बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
वायसविरुताध्यायः ४८९
उलूककङ्कप्लवगा गृध्रश्येनादयश्च ये।
मांसाशिनश्च विहगास्तुल्या वायसचेष्टितैः।। इति।।४८।।
अथ विशेषमाह—
द्वात्रिंशत्प्रविभक्ते दिक्चक्रे यद्यथा समुद्दिष्टम्।
तत्तत्तथा विधेयं गुणदोषफलं यियासूनाम् ॥४९॥
द्वात्रिंशद्विभक्त दिक्चक्र में जिस प्रकार फल कहा गया है, उसी प्रकार गमन करने
वालों को गुण-दोष-फल कहना चाहिये। शान्त पूर्व दिशा में स्थित शकुन शुभ, अशुभ
शकुन मध्यम फल, दीप्त पूर्व दिशा में क्रूर चेष्टा वाले शकुन राजा से भय इत्यादि की
तरह फल कहना चाहिये॥४९॥
दिक्चक्रे दिङ्मण्डले द्वात्रिंशद्भागप्रविभक्ते यद्यत्फलं यथा येन प्रकारेण समुद्दिष्टं कथितं
तत्तत् फलं तथा तेनैव प्रकारेण यियासूनां जिगमिषूणां गुणदोषफलं विधेयं वक्तव्यम्।
यथा—प्राच्यां शान्तायां वा शुभचेष्टं पूजाफलं महद्वक्ति। अशुभचेष्टायां मध्यस्थं तस्यामेव
दीप्तायां क्रूरचेष्टो नृपाद्भयम्, एवमन्यास्वपि विज्ञेयम्॥४९॥
अथ रुतलक्षणफलमाह—
का इति काकस्य रुतं स्वनिलयसंस्थस्य निष्फलं प्रोक्तम्।
कव इति चात्मप्रीतयै केति रुते स्निग्धमित्राप्तिः ॥५०॥
करेति कलहं कुरुकुरु च हर्षमथ कटकटेति दधिभक्तम्।
केके विरुतं कुकु वा धनलाभं यायिन प्राह ॥५१॥
अपने घोसले में अवस्थित काक का 'का' शब्द निष्फल, 'कव' शब्द अपनी प्रसन्नता
के लिये, 'क' शब्द प्रिय की प्राप्ति कराने वाला, 'कर' शब्द कलह कराने वाला 'कुरु-
कुरु' शब्द आनन्द कराने वाला, 'कट कट' शब्द दही-भोजन कराने वाला एवं 'केके'
और 'कुकु' शब्द गमन करने वाले को धनप्राप्ति कराने वाला होता है॥५०-५१॥
का इति काकस्य रुतमिति। काकस्य वायसस्य स्वनिलयसंस्थस्य आत्मीयनीड-
स्थितस्य का—इति यद्रुतं तन्निष्फलं प्रोक्तं कथितम्। तस्य च शुभाशुभं फलं न किञ्चिद-
त्यर्थः। कव—इति रुतं चात्मप्रीतयै स्वप्रीतये भवति। क—इति रुते स्निग्धस्य वल्लभस्य
मित्रस्य सुहृद आप्तिः प्राप्तिर्भवति।
कर—इति रुते कलहः कलिर्भवति। कुरुकुरु च रुते हर्ष भवति। अथशब्दश्चार्थे।
कटकटेति रुते दधिभक्तं भोजनं भवति। केके—इति विरुते कुकु—इति विरुते वा यायिनो
गच्छतो धनलाभं वित्तप्राप्तिं प्राह कथयति॥५१॥
अन्यदप्याह—
खरेखरे पथिकागममाह कखाखेति यायिनो मृत्युम्।
गमनप्रतिषेधिकमा कखला सद्योऽभिवर्षाय ॥५२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४९० बृहत्संहिता
काक का ‘खरे खरे’ शब्द पथिक के आगमन को कहता है, ‘कखाखा’ शब्द गमन
करने वाले की मृत्यु को सूचित करता है, ‘आ’ शब्द यात्रा में विघ्न उपस्थित करता है
और ‘कखला’ शब्द सद्यः ( उसी दिन ) वर्षा के लिये होता है।।५२।।
खरेखरे इति रुते पथिकस्य पान्थस्यागमो भवति इत्याह कथयति वायसः। कखा-
खेति—रुते यायिनो मृत्युं मरणमाह। आ—इति रुतं गमनप्रतिषेधिकं गमनविघ्नं करोति।
कखला इति रुतं सद्योऽभिवर्षाय सद्यस्तस्मिन्नेवाहनि वर्षतीत्यर्थः।।५२।।
अन्यदप्याह—
काकेति विघातः काकटीति चाहारदूषणं प्राह ।
पीत्यास्पदं कवकवेति बन्धमेवं कगाकुरिति ॥५३॥
काक का ‘काक’ शब्द विनाश करता है, ‘ककाटि’ शब्द भोजन में विष आदि दोष
को, ‘कवकव’ शब्द प्रीत्यास्पद ( किसी से प्रीति ) को और इसी प्रकार ‘कगाकु’ शब्द
बन्धन को सूचित करता है।।५३।।
काक—इति विरुते विघातो विनाशो भवति। काकटीति विरुते आहारस्य भोजनस्य
दूषणं सदोषत्वं विषादिकेन प्राह कथयति। कवकव इति रुते प्रीत्यास्पदम्, प्रीत्याः स्नेहस्य
आस्पदं स्थानं प्रीत्यास्पदम्। केनचित् सह प्रीतिर्भवति। अन्ये प्रीत्या स्वदम्पती कवकवेति
पठन्ति। यथा स्वदम्पती भार्यापती कवकवेति प्रीत्या स्नेहेन कवकवेति रुतं कुर्वतः।
एतन्न शोभनम्। यस्माद् गर्गः—
रुते कवकवेति स्यात् प्रस्थिते वायसस्य तु।
अपूर्वप्रीतये तच्च धनलाभाय निर्दिशेत्।।
एवं कगाकु इति रुते बन्धो बन्धनं भवति।। इति।।५३।।
अन्यदप्याह—
करगौ विरुते वर्षं गुडवत् त्रासाय वदिति वस्त्राप्तिः ।
कलयेति च संयोगः शूद्रस्य ब्राह्मणैः साकम् ॥५४॥
काक का ‘करगौ’ शब्द करने पर वर्षा होती है। ‘गुड’ शब्द भय के लिये होता है,
‘वड’ शब्द वस्त्रलाभ कराने वाला होता है और ‘कलय’ शब्द ब्राह्मणों के साथ शूद्र का
समागम कराता है।।५४।।
करगौ इति रुते वृष्टिर्वर्षणं भवति। गुड इति त्रासाय भयाय भवति वड् इति रुते वस्त्र-
प्राप्तिरम्बरलाभः। कलय इति च रुते शूद्रस्य शूद्रजातेर्ब्राह्मणैः साकं सह संयोगो भवति।
अन्यदप्याह—
कदिति फलाप्तिः फलदाहिदर्शनं तड्डिति प्रहाराः स्युः ।
स्त्रीलाभः ख्रीति रुते गदिति गवां पुडिति पुष्पाणाम् ॥५५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वायसविरुताध्यायः ४९१
काक का 'कड' शब्द अभीष्ट फल-प्राप्ति और शुभ देने वाले सर्प का दर्शन
कराता है तथा 'टड्डु' शब्द घात, 'स्त्री' शब्द स्त्री-लाभ, 'गड्' शब्द गायों का लाभ और
'पुड्' शब्द फूलों का लाभ कराता है।।५५।।
कडिति रुते फलाप्तिरभीष्टफलप्राप्तिर्भवति। अथवा फलाप्तिः फललाभः। तथा फल-
दाहिदर्शनं फलप्रदस्र्याहेः शुभफलप्रदस्य सर्पस्य दर्शनमवलोकनं भवति। अथवा फलाप्ति-
र्भवति सदाप्तिः। फलदा फलप्रदा ततोऽपि विशिष्टतरं फलं लभ्यते। तथाऽहिदर्शनं भवति।
टड्डिति रुते प्रहारा घाताः स्युर्भवेयुः। स्त्री-इति रुते स्त्रीलाभो भवति। गडिति रुते गवां
लाभः। पुडिति रुते पुष्पाणां लाभः।।५५।।
अन्यदप्याह—
युद्धाय टाकुटाक्विति गुहु वह्निभयं कटेकटे कलहः।
टाकुलि चिण्टिचि केकेकेति पुरं चेति दोषाय ।।५६।।
यदि कौवा 'टाकुटाकु' शब्द करे तो युद्ध का कारण, 'गुहु' शब्द करे तो अग्निभय,
'कटेकटे' शब्द करे तो कलह और 'टाकुलि, चिण्टिचि, केकेका' शब्द करे तो दोष के
लिये होता है।।५६।।
टाकुटाक्विति रुतं युद्धाय संग्रामाय भवति। गुहु—इति रुते वह्निभयमग्निभयं
भवति। कटेकटे—इति रुते कलहः। टाकुलि चिण्टिचि केकेकेति पुरं चेति इत्येवं रुतं
दोषाय भवति।।५६।।
अन्यद् विशेषमाह—
काकद्वयस्यापि समानमेतत् फलं यदुक्तं रुतचेष्टिताद्यैः।
पतत्रिणोऽन्येऽपि यथैव काको वन्याः श्ववच्चोपरिदंष्ट्रिणो ये ।।५७।।
शब्द, चेष्टा, भोजन और उपवेशन के द्वारा एक काक का जो फल कहा गया है,
वही दो, तीन आदि का भी जानना चाहिये तथा अन्य अनुक्त पक्षीगण का भी फल
काक की तरह ही जानना चाहिये। इसी प्रकार वन में रहने वाले जन्तु और उपरिदंष्ट्री
( सूअर आदि ) का फल कुत्ते की तरह जानना चाहिये।।५७।।
