्य-
पक्षे तावद्विनष्टानुत्पन्नानामसंस्कार्यत्वादुत्पन्नानामपि संस्कारक्षणं यावदवस्थानान्न संस्कारः
सम्भवतीत्याह येषां तावदिति । संस्कारक्षणं यावदवस्थानाभ्युपगमेऽपि व्यवहारकाले-
विनष्टत्वेन कार्यानुपयोगित्वात्संस्कारो न तु युक्त इत्याह — न चेति । एतदेव विवृणोति —
यथैवेति ।
ननु भाष्यकृता किं पुनर्नित्यः शब्दः आहोस्वित्कार्य इति पृष्ट्वा सङ्ग्रह एतत्प्राधान्येन
परीक्ष्यते नित्यो वा स्यात्कार्यो वेति भाष्येण सङ्ग्रहाख्ये वार्त्तिककारकृते ग्रन्थान्तरे
तात्पर्येणैतद्विचार्यते, नात्र तेन विचारेण प्रयोजनमित्युत्तरे दत्ते, कथं तर्ह्यत्र लक्षणप्रवृत्ति-
रित्याशङ्क्य, यद्यपि नित्योऽथापि कार्यं उभयथापि लक्षणं प्रवर्त्यमित्युक्त्वा कथमनित्य-
पक्षे संस्कारानुपपत्तिरित्याशङ्क्याह — तत्तश्चेति ।
अत्यन्तविरुद्धत्वाच्च नित्यानित्यत्वयोरनियमाभिधानं न युक्तमित्याह — अदूरेति ।
कार्यत्वे च शब्दस्योत्पत्तिलक्षणः संस्कारः स्यात्तत्र च नित्यस्य वेदस्यानित्यशब्दव्युत्पत्ति-
५६६ मीमांसादर्शनम् [ सू०
विषयत्वायोगेन व्याकरणस्य वेदमूलत्वासम्भवादनित्यशब्दोपयुक्तत्वेन च नित्यवेदाङ्ग-
त्वाभावाद्दुभयविधमपि शास्त्रत्वं हीयेतेत्याह—उत्पादश्चैवेति । श्लोकं व्याचष्टे—व्याकर-
णेति । वेदोत्पादकत्वेन तु व्याकरणस्य वेदाङ्गत्वे वेदोऽप्यप्रमाणं स्यादित्याह—अथेति ।
कार्यत्वे च शब्दस्य संस्कारोऽशक्योऽनर्थकश्चेति दोषद्वयं पूर्वोक्तमप्यनियमनिरासायाह --
शब्दश्चेति । नित्यत्वे तु शब्दस्य विक्रियारूपोऽपि शब्दादुत्पत्त्याख्यश्च तावत्संस्कारो न
सम्भवतीत्याह - तस्मादिति । न च ज्ञानरूपप्राप्तिलक्षणः संस्कारः शब्दस्य व्याकरणेन
क्रियते, श्रोत्रजन्मत्वात्तस्येत्याह—विनेति । अविहितत्वाच्च व्याकरणस्य नापूर्वसाधन-
सामर्थ्याधानलक्षणसंस्कारार्थता युक्तेत्याह—अदृष्टार्थस्त्विति । शब्दानां च दृष्टार्थत्वेना-
पूर्वसाधनत्वाभावान्न तत्सामर्थ्याधानलक्षणेन संस्कारेण प्रयोजनमस्तीत्याह—
दृष्टार्थेषु चेति ।
ननु लोकव्यवहारार्थानां शब्दानां दृष्टार्थत्वादसंस्कार्यत्वायोगेऽपि, क्रत्वर्थानां व्रीहि-
यववन्नियमापूर्वार्थत्वात् संस्कार्यत्वं भविष्यतीत्याशङ्कयाह—कर्मेति । किं च व्याकरण-
क्रियायाः पौरुषेयग्रन्थाधीनत्वेनादिविधिविषयतैव न युज्यते । प्रकरणााम्नानं दूरनिरस्त-
मित्याह—ह्रस्त्थादीति । ननु 'तस्मादेषा व्याकृता वागुद्यत' इत्यानारभ्याधीतः प्रत्यक्षो
विधिः कथमपहूयत इत्याशङ्कयाह तेनेति । नित्यानित्यसंयोगविरोधप्रसङ्गान्नास्यैतत्पर-
तास्तीति प्रागेवोक्तमित्याशयः । व्याकरणक्रियाविधेयत्वाभ्युपगमेऽपि प्रकरणाभावेन
क्रत्वर्थत्वाभावान्न क्रत्वर्थशब्दसंस्कारत्वं युक्तमित्याह –अनारम्येति । नन्वनारभ्याधीत-
स्यापि खादिरोदेर्दशपूर्णमासार्थता दृष्टेत्याशङ्कयाह ऐकान्तिकम् हीति ।
ननु यथाफलकल्पनालाघवायाऽश्वप्रतिग्रहेष्टौ वैदिकाश्वदानविषयत्वं तृतीये वक्ष्यते,
तथेहापि वैदिकशब्दविषयत्वं व्याकरणक्रियाया भविष्यतीत्याशङ्कयाह—लोकेति ।
लौकिकवैदिकशब्दानां भेदस्य निराकरिष्यमाणत्वान्न संस्कार्यासंस्र्कार्यव्यवस्था
युक्तेत्याशयः । उपसंहरति—अत इति । किं च श्रोत्रोपलब्धिबुद्धिनिर्ग्राह्यः प्रयोगेणा-
भिलक्षितः आकाशदेशः शब्द इति वदद्भिर्वैयाकरणैः शब्दस्याकाशाश्रितत्वाभ्युपगमान्नि-
त्याश्च शब्दा इति .च नित्यत्वाभ्युपगमादमूर्तत्वाच्चाकाशाश्रितविभुत्वदृष्टान्तेन संस्कार्यत्वं
वारणीयमित्याह—आकाश इति । विभुत्वस्य ज्ञानविषयत्वलक्षणप्राप्तिसम्भवेऽपि गां
दोग्धीत्यादौ स्वरूपप्राप्तेः संस्कारत्वेन प्रसिद्धायाः वारणीयत्वेनात्रेष्टत्वान्न साध्यविकल-
त्वम् । अइउणित्यादिचतुर्दशसूत्रात्कृताणादिसंज्ञात्मकप्रत्याहारमात्रेण वर्णव्यक्तिसंस्कारसिद्धेः
शेषग्रन्थानर्थक्यं स्यादित्याह—वर्णेति । जातिव्यक्तिसंस्कारपक्षौ दूषयित्वा, समुदाय-
संस्कारपक्षं दूषयति—समुदायास्त्विति ।
नन्वेकेषां गकारौकारविसर्जनीयानामेकगोशब्दबुद्धिविषयत्वलक्षणः समुदायो
लोकसिद्धत्वान्नाप्राप्तत्वमर्हतीत्याशङ्कयाह—प्रत्येकं चेति । तथा नवमे हिरण्यशकलसहस्ते
णाग्निं प्रोक्षतीत्यग्निबुद्धिविषयभूतानामिष्टकानां धर्म्मः प्रोक्षणादिः प्रतीकमावर्त्तनीय
इति पूर्वपक्षे, वक्ष्यते, तथाऽत्रापि गकारादिवर्णसमुदायसंस्कारपक्षे प्रतिवर्णं संस्कारावृत्तिः
प्रसज्येतेत्यर्थः ।
ननु पूर्वपक्षस्यास्थायित्वान्न दृष्टान्तता युक्तेत्याशङ्क्याह -- न चेति । अयमाशयः --
इष्टकाव्यतिरिक्तावयव्यभावेनाग्निशब्देस्येष्टकासमुदायमात्रवाचित्वात्समुदायसंस्कारत्वाभ्युप -
