सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

४४ बृहत्संहिता
अनिल से लेकर मृग तक आठ देवता दक्षिण भाग में अवस्थित होते हैं। उनमें से
अनिल के ऊपर द्वार हो तो अल्प पुत्रता, पौष्ण के ऊपर द्वार हो तो दासत्व, वितथ के
ऊपर द्वार हो तो नीचता, बृहत्क्षत के ऊपर द्वार हो तो भोजन, पानवस्तु और पुत्रों की
वृद्धि, याम्य के ऊपर द्वार हो तो अशुभ, गन्धर्व के ऊपर द्वार हो तो कृतघ्नता, भृङ्गराज
के ऊपर द्वार हो तो निर्धनता और मृग के ऊपर द्वार हो तो पुत्र के बल का विनाश होता
है।।७१।।
अनिले अल्पसुतत्वमल्पपुत्रता। पौष्णे प्रैष्यं दासत्वम्। वितथे नीचत्वं नीचता। बृहत्क्षते
भक्ष्यपानसुतानां वृद्धिः। याम्ये रौद्रमशुभम्। गन्धर्वे कृतघ्नं कृतं हन्तीति। भृङ्गराजे अधनं
धनवर्जितम्। मृगाख्ये सुतवीर्यघ्नं पुत्रबलनाशनम्। एवं याम्येन दक्षिणेन द्वारनिर्देशः।।७१।।
अथ पश्चिम आह—
सुतपीडा रिपुवृद्धिर्न सुतधनाप्तिः सुतार्थफलसम्पत्।
धनसम्पन्नृपतिभयं धनक्षयो रोग इत्यपरे ।।७२।।
पिता से लेकर पापयक्ष्मा तक आठ देवता पश्चिम भाग में अवस्थित रहते हैं। उनमें
से पिता के ऊपर द्वार हो तो पुत्रों की पीड़ा, दौवारिक के ऊपर द्वार हो तो शत्रु की वृद्धि,
सुग्रीव के ऊपर द्वार हो तो पुत्र और धन का लाभ, कुसुमदन्त के ऊपर द्वार हो तो पुत्र
और धन-सम्पत्ति की प्राप्ति, वारुण के ऊपर द्वार हो तो धन-सम्पत्ति का लाभ, असुर
के ऊपर द्वार हो तो राजभय, शोष के ऊपर द्वार हो तो धननाश तथा पापयक्ष्मा के ऊपर
द्वार हो तो रोग की प्राप्ति होती है।।७२।।
पित्र्ये सुतपीडा पुत्रव्यथा। दौवारिके रिपुवृद्धिः शत्रुबाहुल्यम्। सुग्रीवे सुतधनाप्तिः पुत्र-
धनावाप्तिः। कुसुमदन्ते सुतार्थफलसम्पत् पुत्रधनफलसम्पत्तिः। वारुणे धनसम्पद् धनानां
सम्पत्। असुरे नृपतिभयं राजभीतिः। शोषे धनक्षयो वित्तनाशः। पापयक्ष्माख्ये रोगो गद
इत्यपरे पश्चिमायां द्वारनिर्देशः।।७२।।
अथोत्तर आह—
वधबन्धो रिपुवृद्धिः सुतधनलाभः समस्तगुणसम्पत्।
पुत्रधनाप्तिर्वैरं सुतेन दोषाः स्त्रिया नैःस्वम् ।।७३।।
रोग से लेकर दिति तक आठ देवता उत्तर भाग में अवस्थित होते हैं। उनमें से रोग
के ऊपर द्वार हो तो मृत्यु और बन्धन, सर्प के ऊपर द्वार हो तो शत्रु की वृद्धि, मुख्य के
ऊपर द्वार हो तो पुत्र और धन का लाभ, भल्लाट के ऊपर द्वार हो तो सम्पूर्ण शौर्यादि
गुणों की सम्पत्ति, सोम के ऊपर द्वार हो तो पुत्र से द्वेष, अदिति के ऊपर द्वार हो तो स्त्री
के द्वारा दोष तथा दिति के ऊपर द्वार हो तो निर्धनता होती है।।७३।।
रोगाख्ये वधबन्धः। सार्पे रिपुवृद्धिः। मुख्याख्ये सुतानां पुत्राणां धनस्य च लाभः।
भल्लाटे समस्तानां निःशेषाणां शौर्यादीनां गुणानां सम्पत्तिः। सौम्ये पुत्रधनाप्तिः सुतवित्तलाभः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वास्तुविद्याध्यायः ४५
भौजङ्गे वैरं द्वेषः सुतेन पुत्रेण सह। आदित्ये स्त्रिया दोषास्तदुत्था अशुभाः। दित्याख्ये
नैःस्वं निर्धनत्वम्। एवमुत्तरतो द्वारनिर्देशः।
नन्वत्र नवगुणसूत्रविभक्तानीत्यत्र नृपादीनां वर्णानां चैकाशीतिपदेन नवगुणसूत्रविभक्तानि
कार्याणि कुत एतन्निश्चीयते इति? उच्यते—अष्टगुणेनाथवा चतुःषष्टेरित्यस्मादेव विकल्पा-
दवगम्यते। पूर्वाचार्यप्रणीतपक्षस्यायं विकल्पः। यस्माद्विश्वकर्मणा एकाशीतिपदगतचतुः-
षष्टिपदान्युक्तानि। तेषु च प्रत्येकं विभङ्गान्याभिहितानि। तथा चाह—
राजवेश्मनि वेश्म श्व गृहादीनि च वर्णिनाम्।
एकाशीतिपदेनैव शक्रस्थानं च मापयेत्॥
प्रासादान् विविधान् छन्दांस्तथाऽऽद्यांश्चाष्टमण्डपान्।
एकाशीतिपदेनैव सर्वानैतान् प्रमापयेत्॥
नगरग्रामखेटादीन् शिबिराणि च भूभृताम्।
स्थपतिस्थान् शतपदप्रविभागेन मापयेत्॥ इति।
तस्मान्नवगुणसूत्रविभक्तान्येकाशीतिपदे नृपादीनां कर्तव्यानि। अत्र केचिदनिश्चितबुद्धयो
विकल्पांश्चोदयन्ति, यथा चतसृष्वपि दिक्षु नवगुणसूत्रविभक्तानि नव विभागा भवन्ति। अनिल-
भयं स्त्रीजननमित्यादीन्यष्टाष्टद्वाराण्युक्तानि, योऽसौ नवमो भागस्तत्र प्रदेशे किं कर्तव्यमिति।
अत्रोच्यते—प्रागेव वास्तुदेवतानां प्रविभागं कृत्वाऽनिलादीनां देवतानां पदेषु द्वाराणि प्रवि-
कल्प्यानि, कल्पिते च द्वारभित्तिश्चिन्तनीया। तथा च नन्दी आह—
भित्तिश्चिन्त्या द्वारे सत्याचार्या व्यवस्यन्ति।
आचार्येण समाससंहितानिबन्धने स्पष्टतरं निबद्धम्। तथा आह—
पूर्वाण्यैशान्यां यान्याग्नेय्यां दक्षिणानि जानीयात्।
द्वाराणि नैर्ऋतात् पश्चिमान्युदक्स्थानि वायव्याम्॥
आग्नेयमग्निभयदं पार्जन्यं स्त्रीप्रसूतिदं द्वारम्।
प्रचुरधनदं जयन्तं नृपवल्लभकारि माहेन्द्रम्॥
सौर्ये क्रोधः प्रचुरः सत्येऽनृतवादितं भृशे क्रौर्यम्।
चौर्यं तथान्तरिक्षे प्राग् द्वाराणि प्रदिष्टानि॥
वायव्येऽल्पसुतत्वं प्रैष्यं पौष्णेऽथ नीचता वितथे।
बह्वन्नपानपुत्रं बृहत्क्षते याम्य अपि रौद्रम्॥
गान्धर्वे गन्धत्वं नृपचौरभयाय भृङ्गराजाख्यम्।
मृगमपि सुतवीर्यघ्नं दक्षिणतो द्वारनिर्देशः॥
पित्र्ये शरीरपीडा दौवारिकसंज्ञिते च रिपुवृद्धिः।
सुग्रीवे धनहानिः पुत्रधनाढ्यं कुसुमदन्तम्॥
वारुणमर्थनिचयदं नृपभयदं चासुरं विनिर्दिष्टम्।
शोषं धनहानिकरं बहुरोगं पापयक्ष्माख्यम्॥

४६ बृहत्संहिता
रोगमुखं वधबन्धदमात्मजवैराभिवृद्धिदं नागम्।
मुख्यं धनसुतवृद्धिदमेनेककल्याणदं च भल्लाटम् ।।
सौम्यं धनपुत्रकरं भौजङ्गे पुत्रवैररिपुवृद्धिः ।
अदितौ स्त्रीदोषाः स्युर्दितौ धनं संक्षयं याति ।। इति।
तथा च भगवान् गर्गः-
पूर्वाद्यिक्रमयोगेन हौताशेऽग्निभयं वदेत्।
पार्वन्ये प्रचुरा नार्यो जायन्ते बहुवित्तता।।
माहेन्द्रे नृपावाल्लभ्यं सौर्येऽतिक्रोधित्ता भवेत्।
सत्येऽनृतत्वं विज्ञेयं क्रूरत्वं तु भृशे भवेत्।।
अन्तरिक्षे तु विज्ञेयो नित्यं चौर्यसमागमः।
स्यात् पुत्रकामो वायव्ये पौष्णे प्रेष्यत्वमेव च।।
नीचत्वं वितथे ज्ञेयं स्याद् बृहाक्षे तु सन्ततिः।
क्षुद्रकर्मा भवेद्यामे गान्धर्वे कृतनाशनम् ।।
पित्र्ये स्वल्पायुरधनं व्ययं दौवारिके महत्।
सुग्रीवे धननाशः स्यात् पुष्पदन्ते तु वर्धनम् ।।
वरुणे मुख्यभोगित्वं नृपभङ्गस्तथासुरे।
नित्यातिरोगता शोषे पापाख्ये पापसञ्चयः ।।
रोगे बन्धवधो नित्यं नागे रिपुभयं महत्।
मुख्ये धनसुतोत्पत्तिर्भल्लाटे विपुलाः श्रियः ।।
सौम्ये तु धर्मशीलत्वं भौजङ्गे बहुवैरता ।
अदितौ वनितादोषा दितौ तु धनसंक्षयः ।।
पदे पदे कृतं श्रेष्ठं द्वारं सफलदायकम्।
पदक्षये कृतं यच्च तद्व्यािमिश्रफलप्रदम्।। इति।
अत्राचार्येण गृहाणां द्वाराणां च सामान्येन लक्षणमुक्तम्। अन्यैराचार्यैर्गृहाणामष्टौ वास्तु-
पुरुषाः कथिताः। तेषां च नक्षत्राण्युक्तानि, तथा द्वारद्वात्रिंशतो नक्षत्राण्युक्तानि। तत्र चन्द्रतारा-
नुकूल्येन गृहाणां द्वाराणां च करणमुक्तम्, तच्च लोकतो दृश्यते; यतोऽस्माभिरन्यशास्त्रा-
द्दास्तुनराणां नामान्यानीय नक्षत्राणि च यथाक्रमेण प्रदर्श्यन्ते। यद्यथा-
रिक्तो ध्वजश्च ध्वांक्षश्च सिंहः श्वा वृषभस्तथा।
वानरो भद्र इत्यष्टौ ज्ञेया वास्तुनरा बुधैः ।।
अथैतेषामानयनम्-
गृहान्तरदिशां मानं सङ्गुण्य च परस्परम्।
वसुभिर्भागमाहृत्य शिष्टं वास्तुनरं वदेत्।।

वास्तुविद्याध्यायः ४७
अथवा—
बाह्नोः प्रबाह्नोः संयोगदलमन्योन्यताडितम्।
वसुभक्तं ततः शेषं सेव्यं वास्तुनरं वदेत्।।
एतच्चतुरस्रक्षेत्रे।
अथ वर्तुले—
व्यासं त्रिगुणितं कृत्वा विष्कम्भं तत् समादिशेत्।
व्यासार्द्धवर्गस्त्रिगुणः फलं स्यात् परिवर्तुले।।
अथ षडश्रिप्रभृतिषु—
द्विन्र्यस्य परिधेर्वर्गमेकस्मादश्रिजार्धितात्।
लब्धं संशोध्य परतो भक्त्वा द्वादशभिः फलम्।।
अथ त्रिकोणे—
बाहुप्रबाहुसंयोगदलघातं त्रिकोणके।
एवं सर्वत्र क्षेत्रफलमानीय तस्याष्टाभिर्भागमपहृत्यावशेषो वास्तुनरः।
समशून्यगतो रिक्तो ध्वजश्चैकावशेषके।
द्वाभ्यां ध्वांक्षस्त्रिभिः सिंहश्चतुर्भिः श्वा प्रकीर्तितः।।
पञ्चभिर्वृष इत्याहुः षड्भिर्वानर उच्यते।
सप्तभिर्भद्र इत्येतदष्टानां लक्षणं स्मृतम्।।
रिक्ते सूर्यस्तथाश्लेषा ध्वजे सोमश्च कृतिका।
ध्वाङ्क्षे राहुश्च भरणी सिंहे भौमस्तथा मघाः।।
बुधः शुनि धनिष्ठा च वृषे जीवश्च रोहिणी।
भद्रे तु श्रवणः सौरः कपौ शुक्रश्च फाल्गुनी।।
चन्द्रतारानुकूल्येन कारयेत विचक्षणः।
विभुर्नश्यति रिक्तेन ध्वजेन विपुलाः श्रियः।।
ध्वांक्षेण नित्यमुद्वेगः सिंहेन जितशत्रुता।
अस्थैर्यं सारमेये स्याद्वृषे परितपो ध्रुवः।।
कपिना चापलं स्त्रीणां नित्यं भद्रेण निर्वृतिः।।
अथ द्वारनक्षत्राणि—
कृतिकाभगमैन्द्रं च विशाखा च पुनर्वसुः।
तिष्यो हस्तस्तथाऽऽर्द्रा च क्रमात् पूर्वेषु निर्दिशेत्।।
चित्रा विशाखा पौष्णं च नैर्ऋतं यमदैवतम्।
वैश्वदेवाश्विनं मैत्रं क्रमाद् दक्षिणसंश्रितम्।।

४८ बृहत्संहिता
पित्र्यं प्रोष्ठपदार्यम्णामाषाढं च द्विदैवतम्।
वारुणाश्विनसावित्रं क्रमात् पश्चिमसंश्रितम्।।
स्वात्याश्लेषाभिजित्सौम्यं वैष्णवं वासवं तथा।
याम्यं ब्राह्मं क्रमात् सौम्यद्वारेषु च विनिर्दिशेत्।। इति।।७३।।
अथ द्वारस्य वेधफलमाह—
मार्गतरुकोणकूपस्तम्भभ्रमविद्धमशुभदं द्वारम्।
उच्छ्रायाद् द्विगुणमितां त्यक्त्वा भूमिं न दोषाय ।।७४।।
यदि मार्ग, वृक्ष, दूसरे घर का कोना, कूप, खम्भा या भ्रम (जल निकलने की मोरी)
से गृहद्वार विद्ध होता हो अर्थात् ये सब द्वार के सम्मुख हों तो अशुभ होते हैं। परन्तु गृहद्वार
की जितनी ऊँचाई हो, उससे द्विगुणित भूमि को छोड़कर आगे वेध करते हुये भी इन मार्गादि
का रहना दोषप्रद नहीं होता है।।७४।।
मार्गः पन्थाः, तरुर्वृक्षः, कोणोऽस्रिः, कूपस्तम्भौ प्रसिद्धौ, भ्रमो जलनिर्गमनप्रदेशः। एतैः
सम्मुखैर्द्वारं विद्धमशुभदम्। कियति दूरे स्थितो वेधे न दुष्टफलदो भवतीत्याह—उच्छ्रा-
याद् द्विगुणमितमिति। द्वारोच्छ्रायाद् द्विगुणमितो यावान् द्वारस्योच्छ्राय उच्चत्वं तद्
द्विगुणप्रमाणां भूमिमवनिं त्यक्त्वा विहाय बहिःस्थिता दोषायैवैते वेधा न भवन्ति। नन्वत्र
सामान्येनोक्तमुच्छ्रायाद् द्विगुणमितां त्यक्त्वा भूमिं न दोषायेत्यत्र न ज्ञायते किं वा वेधोच्छ्राय-
द्विगुणां किं वा वेश्मोच्छ्रायद्विगुणां भूमिं त्यक्त्वा न दोषाय भवतीति, अत्रोच्यते—
आचार्येण समाससंहितानिबन्धे स्पष्टतरं निबद्धम्, तच्चाह—
स्तम्भतरुभ्रमकोणैर्विद्धं वेधश्च न शुभकरद्वारम्।
वेधोच्छ्रायाद् द्विगुणां भूमिं त्यक्त्वा न दोषाय।। इति।
तथा च भगवान् गर्गः—
द्वारोच्छ्रायद्विगुणितां त्यक्त्वा भूमिं बहिःस्थितः।
न दोषाय भवेद्वेधो गृहस्य गृहिणोऽथवा।। इति।।७४।।
अत्रैव विशेषफलान्याह—
रथ्याविद्धं द्वारं नाशाय कुमारदोषदं तरुणा।
पङ्कद्वारे शोको व्ययोऽम्बुनिःस्राविणि प्रोक्तः ।।७५।।
कूपेनापस्मारो भवति विनाशश्च देवताविद्धे।
स्तम्भेन स्त्रीदोषाः कुलनाशो ब्राह्मणाभिमुखे ।।७६।।
यदि गृहद्वार मार्ग से वेधित हो तो गृहस्वामी की मृत्यु, वृक्ष से वेधित हो तो
बालकों में दोष, पङ्क (कीचड़) से वेधित हो तो शोक, मोरी से वेधित हो तो व्यर्थ
खर्च, कूप से वेधित हो तो मृगी रोग की उत्पत्ति, देवता की प्रतिमा से वेधित हो तो
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

वास्तुविद्याध्यायः ४९
गृहस्वामी का नाश, स्तम्भ से वेधित हो तो स्त्रियों में दोष और ब्रह्मा के सम्मुख हो तो
सम्पूर्ण कुल का ही नाश करता है।।७५-७६।।
रथ्याविद्धं मार्गेण विद्धं द्वारं नाशाय गृहस्वामिनो भवति। तरुणा वृक्षेण विद्धं कुमाराणां
बालकानां दोषदं दोषं ददाति। पङ्कद्वारे कर्दमविद्धे नित्यं यस्याग्रतः कर्दमो भवति, तस्मिन्
शोको भवति। अम्बुनिःस्राविणि जलनिर्गमनमार्गे विद्धे व्ययो धनव्ययो भवति।
कूपेन विद्धे द्वारे अपस्मारो भवति। अपस्मारो वायुदोषदः। देवताविद्धे देवता सुरप्रतिमा
तया विद्धे विनाशः स्वामिनो भवति। स्तम्भेन विद्धे स्त्रीदोषा दौःशील्यादिका भवन्ति।
ब्राह्मणाभिमुखे कुलनाशो वा भवति। किं वा बाह्ये ब्राह्मणाभिमुखे इति नावगम्यते, यमादुत्तम-
मुत्तराभिमुखं पञ्चमं द्वारमिष्टमुक्तम्। तद् गृहमध्यगं भवतीत्याह—वधबन्धो रिपुवृद्धिर्धन-
सुतलाभः समस्तगुणसम्पदित्यादि। अत्रोच्यते—बाह्यस्याभ्यन्तरस्य च ब्रह्मणोऽभिमुखद्वार-
स्यानिष्टं फलं प्रत्येकदेवताविद्धस्य फलमिदमाह—
देवद्वारं विनाशाय शङ्करद्वारमेव च। इत्यादि।
तथा— ब्रह्मणा यच्च संविद्धं तद्द्वारं कुलनाशनम्।
अभ्यन्तरब्रह्मणो मुखस्य द्वारस्यानिष्टफलं विश्वकर्माह—
गृहमध्ये कृतं द्वारं द्रव्यधान्यविनाशनम्।
आवहेत् कलहं शोकं नारीर्वा सम्प्रदूषयेत्।।
तथा भारद्वाजः—
शिरा मर्माणि वंशांश्च नालमध्यं च सर्वशः।
विहाय वास्तुमध्यं च द्वाराणि विनिवेशयेत्।।
तथा च यम आह—
ब्रह्मस्थाने न विध्येत नागदन्तस्थलानि च।
मृद्दारुभिर्गवाक्षैश्च मानपानैस्तथैव च।।
द्वारैश्च भित्तिभिश्चैव शय्याभागैः कथञ्चन।
स्वामिनो मरणं तत्र महादुःखेन पार्थिव।।
एवं चेत्तदाऽऽचार्येण पूर्वापरविरुद्धेन निबन्धनं स्यात्? अत्रोच्यते—'सर्वेष्वेव वास्तुषु
उत्सर्गापवादरूपेण विविधा व्याख्या च भवति। तथा च यात्राप्रकारे प्राच्यादिषु सप्त
सप्त नक्षत्राण्यभिधाय पुनः सर्वद्वारिकसंज्ञं नक्षत्रचतुष्टयमाह। एवमत्रापि। तस्मादयमदोष'
इति।।७५-७६।।
अन्यद् द्वारस्य विशेषमाह—
उन्मादः स्वयमुद्घाटितेऽथ पिहिते स्वयं कुलविनाशः ।
मानाधिके नृपभयं दस्युभयं व्यसनमेव नीचे च ॥७७॥
बृ० भा० द्वि०-४

५० बृहत्संहिता
द्वारं द्वारस्योपरि यत्तन्न शिवाय सङ्कटं यच्च।
आव्यातं क्षुद्भयदं कुब्जं कुलनाशनं भवति ॥७८॥
पीडाकरमतिपीडितमन्तर्विनतं भवेदभावाय ।
बाह्यविनते प्रवासो दिग्भ्रान्ते दस्युभिः पीडा ॥७९॥
जिस गृह के द्वार का किवाड़ बिना खोले ही खुल जाय, उसमें रहने वाले उन्माद,
अपने-आप बन्द हो जाय तो कुल का नाश, पूर्वकथित परिमाण से अधिक द्वार का
परिमाण हो तो राजभय और प्रमाण से अल्प परिमाण वाला द्वार हो तो चोरभय एवं
दुःख होता है। यदि एक घर के द्वार पर दूसरे खण्ड का द्वार पड़े तो शुभ नहीं होता।
जिस द्वार की मोटाई अल्प हो, वह भी शुभ नहीं होता है। मृदङ्ग की आकृति वाला अति
विपुल द्वार क्षुधा का भय करता है और कुबड़ा द्वार कुल का नाश करता है। यदि ऊपरी
काष्ठ आदि के भार से दबा हुआ द्वार हो तो गृहस्वामी को पीड़ा देता है, भीतर की ओर
झुका हुआ द्वार हो तो गृहस्वामी की मृत्यु कराता है, बाहर को झुका हुआ द्वार गृहस्वामी
को प्रवासी बनाता है और दिग्भ्रान्त ( जिस दिशा का द्वार हो, उससे भिन्न दिशा को
देखता ) हो तो गृहस्वामी को चोरों से पीड़ित कराता है॥७७-७९॥
स्वयमुद्घाटित आत्मनैवोद्घाटिते द्वारकपाटे उन्मादश्चित्तस्य भवति। स्वयं पिहिते
निपीडिते कुलस्य वंशस्य विनाशः स्वयं भवति। मानाधिके उक्तस्वप्रमाणादभ्यधिके द्वारे
नृपभयं राजभीतिर्भवति। नीचे प्रमाणादल्पे दस्युभयं चौरभीतिर्व्यसनं दुःखं च भवति।
द्वारस्योपरि यद्द्वारं तन्न शिवाय न श्रेयसे भवति। यच्च सङ्कटं पृथुत्वेनाल्पं तच्च
न शिवायैव भवति। आव्यातमतिविपुलं मुरजाकारं क्षुद्भयं ददाति। कुब्जमस्पष्टं द्वारं
कुलनाशनं वंशक्षयावहं भवति।
अतिपीडितमुदुम्बरेणातिपीडितं गृहस्वामिनः पीडां करोति। अन्तर्गृहाभ्यन्तरे विनतं
द्वारमभावाय मरणाय स्वामिनो भवति। बाह्यविनते बहिर्गते द्वारे प्रवासो भवत्यन्यदेशनिवासः।
दिग्भ्रान्ते दिक्स्थे अन्यां दिशं प्रेक्षमाणे दस्युभिborderः पीडा भवति॥७७-७९॥
अत्रैव विशेषमाह—
मूलद्वारं नान्यैर्द्वारैरभिसन्दधीत रूपर्द्ध्या।
घटफलपत्रप्रमथादिभिश्च तन्मङ्गलैश्चिनुयात् ॥८०॥
सुन्दरता को व्यक्त करने वाली जितनी सामग्रियों को एकत्र कर मूल द्वार की रचना
की गई हो, उतनी सामग्रियों से अन्य द्वारों की रचना नहीं करनी चाहिये। साथ ही कलश,
श्रीफल, पत्र, पुष्प आदि से उस मूल द्वार की शोभा बढ़ानी चाहिये॥८०॥
मूलद्वारं प्रधानमिति यावत्। तच्चान्यैरपरैर्द्वारैः रूपर्द्ध्या रूपसमृद्ध्या नाभिसन्दधीत
न सन्धानं कुर्यात्। एतदुक्तं भवति—मूलद्वारस्य यादृशी रचना कृता, तादृशी नान्यद्वाराणां
कार्येति। तच्च मूलद्वारं मङ्गलैः घटैः कलशैः फलैः श्रीफलादिभिः पत्रैः पत्रलतादिभिर्वा
CC-0. JK Sanskrit Academy, Jammpu. Digitized by S3 Foundation USA

वास्तुविद्याध्यायः ५१
प्रमथैर्गणैः, आदिग्रहणात् सिंहव्यालहंसजीवजीवकैश्चिनुयाद् उपचितं कुर्यात्।।८०।।
अथ कोणचतुष्टये गृहादीनां ये दोषा निवसन्ति तांस्तन्निवासिनां च फलमाह—
ऐशान्यादिषु कोणेषु संस्थिता बाह्यतो गृहस्यैताः ।
चरकी विदारिनामाऽथ पूतना राक्षसी चेति ॥८१॥
पुरभवनग्रामाणां ये कोणास्तेषु निवसतं दोषाः ।
श्वपचादयोऽन्त्यजात्यास्तेष्वेव विवृद्धिमायान्ति ॥८२॥
गृह के बाहर ईशान आदि चारो कोनों में क्रम से चरकी, विदारिका, पूतना और राक्षसी
का निवास होता है। पुर, भवन और ग्रामों के जो कोने हों, उनमें निवास करने वाले को
दोष होता है; किन्तु श्वपच ( चाण्डाल, डोम आदि ), अन्त्यज ( चमार आदि ) नीच जातियों
के वहाँ ( कोने में ) निवास करने से गृहस्वामी की उन्नति होती है॥८१-८२॥
अथैशान्यं चरकी, आग्नेय्यां विदारिनामा, नैर्ऋते पूतना, वायव्ये राक्षसी चेत्येवं प्रकारा
बहिष्कोणेषु निवसन्ति। शास्त्रान्तरेष्वष्टौ पठ्यन्ते—
स्कन्दोऽर्यमा जम्बुकाख्यः पिलिपिञ्जस्तथापरः।
प्राच्यादिदिक्चतुष्के तु निवसन्ति महाग्रहाः।।
कोणेष्वाचार्योक्ता एव।
ऐशान्यां चरकी प्रोक्ता स्कन्दः प्राग्भागसंस्थितः।
हौताशन्यां विदारी च याम्यां चैवार्यमा स्थितः।।
पूतना नैर्ऋते ज्ञेया जम्बुकः पश्चिमे स्थितः।
राक्षसी चानिले कोणे पिलिपिञ्जस्तथोत्तरे।।
इत्याचार्योक्तः पक्षः शोभनः।
पुरभवनेति। पुरं नगरम्। भवनं गृहम्। ग्रामः प्रसिद्धः। तेषां ये कोणाश्चत्वारस्तेषु
निवसतां निवसमानानां दोषा भवन्ति। तेष्वेव कोणेषु श्वपचादयः, श्वपचा डोमाः। आदि-
ग्रहणात् चण्डालपुक्कसप्रभृतयः। अन्त्यजात्याश्चर्मकारप्रभृतयः। एते निवसमाना विवृद्धिमा-
यान्ति वृद्धिमाप्नुवन्ति, नान्य इति।।८१-८२।।
अथ दिक्षु शुभाशुभान् वृक्षानाह—
याम्यादिष्वशुभफला जातास्तरवः प्रदक्षिणेनैते ।
उदगादिषु प्रशस्ताः प्लक्षवटोडुम्बराश्वत्था ॥८३॥
पाकर, वट, गूलर और पीपल—ये चार वृक्ष प्रदक्षिणक्रम से दक्षिण आदि दिशाओं
में अशुभ और उत्तर आदि दिशाओं में शुभ होते हैं। जैसे—दक्षिण में पाकर, पश्चिम में
वट, उत्तर में गूलर और पूर्व में पीपल का वृक्ष अशुभ तथा उत्तर में पाकर, पूर्व में वट,
दक्षिण में गूलर और पश्चिम में पीपल का वृक्ष शुभ होता है॥८३॥
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

५२ बृहत्संहिता