रुतचेष्टिताद्यैः, रुतेन चेष्टितेनाऽऽसनाद्युपवेशनेन चैकस्य काकस्य यत् फलमुक्तं
तत्काकद्वयस्य। अपिशब्दात् त्रयस्य चतुष्कस्य च समानं वाच्यम्। अन्ये येऽत्रानुक्ताः
पतत्रिणः पक्षिणस्तेऽपि तेन प्रकारेण ज्ञेयाः। वन्या वने भवाः प्राणिनो ये नोक्तास्ते श्ववत्सार-
मेयवत्। ये चोपरिदंष्ट्रिणः सूकरादयस्ते श्ववच्छुनो यत्फलमुक्तं तत् तेषामपि। तथा च
पराशरः—
शकुनाः पुंसनामानो वायसेन प्रकीर्तिताः।
तथैव स्त्रीसनामानः पिपील्याः परिकीर्तिताः।। इति।।५७।।
४९२ बृहत्संहिता
अथान्येषु प्राणिषु चेष्टितमाह—
स्थलसलिलचराणां व्यत्ययो मेघकाले
प्रचुरसलिलवृष्ट्यै शेषकाले भयाय ।
मधु भवननिलीनं तत्करोत्याशु शून्यं
मरणमपि न नीला मक्षिका मूर्ध्नि लीना ॥५८॥
स्थलचारी ( अजादि ) जीव जलचारी और जलचारी ( मछली आदि ) जीव स्थल-
चारी हों तो वर्षाकाल में बहुत वृष्टि के लिये तथा अन्य ऋतु में भय के लिये होते हैं।
यदि मधुमक्खियाँ घर में छत्ता लगावें तो शीघ्र ही उस भवन को जनशून्य करती हैं तथा
नील वर्ण वाली मक्खियाँ जिस मनुष्य के शिर पर बैठें, उसकी मृत्यु होती है॥५८॥
मेघकाले वर्षासमये स्थलसलिलचराणां व्यत्ययो विपरीतः। स्थलचरा अजादयो
जलचारिणः। जलचरा मत्स्यादयः स्थलचारिणो यदा भवन्ति, तदा ते प्रचुरसलिलवृष्ट्यै
प्रभूतवृष्टये भवन्ति। शेषकाले वर्षातोऽन्यस्मिन् समये स्थलसलिलचराणां व्यत्ययो भयाय
भवति। मधुशब्देन मधुकर्यो मक्षिका उच्यन्ते। मधु भवने स्वयमेव निलीनं संश्लिष्टं तदेव
भवनमाशु क्षिप्रं शून्यं निर्जनं करोति। नीला नीलवर्णा मक्षिका मूर्ध्नि शिरसि जन्तोर्लीना
श्लिष्टा मरणं मृत्युमपि करोति॥५८॥
पिपीलिकाचेष्टितमाह—
विनिक्षिपन्त्यः सलिलेऽण्डकानि पिपीलिका वृष्टिनिरोधमाहुः ।
तरुं स्थलं वापि नयन्ति निम्नाद्यदा तदा ताः कथयन्ति वृष्टिम् ॥५९॥
यदि चीटियाँ अपने अण्डे को जल में डालें तो वर्षा का अभाव होता है। जब वही
चीटियाँ अण्डे को वृक्ष पर या उच्च स्थान पर ले जायँ तब वृष्टि होती है॥५९॥
पिपीलिकाः सलिले जले अण्डकानि विनिक्षिपन्त्यो वृष्टिनिरोधं वृष्ट्यभावमाहुः कथ-
यन्ति। निम्नात् तलात् तरुं वृक्षस्थलमुच्चस्थानं वापि यदि नयन्ति, तदा वृष्टिं वर्षणं कथ-
यन्ति वदन्ति ताः पिपीलिकाः॥५९॥
अथ शकुननिश्चयमाह—
कार्यं तु मूलशकुनेऽन्तरजे तदह्नि
विन्द्यात् फलं नियतमेवमिमे विचिन्त्याः ।
प्रारम्भयानसमयेषु तथा प्रवेशे
ग्राह्यं क्षुतं न शुभदं क्वचिदप्युशन्ति ॥६०॥
यात्रा आदि कार्यों के आरम्भकाल में जिस तरह का शकुन दिखाई देता है, उसी
तरह कार्य के अन्त तक शुभाशुभ फल होता है तथा कार्य के मध्य में जो शकुन दिखाई
देता है, उसका फल उसी दिन हो जाता है। इस अध्याय में जो शकुन कहे गये हैं,
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA.
वायसविरुताध्यायः ४९३
उनका सब समय में विचार करना चाहिये। समस्त कार्यों के आरम्भ-समय में, यात्रा-
काल में और गृहप्रवेश आदि कार्यों में पूर्वोक्त सभी शकुनों का विचार करना चाहिये
तथा किसी भी कार्य में छींक शुभ नहीं होता है।।६०।।
मूलशकुनः प्रथमशकुनः। तस्मिन् कार्यं यात्राकार्यं विन्द्याज्जानीयात्। तस्मिन् शुभे
यात्रासिद्धिः, अशुभेऽसिद्धिरिति। अन्तरजे तदह्नीति। यातुर्मूलशकुनात् परतो यात्रापरिसमाप्तिं
यावत् तदन्तरे मध्ये योऽन्यः शकुनः शुभाशुभो भवति तदन्तरजे तस्मिन्नन्तरजे मध्यजाते
तस्य यत् फलं तदह्नि तस्मिन्नेव दिने विन्द्यात्। इमेऽस्मिन्नध्याये शकुना उक्तास्ते नियतं
सर्वकालं विचिन्त्याश्चिन्तनीयाः। प्रारम्भे सर्वकर्मणां यानसमये यात्राकाले तथा प्रवेशे
गृहप्रवेशादौ। एतेषु कार्येषु सर्वेषु शकुनाश्चिन्तनीयाः। तथा क्षुतं नासाशब्दः सर्वथा ग्राह्यम्।
क्षुतं श्रुत्वा न किञ्चित् कार्यमित्यर्थः। यतः क्वचिदपि न शुभदमुशन्ति कथयन्ति। सर्वत्रा-
शुभं क्षुतमिति।।६०।।
एतेषामेव शकुनानां प्रशंसार्थमाह—
शुभं दशापाकमविघ्नसिद्धिं मूलाभिरक्षामथवा सहायान्।
दुष्टस्य संसिद्धिमनामयत्वं वदन्ति ते मानयितुर्नृपस्य ॥६१॥
वे पूर्वोक्त शकुन माननीय राजा के शुभ दशा फल, निर्विघ्नपूर्वक कार्य का साधन,
मूल स्थान का पालन, मार्ग में सहायक, दुष्ट शत्रु का साधन, आरोग्य—इन सबों को
शुभ चेष्टाओं के द्वारा सूचित करते हैं।।६१।।
ते शकुना नृपस्य राज्ञो मानयितुः पूजयितुस्तेषां मानयति पूजयति। तस्य शकुनं
वदन्ति कथयन्ति। शुभं शोभनं दशापाकं दशाफलमविघ्नसिद्धिमविघ्नेन कार्याणां साधनम्।
मूलाभिरक्षा, मूलं मूलस्थानम्, तत्राभिरक्षामाभिमुख्येन पालनम्। अथवा पथि गच्छतुः
सहायान् सार्थकान्। दुष्टस्य दुःसाध्यस्य शत्रोः संसिद्धिं सुखेनाक्लेशेन साधनम्। अनामयत्वं
नीरोगत्वमेतत्सर्वं शुभसूचनाद् वदन्ति कथयन्ति।।६१।।
अथानिष्टशकुनविरुते दृष्टे यत्कर्तव्यं तदाह—
क्रोशादूर्ध्वं शकुनविरुतं निष्फलं प्राहुरेके
तत्रानिष्टे प्रथमशकुने मानयेत् पञ्च षट् च।
प्राणायामान्नृपतिरशुभे षोडशैव द्वितीये
प्रत्यागच्छेत् स्वभवनमतो यद्यनिष्टस्तृतीयः ॥६२॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां शाकुने वायसविरुतं
नाम पञ्चनवतितमोऽध्यायः ॥९५॥
कोई-कोई ( काश्यप आदि आचार्य ) कहते हैं कि एक कोस चले जाने के बाद
शकुन का शब्द निष्फल होता है तथा यात्राकाल में यदि पहला शकुन अशुभ हो तो
४९४ बृहत्संहिता
ग्यारह प्राणायाम और दूसरा शकुन अशुभ हो तो सोलह प्राणायाम करना चाहिये।
लेकिन यदि तीसरा शकुन अशुभ हो तो घर लौट आना चाहिये।
प्राणायाम का लक्षण—सात व्याहृति ( ओं भः, ओं भुवः, ओं स्वः, ओं महः,
ओं जनः, ओं तपः, ओं सत्यम् ), प्रणव ( ओं ), शिर ( आपोज्योतीरसो मृतम। )
इसके साथ गायत्री ( तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ) को
श्वास को छोड़ते हुये तीन बार पढ़े।।६२।।
इति 'विमला' हिन्दीटीकायां शाकुने वायसविरुताध्यायः पञ्चनवतितमः ॥९५॥
एके आचार्याः काश्यपादयः क्रोशादूर्ध्वं क्रोशादनन्तरं यच्छकुनविरुतं तन्निष्फलं
प्राहुरुक्तवन्तः। तथा च काश्यपः—
क्रोशादनन्तरं यत् स्याच्छुभं वा यदि वाऽशुभम्।
निष्फलं तच्च विज्ञेयं शकुनानां विचेष्टितम्।।
एवं क्रोशं यावच्छ्रूयमाणं सफलम्, क्रोशादनन्तरं निष्फलमिति। एतदाचार्यस्य
नाभिप्रेतम्। तत्रानिष्टे प्रथमशकुन इति । तत्र तस्मिन् यात्राकाले प्रथमशकुनेऽनिष्टे अशुभे
सति नृपती राजा विहितमना निर्मलचित्तः पञ्च षट् च एकादश प्राणायामान् मानयेत् पूजयेत्;
