सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 529, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 529

शाकुनोत्तराध्यायः ५०१
अतः परं लोकनिरूपितानि द्रव्येषु नानाक्षरसंग्रहाणि।
इष्टप्रणीतानि विभाजितानि नामानि केन्द्रक्रमशः प्रवक्ष्ये ॥१॥
अब प्रश्नज्ञान के बाद द्रव्यों ( धातु, मूल और जीवों ) में लोकप्रसिद्ध अनेक अक्षरों
से संगृहीत, इष्ट ( नारायण, अर्क, वसिष्ठ, पराशर, मय आदि ) से निर्मित, विभागीकृत
नामों को केन्द्र के क्रम से कहते हैं॥१॥
अतोऽस्मात् प्रश्नज्ञानात् परमनन्तरं लोकनिरूपितानि लोकैर्जनैर्निरूपितानि सर्वलोक-
प्रसिद्धानि द्रव्येषु धातुमूलजीवेषु नानाक्षरेभ्योऽनेकप्रकारवर्णेभ्यः संग्रहो येषां तानि। संग्रह
एकीकरणम्। इष्टप्रणीतानि, इष्टैराप्तैर्नारायणार्कवसिष्ठपराशरमयप्रभृतिभिः प्रणीतानि निर्मि-
तानि। विभाजितानि विभागीकृतानि नामानि संज्ञारूपाण्यभिधानानि केन्द्रक्रमशश्चतुष्टय-
परिपाट्या प्रवक्ष्ये कथयिष्ये॥१॥
तत्र क्रमज्ञानमाह—
लग्नाम्बुसंस्थास्तनभः स्थितेषु क्षेत्रेषु ये लग्नगता गृहांशाः।
तेभ्योऽक्षराण्यात्मगृहाश्रयाणि विन्द्याद् ग्रहाणां स्वगणक्रमेण ॥२॥
लग्न, चतुर्थ लग्न, सप्तम लग्न और दशम लग्न में जिस राशि का नवांश हो, उन
पर से अपनी-अपनी राशि के आश्रित अक्षरों और ग्रहों के अपने गण के क्रम से अक्षरों
को जानना चाहिये॥२॥
लग्नसंस्थो विलग्नस्थः। अम्बुसंस्थश्चतुर्थस्थानस्थः। अस्तस्थितः सप्तमस्थः। नभः-
स्थितो दशमस्थः। एतेषु च क्षेत्रेषु राशिषु ये लग्नगता गृहांशाः। गृहाणां राशीनां मेषादीनां
येषां नवभागा लग्नगताः प्राग्लग्नादिष्वाश्रितास्तेभ्यो गृहांशेभ्योऽक्षराणि वर्णा आत्मगृहा-
श्रयाणि—आत्मगृहं स्वभवनमाश्रयः स्थानं येषां तानि विन्द्याद् जानीयात्, ग्रहाणां रव्यादीनां
स्वगणक्रमेण स्ववर्गपरिपाट्या॥२॥
अथ ग्रहाणां वर्गानाह—
कवर्गपूर्वान् कुजशुक्रचान्द्रिजीवर्कजानां प्रवदन्त वर्गान्।
यकारपूर्वाः शशिनो निरुक्ता वर्णास्त्वकारप्रभवा रखेः स्युः ॥३॥
क ख ग घ ङ—मंगल के, च छ ज झ ञ—शुक्र के, ट ठ ड ढ ण—बुध के,
त थ द ध न—बृहस्पति के, प फ ब भ म—शनि के, य र ल व श ष स ह—चन्द्र
के और अ आ इ ई उ ऊ ए ऐ ओ औ अं अः—सूर्य के वर्ग हैं॥३॥
कवर्गपूर्वान् कवर्गद्यान् वर्गान् यथाक्रमेण कुजादीनां ग्रहाणां परिपाट्या प्रवदन्ति
मुनयः। तद्यथा—कवर्गः कुजस्य भौमस्य। चवर्गः शुक्रस्य। टवर्गश्चान्द्रेर्बुधस्य। तवर्गो
जीवस्य गुरोः। पवर्गोऽर्कजस्य सौरस्य। यकारपूर्वा यकाराद्यष्टौ वर्णाः शशिनश्चन्द्रस्य
निरुक्ताः कथिताः। अकारः प्रभव आद्यो येषां वर्णानामक्षराणां ते अकारप्रभवा रवेरर्कस्य