एते तरवो वृक्षा याम्यादिषु दक्षिणाद्यासु दिक्षु प्रदक्षिणेन जाता अशुभफलदाः।
तद्यथा—प्लक्षो याम्यायां दक्षिणस्यामशुभः। वटः पश्चिमायाम्। उदुम्बर उत्तरस्याम्। अश्वत्थः
पूर्वस्यामशुभ इति। एत एवोदगादिषूत्तराद्यासु दिक्षु प्लक्षवटोदुम्बराश्वत्थाः प्रशस्ताः।
प्लक्ष उत्तरस्यां शुभः। वटः पूर्वस्याम्। उदुम्बरो दक्षिणस्याम्। अश्वत्थः पश्चिमायाँ शुभ
इति। तथा च गर्गः—
वर्जयेत् पूर्वतोऽश्वत्थं प्लक्षं दक्षिणतस्तथा।
न्यग्रोधं पश्चिमे भागे उत्तरे चाप्युदुम्बरम्।।
अश्वत्थे तु भयं ब्रूयात् प्लक्षे ब्रूयात् पराभवम्।
न्यग्रोधे राजतः पीडा नेत्रामयमुदुम्बरे।।
वटः पुरस्ताद्धन्यः स्याद् दक्षिणे चाप्युदुम्बरः।
अश्वत्थः पश्चिमे भागे प्लक्षस्तूत्तरतो भवेत्।। इति।।८३।।
अधुनाऽरिष्टवृक्षद्वारेण गृहाणां पथिकान् वृक्षानाह—
आसन्नाः कण्टकिनो रिपुभयदाः क्षीरिणोऽर्थनाशाय ।
फलिनः प्रजाक्षयकरा दारूण्यपि वर्जयेदेषाम् ॥८४॥
छिन्द्याद्यदि न तरूंस्तान् तदन्तरे पूजितान् वपेदन्यान् ।
पुन्नागाशोकारिष्टबकुलपनसान् शमीशालौ ॥८५॥
काँटेदार वृक्ष के गृह-समीप में रहने से गृहस्वामी को शत्रुभय होता है। दूध वाला
वृक्ष गृह के समीप में रहने से धन का नाश होता है। फल वाले वृक्ष के गृह के समीप
में रहने से सन्तति का नाश होता है। साथ ही इनके काष्ठों का गृह में प्रयोग करने से भी
शुभ नहीं होता है। यदि उपर्युक्त काँटेदार आदि वृक्षों को काट कर उनकी जगह पुन्नाग,
अशोक, अरिष्ट, वकुल, कटहल, शमी या शाल वृक्ष का रोपण किया जाय तो उपर्युक्त
दोषों की प्राप्ति नहीं होती।।८४-८५।।
कण्टकिनः कण्टकिवृक्षाः खदिरप्रभृतय आसन्ना निकटवर्तिनो रिपुभयदाः शत्रुभीतिप्रदाः।
क्षीरिणोऽर्कादय आसन्ना अर्थनाशाय भवन्ति। फलिनो वृक्षा आम्रप्रभृतयः प्रजाक्षयकराः
प्रजानां क्षयं विनाशं कुर्वन्ति, न केवलमेते आसन्ना अशुभा भवन्ति, यावदेषामपि दारूणि
काष्ठानि गृहार्थं वर्जयेत्।
यदि तान् कण्टकिवृक्षप्रभृतींस्तरूँन् वृक्षान् न छिन्द्यात् तदन्तरे तेषां मध्ये अन्यान-
परान् पूजितान् वृक्षान् वपेत्। कांस्तानित्याह—पुन्नागेति। पुन्नागाः, अशोकाः, अरिष्टाः,
बकुलाः, पनसाः। एतास्तथा शमीशालौ। एतेषामन्यतमे तत्रस्थे तज्जा दोषा न बाधन्ते।
अथ प्रशस्तभूलक्षणमाह—
शस्तौषधिद्रुमलता मधुरा सुगन्धा
स्निग्ध समा न सुषिरा च महीनराणाम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वास्तुविद्याध्यायः ५३
अप्यध्वनि श्रमविनोदमुपागतानां
धत्ते श्रियं किमुत शाश्वतमन्दिरेषु ॥८६॥
प्रशस्त औषधी वाली, द्रुम ( याज्ञिक वृक्ष = पलाश आदि ) वाली, लताओं से युत,
मधुर मिट्टी वाली, सुगन्धि वाली, निर्मल, समान और छिद्ररहित भूमि मार्ग में गमन से
उत्पन्न श्रम को हटाने की इच्छा से वहाँ पर थोड़ी देर के लिये बैठे मनुष्य को भी लक्ष्मी
प्रदान करती है। फिर ऐसी भूमि जिनके घर के पास में ही सदा रहती हो, उनके सम्बन्ध
में तो कहना ही क्या? अर्थात् उनको तो अवश्य ही लक्ष्मी की प्राप्ति कराती है।।८६।।
एवंविधा भूर्नराणां पुरुषाणामध्वनि पथि श्रमविनोदमुपागतानां श्रमापनयनं प्राप्तानामपि
क्षमाऽत्रावस्थितत्वादपि श्रियं लक्ष्मीं धत्ते ददाति, किमुत शाश्वतमन्दिरेषु किं पुनर्यै शाश्वतं
स्थिरं मन्दिरं गृहं कृत्वा तत्र निवसन्ति। शस्तौषधिद्रुमलता, शस्ता औषधयो जाया-
जयन्ती-जीवन्ति-जीवपुत्रा एवमादिका यत्र। द्रुमा वृक्षा याज्ञिकाः पलाशपिप्पलप्रभृतयः।
लताश्चतततयश्च श्यामलताप्रभृतयश्च यस्याम्। या च भूर्मधुरा मृष्टस्वादा। सुगन्धा शोभन-
गन्धा। स्निग्धा सस्नेहा। समा सर्वत्र तुल्या निम्नोत्तुङ्गै रहिता। न सुषिरा अन्तःसारा।।८६।।
अन्यद् गृहे शुभफलं सन्निवेशवशेनाह—
सचिवालयेऽर्थनाशो धूर्तगृहे सुतवधः समीपस्थे ।
उद्वेगो देवकुले चतुष्पथे भवति चाकीर्तिः ॥८७॥
चैत्ये भयं ग्रहकृतं वल्मीकश्वभ्रसङ्कुले विपदः ।
गर्त्तायां तु पिपासा कूर्माकारे धनविनाशः ॥८८॥
गृह के समीप में मन्त्री का घर हो तो धननाश, धूर्त का गृह हो तो पुत्रनाश, देवता
का गृह हो तो चित्त में खेद, चौराहा हो तो अकीर्ति और चैत्य ( प्रधान ) वृक्ष हो तो
ग्रहों का भय होता है। दीमक ( वाँबी = दिवाड़ ) युत या पोली भूमि गृह के समीप हो
तो गृहस्वामी के ऊपर आपत्ति आती है। गृह के समीप गड्ढा हो तो प्यास का रोग और
कछुये के समान आकृति वाली भूमि गृह के समीप हो तो गृहस्वामी के धन का नाश
होता है।।८७-८८।।
सचिवालये मन्त्रिगृहे समीपस्थे निकटवर्तिनि अर्थनाशो धनविनाशः। धूर्तः परवञ्चना-
दक्षः। धूर्तगृहे समीपस्थे सुतवधः पुत्रमरणम्। देवकुले सुरगृहे समीपस्थे उद्वेगश्चित्तखेदः।
चतुष्पथे चत्वारः पन्थानो यत्र तस्मिंश्चाकीर्तिर्लोकापवादः।
चैत्य इत्यनेन चैत्यवृक्षाः परिगृह्यन्ते। चैत्यवृक्षे आसन्ने भयं ग्रहकृतं ग्रहोत्पन्ना भीति-
र्गृहभर्तुर्भवति। ग्रहा भूतानि। तथा च बृहस्पतिराह—
चैत्यवृक्षेषु भूतेभ्यः कृच्छ्रावासः पुरा ह्ययम्।
अरतिस्त्वभिवर्धेत निविष्टैः कण्टकिद्रुमैः।। इति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५४ बृहत्संहिता
चैत्यवृक्षः कल्पवृक्षः। तथा च पुराणे—
मन्दरस्य गिरः शृङ्गे महावृक्षः स केतुराट्।
आलम्बशाखाशिखरः कदम्बश्चैत्यपादपः।। इति।
वल्मीकसङ्कुले वल्मीकावृते भूभागे। श्वभ्रसङ्कुले च श्वभ्रावृते समीपस्थे विपदो व्यापदो
भवन्ति। गर्ता प्रसिद्धा चिता तस्यां समीपवर्तिन्यां पिपासा तृषा भवति। कूर्माकारे भूभागे
समीपस्थे धनविनाशो वित्तक्षयो भवति।।८७-८८।।
अथापरं भूमिलक्षणमाह—
उदगादिप्लवमिष्टं विप्रादीनां प्रदक्षिणेनैव ।
विप्रः सर्वत्र वसेदनुवर्णमथेष्टमन्येषाम् ।।८९।।
उत्तर की ओर ढलान वाली भूमि ब्राह्मणों के लिये, पूर्व की ओर ढलान वाली
भूमि क्षत्रियों के लिये, दक्षिण की ओर ढलान वाली भूमि वैश्यों के लिये और पश्चिम
की ओर ढलान वाली भूमि शूद्रों के लिये शुभ होती है।
चारो ओर ढलान वाली भूमि में भी ब्राह्मण गृह का निर्माण करा सकता है; लेकिन
शेष वर्णों के लिये अपनी-अपनी दिशा की ढलान वाली भूमि पर ही गृह-निर्माण
कराना शुभदायक होता है।।८९।।