कुर्यादित्यर्थः। अथ प्राणायामलक्षणमाह—
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते।।
व्याहृतयः सप्त भवन्ति। ॐभूः। ॐभुवः। ॐस्वः। ॐमहः। ॐजनः। ॐतपः।
ॐसत्यम्। प्रणवः ॐकारः। शिरः आपो ज्योती रसोमृतम्। गायत्री प्रसिद्धा चतुर्विंशत्यक्षरा।
आयतप्राणः परित्यक्तश्वासः। त्रिः त्रीन् वारान् पठेत्। अशुभे षोडशैव द्वितीये, द्वितीये
शकुने अशुभे षोडश प्राणायामान् मानयेत् पूजयेत्, ततो व्रजेत्। अथ यदि तृतीयः
शकुनोऽनिष्टोऽशुभस्तदा स्वभवनमात्मीयगृहं प्रत्यागच्छेत् प्रतीपमा-गच्छेदिति।।६२।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ शाकुने वायसविरुतं
नाम पञ्चनवतितमोऽध्यायः ॥९५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ शाकुनोत्तराध्यायः
अथ शाकुनोत्तरं व्याख्यायते—
दिग्देशचेष्टास्वरवासरर्क्षमुहूर्तहोराकरणोदयांशान् ।
चरस्थिरोन्मिश्रबलाबलं च बुद्ध्वा फलानि प्रवदेद्रुतज्ञः ॥१॥
दिक् ( पूर्व आदि और अङ्गारित आदि ), देश, चेष्टा, स्वर ( दीप्त और शान्त ),
दिन, नक्षत्र, मुहूर्त ( शिवा आदि ), होरा ( राश्यर्ध और कालहोरा ), करण, लग्न, अंश,
( द्रेष्काण, नवांश, द्वादशांश और त्रिंशांश ), चर ( मेष, कर्क, तुला और मकर ),
स्थिर ( वृष, सिंह, वृश्चिक और कुम्भ ), उन्मिश्र ( द्विस्वभाव = मिथुन, कन्या, धनु
और मीन )—इन शकुनों का और राशियों का बलाबल जान कर शकुनों के शब्द को
जानने वालों को फलकथन करना चाहिये ॥१॥
दिक् पूर्वाद्याङ्गारिताद्या च। देशः स्थानं शुभमशुभं वा। चेष्टा विहरणं व्यापारः। स्वरः
शब्दो दीप्तः शान्तश्च। वासरो दिनम्। ग्रहचारतः शुभमशुभं च। ऋक्षं नक्षत्रं ध्रुवमृदु-
दारुणक्षिप्रोग्रचरसाधारणम्। मुहूर्तः शिवादिकः। होरा राश्यर्धम्, कालहोराश्च। शुभग्रहस्य
सम्बन्धिन्योऽशुभस्य वा। करणं बवादिकरणं शुभमशुभं वा। उदयो लग्नम्। अंशो भागस्तेन
द्रेष्काणनवांशद्वादशांशत्रिंशद्भागात्मकः। तथा चरा मेषकर्कटतुलामकराः। स्थिरा वृषसिंह-
वृश्चिककुम्भाः। उन्मिश्रा द्विस्वभावाः, ते च मिथुनकन्याधन्विमीनाः। एषां शकुनानां राशीनां
च बलाबलं बुद्ध्वा रुतज्ञः शकुनरुतज्ञः फलानि प्रवदेद् ब्रूयादित्यर्थः ॥१॥
अथ तद्भेदप्रदर्शनार्थमाह—
द्विविधं कथयन्ति संस्थितानामागामिस्थिरसंज्ञितञ्च कार्यम् ।
नृपदूतचरान्यदेशजातान्यभिघातः स्वजनादि चागमाख्यम् ॥२॥
एक देश में स्थित पुरुषों के दो प्रकार के कार्य कहे गये हैं, उनमें एक आगामी
( भविष्यत् ) और दूसरा स्थिरसंज्ञक ( वर्तमान और भूत ) होता है। राजा, दूत, गूढ़
पुरुष और परदेश से उत्पन्न कार्य अन्य हैं। उपद्रव तथा बन्धु और मित्रों का आगमनरूप
कार्य भविष्यत् होते हैं ॥२॥
शकुनसंस्थितानामेकदेशसंस्थानां पुंसां द्विविधं द्विप्रकारं कार्यं प्रवदन्ति कथयन्ति।
कीदृशम्? आगामि स्थिरसंज्ञितं च। आगाम्येष्यत्। स्थिरं च वर्तमानमतीतं वा। तथान्यानि
कार्याणि नृपदूतचरान्यदेशजातानि। नृपो राजा, दूतो गमागमिकः, चरः प्रसिद्धो गूढपुरुषः।
अन्यदेशः परदेशः। एभ्यो जातान्युत्पन्नानि कथयन्ति। तथाभिघात उपद्रवः। स्वजनानां
बन्धुसुहृदां चागम आगमनं तस्य चागतस्याख्यां नाम कथयन्ति ॥२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४९६ बृहत्संहिता
अथ स्थिरचराणां ज्ञानमाह—
उद्बद्धसंग्रहणभोजनचौरवह्नि-
वर्षोत्स्वात्मजवधाः कलहो भयं च।
वर्गः स्थिरोऽयमुदयेन्दुयुते स्थिरर्क्षे
विद्यात् स्थिरं चरगृहे च चरं यदुक्तम्॥३॥
उद्बद्ध ( वहीं पर स्थित ), संग्रहण ( किसी के साथ संयोग ), भोजन, चोर, अग्नि,
वर्षा, उत्सव, पुत्र, वध, कलह, भय—ये स्थिर वर्ग हैं। यदि ये वर्ग स्थिर स्थान में
उत्पन्न स्थिर स्थानस्थित शकुन के द्वारा सूचित किये जाते हों तो चरसंज्ञक होते हैं। यदि
ये वर्ग स्थिर हों और उदयकालिक लग्न और चन्द्र स्थिर राशि में हो तो उद्बद्धादि कार्य
उसी दिन या भूत में जानना चाहिये और चन्द्र चर राशि में हो और चर स्थानस्थित
शकुन हों तो उद्बद्धादि कार्य भविष्य में जानना चाहिये॥३॥
उद्बद्धं संलग्नं तत्रैव संस्थितं गमागमवर्जितम्। संग्रहणं संयोगः केनचित् सह।
भोजनमशनम्। चौरास्तस्कराः। वह्निरग्निः। वर्षो वर्षणम्। उत्सवो विवाहादिः। आत्मजः
पुत्रः। वधो मरणम्। एते। तथा कलहो डमरम्। भयं भीतिश्च। अयं वर्गः स्थिरः। चेच्छब्दोऽत्र
लुप्तो द्रष्टव्यः। एष वर्गो यदि स्थिरस्थानेषूत्पन्नः स्थिरस्थानस्थितेन शकुनेन सूचितस्तदा
चरसंज्ञः। एतदुक्तं भवति—प्रागुक्तेन चेष्टितेन वक्ष्यमाणेनैव यद्येतानि कार्याणि शकुनेन
सूचितानि, तदैतानि वृत्तान्युत वेतानि एष्याणीत्येतदर्थमुक्तम्। उदयेन्दुयुते स्थिरर्क्ष इति।
यद्येष वर्गः स्थिरो भवति तथोदयलग्ने स्थिरराशिर्भवति। इन्दुयुतं चन्द्रसंयुक्तं स्थिरर्क्षं
स्थिरराशिर्भवति, तदैव तत्स्थितं वर्तमानं तस्मिन्नेवाहनि भवति, भूतं वेति विन्द्याज्जानीयात्।
चरगृहे लग्ने चरराशाविन्दुसंयुक्ते चरस्थानस्थे च शकुने यदुक्तमुद्बन्धादि तत्सर्वमेव चरं
विन्द्यात् पुरस्ताद्भविष्यतीति॥३॥
अथ स्थिरचरयोर्लक्षणमाह—
स्थिरप्रदेशोपलमन्दिरेषु सुरालये भूजलसन्निधौ च।
स्थिराणि कार्याणि चराणि यानि चलप्रदेशादिषु चागमाय॥४॥
स्थिर स्थान, पत्थर, गृह, देवालय, पृथ्वी पर, जल के समीप—इन स्थानों में
स्थित शकुन हों तो स्थिर कार्य का शुभाशुभ फल होता है। यदि वे शकुन चल प्रदेश
आदि में स्थित हों तो भविष्यत् कार्य के लिये सूचित करते हैं॥४॥
स्थिरप्रदेशः स्थिरस्थानम्। निश्चलम्। उपलोऽश्म। मन्दिरं गृहम्। एतेषु स्थानेषु।
सुरालये देवगृहे। भूजलसन्निधौ भूमौ तथा जलसन्निधौ तत्समीपे। एतेषु स्थानेषु शकुनेषु
स्थिराणि कार्याणि शुभाशुभानि भवन्ति। ये शकुनाश्चलप्रदेशादिषु चलेषु स्थिरेषु प्राणिष्वादि-
ग्रहणाच्चलेषु तृणकाष्ठादिषु यानि चराणि, ते आगमायागामिने पक्षावसानानि पुनः पुर-
स्ताद्भविष्यन्ति॥४॥
शाकुनोत्तराध्यायः ४९७
अथ वर्षज्ञानमाह—
आप्योदयर्क्षक्षणदिग्जलेषु पक्षावसानेषु च ये प्रदीप्ताः ।
सर्वेऽपि ते वृष्टिकरा रुवन्तः शान्तोऽपि वृष्टिं कुरुतेऽम्बुचारी ॥५॥
जलचर ( कर्क, मकर और मीन ) लग्न, जलसंज्ञक नक्षत्र ( पूर्वाषाढ़ा और शत-
भिषा ), जलसंज्ञक मुहूर्त, पश्चिम दिशा, जलस्थान—इन स्थानों में तथा पक्षावसान
( अमा और पूर्णिमा ) में स्थित प्रदीप्त शकुन शब्द करें तो सभी वृष्टि करने वाले होते
हैं। शान्त भी जलचारी शकुन जलादि में स्थित हों तो वृष्टि करने वाले होते हैं ॥५॥
आप्योदयाः कर्कटमकरमीनाः। आप्यमृक्षं पूर्वाषाढा शतभिषक् च। आप्यं मुहूर्त्तं
जलसंज्ञं वारुणं च। आप्या दिग्वारुणी यत्र जलं सन्निहितं तज्जलस्थानम्। एतेष्वाप्योदयर्क्ष-
क्षणदिग्जलेषु ये स्थिता उत्पाताः शकुनास्तथा पक्षावसाने अमावास्यायां पौर्णमास्यां वाऽन्ते
ये स्थितास्ते च दीप्ता देवदीप्ताः क्रियादीप्ताश्च भूता रुवन्तः क्रोशन्तः सर्वे निश्शेषा अपि
वृष्टिकरा वृष्टिं वर्षणं कुर्वन्ति। अम्बुचारी यः शकुनो जलचरः स शान्तोऽप्याप्यादिषु स्थितो
वृष्टिं कुरुते॥५॥
अथाग्नेयभयदोषज्ञानमाह—
आग्नेयदिग्लग्नमुहूर्त्तदेशेष्वर्कप्रदीप्तोऽग्निभयाय रौति ।
विष्ट्यां यमर्क्षोदयकण्टकेषु निष्पत्रवल्लीषु च दोषकृत् स्यात् ॥६॥
आग्नेय ( पूर्व और दक्षिण ) दिशा, आग्नेय ( क्रूर = मेष, सिंह, वृश्चिक, मकर
और कुम्भ ) लग्न, अग्नि नामक मुहूर्त, आग्नेय ( कृत्तिका ) नक्षत्र, आग्नेय देश
( अग्नि वाला स्थान )—इन स्थानों में सूर्य से प्रदीप्त होकर शकुन शब्द करें तो
अग्निभय होते हैं तथा विष्टि करण, शनि की राशि ( मकर और कुम्भ ) लग्न में हो
और काँटेदार वृक्ष या पत्ररहित लता पर स्थित सूर्य से दीप्त शकुन बैठा हो तो दोष
करने वाला होता है॥६॥
आग्नेयी दिक् पूर्वदक्षिणा। आग्नेयलग्नाः क्रूरराशयः। यथा मेषसिंहवृश्चिकमकरकुम्भाः।
आग्नेयो मुहूर्त्तोऽग्निना... आग्नेयमपि नक्षत्रं कृत्तिकाः। आग्नेयो देशो यत्राग्निरस्ति।
एतेषु स्थानेष्वर्कप्रदीप्तः शकुनो विरौति क्रोशति यदि तदाग्निभयाय भवति। विष्ट्यामिति।
विष्ट्यां करणे। यमः सौरः। तस्यर्क्षं मकरकुम्भौ। तयोरुदये। तथा कण्टकेषु कण्टकिवृक्षेषु।
तथा निष्पत्रासु पत्ररहितासु वल्लीषु स्थितोऽर्कप्रदीप्तो दोषकृद्दोषं करोति॥६॥
अथ कलहज्ञानमाह—
ग्राम्यः प्रदीप्तः स्वरचेष्टिताभ्यामुग्रो रुवन् कण्टकिनि स्थितश्च ।
भौमर्क्षलग्ने यदि नैर्ऋतीं च स्थितोऽभितश्चेत् कलहाय दृष्टः ॥७॥
ग्राम्य, शकुन स्वर और चेष्टा से प्रदीप्त हो, बहुत जोर से शब्द करता हो, काँटेदार
वृक्ष पर स्थित हो, मंगल की राशि ( मेष और वृश्चिक ) लग्न में हो, नैर्ऋत्य कोण में
बृ० भ० द्वि०-३२
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
स्थित हो और सम्मुख, वाम या दक्षिण पार्श्व में दिखाई दे तो कलह करता है।।७।।
ग्रामे भवो ग्राम्यः शकुनः, स च स्वरचेष्टिताभ्यां प्रदीप्तः। स्वरेण शब्देन चेष्टया
वा प्रदीप्तः। उग्रस्तीव्रो रुवन् क्रोशन्। कण्टकिनि सकण्टके वृक्षे स्थितः। भौमर्क्षे मेष-
वृश्चिकौ तयोरन्यतमे लग्ने। स च शकुनो यदि नैर्ऋतीं च स्थितो भवति, नैर्ऋत्यां दिशि
समवस्थितः। अभितः सम्मुख उभयतश्चेद्यदि वामदक्षिणपार्श्वयोस्तदा स दृष्टोऽवलोकितः
कलहाय भवति, कलहं करोति।।७।।
अथ संग्रहणमाह—
लग्नेऽथवेन्दोर्भृगुभांशसंस्थे विदिक्स्थितोऽधोवदनश्च रौति।
दीप्तः स चेत्संग्रहणं करोति योन्या तया या विदिशि प्रदिष्टा ॥८॥
कर्क लग्न में, शुक्र के नवांश में, विदिशा में स्थित होकर दीप्त शकुन नीचे की
ओर मुख करके शब्द करे तो उस विदिशा में उक्त स्त्री ('स्त्रीणां विकल्पे बृहती कुमारी'
इत्यादि से उक्त स्त्री) के साथ समागम होता है।।८।।
अथवा इन्दोर्लग्ने कर्कटे तस्मिंश्च भृगुभांशसंस्थे। भृगोः शुक्रस्य भांशो नवांशको
भृगुभांशः। कर्कटस्य तुलनवांशक इत्यर्थः। तस्मिंल्लग्नस्थे शकुनो विदिक्स्थितो विदिशम-
वस्थितः। तत्र चाधोवदनोऽधोमुखश्च विरौति शब्दं करोति। स चेद्यदि दीप्तः स्थानदीप्तः
शब्ददीप्तश्च, तदा संग्रहणं संयोगं करोति, क्या? स्त्रिया सह। योन्या तया वा विदिशि
प्रदिष्टा, तस्यां विदिशि यस्या योनिरुत्पत्तिः प्रदिष्टोक्ताः स्त्रीणां विकल्पे बृहती कुमारीत्यादि।
तया सह संग्रहणं करोति। केषाञ्चित् पाठः योऽन्योऽनुयायाद्दिशिः सम्प्रदिष्टः। तस्यां दिशि
अनु पश्चात् सम्प्रदिष्टः सम्यक् प्रेषितो योऽन्योऽपरो यायाद् गच्छेत् तेन सह संयोग इति।।८।।
पुनरप्याह—
पुंराशिलग्ने विषमे तिथौ च दिक्स्थः प्रदीप्तः शकुनो नराख्यः।
वाच्यं तदा संग्रहणं नराणां मिश्रे भवेत् षण्डकसम्प्रयोगः ॥९॥
पुरुषराशि (मेष, मिथुन, सिंह, तुला, धनु और कुम्भ) के लग्न में, विषम (१,
३, ५, ७, ११, १३, १५) तिथियों में और पूर्व आदि (पूर्व, दक्षिण, पश्चिम और
उत्तर) दिशाओं में पुरुषसंज्ञक दीप्त शकुन हो तो पुरुषों के साथ समागम होता है।
मिश्रित (पुरुषसंज्ञक लग्न में सम तिथि हो या सम राशि के लग्न में विषम तिथि हो
तथा विदिशा या दिशा में स्थित पुरुषसंज्ञक दीप्त शकुन) हो तो नपुंसक के साथ
समागम होता है।।९।।
पुंराशयो मेषादयः षड् विषमा मेषमिथुनसिंहतुलाधन्विकुम्भाः। विषमास्तिथयः संख्याया
प्रतिपत् तृतीया पञ्चमी सप्तमी नवमी एकादशी त्रयोदशी पञ्चदशी चेति। नराख्यः पुरुषाख्यः
शकुनो दिक्स्थितो दिशि पूर्वस्यां दक्षिणस्यां पश्चिमायामुत्तरस्यां वा स्थितः प्रदीप्तश्च यदि
भवति तदा नराणां पुरुषाणां वा संग्रहणं संयोगो वाच्यं वक्तव्यम्। मिश्रे भवेत् षण्डक-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
शाकुनोत्तराध्यायः ४९९
सम्प्रयोगः, पुंराश्यादिषु वर्गे मिश्रे स्थिते पुरुषराशिवर्गे लग्ने समायां तिथौ व्यत्यये वा।
विदिक्स्थितः पुरुषः शकुनो विदिक्स्थितः स्त्रीसंज्ञो वा तदा पण्डकसम्प्रयोगो नपुंसकेन
सह समयोगो भवति।।९।।
पुनरप्याह—
एवं रवेः क्षेत्रनवांशलग्ने लग्ने स्थिते वा स्वयमेव सूर्ये ।
दीप्तोऽभिधत्ते शकुनो विरौति पुंसः प्रधानस्य हि कारणं तत् ॥१०॥
इसी प्रकार जिस समय नवांश और लग्न में रवि की राशि हो या लग्न में स्वयं
सूर्य अवस्थित हो एवं उस समय शकुन शब्द करे तो प्रधान पुरुष के आगमन का
कारण होता है।।१०।।
पुंराशिवर्ग इति सर्वमनुवर्तते। एवमनेन प्रकारेण रवेरादित्यस्य क्षेत्रनवांशलग्ने।
रविक्षेत्रं सिंह एव। तात्कालिकगते रविक्षेत्रे सिंहेऽथवान्यस्मिन् राशौ लग्नगतं तत्काले
सिंहनवांशके। अथवा स्वयमेव सूर्ये रवौ तात्कालिक
५०० बृहत्संहिता
आँख से काना, लग्नस्थित सूर्य पापग्रह ( सूर्य, मंगल और शनि ) से देखा जाता हो तो
अन्धा, सिंह लग्न में स्थित सूर्य हो तो कुबड़ा, बहरा और मूर्ख तथा जिस राशि के लग्न
से पापग्रह ( सूर्य, मंगल और शनि ) छठे स्थान में स्थित होकर पापग्रह से देखा जाता
हो, उस राशि के सम्बन्धी अङ्ग ( 'कालाङ्गानि वराङ्ग' इत्याद्युक्त अंग ) में व्रणयुत पुरुष
का समागम होता है। इस प्रकार जन्म में जो मैंने कहा है, उन सबका इस प्रकरण में
विचार करना चाहिये।।१२-१३।।
काणेनाक्ष्णा दक्षिणेनेति। येन सह संयोगो ज्ञातः स च कीदृगिति। यदि तात्का-
लिकाल्लग्नात् सूर्य आदित्यो द्वादशे स्थाने स्थितः, स पुरुषो दक्षिणेनाक्ष्णा काण एवा-
ऽऽगच्छति। चन्द्रे लग्नाद् द्वादशे स्थाने स्थिते चेतरेण वामेनाक्ष्णा काण एवेति। अर्था-
देवार्कचन्द्रयोर्द्वयोरपि द्वादशयोरन्ध एव। लग्नस्थेऽर्के प्राग्लग्नस्थिते सूर्ये पापाभ्यां भौमसौरा-
भ्यामीक्षितेऽन्ध एव नेत्रहीनः। स्वक्षें सिंहलग्नगते तत्रस्थे चार्के कुब्जः श्रोत्रहीनो वधिरो
जडो वा मूर्खः प्रभवति।
क्रूरः षष्ठ इति। विलग्नात् स्पष्टलग्नात् षष्ठस्थाने क्रूरः पापग्रहः आदित्याङ्गारक-
शनैश्चराणामन्यतमो भवति। स च क्रूरदृष्टः पापावलोकितो यदि भवति, तदा तद्गृहाङ्गे।
स च षष्ठस्थानस्थो राशिः कालपुरुषस्य यस्मिन् 'कालाङ्गानि वराङ्गम्' इत्यादिना ग्रन्थेनोक्तः।
तस्मिन्नङ्गे तस्य व्रणो वक्तव्यः। एवमनेन प्रकारेण जन्मकाले जातकसमये यदुक्तं कथितं
चिह्नं लक्ष्म रूपमाकारं तत्सर्वमस्मिन् प्रकरणे चिन्त्यं चिन्तनीयम्। यथा—'त्रिकोणगे
ज्ञे विबलैस्तथाऽपरैर्मुखाङ्घ्रिहस्तैर्द्विगणैस्तदा भवेत्'। तथा—
सौम्यर्क्षांशे रविजरुधिरौ चेत् सदन्तोऽत्र जातः
कुब्जः स्वक्षें शशिनि तनुगे मन्दमाहेयदृष्टे।
पङ्गुर्मीने यमशशिकुजैर्वीक्षिते लग्नसंस्थे
सन्धौ पापे शशिनि च जडः स्यान्न चेत् साम्यदृष्टिः।।
सौरशशाङ्कदिवाकरदृष्टे वामनको मकरान्त्यविलग्ने।
धीनवमोदयगैश्च दृकाणैः पापयुतैरभुजाङ्घ्रिशिराः स्यात्।।
रविशशियुते सिंहे लग्ने कुजार्किनिरीक्षिते
नयनरहितः सौम्यासौम्यैः सबुद्बुदलोचनः।
व्ययगृहगतश्चन्द्रो वामं हिनस्त्यपरं रवि-
रशुभगदिता योगा याप्या भवन्ति शुभेक्षिताः।।
एवमादि। तथानिष्टयोगाध्यायोक्तं सर्वं चिन्तनीयमिति।।१३।।
अथाऽऽगतस्याख्याज्ञानमाचार्यः करोति। तच्चाल्पबहुलं स्वल्पग्रन्थं मृदुबुद्धीनामगम्य-
मतोऽस्माभिस्तदेव बोधियात्रायां यवनेश्वरकृतश्चाक्षरकोशो व्याख्यायते। तत्रादावेव प्रयोजन-
प्रदर्शनार्थमाह—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
शाकुनोत्तराध्यायः ५०१
अतः परं लोकनिरूपितानि द्रव्येषु नानाक्षरसंग्रहाणि।
इष्टप्रणीतानि विभाजितानि नामानि केन्द्रक्रमशः प्रवक्ष्ये ॥१॥
अब प्रश्नज्ञान के बाद द्रव्यों ( धातु, मूल और जीवों ) में लोकप्रसिद्ध अनेक अक्षरों
से संगृहीत, इष्ट ( नारायण, अर्क, वसिष्ठ, पराशर, मय आदि ) से निर्मित, विभागीकृत
नामों को केन्द्र के क्रम से कहते हैं॥१॥
अतोऽस्मात् प्रश्नज्ञानात् परमनन्तरं लोकनिरूपितानि लोकैर्जनैर्निरूपितानि सर्वलोक-
प्रसिद्धानि द्रव्येषु धातुमूलजीवेषु नानाक्षरेभ्योऽनेकप्रकारवर्णेभ्यः संग्रहो येषां तानि। संग्रह
एकीकरणम्। इष्टप्रणीतानि, इष्टैराप्तैर्नारायणार्कवसिष्ठपराशरमयप्रभृतिभिः प्रणीतानि निर्मि-
तानि। विभाजितानि विभागीकृतानि नामानि संज्ञारूपाण्यभिधानानि केन्द्रक्रमशश्चतुष्टय-
परिपाट्या प्रवक्ष्ये कथयिष्ये॥१॥
तत्र क्रमज्ञानमाह—
लग्नाम्बुसंस्थास्तनभः स्थितेषु क्षेत्रेषु ये लग्नगता गृहांशाः।
तेभ्योऽक्षराण्यात्मगृहाश्रयाणि विन्द्याद् ग्रहाणां स्वगणक्रमेण ॥२॥
लग्न, चतुर्थ लग्न, सप्तम लग्न और दशम लग्न में जिस राशि का नवांश हो, उन
पर से अपनी-अपनी राशि के आश्रित अक्षरों और ग्रहों के अपने गण के क्रम से अक्षरों
को जानना चाहिये॥२॥
लग्नसंस्थो विलग्नस्थः। अम्बुसंस्थश्चतुर्थस्थानस्थः। अस्तस्थितः सप्तमस्थः। नभः-
स्थितो दशमस्थः। एतेषु च क्षेत्रेषु राशिषु ये लग्नगता गृहांशाः। गृहाणां राशीनां मेषादीनां
येषां नवभागा लग्नगताः प्राग्लग्नादिष्वाश्रितास्तेभ्यो गृहांशेभ्योऽक्षराणि वर्णा आत्मगृहा-
श्रयाणि—आत्मगृहं स्वभवनमाश्रयः स्थानं येषां तानि विन्द्याद् जानीयात्, ग्रहाणां रव्यादीनां
स्वगणक्रमेण स्ववर्गपरिपाट्या॥२॥
अथ ग्रहाणां वर्गानाह—
कवर्गपूर्वान् कुजशुक्रचान्द्रिजीवर्कजानां प्रवदन्त वर्गान्।
यकारपूर्वाः शशिनो निरुक्ता वर्णास्त्वकारप्रभवा रखेः स्युः ॥३॥
क ख ग घ ङ—मंगल के, च छ ज झ ञ—शुक्र के, ट ठ ड ढ ण—बुध के,
त थ द ध न—बृहस्पति के, प फ ब भ म—शनि के, य र ल व श ष स ह—चन्द्र
के और अ आ इ ई उ ऊ ए ऐ ओ औ अं अः—सूर्य के वर्ग हैं॥३॥
कवर्गपूर्वान् कवर्गद्यान् वर्गान् यथाक्रमेण कुजादीनां ग्रहाणां परिपाट्या प्रवदन्ति
मुनयः। तद्यथा—कवर्गः कुजस्य भौमस्य। चवर्गः शुक्रस्य। टवर्गश्चान्द्रेर्बुधस्य। तवर्गो
जीवस्य गुरोः। पवर्गोऽर्कजस्य सौरस्य। यकारपूर्वा यकाराद्यष्टौ वर्णाः शशिनश्चन्द्रस्य
निरुक्ताः कथिताः। अकारः प्रभव आद्यो येषां वर्णानामक्षराणां ते अकारप्रभवा रवेरर्कस्य
५०२ बृहत्संहिता
स्युर्भवेयुः। तद्यथा—अ आ इ ई उ ऊ ए ऐ ओ औ अं अः रवेः। क ख ग घ ङ
भौमस्य। च छ ज झ ञ शुक्रस्य। ट ठ ड ढ ण बुधस्य। त थ द ध न गुरोः। प फ
ब भ म सौरस्य। य र ल व श ष स ह चन्द्रस्य।।३।।
अथ राशिवशेन द्रेष्काणवशेन च नामाक्षरसंख्याज्ञानमाह—
द्रेष्काणवृद्ध्या प्रवदन्ति नाम त्रिपञ्चसप्ताक्षरमोजराशौ ।
युग्मे तु विन्द्याद् द्विचतुष्कषट्कं नामाक्षराणि ग्रहदृष्टिवृद्ध्या ॥४॥
द्रेष्काण की वृद्धि से नाम कहते हैं; जैसे—विषम राशि के प्रथम द्रेष्काण में तीन
अक्षरों का, द्वितीय द्रेष्काण में पाँच अक्षरों का और तृतीय द्रेष्काण में सात अक्षरों का
नाम जानना चाहिये। साथ ही सम राशि के प्रथम द्रेष्काण में दो अक्षरों का, द्वितीय
द्रेष्काण में चार अक्षरों का और तृतीय द्रेष्काण में छः अक्षरों का नाम जानना चाहिये।
ग्रहदृष्टि की वृद्धि से नामाक्षर होते हैं। यहाँ पर दो प्रकार से नामाक्षर लाते हैं, प्रथम—
स्थितिवश और द्वितीय—दृष्टिवश। दृष्टिवश नामाक्षर लाने में दृष्टिबल का विचार करना
चाहिये।।४।।
द्रेष्काणो राशित्रिभागः। तस्य वृद्ध्या वर्धनेनौजराशौ विषमर्क्षे त्रिपञ्चसप्ताक्षरं नाम।
प्रथमे त्र्यक्षरम्, द्वितीये पञ्चाक्षरम्, तृतीये सप्ताक्षरमिति। युग्मे समराशौ लग्नगते प्रथमे
द्रेष्काणे द्व्यक्षरं नाम विन्द्याज्जानीयात्। द्वितीये चतुष्कं चतुरक्षरम्। तृतीये षट्कं षडक्षरम्।
तानि च नामाक्षराणि नामवर्णा ग्रहदृष्टिवृद्ध्या। यतः केन्द्रस्थराशिभिरक्षराण्यानीयन्ते। केन्द्र-
चतुष्टयस्य प्रस्तुतत्वात् किल योगद्वयेनाक्षिप्तमिदं शास्त्रम्। तत्रैकः स्थितियोगः, द्वितीयो
दृष्टियोगः। स्थितियोगं परिहृत्य दृष्टियोगेनानीयन्ते। दृष्टियोगे तु बलाबलविचारः। उक्तं च—
त्रिदशत्रिकोणचतुरस्रसप्तमान्यवलोकयन्ति चरणाभिवृद्धितः।
रविजामरेज्यरुधिराः परे च ये क्रमशो भवन्ति किल वीक्षणेऽधिकाः।। इति।
एवं ग्रहदर्शनवृद्ध्या नामाक्षराण्यानीयन्ते।।४।।
अथ नवांशकवशेन नामाक्षरसङ्ख्याज्ञानमाह—
वर्गोत्तमे द्व्यक्षरकं चरांशे स्थिरर्क्षभागे चतुरक्षरं तत् ।
ओजेषु चैभ्यो विषमाक्षराणि स्युर्द्विस्वभावेषु तु राशिवच्च ॥५॥
चर राशि में प्रथम नवांश, स्थिर राशि में पञ्चम नवांश और द्विस्वभाव राशि में
नवम नवांश वर्गोत्तम संज्ञक हैं। यदि सम राशियों में चर राशि का वर्गोत्तम नवांश हो तो
दो अक्षरों का, स्थिर राशि का वर्गोत्तम नवांश हो तो चार अक्षरों का, विषम राशियों में
चर राशि का वर्गोत्तम नवांश हो तो तीन अक्षरों का और स्थिर राशि का वर्गोत्तम नवांश
हो तो पाँच अक्षरों का नाम होता है। द्विस्वभाव राशियों में राशि की तरह ही नामाक्षरों
की भी संख्या होती है। जैसे—द्विस्वभाव राशियों में विषम राशि ( मिथुन या धनु )
वर्गोत्तम नवांश हो तो तीन या सात अक्षरों का और सम राशि ( कन्या या मीन ) का
नवांश हो तो चार-छः अक्षरों का नाम होता है।।५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
शाकुनोत्तराध्यायः ५०३
'वर्गोत्तमाश्चरगृहादिषु पूर्वमध्यपर्यन्तगाः' इति। वर्गोत्तमाख्या नवांशका उक्ताः। अग्रत
ओजशब्दकरणादिह समराशावेव ज्ञायते। समराशौ कर्कटे मकरे वा यदा वर्गोत्तमश्चरांशो
भवति, तदा द्वयक्षरं नाम। स्थिरर्क्षभागे स्थिरराशौ वृषसिंहवृश्चिककुम्भानामन्यतमे यदा
स्थिरांशो वर्गोत्तमो भवति, तदा चतुरक्षरं नाम। ओजेषु विषमराशिषु मेषे तुले वा एभ्यो
वर्गोत्तमांशकेभ्यो विषमाक्षराणि स्युर्भवेयुः। एतदुक्तं भवति-यदा विषमराशौ वर्गोत्तमश्चरांशो
भवति, तदा विषमाक्षराणि त्रीणि नाम्नि भवेयुः। अथ तस्मिन्नेव वर्गोत्तमः स्थिरांशो भवति,
तदा विषमाणि पञ्चाक्षराणि नाम्नि भवेयुः। द्विस्वभावेषु राशिवच्च, द्विस्वभावेषु द्विमूर्तिषु
लग्नेषु राशिवद्राशितुल्यं स्यात्। एतदुक्तं भवति-द्विस्वभावेषु मिथुनधनुषोरन्यतरे यदि
विषमांशको वर्गोत्तमो भवति, तदा त्र्यक्षरं सप्ताक्षरं नामेति। अथ द्विस्वभावेषु समो वर्गोत्-
मांशो भवति कन्यामीनयोरन्यतरस्तदा चतुरक्षरं नाम षडक्षरं नाम। यत उक्तम्-
त्रिपञ्चसप्ताक्षरमोजराशौ युग्मे तु विन्द्याद् द्विचतुष्कषट्कम्।। इति।
वर्गोत्तमांशो यस्मिन् द्रेष्काणभागे स्थितस्तद्वशाद् वाच्यमिति।।५।।
अत्रैव विशेषमाह-
द्विमूर्तिसंज्ञे तु वदेद् द्विनाम सौम्येक्षिते द्विप्रकृतौ च राशौ ।
यावान् गणः स्वोदयगोंऽशकानां तावान् ग्रहः संग्रहकेऽक्षराणाम् ।।६।।
द्विस्वभाव राशि या सौम्य ( बुध ) से दृष्ट द्विस्वभाव राशि में दो नाम कहना चाहिये
तथा लग्नराशि में जितने नवांशों की संख्या व्यतीत हो गई हो, उतनी नामाक्षरों की संख्या
कहनी चाहिये ।।६।।
द्विमूर्तिसंज्ञे द्विस्वभावे राशौ द्विनाम वदेद् ब्रूयात्। द्वे नामनी यस्य। तथा द्विप्रकृतौ
द्विस्वभावराशौ सौम्येक्षिते बुधसन्दृष्टे, चशब्दाद् द्विनाम वदेत्। यत्परिमाणस्य यावान्
अंशकानां नवभागानां गणः समूहः स्वोदयगः प्रश्नसमयेऽतिक्रान्तस्तावनेव गणः समूहो-
ऽक्षराणां वर्णानां संग्रहके नाम्नि भवति।।६।।
अथ संयोगाक्षरमाह-
संयोगमादौ बहुलेषु विन्द्यात् कूटेषु संयोगपरं वदन्ति ।
स्वोच्चांशके द्विष्कृतमृक्षयोगाद् गुर्वक्षरं तद्भवनांशके स्यात् ।।७।।
बहुल ( विषम राशियों ) में नाम के आदि को संयुक्ताक्षर जानना चाहिये। जैसे-
श्रीधर, क्षीर, स्मर आदि। कूट ( सम राशियों ) में नाम के अन्त में संयुक्ताक्षर कहते
हैं। जैसे-पद्म, धर्म, वत्स आदि। अपने उच्चांश में राशि के योग से एक अक्षर दो बार
आता है। यथा-विषम राशि में अपना उच्चांश हो तो प्रथम आदि विषम अक्षर दो बार
आता है। जैसे-दरद, दामोदर आदि। यदि सम राशि में अपना उच्चांश हो तो द्वितीय
आदि सम अक्षर दो बार आता है; जैसे-देवदत्त, धराधर आदि। लग्नस्थित नवांश राशि
में गुरु अक्षर होता है। जैसे-लग्नस्थित नवांश विषम राशि में हो तो नाम का विषम
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
५०४ बृहत्संहिता
अक्षर संयुक्त होता है; जैसे—कपित्थ, अश्वत्थ आदि। सम राशि में हो तो सम अक्षर
संयुक्त होता है, जैसे—घग्घ, शुद्ध, शुद्धोदन आदि।।७।।
बहुलेष्वोजेषु विषमराशिषु नाम्नामादौ प्रथममेव संयोगं संयोगाक्षरं विन्द्याज्जानीयात्।
वर्णद्वयसंयोगः संश्लेषः। हलोऽनन्तराः संयोग इति केचित्। बहुभेदाः केचित्। द्विकृताः
केचिद् गुरवः। केचित् संयोगान्तवद् द्विकृताः; यथा—यप्पा, वल्ला, यस्सा, लस्सा।
गुरवो द्वाभ्यां प्रकाराभ्यां भवन्ति। वर्गाक्षरैः स्वतनुना। प्रथमप्रथमैः। तृतीयतृतीयैः। पञ्चम-
पञ्चमैः। प्रथमप्रथमैर्यथा—कक्कः, दत्तः, कुट्टः। तृतीयतृतीयैर्यथा—लल्लः, गग्गः, दद्दः,
जज्जः। पञ्चमपञ्चमैः—शङ्गुः, ण्णणः, धम्मः। परतनुना प्रथमद्वितीयैस्तृतीयचतुर्थैश्च। प्रथम-
द्वितीयैर्यथा—खुक्खः, इच्छः, दित्यः। तृतीयचतुर्थैर्यथा—वाग्घः, दाड्डः, शुद्धः। एते गुरवः।
अन्येषां यथा परतनुना। पञ्चमप्रथमैः पञ्चमद्वितीयैः पञ्चमतृतीयैः पञ्चमचतुर्थैश्च। एते संयोगा
एव। पञ्चमप्रथमैर्यथा—षङ्कः। पञ्चमद्वितीयैर्यथा—शङ्खः। पञ्चमतृतीयैर्यथा—शृङ्गम।
पञ्चमचतुर्थैर्यथा—सङ्घः। केचिदन्यथा कथयन्ति, यथा—स्वतनुना संयोगास्तेऽपि द्विकृता
उच्यन्ते। यथा धम्मः, दत्तः, कक्कः। प्रथमद्वितीयैस्तृतीयचतुर्थैश्च संयोगः। संयोगसंज्ञास्ते
गुरव उच्यन्ते। अन्ये ये संज्ञास्ते संयोगा एव न भवन्ति, यथा—धर्मः, वत्सः। आदि-
संयोगो यथा—श्रीधरः, क्षीरः, स्मर इति। एवं संयोगमादौ बहुलेषु विन्द्यादिति। कूटेषु
संयोगपरं वदन्ति। कूटेषु समराशिषु संयोगपरम्। संयोगः परो यस्मिंस्तत्संयोगपरं वदन्ति
कथयन्ति तन्नारायणादयः। द्व्यक्षरे नाम्नि यथा—पद्मम्, धर्मः, वत्स इत्येवमादयः। चतुरक्षरे
नाम्नि यथा—वसुदत्तः, वसुगुप्त इत्येवमादयः। स्वोच्चांशके द्विकृतमिति। स्वश्चा-
सावुच्चांशः स्वोच्चांशः।
अजवृषभमृगाङ्गनाकुलीरा झषवणिजौ च दिवाकरादितुङ्गाः।
दशशिखिमनुयुक्तिथीन्द्रियाशैस्त्रिनवकविंशतिभिश्च तेऽस्तनीचाः।। इति।
तस्मिन् स्वोच्चांशके द्विकृतमक्षरं नाम्नि भवति। द्वौ वारौ कृतौ द्विकृतौ। कथम्?