गमेन पूर्वपक्षिते, स्थण्डिलारूपस्यावयविनाऽग्निशब्दवाच्यस्येष्टकाभिरारम्भोपपादनेन
संस्कार्यद्रव्यैक्यात्संस्कारानावृत्तिरिति पूर्वपक्षन्यायानुपमर्देन सिद्धान्तकरणाद् युक्तं
दृष्टान्तत्वम् । न चात्र गकारादिभिः एको गोशब्दाऽवयव्यारम्यते, येनाग्निधर्मसिद्धान्तन्यायो
न स्यात् ।
'विच्छिन्नयत्नव्यङ्ग्यैश्च नित्यैः सर्वंगतैरपि ।
व्यतिरिक्तपदारम्भो वर्णैर्नत्रोपपद्यते ॥'
इति श्लोकेन स्फोटवादे निराकृतत्वादिति स्फोट-गोशब्द-गत्वानाम्प्यवयविवन्निरा-
कृतत्वान्न संस्कार्यत्वं सम्भवतीत्याह स्फोटेति । समुदायसंस्कारपक्षे च सर्ववर्णसमुदायो
वा संस्क्रियेत, कतिपयवर्णसमुदायो वा तत्राद्ये पक्षे सर्ववर्णसमुदायस्यार्थाभावादर्थप्रयुक्ते
शब्दप्रयोगे शास्त्रेण धर्मनियम इति वार्त्तिकमयुक्तं स्यादित्याह-सर्वेति । कतिपयवर्ण-
संस्कारपक्षेऽपि केचिदेव वर्णाः संस्क्रियन्ते, नान्य इति व्यवस्थाहेत्वभावेन स्वरूपतः
कतिपयत्वायोगात्कतिचिदेवं संस्क्रियन्त इति संख्यातः कतिपयत्वं वाच्यम् । तत्र संख्यां
विना वर्णानामसंस्कार्यत्वेनान्वयव्यतिरेकाभ्यां वर्णसंख्यायाः संस्कार्यत्वात्साधुत्वं स्यात् ।
तच्च गाव्यादिपदेषु अपि समानमित्याह--अथेति । गवादिपदगतेव वर्णसंख्या संस्कार्या, न
गाव्यादिपदगतेति व्यवस्थाशङ्कानिरासार्थम्-पदे पदइत्युक्तम् ।
क्रमसंस्कारपक्षं दूषयति संस्क्रियेतेति । शब्दधर्मत्वाभावेन तत्संस्कारेऽपि शब्दस्य
साधुत्वं न सिध्यतीत्युक्तम् । ग्रहणोच्चारणद्वारापचारिकशब्दधर्मत्वाभ्युपगमेऽपि गाव्यादिष्व-
प्यानुपूर्व्याः सम्भवात्साधुत्वं प्रसज्येतेत्यर्थः । ग्रहणोच्चारणसंस्कारपक्षौ दूषयति-
ग्रहणेति । अत्रोपरिष्टादित्यपेक्षायामाह - वक्ष्यति हीति । यथाभिक्रामं जुहोतीत्यभिक्रमणस्य
होमसाधनत्वासम्भवोऽभिक्रमाधिकरणपूर्वपक्षे वक्ष्यते । तथा ग्रहणमुच्चारणं वा प्रतिव्याकरण-
क्रियायाः साधनत्वं न भवतीत्यर्थः । ननु साक्षात्साधनत्वाभावेऽपि, यथाभिक्रमणस्य
कर्तृप्रत्यासत्तिजननद्वारा होमसाधनत्वं सिद्धान्ते वक्ष्यते, तथोच्चारणसाधनतालवादिसंस्कार-
द्वारोच्चारणसाधनत्वं ग्रहणसाधनश्रोत्रसंस्कारद्वारा वा ग्रहणसाधनत्वं व्याक्रियाया
भविष्यतीत्याशङ्क्याह -- तालवादीति । अस्तु तर्ह्यूच्चारयितुः पुरुषस्य संस्कारद्वारा तन्मनः
संस्कारद्वारा वोच्चारणसाधनत्वं ग्रहीतृपुरुषसंस्कारद्वारा, तन्मनःसंस्कारद्वारा वा
ग्रहणसाधनत्वमिति स्वयमेवाशङ्कयाह मनो वेति । यच्छास्त्रारम्भे भाष्यकृता 'अथ
शब्दानुशासनमित्युक्त्वा अथेत्ययं शब्दोऽधिकारार्थः प्रयुज्यते । शब्दानुशासनं शास्त्र-
मधिकृतं वेदितव्यमिति स्वथमेव व्याख्यातम् तद्व्यर्थं स्यादित्यर्थः । इतश्च शब्दानुशा-
सनं व्यर्थमित्याह - शिष्येति ।
५६८ मीमांसादर्शनम् [ सू०
. किं च वैयाकरणैः स्फोटात्मकः शब्दोऽभ्युपगतः । तस्य च निरवयवत्वात्प्रकृति-
प्रत्ययान्वाख्यानरूपः संस्कारो न युक्त इत्याह — स्फोटेति । स्फोटपक्षे न केवलं वर्णा एवा-
सन्तः किं तु प्रकृतिप्रत्ययावपीत्यर्थः वाक्यस्फोटापेक्षायां च स्वरूपेणापि पदस्फोटस्यासत्त्वा-
त्संस्कार्यत्वं न युक्तमित्याह — वाक्येति ।
नन्वसतामेव नामादीनां निष्कृष्य कल्पनया संस्कारो भविष्यतीत्याशङ्कयाह —
अपोद्धारेणेति । कल्पनाप्यसतो न सम्भवतीत्याशयः । ननु निरवयवोऽपि पदस्फोटस्तत्तद्-
ध्वनिसहकृतश्रोत्रवशात्पूर्वं गकारादिरूपेण प्रतीयते, ततस्तदाकारमिथ्याज्ञानसहकृतेन
श्रोत्रेण गौरित्येकं पदमिति स्फुटं पदतत्त्वज्ञानम्, रत्नतत्त्वपरीक्षायामिवानैकमिथ्याज्ञान-
सहकृतेन चक्षुषा स्फुटा रत्नतत्त्वप्रतीतिः । एवं वाक्यस्फोटोऽपि पूर्वं गोपदाकारेण
शुक्लपदाकारेण च प्रतीयते । ततः पदाकारमिथ्याज्ञानसहकृतेन श्रोत्रेण गौः शुक्ल इत्येकं
वाक्यमिति स्वरूपेण वाक्यस्फोटः प्रतीयते । ततश्च ध्वनयो यत्स्थानकरणवशादेकस्मिन्पद-
स्फोटे वाक्यस्फोटे वा यद्वर्णाकारम्, यत्पदाकारं वा ज्ञानं जनयन्ति, पदवाक्यस्फोटान्तरेऽपि
तत्स्थानकरणवशात्तद्वर्णाकारम्, तत्पदाकारं वा ज्ञानं जनयन्तः सादृश्यनिमित्तभ्रान्तिवशात्स
एवायं वर्णः । तदेवेदं पदमिति प्रत्यभिज्ञानं जनयन्तीत्यन्योन्यविलक्षणेषु गौः शुक्लो गौः
'कृष्ण इत्यादिषु सादृश्याध्यवसितैकत्वानां नामादीनामपोद्धारो भविष्यतीत्याशङ्कयाह —
अन्येति । अन्यस्य वाक्यस्फोटस्यावयवानामन्यस्य वाक्यस्फोटस्यावयवैः सारूप्यादित्यर्थः ।
सादृश्यमप्यसतो न सम्भवतीत्याशयः ।
ननु — गवये नरसिंहे वाप्येकज्ञानादृते यथा ।
भागं जात्यन्तरस्यैव सदृशं प्रतिपद्यते ॥'
इत्यादिस्फोटवादिभिरसतामप्यवयवानां सादृश्यसम्भवे निदर्शनमुक्तम् । तत्कथमसत्त्वे
सादृश्यानुपपत्तिरित्याशङ्कयाह — गवयादिष्विति । लेख्यादिकृतेषु गवयादिषु येऽवयवाः
तेषां मुख्यगवयादिगतैः कर्णखुरादिभिरवयवैः सारूप्यं यन्निदर्शितम्, तत् तेषां सत्यत्वा-
त्स्वावयवसामान्ययोगाच्चोपपन्नम्, तथा इहापि वाक्यस्फोटे तथात्वे अवयवानां सत्यत्वे
स्वावयवसामान्ययोगे च सति सारूप्यं स्यात् । ततश्च निरवयवस्फोटसिद्धान्तहानि-
रित्याशयः । विस्तरेण चैतत्पूर्वं निरस्तमित्याह — वाक्येति । उपसंहरति -- तेनेति ।
नामादीनामपोद्धारेण प्रकृतिप्रत्ययान्वाख्यानरूपस्य संस्कारस्य कल्पनेत्यर्थः । अप्रामाण्या-
पत्तेश्चासतामपोद्धारो न युक्त इत्याह - अन्वाचक्षीतेति ।
यच्च शब्दानुशासकत्वेन शास्त्रत्वं व्याकरणस्योक्तम्, तत्पदविषयं वा स्यात्,
वाक्यविषयं वा । तत्रासत्यत्वेन पदानामनुशास्यत्वाद्वाक्यानुशासनस्य च व्याकरणेना-
कृतत्वान्नोभयथापि युक्तमित्याह - अशिष्यत्वादिति । युक्तं तु वाक्यस्यैवानुशासनं
लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियम इति वार्त्तिककृताथं प्रयुक्तानां शब्दानामनु-
शास्यत्वाभिधानाद्वाक्यस्यैव चार्थप्रयुक्तत्वेनेष्टत्वादित्याह — अर्थेनेति ।
२४/१ प्रथमाध्याये तृतीयपादः ५६९
ननु सूत्रकारादिभिः पदपदार्थानामनिराकरणात्कथमुच्यते, वाक्यमेवंविधं चेष्टमित्या-
शङ्क्य, टीकाकृतैवमुक्तमिति दर्शयितुमाह — ब्राह्मणार्थ इति । यथा ब्राह्मणशब्दे
ब्रह्मशब्दार्थो नञर्थश्च णकारार्थ एव वा ज्ञानाख्योऽनिरूपाख्यश्च नास्ति । कम्बलशब्दे च
कंशब्दार्थो वलशब्दार्थो वा नास्ति, तथा देवदत्तादयः शब्दा वाक्येऽनर्थकाः स्युरिति
टीकाकारश्लोकार्थः ।
एवमादिना ग्रन्थेन बहुप्रपञ्चमुक्त्वा पदानामर्थव्यभिचाराभिधानाद्व्यभिचारिणामपि
केवलःप्रयोगित्वेनार्थपरत्वनिराकरणाद्वाक्यान्वाख्यानार्थत्वेन व्याकरणव्याचिख्यासा टीका-
काराणामवसीयते । पश्चात्तु तदनाश्रयणात्पूर्वापरविरुद्धार्थाभिधानेनाप्रामाण्यं व्याकरणस्य
सूचितं भवतीत्यर्थः ।
सूत्रकृतो जनिकर्त्तुरित्यादिनिषिद्धसमासकरणात्पूर्वापरविरुद्धामिधानं दृष्टान्तितम् ।