विप्रादीनां ब्राह्मणक्षत्रियवैश्यशूद्राणामुदगादिप्लवं प्रदक्षिणेन भूभागेनेष्टं शुभम्।
प्लवशब्देन निम्नत्वमुच्यते। तद्यथा—उदक्प्लवा भूब्राह्मणानां प्रशस्ता। पूर्वप्लवा क्षत्रियाणाम्।
दक्षिणप्लवा वैश्यानाम्। पश्चिमप्लवा शूद्राणाम्। विप्रो ब्राह्मणः सर्वत्र सर्वस्यां भूमौ वसेदुत्तर-
पूर्वदक्षिणपश्चिमप्लवायामिति। अन्येषां क्षत्रियादीनामनुवर्णनमथेष्टं वर्णानुक्रमेण शोभनम्।
तद्यथा—पूर्वप्लवा दक्षिणप्लवा पश्चिमप्लवा क्षत्रियाणाम्। दक्षिणप्लवा पश्चिमप्लवा वैश्या-
नाम्। पश्चिमप्लवा शूद्राणामेवेति।।८९।।
अथ भूमेर्विधानवशेन शुभाशुभमाह—
गृहमध्ये हस्तमितं खात्वा परिपूरितं पुनः श्वभ्रम् ।
यद्यूनमनिष्टं तत् समे समं धन्यमधिकं यत् ।।९०।।
गृहकर्ता के हाथ से गृहमध्य में एक हाथ लम्बा, एक हाथ चौड़ा और एक हाथ
गहरा गड्ढा खोदकर पुनः उस गड्ढे को उसी मिट्टी से भरे, यदि गड्ढे को भरने में गड्ढे से ही
निकाली गई मिट्टी कम पड़ जाय तो अशुभ, पूरी तरह से गड्ढा भर जाय तो सम और
गड्ढा भरकर मिट्टी ज्यादा हो जाय तो शुभ होता है।।९०।।
गृहमध्ये भवनान्तर्हस्तमितं समप्रमाणं श्वभ्रमवटं खात्वा समन्ततः परिवर्तुलं हस्ता-
यतं हस्तमात्रगम्भीरं पुनर्भुयः परिपूरितं तयैव मृत्तिकया यद्यूनं भवति, तदानिष्टमशुभं समे
समं, न शुभं नाप्यशुभमित्यर्थः । यदधिकं भवति तद्धन्यं शुभमित्यर्थः ।।९०।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वास्तुविद्याध्यायः ५५
अन्यदप्याह—
श्वभ्रमथवाऽम्बुपूर्णं पदशतमित्वा गतस्य यदि नोनम्।
तद्धन्यं यच्च भवेत् पलान्यपामाढकं चतुःषष्टिः ॥९१॥
पूर्वकथित प्रकार से गड्ढे को खोदने के पश्चात् उसमें जल भर कर वहाँ से सौ पद
तक दूर जाकर पुनः वापस आने पर यदि गड्ढे का जल ज्यों का त्यों बना रहे तो शुभ
होता है। इसी प्रकार वहाँ की धूली से एक आढक प्रमाण वाली टोकरी को भर कर
पुनः उस धूली को तौलने पर यदि वह धूली चौंसठ पल के बराबर हो तो वह भूमि
शुभ होती है॥९१॥
अथवा श्वभ्रमवटं पूर्वोक्तमेवाम्बुना जलेन परिपूर्णं कृत्वा ततः पदशतं क्रमशतमित्वा
गत्वा ततः पुनरागत्य यदि तज्जलमूनं न भवति तद्धन्यं शुभमिति, अन्यथा अधन्यम्।
अथवा यत्र मृत्तिकानामाढकमपामम्बूनां चतुःषष्टिः पलानि भवेत्तद्धन्यमेव। एतदुक्तं भवति—
भूमौ मृत्तिकां संगृह्य अवटनिर्गतां तथा आढकमापूर्य तोलयेत्। तद्यदि चतुःषष्टिः पलानि
भवन्ति तद्धन्यं नान्यथेति। तथा च पराशरः—
‘निमेषशतमतीत्याखातश्वभ्रगतजलगतां चारिणीं समुद्धतामापूर्यमाणामतिरक्तां मृदं
चतुःषष्टिपलाढकां तुल्यां च’ इति॥९१॥
अन्यदप्याह—
आमे वा मृत्पात्रे श्वभ्रस्थे दीपवर्तिरभ्यधिकम्।
ज्वलति दिशि यस्य शस्ता सा भूमिस्तस्य वर्णस्य ॥९२॥
चार बत्ती वाला दीपक जलाकर मिट्टी के कच्चे बर्तन में रखकर उनमें उत्तर आदि
क्रम से ब्राह्मण आदि वर्णों की कल्पना करते हुये उस बर्तन को गड्ढे में स्थापित करने
पर जिस दिशा की बत्ती देर तक जलती रहे, उस दिशा के वर्ण के लिये वह भूमि शुभ
होती है॥९२॥
अथवा आमे अपक्वे मृत्पात्रे मृन्मये भाण्डे श्वभ्रस्थे श्वभ्रान्तरगते, तत्र वर्णानामचिह्नैश्चतस्रो
दीपवर्तीर्दत्वा ज्वालयेत्, तुल्यकालं ताश्च समाः समाः कार्याः। यस्य वर्णस्य दिश्यभ्यधिकं
चिरकालं दीपवर्ती ज्वलति, तस्यैव वर्णस्य सा भूः शस्ता शुभा नान्यस्येति॥९२॥
अन्यदप्याह—
श्वभ्रोषितं न कुसुमं यस्य प्रम्लायतेऽनुवर्णसमम्।
तत्तस्य भवति शुभदं यस्य च यस्मिन् मनो रमते ॥९३॥
सायङ्कल ब्राह्मण आदि वर्णतुल्य वर्ण वाले पुष्पों (सफेद, लाल, पीले और काले
पुष्पों) को लेकर गड्ढे में डाल दे और दूसरे दिन प्रातःकाल उन पुष्पों को निकाल कर
देखने पर जिस वर्ण का पुष्प कुम्हलाया न हो, उसके लिये वह भूमि शुभ होती है।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५६ बृहत्संहिता
अथवा अपना मन जहाँ पर प्रसन्न रहे वहीं पर निवासस्थान बनाना चाहिये, इसमें अधिक
विचार करने की कोई आवश्यकता नहीं है।।९३।।
अथवा अनुवर्णसमं ब्राह्मणादिवर्णचतुष्टयस्यानुवर्णं सितरक्तपीतकृष्णाचिह्नितमेकजातीयं
कार्यमित्यर्थः। कुसुमं पुष्पमनुवर्णसमं श्वभ्रोषितं रात्रौ श्वभ्रे स्थितं कृत्वा, ततो द्वितीयदिने
यस्य वर्णस्य सम्बन्धि कुसुमं न प्रम्लायते न शुष्यति, तत्स्थानं तस्यैव वर्णस्य शुभदम्।
अथवा यस्य वर्णस्य यस्मिन् भूभागे मनश्चित्तं रमते, तत्र तस्यैव शुभदं न तत्रैव विचारः
कार्य इत्यर्थः। तथा चात्र गर्गः—
या यस्य राशिता भूमेर्भवेत्तु गृहकर्मणि।
तस्यां श्वभ्रं खनेन्मध्ये हस्तमात्रं समन्ततः।।
तच्छ्वभ्रं पूरयेत् तेन पांशुना सुविचक्षणः।
वर्धमाने च वृद्धिः स्याद्धीयमाने .विगर्हिता।।
साम्ये साम्यं विनिर्दिष्टमथवाऽन्यद्विचारणम्।
पूरयित्वाऽथवा श्वभ्रं मृद्भिः क्रमशतं व्रजेत्।।
पूर्णं स्यादागमं यावत् सा भूमिस्तु प्रशस्यते।
तस्मिन् वा धारयेच्छ्वभ्रे चित्रं मान्यमनुक्रमात्।।
यच्चिरानम्लायते माल्यं तद्वर्णं तत्र चावसेत्।
आमे वा मृन्मये पात्रे दीपवर्तिचतुष्टयम्।।
यस्यां दिशि प्रज्वलति चिरं तस्यैव सा शुभा।। इति।।९३।।
अथान्यद् भूमिलक्षणमाह—
सितरक्तपीतकृष्णा विप्रादीनां प्रशस्यते भूमिः ।
गन्धश्च भवति यस्यां घृतरुधिरान्नाद्यमद्यसमः ।।९४।।
कुशयुक्ता शरबहुला दूर्वाकाशावृता क्रमेण मही ।
ह्यनुवर्णं वृद्धिकरी मधुरकषायाम्लकटुका च ।।९५।।
ब्राह्मणादि वर्णों के लिये क्रमशः सफेद, लाल, पीली और काली भूमि शुभ होती
है। साथ ही क्रमशः घृतगन्धा, रक्तगन्धा, अन्नगन्धा और मद्यगन्धा भूमि भी शुभ होती
है। ब्राह्मण आदि वर्णों के लिये क्रम से कुशों से युत, मुञ्जों से युत, दूबों से युत एवं
कासों से युत भूमि शुभ होती है तथा ब्राह्मणादि के लिये क्रम से मीठी, कषैली, खट्टी
और कड़वी मिट्टी वाली भूमि भी शुभ होती है।।९४-९५।।
विप्रादीनां ब्राह्मणक्षत्रियवैश्यशूद्राणां सितरक्तपीतकृष्णा यथाक्रमेण भूमिः प्रशस्यते।
श्वेतवर्णा ब्राह्मणानां भूः प्रशस्ता। रक्तवर्णा लोहिता क्षत्रियाणाम्। पीतवर्णा हरिता वैश्या-
नाम्। कृष्णवर्णा शूद्राणाम्। घृतसमगन्धा ब्राह्मणानाम्। रुधिरसमगन्धा क्षत्रियाणाम्। अन्न-
सदृशगन्धा वैश्यानाम्। मद्यसदृशगन्धा शूद्राणाम्। .
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वास्तुविद्याध्यायः ५७
कुशयुक्ता दर्भसंयुक्ता भूमिर्विप्राणां शुभदा। शरैः काण्डैर्बहुला संयुक्ता क्षत्रियाणाम्।
दूर्वा शाद्वलम्, दूर्वायुता वैश्यानाम्। काशावृता शूद्राणाम्। एवं क्रमेण भूः प्रशस्ता।
तथा मधुरकषायाम्लकटुका चानुवर्णं वृद्धिकरी। मधुरा ब्राह्मणानाम्। कषाया क्षत्रियाणाम्।
आम्ला वैश्यानाम्। कटुका शूद्राणामिति। तथा च गर्गः—
मधुरा दर्भसंयुक्ता घृतगन्धा च या मही।
उत्तरप्रवणा चेति ब्राह्मणानां तु सा शुभा।।
रक्तगन्धा कषाया च शरवीरेण संयुता।
रक्ता प्राक्प्रवणा ज्ञेया क्षत्रियाणां तु सा मही।।
दक्षिणप्रवणा भूमिर्याम्ला दूर्वाभिरन्विता।
अन्नगन्धा च वैश्यानां पीतवर्णा प्रशस्यते।।
पश्चिमप्रवणा कृष्णा विकुण्ठा काशसंवृता।
मद्यगन्धा मही धन्या शूद्राणां कटुका तथा।। इति।।९४-९५।।
अधुना गृहप्रारम्भे विधानमाह—
कृष्टां प्ररूढबीजां गोऽध्युषितां ब्राह्मणैः प्रशस्तां च।
गत्वा महीं गृहपतिः काले सांवत्सरोद्दिष्टे ।।९६।।
भक्ष्यैर्नानाकारैर्दध्यक्षतसुरभिकुसुमधूपैश्च ।
दैवतपूजां कृत्वा स्थपतीनभ्यर्च्य विप्रांश्च ।।९७।।
विप्रः स्पृष्ट्वा शीर्षं वक्षश्च क्षत्रियो विशश्चोरू।
शूद्रः पादौ स्पृष्ट्वा कुर्याद्रेखां गृहारम्भे ।।९८।।
गृहपति ब्राह्मणों के द्वारा प्रशंसित भूमि को पहले हल से जोतवा कर उसमें बीज
वपन करे, तत्पश्चात् उस बीज के पक जाने पर एक रात के लिये उसमें गायों को बैठावे,
पुनः दैवज्ञ के द्वारा बताये गये मुहूर्त में वहाँ जाकर अनेक प्रकार के भक्ष्य पदार्थ, दधि,
अक्षत, सुगन्ध, पुष्प और धूपों से क्षेत्रपति, स्थपति ( कारीगर ) और ब्राह्मणों की पूजा
करके यदि गृहपति ब्राह्मण हो तो शिर, क्षत्रिय हो तो छाती, वैश्य हो तो ऊरू और शूद्र
हो तो पाद-स्पर्श करके गृहारम्भ की रेखा खींचे।।९६-९८।।
कृष्टां हलविलिखिताम्। प्ररूढबीजां सहितव्रीहिकां कृष्टायामुप्तं बीजं सञ्जातं यस्याम्।
गोऽध्युषितां गावोऽध्युषिता निवासिता यस्याम्। ब्राह्मणैश्च सह तां प्रशस्तां प्रशंसिताम्।
गोब्राह्मणास्तत्र रात्रिमेकामुषिता इत्यर्थः। एवं कृते शुद्धिर्भूमेर्भवति। तथा चोक्तम्—
सम्मार्जनेनाञ्जनेन सेकेनोल्लेखनेन वा।
गवां च सन्निवासेन भूमिः शुध्यति पञ्चभिः।।
एवंविधां भूमिं गृहपतिर्गृहस्वामी सांवत्सरोद्दिष्टे दैवज्ञोक्ते काले समये सर्वगुणसहिते
निरुपहते गत्वा।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५८ बृहत्संहिता
नानाकारैर्बहुभिर्भक्ष्यैरपूपमोदकैर्लोपिकाप्रभृतिभिः। तथा दध्ना, अक्षतैश्च यवैः, सुरभिभिः
सुगन्धैः, कुसुमैः पुष्पैः, धूपैश्च सुगन्धैर्देवतपूजां दैवतानां पूजामर्चां क्षेत्रपतेश्च कृत्वा विधाय,
ततः स्थपतीन् विप्रान् ब्राह्मणांश्चाभ्यर्च्य सम्पूज्य।
विप्रः स्पृष्ट्वा शीर्षमिति। गृहपतिर्विप्रो ब्राह्मणो यदि भवति तदा शीर्षं स्वमूर्धानं
स्पृष्ट्वा येन केनचिदभीष्टेन वस्तुना यथाचरितां रेखां कुर्यात्। एवं क्षत्रियो वक्षः स्पृष्ट्वा,
वैश्यश्चोरू स्पृष्ट्वा, शूद्रः पादौ स्पृष्ट्वा गृहारम्भे रेखां कुर्यात्।।९६-९८।।
तस्यां कृतायां लक्षणमाह—
अङ्गुष्ठकेन कुर्यान्मध्याङ्गुल्याऽथवा प्रदेशिन्या।
कनकमणिरजतमुक्तादधिफलकुसुमाक्षतैश्च शुभम् ।।९९।।
शस्त्रेण शस्त्रमृत्युर्बन्धो लोहेन भस्मनाग्निभयम्।
तस्करभयं तृणेन च काष्ठोल्लिखिता च राजभयम् ।।१००।।
वक्रा पादालिखिता शत्रुभयक्लेशदा विरूपा च।
चर्माङ्गारास्थिकृता दन्तेन च भर्तुरशिवाय ।।१०१।।
वैरमपसव्यलिखिता प्रदक्षिणं सम्पदो विनिर्देश्याः।
वाचः परुषा निष्ठीवितं क्षुतं चाशुभं कथितम् ।।१०२।।
यदि अँगूठा, मध्यमा, प्रदेशिनी, सोना, चाँदी, मोती, दही, फल, फूल या अक्षत से
गृहारम्भ की रेखा बनायी जाय तो गृहपति के लिये वह रेखा शुभ होती है। यदि उक्त
रेखा शस्त्र से बनाई जाय तो शस्त्र से ही गृहस्वामी की मृत्यु, लोहे से बनाई जाय तो
बन्धन, भस्म से बनाई जाय तो अग्निभय, तृण से बनाई जाय तो चोरभय और काष्ठ से
बनाई जाय तो राजभय होता है। टेढ़ी, पाँव से बनाई गई या रूपरहित रेखा शत्रुभय और
कष्ट प्रदान करने वाली होती है। चमड़ा, कोयला, हड्डी या दाँत से बनाई गई रेखा
गृहपति के लिये अशुभ होती है। वाम क्रम से बनाई गई रेखा शत्रुता और प्रदक्षिण क्रम
से बनाई गई रेखा सम्पत्ति प्रदान करने वाली होती है। गृहारम्भ काल में कठोर वचन
बोलना, थूकना और छींकना अशुभकारी होता है।।९९-१०२।।
तां रेखां यदि गृहपतिरङ्गुष्ठकेन कुर्यात्, मध्याङ्गुल्याऽथवा प्रदेशिन्या वा ज्येष्ठाङ्गुल्य-
ङ्गुष्ठद्वितीया प्रदेशिनी, तृतीया मध्यमा, चतुर्थ्यनामिका, पञ्चमी कनिष्ठिका, कनकेन सुवर्णेन,
मणिना वा रजतेन रूप्येण, मुक्ताभिर्वा, दध्ना, फलेन श्रीफलादिना, कुसुमेन पुष्पेण वा,
अक्षतैैर्यवैर्वा, एतेषामन्यतमेन यदि वा करोति, तदा शुभं भर्तुः शुभं करोति।
शस्त्रेणेति। तां रेखां यदि शस्त्रेण करोति, तदा शस्त्रेणैव गृहपतेर्मृत्युः। एवं लोहेन
बन्धो बन्धनम्। भस्मना अग्निभयं वह्निभीतिम्। तृणेन च तस्करभयं चौरभीतिम्। काष्ठे-
नोल्लिखिता रेखा राजभयं राजभीतिं करोति।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

वास्तुविद्याध्यायः ५९
वक्रा अस्पष्टा पादेनालिखिता च या रेखा सा शत्रुभयं रिपुभीतिं क्लेशांश्च ददाति।
विरूपा च या रेखाऽदृश्याऽथवा चित्तद्गाह्लादिनी न भवति साऽपि च शब्दाच्छत्रुभयक्लेशदा।
चर्मणा अङ्गारकेण वाऽस्थ्ना दन्तेन वा कृता रेखा भवति, तदा भर्तुर्गृहस्वामिनोऽशिवाय
न श्रेयसे भवति।
अपसव्येन स्वासव्येन स्वादक्षिणेन लिखिता वैरं करोति। प्रदक्षिणेन या च लिखिता
तया सम्पदः समृद्धयो निर्दे्श्या वक्तव्याः। वामभागाद् दक्षिणभागे दक्षिणे नीयते सा
प्रदक्षिणगता रेखा। तथा च प्रश्नकाले वाचो गिरः परुषा रूक्षा असङ्गतियुक्तिवादिन्यः।
निष्ठीवितं श्लेष्मत्यागो मुखात् सद्यः। क्षुतं च नासाशब्दः। गृहारम्भकाले अशुभमनिष्टं
कथितमुक्तम्॥९९-१०२॥
अधुना शल्यज्ञानं विवक्षुरादावेव तत्र विधानमाह—