ऋक्षयोगाद्राशियोगाद्धेतोः। अक्षरदाता ग्रहः स्वोच्चांशकस्थो द्विकृतमक्षरं करोति। एतदुक्तं
भवति—पृच्छालग्ने यद्योजराशिस्तदौजाक्षरं द्विकृतं भवति, यथा—दरदः, दामोदरः।
अथ युग्मराशिस्तदा युग्माक्षरं द्विकृतं भवति, यथा—देवदेवः, धराधरः। द्व्यक्षरे यथा—
कप्पः, यप्पः, वल्ल इत्येवमादयः। गुर्वक्षरं तद्भवनांशके स्यात्। गुर्वक्षरं यस्मिन् नाम्नि
तद्गुर्वक्षरम्। तदित्यनेन लग्नं परामृश्यते। तस्य भवनस्यांशकः। तस्मिन्नक्षरे सति गुर्वक्षरं
स्याद्भवेत्। अत्र ऋक्षयोगादिभिर्वर्तते। ओजराशौ ओजाक्षरमेव गुर्वक्षरं भवति—कपित्थः,
अश्वत्थः। युग्मराशौ युग्माक्षरमेव, यथा—खुक्खः, घग्घः, शुद्धः। चतुरक्षरे शुद्धोदन
इत्येवमादयः।।७।।
अन्यदपि विशेषमाह—
मात्रादियुक् स्याद् ग्रहयुक्तिकोणे द्रेष्काणपर्यायवदक्षरेषु।
नभोबलेषूर्ध्वमथोऽम्बुजेषु ज्ञेयो विसर्गोऽस्तबलान्वितेषु ।।८।।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
लग्न से पञ्चम या नवम स्थान ग्रहों ( सूर्यादि ) से युत हो तो नाम के आदि का
अक्षर मात्रायुक्त होता है तथा द्रेष्काण के पर्यायतुल्य अक्षर मात्रा से युक्त होता है।
यथा—सम राशि का द्रेष्काण हो तो सम अक्षर मात्रायुक्त होता है। जैसे—ईश्वर आदि।
विषम राशि का द्रेष्काण हो तो विषम अक्षर मात्रायुक्त होता है, जैसे—श्रीधर आदि।
यदि लग्न से दशम स्थान बली हो तो ऊर्ध्व मात्रा से युक्त नाम के आदि का अक्षर
श्रीधर, वासुदेव, वैश्रवण, शौण्ड आदि एवं चतुर्थ स्थान बली हो तो अधोमात्रायुत नाम
के आदि का अक्षर ( सुहिरण्य, शूरवर्मा आदि ) और सप्तम स्थान बली हो तो विसर्गयुत
नाम के आदि का अक्षर होता है॥८॥
पृच्छालग्नस्य मेषादेस्त्रिकोणे नवमे पञ्चमे वा स्थाने ग्रहैरादित्यादिभिर्युग्योगो यथा
भवति तथा मात्रादियुक् स्यात्। नाम्नो मात्राभिरादौ प्रथमं युग्योगः स्याद्भवेत्। यथा—
शिवः। द्रेष्काणपर्यायवदक्षरेष्विति। द्रेष्काणानां पर्यायो द्रेष्काणपर्यायः। प्रसिद्धोच्चारणम्।
स यथा भवति तद्वदक्षरेषु मात्रादियोगो भवति। युग्मद्रेष्काणेषु युग्माक्षरेषु मात्रादियोगो भवति।
ओजाक्षरेषु यथा—श्रीधरः। युग्मेषु यथा—ईश्वरः। नभोबलेषूर्ध्वमिति। नभसि दशमे स्थाने
राशयो ये बलिनस्ते नभोबलिनः। तथा चोक्तम्—
मनुष्यरूपा बलिनो विलग्नाश्चतुष्पदाश्चाकरमध्यसंस्थाः।
जलोद्भवाख्या बलिनो जलस्थाः कीटोऽस्तगो व्योमतले द्विमूर्ताः॥
अथ—
कण्टककेन्द्रचतुष्टयसंज्ञाः सप्तमलग्नचतुर्थखभानाम्।
तेषु यथा विहितेषु बलाढ्याः कीटनराम्बुचराः पशवश्च।। इति।
तेषु नभोबलेषूर्ध्वमात्राक्षरमुशन्ति कथयन्ति। यथा—श्रीवत्सः, वासुदेवः, वैश्रवणः,
शौण्डः। अधोऽम्बुजेष्विति। अम्बुजेषु चतुर्थस्थानेषु बलवत्सु अधोमात्राक्षरं भवति।
यथा—सुहिरण्यः, शूरवर्मा। ज्ञेयो विसर्गोऽस्तबलान्वितेष्विति। अस्तबलान्वितेषु सप्तमे
स्थाने बलवति विसर्गो विसर्जनीयो ज्ञेयो ज्ञातव्यः॥८॥
अन्यदप्याह—
शीर्षोदयेषूर्ध्वमुशन्ति मात्रामधश्च पृष्ठोदयशब्दितेषु।
तीर्यक्च विन्द्यादुभयोदये तां दीर्घेषु दीर्घामितरेषु चान्याम् ॥९॥
शीर्षोदय राशि लग्न में हो तो ऊर्ध्व मात्रा ( ओ, औ ), पृष्ठोदय राशि लग्न में हो
तो अधो मात्रा ( उ, ऊ ), उभयोदय राशि लग्न में हो तो तिर्यक् मात्रा ( ए, ऐ ) और
दीर्घ राशि ( सिंह, कन्या, तुला और वृश्चिक ) लग्न में हो तो दीर्घ मात्रा ( आ, ई, ऊ,
ऐ, ओ, औ ) होती है। अन्य राशि ( मध्य = मिथुन, कर्क, धनु और मकर, ह्रस्व =
मेष, वृष, कुम्भ और मीन ) लग्न में हो तो अन्य मात्रा ( अ, इ और उ ) होती
है॥९॥
५०६ बृहत्संहिता
शीर्षोदया मूर्धोदयाः। तथा चोक्तम्—
शीर्षोदया मानुषसर्वरूपाः ससिंहकीटा यवनैर्निरुक्ताः।
मत्स्यद्वयं तूभयतः प्रवृत्तं पृष्ठेन शेषास्तु सदोदयन्ति।।
तथा च—
गोजाश्विकर्किमिथुनाः समृगा निशाख्याः
पृष्ठोदया विमिथुनाः कथितास्त एव।
शीर्षोदया दिनबलाश्च भवन्ति शेषा
लग्नं समेत्युभयतः पृथुरोमयुग्मम्।। इति।
एवं शीर्षोदयेषु लग्नेषूर्ध्वं मात्रामुशन्ति कथयन्ति। यथा—ओ औ। पृष्ठोदयशब्दिता
ये राशयस्तेषु पृष्ठोदयसंज्ञितेष्वधो मात्रामुशन्ति कथयन्ति, यथा—उ ऊ। तिर्यक्
चेति। उभयोदयो मीनस्तस्मिन् तां मात्रां तिर्यक् च विन्द्याद् जानीयात्। ए ऐ। यथा—
देवदेव, ऐन्द्र इत्यादि। दीर्घेषु दीर्घामिति। दीर्घेष्वायतेषु राशिषु। तां मात्रां दीर्घां
विन्द्यात्। यथा—आ ई ऊ ए ऐ ओ औ। इतरेष्वन्येषु मध्यह्रस्वेष्वितोऽन्यां परिशिष्टां
ह्रस्वामिति। यथा—अ इ उ। अत्र दीर्घाः सिंहकन्यातुलवृश्चिकाः। मध्या मिथुनकर्कि-
धन्विमकराः। ह्रस्वा मेषवृषकुम्भमीनाः। तथा चोक्तम्—
आद्यन्तराश्योरुदयप्रमाणं द्वौ द्वौ मुहूर्त्तौ नियतं प्रदिष्टम्।
क्रमोत्क्रमाभ्यामतिपञ्चमं स्याच्चक्रार्द्धयोर्विद्ध्युदयप्रमाणम्।।
एवं प्रमाणानि गृहाणि बुद्ध्या ह्रस्वानि मध्यानि तथायतानि।
चक्राङ्गभेदैः सदृशीकृतानि मार्गप्रमाणान्यपि कल्पयन्ति।। इति।
तथा च—
पूर्वार्धे विषयादयः कृतगुणा मानं प्रतीपं च तत्। इति।।९।।
अत्रैव विशेषमाह—
प्राग्लग्नतोयास्तनभःस्थितेषु भेष्वंशकेभ्योऽक्षरसंग्रहः स्यात्।
क्रूरोऽक्षरं हन्ति चतुष्टयस्थो दृष्ट्यापि मात्राञ्च त्रिकोणगो वा।।१०।।
लग्न, चतुर्थ, सप्तम और दशम स्थानस्थित नवांशों के द्वारा नामाक्षरों का संग्रह
होता है तथा पाप ग्रह केन्द्र या त्रिकोण में स्थित हो तो अथवा पाप ग्रह की दृष्टि से भी
अक्षर का नाश होता है।।१०।।
प्राग्लग्नं विलग्नम्। तोयसंज्ञश्चतुर्थः। अस्तः सप्तमः। नभःसंज्ञो दशमः। एतेषु स्थानेषु
स्थिता राशयः। भशब्देन राशय उच्यन्ते। तेषु भेषु तथाभूतेष्वेव येऽंशका नवभागास्तेभ्यो-
ऽक्षरसंग्रहो वर्णसमुच्चयो नाम्नि स्यात्। क्रूरोऽक्षरमिति। क्रूरः पापो ग्रहश्चतुष्टयस्थः केन्द्र-
स्थोऽक्षरं वर्णं हन्त्यपहरति। स एव क्रूरस्त्रिकोणगो दृष्ट्या दर्शनेनापि मात्रां हन्ति। नव-
पञ्चमे त्रिकोण इति। अपिशब्दः समुच्चये। वाशब्दो विकल्पे।।१०।।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
शाकुनोत्तराध्यायः ५०७
अन्यद्विशेषमाह—
शुभग्रहस्तूर्जितवीर्यभागी स्थानांशतुल्याक्षरदः स चोक्तः।
पश्यन् स्थितः केन्द्रत्रिकोणयोर्वा स्वोच्चेऽपि वर्णद्वयमात्मभागे ॥११॥
अत्यन्त वीर्यशाली शुभ ग्रह जिस राशि के जितने संख्यक नवांश पर स्थित हो,
तत्तुल्य अक्षरों को देता है। वही अत्यन्त बलशाली शुभ ग्रह केन्द्र, त्रिकोण, अपने उच्च
या अपने नवांश में स्थित होकर देखा जाता हो तो दो अक्षर देता है॥११॥
शुभग्रहः सौम्यः। तुशब्दः समुच्चये। स चोर्जितमतीव वीर्य भजति तच्छीलः। ऊर्जित-
वीर्यभागी। स च स्थानांशतुल्याक्षरदः। यस्मिन् स्थाने यावत्संख्यांशे नवभागे स्थित-
स्तत्तुल्याक्षराणि ददाति। एवं तत्तुल्याक्षरद उक्तः कथितः। पश्यन् स्थित इति। अथवा
स एव शुभग्रह ऊर्जितवीर्यभागी केन्द्रेषु त्रिकोणयोर्नवपञ्चमयोर्वा स्थितः पश्यन्नवलोकयन्।
स्वोच्चे आत्मीयोच्चराशौ वा स्थितः पश्यन्नात्मभागे स्वे नवांशके स्थितः पश्यन् वर्णद्वय-
मक्षरद्वयमपि ददाति। अपिशब्दो विकल्पार्थः॥११॥
अन्यद्विशेषमाह—
क्षेत्रेश्वरे क्षीणबलेऽशके च मात्राक्षरं नाशमुपैति तज्जम्।
असम्भवेऽप्युद्भवमेति तस्मिन् वर्गाद्यमुच्चांशयुजीशदृष्टे ॥१२॥
लग्न का स्वामी और नवांश बलहीन हो तो उस उत्पन्न मात्राक्षर का नाश होता है।
यदि वही लग्नस्वामी और नवांश असम्भव (बलहीन का असम्भव अर्थात् बली) हो
और उच्चस्थित नवांशस्वामी से देखा जाता हो तो मात्राक्षर की उत्पत्ति होती है॥१२॥
क्षेत्रेश्वरे लग्नस्वामिनि क्षीणबले परिक्षीणवीर्ये क्षीणांशके क्षीणनवभागे तज्जं मात्राक्षरं
नाशमुपैति। मात्रा चाक्षरं च तन्मात्राक्षरम्। तस्माज्जातम् उत्पन्नं तज्जम्। नाशमुपैति क्षयं
प्राप्नोति। असम्भवेऽपीति। तस्मिन्नेव क्षीणेश्वरे क्षीणबलांशके चासम्भवे तस्य मात्राक्षरस्य
नाश उद्भवमेत्युद्भूतिमेति लभते। किं वर्गाद्यं वर्गप्रथमम्, तस्मिन्। कीदृशे? उच्चांशयुजि
उच्चस्थे तथेशदृष्टे स्वामिनावलोकिते॥१२॥
अनिश्चयीकरणमाह—
केन्द्रे यथास्थानबलप्रकर्षं क्षेत्रस्य तत्क्षेत्रपतेश्च बुद्ध्वा।
कार्योऽक्षराणामनुपूर्वयोगो मात्रादिसंयोगविकल्पना च ॥१३॥
केन्द्र में तथा राशि और राशिपति का स्थान और बल की उत्कृष्टता को जान कर
अक्षरों का आनुपूर्वीक संयोग करना चाहिये। साथ ही मात्रा आदि के संयोग की भी
कल्पना करनी चाहिये॥१३॥
केन्द्रे लग्नचतुर्थसप्तमदशमानामन्यतमे। क्षेत्रस्य राशेः। तत्क्षेत्रपतेश्च तत्स्वामिनः।
यथास्थानबलप्रकर्षम्, स्थानं च बलं च स्थानबले तयोः प्रकर्ष उत्कृष्टता। स्थानबलेन
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
५०८ बृहत्संहिता
प्रथमो लभ्यते, दृष्टिबलेन द्वितीयादयः । एवं बुद्ध्वा ततोऽक्षराणां वर्णानामनुपूर्व्योगः ।
अनुपूर्वेण अनुक्रमेण योगः संयोगः कार्यः कर्तव्यः । तथा मात्रादिसंयोगविकल्पना च कार्या ।
मात्रा आदिर्यस्य स मात्रादिसंयोगस्तस्य विकल्पना संयोगविकल्पना आदिसंयोगोऽन्तसंयोगश्च ।
एतदुक्तं भवति—अधोमात्रा ऊर्ध्वमात्रास्तिर्यङ्मात्राश्च संयोगविकल्पनया कार्याः ।।१३।।
अथांशकक्रमेण राशीनामक्षराण्याह—
तत्रादिराश्यादिचतुर्विलग्नमाद्यंशकादिक्रमपर्ययेण ।
ग्रहांशकेभ्यः स्वगणाक्षराणामन्वर्थने प्राप्तिरियं विधार्या ।।१४।।
वहाँ प्रथम लग्नराशि, फिर उससे चतुर्थ राशि आदि के प्रथम नवांश आदि क्रम से
नवांशाधिपति ग्रहों के अपने-अपने वर्गाक्षरों के संयोजन में यह निष्पत्ति करनी चाहिये।
अग्रिम पद्य से इसका अर्थ स्पष्ट होता है।।१४।।
तत्र तस्मिन्नामानयने । आदिराश्यादि । आदिराशिर्मेषस्तदादि तत्प्रथमं यच्चतुर्विलग्नं
मेषकर्कितुलामकराख्यं तस्याद्यंशकादिक्रमपर्ययेण, प्रथमनवांशकपरिपाट्या ग्रहांशकेभ्यो
नवग्रहभागेभ्यः स्वगणाक्षराणां स्ववर्गकथितवर्णानां ‘कवर्गपूर्वान् कुजशुक्रचान्द्रिजीवार्क-
जानाम्’ इत्यनेन विहितानामन्वर्थने प्राप्तिर्निष्पत्तिरियं विधार्या कर्तव्या।।१४।।
अथादिराश्यादिक्रमेण वर्णानाह—
मेषे ककारो हिबुके यकारस्तुले चकारो मकरे पकारः ।
मेषे छकारो हिबुकेऽप्यकारस्तुले खकारो मकरे फकारः ।।१५।।
जैसे कि लग्न में मेष राशि और प्रथम नवांश हो तो उससे चतुर्थ-चतुर्थ क्रम से
मेष, कर्क, तुला और मकर राशियाँ हुईं। मेष में प्रथम नवांश का स्वामी मंगल होता है।
उसके वर्ग का प्रथम अक्षर ककार आता है। चतुर्थ राशि ( कर्क ) का प्रथम नवांश
स्वामी चन्द्र है, उसके वर्ग का प्रथम अक्षर यकार आता है। सप्तम राशि ( तुला ) का
स्वामी शुक्र है, उसके वर्ग का प्रथम अक्षर चकार आता है और दशम राशि ( मकर )
का स्वामी शनि है, उसके वर्ग का प्रथम अक्षर पकार आता है। यदि मेष राशि के लग्न
में द्वितीय नवांश हो तो मेष राशि में द्वितीय नवांश-स्वामी शुक्र के वर्ग का द्वितीय अक्षर
छकार, चतुर्थ राशि ( कर्क ) में द्वितीय नवांश-स्वामी सूर्य के वर्ग का प्रथम अक्षर
अकार, सप्तम राशि तुला में द्वितीय-नवांश स्वामी मंगल के वर्ग का द्वितीय अक्षर
खकार और दशम राशि ( मकर ) में द्वितीय नवांश-स्वामी शनि के वर्ग का द्वितीय
अक्षर फकार आता है।।१५।।
मेषे लग्ने केन्द्रस्था मेषकर्कितुलमकरा भवन्ति। एत एव स्वांशेनोदयं कुर्वन्ति।
तत्र मेषस्य प्रथमो नवांशो मेष एव तस्य स्वामी भौमः। मेषस्य प्रथमनवांशकत्वाद्वौमवर्गात्
प्रथममक्षरं ककारमापतति। हिबुके चतुर्थे कर्कटकस्तस्य स्वामी चन्द्रः, तस्यापि प्रथमन-
वांशकोदयत्वाच्चन्द्राद्यवर्गात् प्रथमं वर्गाक्षरं यकारमापपति। सप्तमस्थाने तुलो भवति।