कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
Kathasaritsagara Part 1 (Lambaka 1–5)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
४६ कथासरित्सागर
४६ कथासरित्सागर
क्षणाच्चात्र निपत्यैव महासत्त्वं जहार तम्।
आहृत्य चञ्च्वा गरुडः स्वच्छायाच्छादिताम्बरः ॥२२३॥
परिस्रवदसृग्धारे च्युतोत्खातशिखामणिम्।
नीत्वा भक्षयितुं चन्मारेम शिखरे गिरेः॥२२४॥
तस्याङ्गे पुष्पवृष्टिश्च निपपात नभस्तलात्।
तद्दर्शनाच्च किं स्वेदिविति तार्क्ष्यो विसिस्मये ॥२२५॥
तावत्स शङ्खचूड़ोऽत्र गत्वा गोकर्णमागतः।
ददर्श रुधिरासारसिक्तं वध्यशिलातलम् ॥२२६॥
हा धिङ्मदर्थं तेनात्मा दत्तो नूनं महात्मना।
तत्कुत्र नीतस्तार्क्ष्येण क्षणस्मिन् स भविष्यति ॥२२७॥
अन्विष्यामि द्रुतं तावत्कचिन्तमवाप्नुयाम्।
इति साश्रुः स तद्रक्तधारामनुसरन्ययौ ॥२२८॥
अत्रान्तरे च दृष्टं तं दृष्ट्वा जीमूतवाहनम्।
गरुडो भक्षणं मुक्त्वा सविस्मयमचिन्तयत् ॥२२९॥
कश्चित्किमप्य एवाय भक्ष्यमाणोऽपि यो मया।
विपद्यते न तु परं धीरः प्रत्युत हृष्यति ॥२३०॥
इत्यन्तर्विमृशन्तं च तार्क्ष्यं तादुग्विभोऽपि सः।
निजगाद निजाभीष्टसिद्धये जीमूतवाहनः ॥२३१॥
पक्षिराज ! ममास्त्येव शरीरे मांसशोणितम्।
तदकस्मात्कृतोऽपि त्वं निवृत्तोऽसि भक्षणात् ॥२३२॥
तच्छ्रुत्वाश्चर्यवशगस्तं स पप्रच्छ पक्षिराट्।
नागः साभो न तावत्त्वं ब्रूहि तत्को भवानिति ॥२३३॥
नाग एवास्मि भुङ्क्ष्व स्वं यथारब्धं समापय।
आरब्धा ह्यसमाप्तैव किं धीरस्याद्यते क्रिया ॥२३४॥
इति यावच्च जीमूतबाहुं प्रतिवक्ति तम्।
तावत्स शङ्खचूड़ोऽत्र प्राप्तो दूरादभाषत ॥२३५॥
मा मा गरुत्मन्नेष नागो नागोऽह्याह्र तव।
तदेनं मुञ्च कोऽयं ते जातोऽश्राण्ट बत भ्रमः ॥२३६॥
तच्छ्रुत्वातोय विम्रान्तो बभूव स गरुडेश्वरः।
वाञ्छितासिद्धिगेन च भेजे जीमूतवाहनः ॥२३७॥