अर्द्धनिचितं कृतं वा प्रविशन् स्थपतिर्गृहे निमित्तानि।
अवलोकयेद् गृहपतिः क्व संस्थितः स्पृशति किं चाङ्गम्॥१०३॥
रविदीप्तो यदि शकुनिस्तस्मिन् काले विरौति परुषरवम्।
संस्पृष्टाङ्गसमानं तस्मिन् देशेऽस्थि निर्दे्श्यम्॥१०४॥
आधे बने या सम्पूर्ण बने हुये गृह में प्रवेश करता हुआ कारीगर आगे कथित चिह्नों
को देखे कि गृहस्वामी कहाँ पर स्थित है और किस अङ्ग का स्पर्श कर रहा है? उस
समय दीप्त दिशा में स्थित पक्षीगण कठोर शब्द करते हों तो जिस स्थान पर गृहपति
खड़ा हो उसके नीचे तथा जिस अङ्ग को गृहपति ने स्पर्श कर रक्खा हो, तत्तुल्य अङ्ग
की हड्डी कहनी चाहिये। उदयकाल से एक-एक प्रहर क्रम से पूर्व आदि दिशा में सूर्य
रहता है। जैसे कि उदयकाल से एक प्रहर तक पूर्व में, तत्पश्चात् क्रमशः द्वितीय प्रहर
तक आग्नेय कोण में, तृतीय प्रहर तक दक्षिण में एवं सायंकाल तक नैर्ऋत्य कोण में;
तत्पश्चात् रात्रि के प्रथम प्रहर तक पश्चिम में, द्वितीय प्रहर तक वायव्य कोण में, तृतीय
प्रहर तक उत्तर में और रात्रि के चतुर्थ प्रहर तक ईशान कोण में सूर्य रहता है। जिस
दिशा का सूर्यने परित्याग कर दिया हो वह 'अङ्गारिणी', जिसमें स्थित हो वह 'दीप्त',
जिसमें जाने वाला हो वह 'धूमित' और शेष पाँच दिशायें 'शान्त' कहलाती हैं। जैसे कि
उदय से प्रथम प्रहर तक ईशान कोण अङ्गारिणी, पूर्व दिशा दीप्त, आग्नेय कोण धूमित
और शेष पाँच दिशायें शान्तसंज्ञक होती हैं॥१०३-१०४॥
गृहं वेश्म अर्धनिचितमर्धकृतं कृतं वा निःशेषं रचितं तत्र प्रविशन्नन्तर्विशन् स्थपति-
वर्धकिः प्रविश्य निमित्तानि चिह्नान्यवलोकयेत् पश्येत्। गृहपतिर्गृहस्वामी क्व संस्थितः,
कस्मिन् स्थाने समवस्थितो वास्तुनरस्य कस्मिन्नवयवे स्थितः, किं चाङ्गं स्वावयवं स्पृशति।
एतदप्यवलोकयेद् रविदीप्त इति। अत्र तावद्दीप्तदिगलक्षणं व्याख्यायते। तद्यथा—
सूर्योदयात् प्रभृति दिनस्य प्रथमप्रहरं यावत् तावदैशानी दिग्दङ्गारिणी पूर्वा दीप्ता आग्नेयी
CC-0. JK Sanskrit Academy, Jammmmu. Digitized by S3 Foundation USA

६० बृहत्संहिता
धूमिता शेषाः शान्ताः पञ्च। ततः प्रहरादूर्ध्वं प्रहरद्वयं यावत् तावत् पूर्वाऽङ्गारिणी आग्नेयी
दीप्ता, याम्या धूमिता, शेषाः शान्ताः। ततः प्रहरद्वयादूर्ध्वं प्रहरत्रयं यावदाग्नेयी दिगङ्गारिणी
याम्या दीप्ता, नैर्ऋती धूमिता, शेषाः शान्ताः। ततः प्रहरत्रयादूर्ध्वं सूर्यास्तं यावत् तावद्
याम्याङ्गारिणी नैर्ऋती दीप्ता, पश्चिमा धूमिता, शेषाः शान्ताः। ततोऽस्तमयादूर्ध्वं रात्रौ
प्रथमप्रहरं यावन्नैर्ऋती दिगङ्गारिणी, पश्चिमा दीप्ता, वायव्या धूमिता, शेषाः शान्ताः। ततो
रात्रिप्रहरोर्ध्वं प्रहरद्वयं यावत् तावत् पश्चिमा दिगङ्गारिणी, वायव्या दीप्ता, उत्तरा धूमिता,
शेषाः शान्ताः। ततः प्रहरद्वयादूर्ध्वं रात्रौ प्रहरत्रयं यावत् तावद्वायव्या दिगङ्गारिणी, उत्तरा
दीप्ता, ऐशानी धूमिता, शेषाः शान्ताः। ततो रात्रौ प्रहरत्रयादूर्ध्वं सूर्योदयं यावत् तावदुत्तरा
दिगङ्गारिणी, ऐशानी दीप्ता, पूर्वा धूमिता, शेषाः पञ्च शान्ता इति। तस्मिन् काले गृह-
प्रवेशसमये शकुनिः पक्षी रविवशेन तत्काले या दीप्ता तस्यां दिशि स्थितः सूर्याभिमुखश्च
यदि परुषरवं रूक्षशब्दं च विरौति, तदा संस्पृष्टाङ्गसमानं गृहपतिना स्वकीयं यदङ्गं स्पृष्टं
तत्समानं तदङ्गसम्भूतं तस्मिन् देशे यत्र गृहपतिः स्थितस्तत्रास्थि निर्देश्यं वक्तव्यम्। अत्र
प्रमाणमाचार्येण नोक्तम्। ननूक्तमेवमुच्यते—संस्पृष्टाङ्गसमानमित्यनेन ज्ञापयति। यत् तदङ्गं
स्पृष्टं तत्प्रमाणे भूभागे शल्यं स्थितमिति ज्ञेयम्। उक्तमागमान्तरे—
पृच्छाकाले गृहस्वामी यदङ्गं स्पृशति स्वकम्।
भुवो हस्तप्रमाणे शल्यं ब्रूयात्तदङ्गजम्॥ इति॥१०३-१०४॥
अन्यदप्याह—
शकुनसमयेऽथवाऽन्ये हस्त्यश्वश्वादयोऽनुवाशन्ते।
तत्रभवमस्थि तस्मिंस्तदङ्गसम्भूतमेवेति ॥१०५॥
शकुन देखने के समय यदि दीप्त दिशा की तरफ मुख करके हाथी, घोड़ा, कुत्ता
आदि जीव बोलें तो जिस स्थान पर गृहस्वामी स्थित रहता है, उसके नीचे उन जीवों के
उसी अङ्ग की हड्डी होनी चाहिये, जिस अङ्ग का गृहपति स्पर्श कर रहा होता है॥१०५॥
शकुनसमये निमित्तकाले, अथवाऽन्येऽपरे प्राणिनो हस्त्यश्वश्वादयः, हस्ती गजः,
अश्वस्तुरगः, श्वादयः श्वा सारमेयः, आदिग्रहणादुष्ट्रकाजाविकमार्जारप्रभृतयः। एते यद्यनुवाशन्ते
शब्दं कुर्वन्ति। एतेषामन्यतमो निमित्तकाले रविदीप्तो यदि वाशते, तदा तस्मिन् स्थाने
गृहभर्त्रीधिष्ठितेऽङ्गे तत्रभवं तत्प्राणिजातं तदङ्गसम्भूतमेव गृहपतिसंस्पृष्टाङ्गसमानमेवास्थि
वक्तव्यम्। प्रमाणं प्राग्वदिति॥१०५॥
अन्यदप्याह—
सूत्रे प्रसार्यमाणे गर्दभरावेऽस्थिशल्यमाचष्टे।
श्वशृगाललङ्घिते वा सूत्रे शल्यं विनिर्देश्यम् ॥१०६॥
सूत्र फैलाने के समय यदि गदहे का शब्द सुनाई दे तो गृहपति के नीचे हड्डी कहनी
चाहिये तथा कुत्ता या सियार उस सूत्र को लाँघ जाय तो भी उक्त स्थान में शल्य कहना
चाहिये॥१०६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वास्तुविद्याध्यायः ६१
सूत्रे प्रसार्यमाणे यदि गर्दभस्य खरस्य रवः शब्दः श्रूयते, तदा अस्थिशल्यमाचष्टे
कथयति। अथवा शुना शृगालेन वा लङ्घिते अतिक्रामिते तत्रभवमस्थिशल्यं विनिर्दिश्यं
वक्तव्यम्। गृहभर्तुरधिष्ठिते स्थाने संस्पृष्टाङ्गसमानं प्रमाणं प्राग्वदिति॥१०६॥
अथ शुभमाङ्गल्यज्ञानमाह—
दिशि शान्तायां शकुनिर्मधुरविरावी यदा तदा वाच्यः ।
अर्थस्तस्मिन् स्थाने गृहेश्वराधिष्ठितेऽङ्गे वा ॥१०७॥
उस समय जिस स्थान पर शान्त दिशा की ओर मुख करके पक्षीगण मधुर शब्द
करें अथवा वास्तु पुरुष के जिस अङ्ग पर गृहस्वामी अवस्थित हो, उस अङ्ग के नीचे
धन कहना चाहिये।।१०७।।
तत्काले शान्तायां दिशि यदि शकुनिः पक्षी मधुरविरावी मधुरं विरौति, तदा तस्मिन्
स्थाने यत्र शकुनिः स्थितस्तत्राऽर्थो वाच्यो धनं वक्तव्यम्। अथवा गृहेश्वरेण गृहपतिना वास्तु-
नरस्य यदङ्गमधिष्ठितं तत्र वाच्य इति। हस्तविज्ञानं प्राग्वदिति यदुक्तं संस्पृष्टाङ्गसमानमिति।
