बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 89, कुल 760 में से
संदर्भ में पढ़ेंवास्तुविद्याध्यायः ६१
सूत्रे प्रसार्यमाणे यदि गर्दभस्य खरस्य रवः शब्दः श्रूयते, तदा अस्थिशल्यमाचष्टे
कथयति। अथवा शुना शृगालेन वा लङ्घिते अतिक्रामिते तत्रभवमस्थिशल्यं विनिर्दिश्यं
वक्तव्यम्। गृहभर्तुरधिष्ठिते स्थाने संस्पृष्टाङ्गसमानं प्रमाणं प्राग्वदिति॥१०६॥
अथ शुभमाङ्गल्यज्ञानमाह—
दिशि शान्तायां शकुनिर्मधुरविरावी यदा तदा वाच्यः ।
अर्थस्तस्मिन् स्थाने गृहेश्वराधिष्ठितेऽङ्गे वा ॥१०७॥
उस समय जिस स्थान पर शान्त दिशा की ओर मुख करके पक्षीगण मधुर शब्द
करें अथवा वास्तु पुरुष के जिस अङ्ग पर गृहस्वामी अवस्थित हो, उस अङ्ग के नीचे
धन कहना चाहिये।।१०७।।
तत्काले शान्तायां दिशि यदि शकुनिः पक्षी मधुरविरावी मधुरं विरौति, तदा तस्मिन्
स्थाने यत्र शकुनिः स्थितस्तत्राऽर्थो वाच्यो धनं वक्तव्यम्। अथवा गृहेश्वरेण गृहपतिना वास्तु-
नरस्य यदङ्गमधिष्ठितं तत्र वाच्य इति। हस्तविज्ञानं प्राग्वदिति यदुक्तं संस्पृष्टाङ्गसमानमिति।
तत्र तावत्प्रथमं भूमिनिखनने यावदङ्गं गृहभर्तुरुत्थितस्योर्ध्वबाहोर्निमज्जते, तावत्प्रमाणेने
तच्छल्यं वक्तव्यम्। तथा च गर्गः—
प्रश्नकाले गृहपतिः कस्मिन्नङ्गे समास्थितः।
किमङ्गं संस्पृशेद्व्रापि व्याहरेद्वा शुभाशुभम्।।
विलोक्य स्थपतिः पूर्वं पश्चाच्छल्यं विचारयेत्।
शङ्खभेरीमृदङ्गानां पटहानां च निःस्वनाः।।
दध्यक्षतानां पुष्पाणां फलानां दर्शनानि च।
प्रष्टुश्च प्रवदेच्छल्यं वास्तुज्ञानविशारदः।।
दीपदिक्संस्थितः पक्षी विरौति परुषं रवम्।
स्पृष्टाङ्गसदृशं शल्यं तस्य स्थाने विनिर्दिशेत्।।
निखनेदवनिं तत्र तदङ्गं ब्रुडते यथा।
गृहनाथस्य तत्राधः शल्यं निःसंशयं वदेत्।।
प्रश्नकाले गजो गौर्वा तुरगो गर्दभोऽपि वा।
उष्ट्रो वा सारमेयो वा मार्जारश्छागरोऽपि वा।।
यः प्राणी व्याहरेत्तत्र तद्भवं शल्यमादिशेत्।
प्रमाणं तस्य वक्तव्यं पूर्वोक्तविधिना ततः।। इति।।१०७।।
अथान्यच्छुभाशुभज्ञानमाह—
सूत्रच्छेदे मृत्युः कीले चावाङ्मुखे महान् रोगः ।
गृहानाथस्थपतीनां स्मृतिलोपे मृत्युरादेश्यः ॥१०८॥
स्कन्धाच्च्युते शिरोरुक् कुलोपसर्गोऽपवर्जिते कुम्भे ।
भग्नेऽपि च कर्मवधश्च्युते कराद् गृहपतेर्मृत्युः ॥१०९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA