कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
Kathasaritsagara Part 1 (Lambaka 1–5)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
४९ कथासरित्सागर
४९ कथासरित्सागर
राजापि निश्चय ज्ञात्वा ब्राह्मणं स विसृष्टवान्।
तस्याः कनकरेखाया दुहितुर्निकटं तदा॥६६॥
तया च स प्रतीहारमुखाज्ज्ञात्वाऽन्तिकागतः।
कञ्चित्त्वया सा कनकपुरी दृष्टेत्यपृच्छ्यत॥६७॥
बाढं मया सा नगरी दृष्टा विद्याथिना सता।
भ्रमता भुवमित्येवं सोऽपि तां प्रत्यभाषत॥६८॥
केन मार्गेण तत्र त्वं गतवान् कीदृशी च सा।
इति भूयस्तया पृष्टः स विप्रोऽप्येवमब्रवीत्॥६९॥
इतो हस्तिपुरं नाम नगरं गतवानहम्।
ततोऽपि प्राप्तवानस्मि पुरीं वाराणसीं क्रमात्॥७०॥
वाराणस्याश्च विवर्द्धनगरं पौण्ड्रवर्धनम्।
तस्मात् कनकपुर्याख्यां नगरीं तां गतोऽभवम्॥७१॥
दृष्टा मया च साभोगभूमिः सुकृतकर्मणाम्।
अनिमेषैक्षणस्वाद्यशोभा शक्रपुरी यथा॥७२॥
तत्राधिगतविद्यश्च कालनाहमिहागमम्।
इति तनास्मि गतवान् यथा सापि पुरीदृशी॥७३॥
एवं विरचितोक्तौ च धूर्ते तस्मिन्द्द्विजन्मनि।
शक्तिदेवे महासं सा व्याजहार नृपात्मजा॥७४॥
अहो सत्यं महाब्राह्मण् दृष्टा सा नगरी त्वया।
ब्रूहि ब्रूहि पुनस्तावत्केनासि गतवान् पथा॥७५॥
तच्छ्रुत्वा स यथा चाद्यं शक्तिदेवोऽकरोत् पुनः।
तदा तं राजपुत्री सा चटीभिर्निरवासयत्॥७६॥
निर्वासिते ययौ चास्मिन्पितुः पार्श्वं तदब सा।
किं सत्यमाह विप्रोऽसाविति पित्राप्यपृच्छ्यत॥७७॥
ततश्च सा राजसुता जगाद निजगाद तम्।
तात राजापि भूत्वा त्वमविचार्येव चेष्टसे॥७८॥
किं न जानासि धूर्ता यद् वञ्चयन्त जनान्बहून्।
स हि मिथ्यैव विप्रो मां प्रतारयितुमीहते॥७९॥
न पुनर्नगरी तेन दृष्टा सालोकवादिना।
धूर्तेरनाकाशादद्य म्रियन्ते भुवि वञ्चनाः॥८०॥