तत्र तावत्प्रथमं भूमिनिखनने यावदङ्गं गृहभर्तुरुत्थितस्योर्ध्वबाहोर्निमज्जते, तावत्प्रमाणेने
तच्छल्यं वक्तव्यम्। तथा च गर्गः—
प्रश्नकाले गृहपतिः कस्मिन्नङ्गे समास्थितः।
किमङ्गं संस्पृशेद्व्रापि व्याहरेद्वा शुभाशुभम्।।
विलोक्य स्थपतिः पूर्वं पश्चाच्छल्यं विचारयेत्।
शङ्खभेरीमृदङ्गानां पटहानां च निःस्वनाः।।
दध्यक्षतानां पुष्पाणां फलानां दर्शनानि च।
प्रष्टुश्च प्रवदेच्छल्यं वास्तुज्ञानविशारदः।।
दीपदिक्संस्थितः पक्षी विरौति परुषं रवम्।
स्पृष्टाङ्गसदृशं शल्यं तस्य स्थाने विनिर्दिशेत्।।
निखनेदवनिं तत्र तदङ्गं ब्रुडते यथा।
गृहनाथस्य तत्राधः शल्यं निःसंशयं वदेत्।।
प्रश्नकाले गजो गौर्वा तुरगो गर्दभोऽपि वा।
उष्ट्रो वा सारमेयो वा मार्जारश्छागरोऽपि वा।।
यः प्राणी व्याहरेत्तत्र तद्भवं शल्यमादिशेत्।
प्रमाणं तस्य वक्तव्यं पूर्वोक्तविधिना ततः।। इति।।१०७।।
अथान्यच्छुभाशुभज्ञानमाह—
सूत्रच्छेदे मृत्युः कीले चावाङ्मुखे महान् रोगः ।
गृहानाथस्थपतीनां स्मृतिलोपे मृत्युरादेश्यः ॥१०८॥
स्कन्धाच्च्युते शिरोरुक् कुलोपसर्गोऽपवर्जिते कुम्भे ।
भग्नेऽपि च कर्मवधश्च्युते कराद् गृहपतेर्मृत्युः ॥१०९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६२ बृहत्संहिता
यदि फैलाने के समय सूत्र टूट जाय तो गृहपति की मृत्यु होती है। गाड़ने के समय
कील का मुख नीचे की तरफ हो जाय तो गृहपति को बहुत बड़ा रोग होता है। यदि उस
समय गृहपति और कारीगर दोनों की स्मरण शक्ति नष्ट हो जाय तो दोनों की मृत्यु कहनी
चाहिये। यदि जल से परिपूर्ण कलश लाने के समय गिर जाय तो गृहपति को शिर का
रोग, गिर कर उलट जाय तो गृहस्वामी के कुल में उपद्रव, फूट जाय तो कारीगर की
मृत्यु और कलश हाथ से छूट जाय तो गृहस्वामी की मृत्यु होती है।।१०८-१०९।।
सूत्रे प्रसार्यमाणे यदि सूत्रच्छेदो भवति, तदा गृहपतेर्मृत्युर्भवति। तथा कीलके निख-
नमाने अवाङ्मुखे अधोमुखे गते महान् रोगो गृहभर्तुर्भवति। तथा गृहनाथस्य वेश्मप्रभोः
स्थपतीनां वर्धकिनां च स्मृतिलोपः स्मृतिभ्रंशो यदा भवति, तदा तेषामेव मृत्युरादेश्यो
वक्तव्यः।
कुम्भे घटे आनीयमाने स्कन्धादंसाच्च्युते चलिते शिरोरुग् गृहपतेर्भवति, तथा अप-
वर्जिते अधोमुखे गते कुलोपसर्गः कुलस्योपद्रवस्तस्यैव, तथा भग्ने कुम्भे कर्मवधः
कर्मकाराणां वधो मरणं भवति। कराद्धस्ताच्च्युते पतिते कुम्भे गृहपतेर्मृत्युर्मरणं भवति।
अथ शिलान्यासप्रदर्शनार्थमाह—
दक्षिणपूर्वे कोणे कृत्वा पूजां शिलां न्यसेत् प्रथमम्।
शेषाः प्रदक्षिणेन स्तम्भांश्चैवं समुत्थाप्याः ॥११०॥
छत्रस्रगम्बरयुतः कृतधूपविलेपनः समुत्थाप्यः।
स्तम्भस्तथैव कार्यों द्वारोच्छ्रायः प्रयत्नेन ॥१११॥
पहले उत्तर-पूर्व के कोण (ईशान कोण) में पूजन करके शिलान्यास करे, तत्पश्चात्
प्रदक्षिण क्रम से शेष शिलाओं का न्यास करे। इसी क्रम से स्तम्भों का भी उत्थापन
करना चाहिये। साथ ही छत्र, माला, वस्त्र, धूप और चन्दन से विभूषित करके स्तम्भ
को खड़ा करना चाहिये। इसी प्रकार द्वार को भी यत्नपूर्वक खड़ा करना चाहिये।
दक्षिणपूर्वे कोणे आग्नेयदिशि स्रग्गन्धधूपाम्बरोपहारहिरण्यमद्यमांसादिभिः पूजामर्चां
कृत्वा प्रथममादौ शिलां न्यसेत् स्थापयेत्। शेषा अन्याः शिलाः प्रदक्षिणेन न्यास्याः।
एतदुक्तं भवति—प्राग्दक्षिणस्यां दिशि शिलान्यासं कृत्वा, ततो दक्षिणस्याम्, ततो नैर्ऋ-
त्याम्, ततः पश्चिमायाम्, ततो वायव्याम्, तत उत्तरस्याम्, तत ऐशान्याम्, ततः पूर्वस्यां
दिशि शिलान्यासं कुर्यादिति। केचिदुत्तरपूर्वे कोणे कृत्वा पूजां शिलां न्यसेत् प्रथममिति
पठन्ति। उत्तरपूर्वे चेशानकोणे प्रथमं शिलान्यासं कृत्वा, ततः शेषाः प्रदक्षिणेन न्यास्या
इत्येतल्लोके स्थपतिषु दृश्यत इति। स्तम्भांश्चैवं समुत्थाप्याः, एवमनेनैव प्रकारेण स्तम्भाः
समुत्थाप्याः, यथा शिलान्यासः कृतस्तथा स्तम्भानामुत्थापनं कार्यमिति।
स्तम्भद्वाराणां विशेषफलमाह—स्तम्भश्छत्रेणातपत्रेण स्रग्भिर्मालाभिरम्बरैर्युतः। तथा
कृतधूपविलेपनो दत्तधूपो दत्तानुलेपनः समुत्थाप्यः। तथैव तेनैव प्रकारेण प्रयत्नेन द्वारोच्छ्रायः
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

वास्तुविद्याध्यायः ६३
कार्यः। एतदुक्तं भवति—यथा छत्रस्रगम्बरयुतः कृतधूपविलेपनस्तम्भ उत्थाप्यस्तथा द्वार-
मप्युत्थापनीयमिति। तथा च गर्गः—
शिलाविन्यासकाले तु सम्भारांश्चोपकल्पयेत्।
समुद्रजानि रत्नानि सुवर्णं रजतं तथा।।
सर्वबीजानि गन्धांश्च शरान् दर्भांस्तथैव च।
शुक्लान् सुमनसः सर्पिः केतकीं मधुरोचनाम्।।
आमिषं च तथा मद्यं फलानि विविधानि च।
क्षीरोदनं पूर्णकुम्भान् कोणे कोणे प्रदापयेत्।।
नानाविधानि भक्ष्याणि पानानि विविधानि च।
हुत्वाऽग्निं विधिवत् काले मुहूर्ते चोपपादिते।।
गृहकोणेषु सर्वेषु पूजां कृत्वा विधानतः।
ततः पुण्याहघोषेण शिलान्यासं प्रकल्पयेत्।।
ऐशानमादितः कृत्वा प्राग्दाक्षिण्येन विन्यसेत्।
अनेनैव विधानेन स्तम्भद्वारावरोहणम्।।
वास्तुविद्याविधानज्ञः कारयेत् सुसमाहितः।
शिलान्यासमन्त्रोऽयं निर्दिष्टो मुनिभिः पुरा।।
नन्दे नन्दाय वासिष्ठे वसुभिश्च हितप्रजे।
सुचिरे नन्ददे नन्दे वासिष्ठे रम्यतां गृहे।।
भद्रे काश्यपदायादे पूजनं भद्रमावह।
सुभगे सुव्रते देवि गृहे काश्यपि रम्यताम्।।
जये भार्गवदायादे प्रजानां भद्रमावह।
भव भूतिकरी देवि गृहे भार्गवि रम्यताम्।।
सर्वबीजसमायुक्ते सर्वगन्धौषधैर्वृते।
प्रजापतिसुते देवि सुखदाऽस्तु महीसुते।।
पूर्णेऽङ्गिरसदायादे पूर्णकामाः प्रजाः कुरु।
पूजिते परमाचार्ये गन्धमाल्यैरलंकृते।।
अव्यङ्गे चाक्षते पूर्णे मुनेरङ्गिरसः सुते।
इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां गृहिणः कुरु।।
ग्रामस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ।
मनुष्यपशुभृत्यश्वधनवृद्धिकरी भव।। इति।
अत्रास्माभिः क्रमेण शङ्कुप्रतिष्ठालक्षणं प्रसङ्गेन लिख्यतेऽन्यशास्त्रात्। तत्र शङ्कु-
लक्षणम्—
स्निग्धादिभूभागसमुत्थितानां न्यग्रोधबिल्वद्रुमखादिराणाम्।
शमीवटोडुम्बरदेवदारुक्षीरिस्वदेशोत्थफलद्रुमाणाम् ।।