बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 77, कुल 760 में से
संदर्भ में पढ़ेंवास्तुविद्याध्यायः ४९
गृहस्वामी का नाश, स्तम्भ से वेधित हो तो स्त्रियों में दोष और ब्रह्मा के सम्मुख हो तो
सम्पूर्ण कुल का ही नाश करता है।।७५-७६।।
रथ्याविद्धं मार्गेण विद्धं द्वारं नाशाय गृहस्वामिनो भवति। तरुणा वृक्षेण विद्धं कुमाराणां
बालकानां दोषदं दोषं ददाति। पङ्कद्वारे कर्दमविद्धे नित्यं यस्याग्रतः कर्दमो भवति, तस्मिन्
शोको भवति। अम्बुनिःस्राविणि जलनिर्गमनमार्गे विद्धे व्ययो धनव्ययो भवति।
कूपेन विद्धे द्वारे अपस्मारो भवति। अपस्मारो वायुदोषदः। देवताविद्धे देवता सुरप्रतिमा
तया विद्धे विनाशः स्वामिनो भवति। स्तम्भेन विद्धे स्त्रीदोषा दौःशील्यादिका भवन्ति।
ब्राह्मणाभिमुखे कुलनाशो वा भवति। किं वा बाह्ये ब्राह्मणाभिमुखे इति नावगम्यते, यमादुत्तम-
मुत्तराभिमुखं पञ्चमं द्वारमिष्टमुक्तम्। तद् गृहमध्यगं भवतीत्याह—वधबन्धो रिपुवृद्धिर्धन-
सुतलाभः समस्तगुणसम्पदित्यादि। अत्रोच्यते—बाह्यस्याभ्यन्तरस्य च ब्रह्मणोऽभिमुखद्वार-
स्यानिष्टं फलं प्रत्येकदेवताविद्धस्य फलमिदमाह—
देवद्वारं विनाशाय शङ्करद्वारमेव च। इत्यादि।
तथा— ब्रह्मणा यच्च संविद्धं तद्द्वारं कुलनाशनम्।
अभ्यन्तरब्रह्मणो मुखस्य द्वारस्यानिष्टफलं विश्वकर्माह—
गृहमध्ये कृतं द्वारं द्रव्यधान्यविनाशनम्।
आवहेत् कलहं शोकं नारीर्वा सम्प्रदूषयेत्।।
तथा भारद्वाजः—
शिरा मर्माणि वंशांश्च नालमध्यं च सर्वशः।
विहाय वास्तुमध्यं च द्वाराणि विनिवेशयेत्।।
तथा च यम आह—
ब्रह्मस्थाने न विध्येत नागदन्तस्थलानि च।
मृद्दारुभिर्गवाक्षैश्च मानपानैस्तथैव च।।
द्वारैश्च भित्तिभिश्चैव शय्याभागैः कथञ्चन।
स्वामिनो मरणं तत्र महादुःखेन पार्थिव।।
एवं चेत्तदाऽऽचार्येण पूर्वापरविरुद्धेन निबन्धनं स्यात्? अत्रोच्यते—'सर्वेष्वेव वास्तुषु
उत्सर्गापवादरूपेण विविधा व्याख्या च भवति। तथा च यात्राप्रकारे प्राच्यादिषु सप्त
सप्त नक्षत्राण्यभिधाय पुनः सर्वद्वारिकसंज्ञं नक्षत्रचतुष्टयमाह। एवमत्रापि। तस्मादयमदोष'
इति।।७५-७६।।
अन्यद् द्वारस्य विशेषमाह—
उन्मादः स्वयमुद्घाटितेऽथ पिहिते स्वयं कुलविनाशः ।
मानाधिके नृपभयं दस्युभयं व्यसनमेव नीचे च ॥७७॥
बृ० भा० द्वि०-४