सन्ति यदृच्छाशब्दा न सन्तीत्यादिवात्तिककृतः । आकृतिर्नित्या द्रव्यमनित्यम् । द्रव्यं
नित्यमाकृति रनित्येत्यादिभाष्यकृतः । सूत्रकारादिवदेव वाक्यान्वाख्यानानाश्रयणादिति
वा योज्यम् । पूर्वपक्षमुपसंहरति — अत इति । आचार्याणां परस्परं विप्रतिपत्तेविगान-
भूयिष्ठत्वम् । स्वयमेव पूर्वापरविरुद्धामिधानात् विरुद्धत्वम् । एकानेकमूलश्रुतिकल्पना-
योगान्निर्मूलत्वम् । मुख्यामुख्यप्रयोजनासम्भवान्निष्फलत्वम् । सर्वैर्मर्षितव्यमिति भाष्योक्तमं-
स्वाध्यायकालवेदिकशब्दप्रयोगेऽप्यव्यवस्थाशङ्का कस्यचित्स्यात्तन्निवृत्त्यर्थमाह — ततश्चेति ।
यस्तूपपादितमर्थं तार्किकत्वाभिमानी साधनप्रयोगमन्तरेण न बुध्यते, तं प्रति साधन-
प्रयोगा वक्ष्यन्त इत्याह — अत्रेति । सर्वेषामर्थप्रत्यायनशक्त्वलक्षणे वाचकत्वे तावत्प्रयोग-
माह — गावीति । गौणलाक्षणिकानामादिशब्दोपादानानाशङ्कानिवृत्त्यर्थं प्रकृतग्राही सर्वशब्दः
गोणीशब्दस्यावपनवाचित्वात्सिद्धसाध्यतामाशङ्क्य — गोत्वस्येत्युक्तम् । उस्त्रादिशब्दैरनै-
कान्तिकत्वं तत्र शब्देन निरस्तं गाव्यादिशब्देष्वृद्धशब्देन अर्थप्रत्यायनाङ्गत्वलक्षणे साधुत्वे
प्रयोगमाह — एवमिति । अत्रापि गोणीशब्दे सिद्धसाध्यतापरिहारार्थं गोत्वे साधुत्वमिति
विशेषणीयं साधनशब्दोक्तस्य प्रत्यायकत्वस्य गाव्यादिशब्दैरनैकान्तिकत्वमाशङ्कयार्थायैव
साधनादिति मध्यमपदलोपिसमासाभ्युपगमेन मूलशब्दोपस्थापननिरपेक्षार्थप्रत्यायकत्वरूप-
हेतुसूचनार्थोऽर्थशब्दः । अपभ्रंशरूपापशब्दत्ववायोगाच्छब्दत्वाभावरूपमपशब्दत्वं गाव्यादीनां
वाच्यमित्यापाद्य, तन्निराकरणे प्रयोगमाह — श्रोत्रत्वादीति ।
अत्रापि प्रयोगद्वये दृष्टान्तः स एवेत्याह — पूर्वेति । अनादित्वे प्रयोगमाह — अनादित्वं
चेति । अवध्यनवधारणस्य चिरन्तनकूपादिभिरनैकान्तिकत्वादवध्यभावावधारणादिति
हेत्वर्थः । तत्सिद्धयर्थम् — वक्तुरित्युक्तम् । गवादिशब्दसम्बन्धे सर्वोऽन्यस्मात्प्रपद्यतं ।
महत्तद्व्यवहारित्वादिति सम्बन्धानादित्वन्यायेन सर्वेभ्यो वक्तृभ्यः पूर्वं विद्यमानत्वादि-
त्यर्थः । साधुभाषणस्यादृष्टार्थत्वात्प्रयोगमाह — साधुभिरिति । अत्रैव साध्ये हेतुदृष्टान्तान्तर-
माह — अशास्त्रेति । बुद्धोक्तैश्च शब्दैरर्थामिधानवदित्यर्थः । हेतुसिद्ध्यर्थं संस्कृतव्याकरण-