बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 84, कुल 760 में से
संदर्भ में पढ़ें५६ बृहत्संहिता
अथवा अपना मन जहाँ पर प्रसन्न रहे वहीं पर निवासस्थान बनाना चाहिये, इसमें अधिक
विचार करने की कोई आवश्यकता नहीं है।।९३।।
अथवा अनुवर्णसमं ब्राह्मणादिवर्णचतुष्टयस्यानुवर्णं सितरक्तपीतकृष्णाचिह्नितमेकजातीयं
कार्यमित्यर्थः। कुसुमं पुष्पमनुवर्णसमं श्वभ्रोषितं रात्रौ श्वभ्रे स्थितं कृत्वा, ततो द्वितीयदिने
यस्य वर्णस्य सम्बन्धि कुसुमं न प्रम्लायते न शुष्यति, तत्स्थानं तस्यैव वर्णस्य शुभदम्।
अथवा यस्य वर्णस्य यस्मिन् भूभागे मनश्चित्तं रमते, तत्र तस्यैव शुभदं न तत्रैव विचारः
कार्य इत्यर्थः। तथा चात्र गर्गः—
या यस्य राशिता भूमेर्भवेत्तु गृहकर्मणि।
तस्यां श्वभ्रं खनेन्मध्ये हस्तमात्रं समन्ततः।।
तच्छ्वभ्रं पूरयेत् तेन पांशुना सुविचक्षणः।
वर्धमाने च वृद्धिः स्याद्धीयमाने .विगर्हिता।।
साम्ये साम्यं विनिर्दिष्टमथवाऽन्यद्विचारणम्।
पूरयित्वाऽथवा श्वभ्रं मृद्भिः क्रमशतं व्रजेत्।।
पूर्णं स्यादागमं यावत् सा भूमिस्तु प्रशस्यते।
तस्मिन् वा धारयेच्छ्वभ्रे चित्रं मान्यमनुक्रमात्।।
यच्चिरानम्लायते माल्यं तद्वर्णं तत्र चावसेत्।
आमे वा मृन्मये पात्रे दीपवर्तिचतुष्टयम्।।
यस्यां दिशि प्रज्वलति चिरं तस्यैव सा शुभा।। इति।।९३।।
अथान्यद् भूमिलक्षणमाह—
सितरक्तपीतकृष्णा विप्रादीनां प्रशस्यते भूमिः ।
गन्धश्च भवति यस्यां घृतरुधिरान्नाद्यमद्यसमः ।।९४।।
कुशयुक्ता शरबहुला दूर्वाकाशावृता क्रमेण मही ।
ह्यनुवर्णं वृद्धिकरी मधुरकषायाम्लकटुका च ।।९५।।
ब्राह्मणादि वर्णों के लिये क्रमशः सफेद, लाल, पीली और काली भूमि शुभ होती
है। साथ ही क्रमशः घृतगन्धा, रक्तगन्धा, अन्नगन्धा और मद्यगन्धा भूमि भी शुभ होती
है। ब्राह्मण आदि वर्णों के लिये क्रम से कुशों से युत, मुञ्जों से युत, दूबों से युत एवं
कासों से युत भूमि शुभ होती है तथा ब्राह्मणादि के लिये क्रम से मीठी, कषैली, खट्टी
और कड़वी मिट्टी वाली भूमि भी शुभ होती है।।९४-९५।।
विप्रादीनां ब्राह्मणक्षत्रियवैश्यशूद्राणां सितरक्तपीतकृष्णा यथाक्रमेण भूमिः प्रशस्यते।
श्वेतवर्णा ब्राह्मणानां भूः प्रशस्ता। रक्तवर्णा लोहिता क्षत्रियाणाम्। पीतवर्णा हरिता वैश्या-
नाम्। कृष्णवर्णा शूद्राणाम्। घृतसमगन्धा ब्राह्मणानाम्। रुधिरसमगन्धा क्षत्रियाणाम्। अन्न-
सदृशगन्धा वैश्यानाम्। मद्यसदृशगन्धा शूद्राणाम्। .
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA