सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 73, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 73

वास्तुविद्याध्यायः ४५
भौजङ्गे वैरं द्वेषः सुतेन पुत्रेण सह। आदित्ये स्त्रिया दोषास्तदुत्था अशुभाः। दित्याख्ये
नैःस्वं निर्धनत्वम्। एवमुत्तरतो द्वारनिर्देशः।
नन्वत्र नवगुणसूत्रविभक्तानीत्यत्र नृपादीनां वर्णानां चैकाशीतिपदेन नवगुणसूत्रविभक्तानि
कार्याणि कुत एतन्निश्चीयते इति? उच्यते—अष्टगुणेनाथवा चतुःषष्टेरित्यस्मादेव विकल्पा-
दवगम्यते। पूर्वाचार्यप्रणीतपक्षस्यायं विकल्पः। यस्माद्विश्वकर्मणा एकाशीतिपदगतचतुः-
षष्टिपदान्युक्तानि। तेषु च प्रत्येकं विभङ्गान्याभिहितानि। तथा चाह—
राजवेश्मनि वेश्म श्व गृहादीनि च वर्णिनाम्।
एकाशीतिपदेनैव शक्रस्थानं च मापयेत्॥
प्रासादान् विविधान् छन्दांस्तथाऽऽद्यांश्चाष्टमण्डपान्।
एकाशीतिपदेनैव सर्वानैतान् प्रमापयेत्॥
नगरग्रामखेटादीन् शिबिराणि च भूभृताम्।
स्थपतिस्थान् शतपदप्रविभागेन मापयेत्॥ इति।
तस्मान्नवगुणसूत्रविभक्तान्येकाशीतिपदे नृपादीनां कर्तव्यानि। अत्र केचिदनिश्चितबुद्धयो
विकल्पांश्चोदयन्ति, यथा चतसृष्वपि दिक्षु नवगुणसूत्रविभक्तानि नव विभागा भवन्ति। अनिल-
भयं स्त्रीजननमित्यादीन्यष्टाष्टद्वाराण्युक्तानि, योऽसौ नवमो भागस्तत्र प्रदेशे किं कर्तव्यमिति।
अत्रोच्यते—प्रागेव वास्तुदेवतानां प्रविभागं कृत्वाऽनिलादीनां देवतानां पदेषु द्वाराणि प्रवि-
कल्प्यानि, कल्पिते च द्वारभित्तिश्चिन्तनीया। तथा च नन्दी आह—
भित्तिश्चिन्त्या द्वारे सत्याचार्या व्यवस्यन्ति।
आचार्येण समाससंहितानिबन्धने स्पष्टतरं निबद्धम्। तथा आह—
पूर्वाण्यैशान्यां यान्याग्नेय्यां दक्षिणानि जानीयात्।
द्वाराणि नैर्ऋतात् पश्चिमान्युदक्स्थानि वायव्याम्॥
आग्नेयमग्निभयदं पार्जन्यं स्त्रीप्रसूतिदं द्वारम्।
प्रचुरधनदं जयन्तं नृपवल्लभकारि माहेन्द्रम्॥
सौर्ये क्रोधः प्रचुरः सत्येऽनृतवादितं भृशे क्रौर्यम्।
चौर्यं तथान्तरिक्षे प्राग् द्वाराणि प्रदिष्टानि॥
वायव्येऽल्पसुतत्वं प्रैष्यं पौष्णेऽथ नीचता वितथे।
बह्वन्नपानपुत्रं बृहत्क्षते याम्य अपि रौद्रम्॥
गान्धर्वे गन्धत्वं नृपचौरभयाय भृङ्गराजाख्यम्।
मृगमपि सुतवीर्यघ्नं दक्षिणतो द्वारनिर्देशः॥
पित्र्ये शरीरपीडा दौवारिकसंज्ञिते च रिपुवृद्धिः।
सुग्रीवे धनहानिः पुत्रधनाढ्यं कुसुमदन्तम्॥
वारुणमर्थनिचयदं नृपभयदं चासुरं विनिर्दिष्टम्।
शोषं धनहानिकरं बहुरोगं पापयक्ष्माख्यम्॥